SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्केश्वरपार्श्वनाथजिनस्तोत्रद्वयम् मुनिधुरन्धरविजयः (१) (हरिगीतं छन्दः) सकलमङ्गलकारि-हारि-दिव्य-महिमा नायकः, कलिकालकल्पतरूपमो यः सर्ववाञ्छितदायकः । यः साधकानां स्वल्पकालेनैव सिद्धिविधायकः, शङ्ग्रेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥१॥ दूरीकरोति सर्वदुरितोपद्रवान् यो दर्शनाद्, विद्रवन्ति नु वेदना यत्नात्रजलसंस्पर्शनात् । क्लेशा अशेषा नामशेषा यस्य चरणस्पर्शनात्, शङ्गेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥२॥ यन्नामजपतो विघ्नवृन्दं दूरतः प्रपलायते, यदिव्यरूपं भक्तजनतानेत्रयोरमृतायते । यत्स्मरणमेवाऽशेषवाञ्छापूर्तये सञ्जायते, शवेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥३॥ यो निर्मितो भगवानषाढिश्रेष्ठिना शुभवासने, उत्सर्पिणीसमये पुरा दामोदरार्हच्छासने । ज्ञात्वा रतो निजमुक्ति हेतुं यस्य नित्योपासने, शङ्केशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥४॥ वैमानिके किल देवलोके दीर्घकालं यः स्थितः, चान्द्रे विमाने भानवे चाऽसङ्ख्यकालं चर्चितः । वैताढ्यशैले नमिविनमिविद्याद्यराभ्यामर्चितः, ___ शकेशपार्श्वजिनेन्द्रचरणे भावतो मम वन्दना ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy