________________
मयाऽस्मिन् चर्चाप्रसङ्गे नूतन एक आयामः प्रवर्तितः । मयोक्तं "बन्धवः ! प्रश्नस्याऽस्योत्तरं तु चातकः प्रदास्यति किन्तु मदीयेयं जिज्ञासाऽस्ति यत्सुन्दरकाण्डस्याऽभिधानं सुन्दर इति किमित्यस्ति ? किं खलु तत्र सौन्दर्यमथवा सौन्दर्यातिरेको दृश्यते ? अन्येषां काण्डानां तु नामकरणं तेषु निहितानां विषयवस्तूनां परिचायकमस्ति "अयोध्याकाण्डम्" "किष्किन्धाकाण्डम्" "युद्धकाण्डम्" इत्यादि । अस्य तु "सुन्दरत्वं" किमिति व्यपदिश्यते ? कस्तत्र हेतुः?" एतच्छ्रुत्वा सर्वेऽन्ये विलक्षा भूत्वा प्रावोचन् – “किमिति विषयान्तरं प्रक्षिपसि? आदिकवेर्वाल्मीकेरक्षरगुम्फनं सर्वत्र सुन्दरमस्त्येव ।" अहं पृष्ट्वान् - "तदेवं त्वहं पृच्छामि । यदा सर्वेषामेव काण्डानां सुन्दरत्वमक्षुण्णं तदा काण्डविशेषस्य सुन्दरत्वविवक्षायां को हेतुः ?"
तत्रैवोपविष्टेन भाषाशास्त्रिणा भव्येशभट्टेन प्रक्षिप्तम् - "अयमेव त्वसाध्यो रोगोऽस्ति शास्त्रविचक्षणानाम् । ते सर्वत्र हेतुं हेत्वाभासं वाऽन्विष्यन्ति । अरे ! सर्वत्र हेतवो भवन्ति किम् ? तुभ्यं कदलीफलं रोचते, मह्यमाम्रफलं, चातकाय बीजपूरफलम्, उपमन्यवे पनसफलम् । किं तत्र हेतुगवेषणेन !" वेदमनीषी उपमन्युः श्रौतायनस्तदेवं श्रुत्वा प्रोक्तवान् - "भ्रातर्भव्येश ! नैवं वाच्यम् । रुचीनां वैचित्र्ये तु न कश्चन हेतुः किन्तु काण्डस्याऽभिधाने नामकरणे वा हेतुरवश्यं भवेत् । तद्गवेषणे का नो हानिः ? अपरं च, चातकेन पारायणकर्म कारितम् । तत्र प्रयोजनमप्यवश्यं भवेदेव । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । कर्मपदार्थे तु प्रयोजनगर्भत्वं निसर्गसिद्धमेव ।"
एतदुपरि भव्येश: स्वकीयभाषासूक्ष्मेक्षिका प्रमाणयंस्त्वरितमेव सहमति प्रादर्शयत् "तत्त्वहं समर्थयामि । कार्य, कृत्यं, कर्म, कर्तव्यं, करणीयम् इत्यादिषु सर्वेष्वपि पदेषु व्युत्पत्तेाकृतेर्वा समानत्वेऽपि प्रवृत्तिनिमित्तविवेकवशादर्थे सूक्ष्ममन्तरं भवति । प्रकृतिवशात् क्रियमाणा क्रिया कार्यम्, विधानवशात् अर्थात् कुत्रचन विहितेत्यत एव क्रियमाणा क्रिया कृत्यम्, सङ्कल्पपूर्वकं विधीयमाना क्रिया कर्म, सहजरूपेण निर्धारितानि कार्याणि कर्तव्यम्, कर्तुमुचिता अथवा आयतौ "करिष्यामीति" विचार्यमाणा क्रिया करणीयम् । इत्थं हि भाषाविज्ञानविदां दृष्टौ प्रवृत्तिविचारेण अर्थाद् लोकप्रचलनं दृष्ट्वा सूक्ष्माणि भेदकानि सम्भवन्ति । अत्र स्थितोऽस्माकं सुहृद्वरो भार्गवोऽपि समर्थयेदिदम् ।"
तत्र हि विश्वविद्यालये आङ्ग्लभाषायाः प्राध्यापकोऽस्मन्मित्रं प्रो. भार्गवोऽपि सम्मिलितोऽभूत् । तेन त्वरितमस्य समर्थनं विदधता प्रोक्तम् - "अस्माकं तु सिद्धान्त एवाऽयं यन्न किञ्चिदपि पदमपरपदस्य पर्यायत्वेनाऽभिन्नार्थकं भवति, प्रत्येकं पदे विशिष्ट एवाऽर्थो गर्भितो भवति । अत: प्रतिपदमर्थच्छाया विभिद्यते । तदिदं सूक्ष्ममन्तरमस्माकं वर्गेऽर्थच्छायेत्यभिधीयते । सेयं चाऽर्थच्छाया प्रचलनेनैव नियम्यते यदस्माभिः "यूसेज" (usage) इत्यभिधीयते । अतः प्रकृतिप्रत्ययादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org