________________
समानार्थकत्वेऽपि पदानामर्थच्छाया विभिद्यन्ते प्रचलनवशात् । यथा कश्चन विवक्षति “He works hard", अब हार्ड इति पदं क्रियाविशेषणमस्ति किन्तु तदेव वाक्यं क्रियाविशेषणेन यदीत्थमभिधीयते "He works hardly" तर्हि सर्वथा विपरीतार्थकं तद् भवेत् ।" एतदुपरि सर्वे उपहासमुखरा अभूवन्।
"न केवलमाङ्ग्लीयभाषायां तादृशी सूक्ष्मेक्षिकाऽस्ति, अस्माकं तु पुरातनी तादृशी परम्परे'"ति विवक्षता मया मध्य एव सूचितम् - "अस्माकं तु सूक्ष्मतराः सूक्ष्मतमाश्च प्रभेदाः शब्दप्रयोगेषु पर:शतं वर्षेभ्यः प्रचलन्ति, येषामानन्त्यं सर्वत्र भाषाविद्भिरङ्गीक्रियते । कर्म, क्रिया, कृत्यं, कार्य, कर्तव्यमित्यादि प्रत्ययभेदाद् भिद्यमाना अर्था यथाऽनन्तास्तथा उपसर्गवशादपि धात्वर्थभिदा उत्पद्यन्त इते सर्वे जानन्ति । "प्रहाराहारसंहारविहारपरिहारवत्" इत्यादि छात्रा अप्यधीयन्ते।"
चातक उवाच- "भव्येशेन तु कर्मणः परिभाषैव कृता 'सङ्कल्पपूर्वं क्रियमाणं कार्य कर्मेति । किन्तु भगवता गीतायां "किं कर्म किमकर्मेति" न केवलं विभेद एव स्पष्टीकृतोऽपि तु स्पष्टं विहितं
"कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।" इति ।
इत्थं कर्म, अकर्म, विकर्म इत्येषां भेदोऽपि भगवता प्रतिपादितः, तस्य च बोधः सर्वेषां कर्तव्यत्वेनाऽऽदिष्टः ।"
एतदुपरि भव्येशेन सहासं योजितम् - "भगवान् कृष्णस्तु द्वापरयुगान्ते समभूदिति तेनैको वर्गो विस्मृतः "कुकर्मेति" । स न जानाति स्म यत् कलेमध्ये कर्म, अकर्म, विकर्म इत्यादि तु भविष्यत्येव, सर्वतोऽधिकं कुकर्म भविष्यति । वयं सर्वे कुकर्माणि, दुष्कर्माणि च कुर्वन्तो न लज्जामहे । किञ्चाऽऽधुनिके युगेऽस्मिन्नापणेषु युवतयः परिकर्माणि कारयन्ति, तदर्थं ब्यूटी सैलून, ब्यूटी पार्लर इत्यभिधानवहा आपणा अपि प्रारब्धा व्यवसायिभिः ।"
भार्गवेण सूचितं "यदेषु दिनेषु तु सूक्ष्माणामर्थच्छायानामभिव्यक्तये उपसर्गयोजनया भारतीयभाषाणां कृते संस्कृतभाषायाः कृपयाऽनन्ताः शब्दाः परिकल्पिताः केन्द्रीयवैज्ञानिकशब्दावल्यायोगेन ।" एतदुपरि मया पृष्टो भार्गवस्तादृशान् शब्दान् वमितुमारब्धवान् - "कर्मणा सहोपसर्गयोजनया यथा विकर्म, कुकर्म, दुष्कर्म, संकर्म (निर्माणकार्याणि, works) इत्यादय उद्भवन्ति तथा किं भवता न पाठ्यन्ते प्रतिदिनं क्रिया, प्रतिक्रिया, अभिक्रिया, संक्रिया, विक्रिया, अनुक्रिया, उपक्रिया इत्यादयः शब्दा विभिन्नास्वर्थच्छायासु ?"
५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org