SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ OMMMMMMMMMMMMMMANAYAMAMMMMM ४४०४०००४४४०००४ ०००००० ४४४४४४४४४ ४ ४४४४४ AVAN n al शास्त्रप्रौढिचमत्काराः SELECTRIm ललितकथा भRIBaitadiatio देवर्षि कलानाथ शास्त्री 0 अद्य तु प्रातरेव मदीयगृहस्य दूरभाषयन्त्रं घण्टानादेन मामजागरयत् । प्रात:कालिका दूरभाषसन्देशाः प्रायो मत्पत्न्याः कृते भवन्ति स्म यतो हि तस्याः सखीमण्डलं व्यापकं, सुविस्तृतं, वैविध्यमयं चाऽस्ति । सा लेखिकासङ्घस्याऽध्यक्षत्वं वहतीति कदाचन सङ्घस्योपवेशनानामायोजनविषयकाः, कदाचन साहित्यसङ्गोष्ठीनां सूचनाविषयकाः, कदाचनोपवनसन्धिविषयका दूरभाषसन्देशास्तदर्थे एव भवन्ति स्म । अत एव त्वहमुपहासविधया तस्यै असकृत् कथयामि यत्तव नामधेयमिन्दिरेति नूनमन्वर्थकम् । श्रीसूक्ते लक्ष्मी स्तुवनृषिस्तस्या "हस्तिनादप्रबोधिनी"मिति विशेषणं प्रयुनक्ति । सा गजनिनादं श्रुत्वा प्रातर्जागर्ति स्म, त्वमपि दूरभाषघण्टानादेन प्रातर्जागर्षि । अतस्तव विशेषणं "फोनघण्टाप्रबोधिनी"त्यादि किञ्चन कल्पयिष्यामि, त्वत्स्तोत्रं च प्रणेष्यामीत्यादि । किन्त्वयं घण्टाध्वनिर्मदर्थे, अथवा आवयोर्द्वयोः कृतेऽभूत् । अस्मत्सुहृदा चातकेन (कविपुङ्गवेन) सूचितं यदद्य सायङ्काले तद्गृहे सुन्दरकाण्डपाठानुष्ठानसमापनसमारोहो भविता, तत्र च सर्वेषां सुहृदां भोजनमप्यस्ति । मया सोपहासं पृष्टम् "किं त्वं सुहृदां भोजनं करिष्यसि ? स्वकाव्यं श्रावयित्वा सर्वेषामस्माकं धैर्यस्य भोजनं तु त्वमन्वहं करोष्येव ।" तेनोत्तरितम्- "अरे जडमते ! त्वादृशानां भोजनं कृत्वा सङ्क्रामकरोगाणामावाहनं किमिति करिष्ये ? "भुक्ता ब्राह्मणाः, तृप्ताः पितरः" इति शास्त्रोक्तिमनुसृत्य सूचयितुमिच्छामि यद् भवतः सर्वान् भोजयिष्यामि । किन्तु नाऽयं कश्चन सहभोजः, प्रसादग्रहणमिदम् । अतस्त्वं प्रजावत्या सहाऽवश्यं समायास्यसि प्रसादग्रहणाय ।" सहर्ष स्वीकृतमिदं निमन्त्रणमावाभ्याम् । यदा निमन्त्रणमनुवर्तमानावावां चातकगृहं प्राप्तौ तदा तत्र सर्वान् सुहृत्परिवारान् समवेतान् दृष्ट्वा तु हर्षमनुभूतवन्तौ, किन्तु तदा यः शास्त्रार्थः प्रसङ्गवशात्प्रवृत्तोऽभूत्तं श्रुत्वा कुतूहल-हर्षविस्मयादिभावशबलतामप्यनुभूतवन्तौ । प्रसङ्गोऽयं प्रचलन्नभूद् यत् - "चातकेन केवलं सुन्दरकाण्डस्यैव पारायणं किमिति कारितम् ? कः खलु विशेषः सुन्दरकाण्डे ? तत्र न तु रामस्य विजयः सूचितः, न वा रावणवधः, न च काचन विशिष्टा सिद्धिः फलश्रुतिर्वा तस्य काण्डस्य कुत्रचन श्रुता । तर्हि केवलं सुन्दरकाण्डपारायणस्य किमौचित्यम् ? सम्पूर्णस्याऽऽदिकाव्यस्य वाल्मीकीयरामायणस्य कथावाचनं पारायणं वाऽभविष्यत्तर्हि तत्तु विचारसहमभविष्यदेव, किन्तु सुन्दरकाण्डपाठमाहात्म्यं किमस्ति ?" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy