________________
सुकुमालपदतलकोकनदमम्भोजसमविलसत्कर, वरवदनसुन्दरपुण्डरीकं नेत्रनीलेन्दीवरम् । शुभब्राहारिहेमसरसीरुहशोभापीवरं, तव चङ्गमङ्गं भाति लक्ष्मीधाम पद्मसरोवरम् ॥७॥
सन्ध्याक्षणे प्रकटीकृतायां दीपमालायां भवानाविष्करोति विश्वविरमयकारिरुपछटां नवाम् । परिवर्तमानां प्रतिपलं तां शमितचित्तोपप्लवां, सम्प्रेक्षमाणाः प्राप्नुवन्ति सम्मुदं प्रशमोद्भवाम् ॥८॥
हे नाथ ! तव चरणाम्बुजन्मनि मानसं मम लीयतां, नेत्राम्बुजं मम रूपशोभां तव सदा पेपीयताम् । हरताम्बुजाभ्यां तव शिरसि मे वास ईश ! विधीयतां, हृदयाम्बुजान्मम कलुषकलिलं तव कृपातो हीयताम् ॥९॥
इत्थं स्तुत ! श्रीपार्श्वजिनवर ! शमपुरवरमण्डन ! तव नामजपतः शमितनिखिलोपद्रवावलिभण्डन ! । वरकल्पतरुसम ! परममहिमाबलदुरितदलखण्डन ! हे ! सर्वदेवधुरन्धर ! त्वं देहि बोधिमदण्डन ! ॥१०॥
समृद्धि एपार्टमेन्ट चन्दननी पाछळ, हाई-वे, नवा डीसा - ३८५५३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org