SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ (हरिगीतं छन्दः) शङ्केश्वराः परमेश्वरा नागेश्वरार्चनभास्वराः, श्रीपार्श्वदेवाः पादसेवानित्यवाकीश्वराः । तव दर्शने संस्पर्शने ये हर्षनेत्रोदकधराः, संसारपारावारसबलोत्तारभीतास्ते नराः ॥१॥ अक्षीणपुण्योऽयं क्षणस्तव वीक्षणक्षणरक्षणः, देवदुर्लभदिव्यदिवसो वदनदर्शनलक्षणः । तव चरणरेणुचारुविचरणचारिमाञ्चितकुन्तलः, भूयां भवेऽभिनवे कदा शुभभावभावितभूतलः ॥२॥ तव गुणगणानां गीतगानं गायतां गुणरागिणां, तव रूपरसरसनारसिकताधारिणां च विरागिणाम् । तव दिव्यवचसां वारिधौ वाणीप्रवाहविहारिणां, शुभभव्यभावभवा भवन्ति भवा भवेषु भवारिणाम् ॥३॥ तव दिव्यमुद्रा दुःखदुर्मतिदुरितदरविद्राविणी, तव दिव्यनेत्रेऽपारकरुणा सुधाधारामाविणी । तव दिव्यकाया क्षीरसिन्धुतरङ्गशोभाधारिणी, मम हृदयकमले वसतु सततं वरसमाधिकारिणी ॥४॥ स्मृत्वा भवन्तं विकसितेन हृदा मुदा नलिनायितं, श्रुत्वा भवन्तं तप्तचेतोवृत्तिना तुहिनायितम् । दृष्ट्वा भवन्तं नाथ ! नयनैर्हर्षितैश्च घनाचितं, स्पृष्ट्वा भवन्तं देव ! तनुना पुलकितेन वनायितम् ॥५॥ मणिमुकुटमण्डितमस्तकं केयूरकलगलकन्दलं, चलकर्णयुगलालम्बिकाञ्चनरलनिर्मितकुण्डलम् । शशिबिम्बनिर्मलदिव्यमुक्तादामदीपोर:स्थलं, त्वामीश ! वीक्ष्य विभूषितं मम नृत्यतीह मनश्चलम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy