________________
पाताललोकेऽसङ्ख्यकालं यावदेषोऽवस्थितः, धरणेन्द्रपद्मावतीकोटाकोटिपाटीपूजितः । अन्यैश्च सङ्ख्यातिगसुरेश्वरदानवेशैः सेवितः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥६॥
चैरिप्रयोजितविद्यया जाते जरा निजबले, पातालतस्तपसाऽऽनिनाय श्रीधवो यं भूतले । नष्टा जरा सा यस्य सिक्के खात्रनीरे निर्मले, शृङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥७॥
श्रीपार्श्वकृपया प्राप्य विजयं यत्र शङ्खः पूरितः, गगनचुम्बिदेवनिलयस्तत्र हरिणा कारितः । स्वस्थानतोऽपि च सदा नमति स्म भक्ति प्रेरितः, शृङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥८॥
ॐ ह्रीँ तथा श्रीँ अर्हमित्यक्षरयुतः शङ्खेश्वरप्राकृपार्श्वनाथाय च नमोऽसौ षोडशो मन्त्राक्षरः । गुरुणा प्रदत्तो यस्य सिध्यति दिव्यमहिमा भारवरः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम चन्दना ॥९॥
Jain Education International
पौषदशमीपर्वकाले त्रिदिनसेवासङ्गतः, प्रतिकृष्णदशमीदिव्यदिवसेऽदृश्यभावेनाऽऽगतः । चरणसेवां यस्य कुरुते धरणनागेशः स्वतः, शङ्खेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥ १० ॥
त्वं मे पिता माता च बन्धुस्त्वं स्थितिश्च गतिर्मतिः, त्वं देवता च गुरुश्च भर्ता त्वं हि मे प्रीती रतिः । त्वं प्राणरूपः प्रियतमो मे नाथ ! दैन्ये वैभवे, मम सर्वसिद्धिधुरन्धरः स्वामी त्वमेव भवे भवे ॥११॥
For Private & Personal Use Only
www.jainelibrary.org