________________
-
000रूर
लरूVD
ललकल
श्रीशत्रुञ्जयपाथनाथस्तवनम्
मुनिकल्याणकीर्तिविजयः
(राग: आशावरी) वन्दे पार्श्वजिनेश्वरदेवं, श्रीशत्रुञ्जयतीर्थविभूषण-मपगतदूषणसेवम्....
वन्दे .... ॥
श्यामलकायं दितभवमायं विशसितकर्मानायं, स्मितमयवदनं करुणासदनं प्रहतदुरितसमुदायम्....
वन्दे .... ॥
यद्यपि बहुकालं हे स्वामिन् ! त्वत्तो दूरमुषितवान्, तदपि सुविहितः शुभलेशो मां त्वन्निकषा प्रापितवान्.... वन्दे .... ॥
एवं सत्यपि नाथ ! विनटितः पीड्ये रिपुषट्केन, याचे तेन त्वत्साहाय्यं मह्यं देह्यचिरेण ....
वन्दे .... ॥
उपशमरसभरपूर्णसरस्वन् ! कल्मषतिमिरविवस्वन् ! वितरतु देव ! सकलकल्याणं, भव्यजनाम्बुजभास्वन् ! .... वन्दे .... ॥
.।
..
..
..
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org