________________
(शार्दूलविक्रीडितवृत्तेन कविनामगर्भश्चक्रबन्धः) यः सौख्यं विदधाति भव्यभविषु प्रौढप्रतापोदयः शोकं हन्ति स सर्वभूतभयसंहारो विहारो गिराम् ॥ विज्ञानप्रसुवां सुरेन्द्रभरसंपूज्यो महर्षिः सदा
जन्तुक्रोधशमः शिवाय भविनां भूयात् स चिन्तामणिः ॥११॥ श्रीनेमीश्वरसूरिराज्यसमये भव्यारविन्देनभाविद्वत्कै रवचन्द्रिका समजनि प्रौढप्रभावरमृतेः । तस्यैवाऽतुलतेजसो मम गुरोरेषा स्तुतिः पावनी, यावद्भूमिरतो धराधरधरा तावज्जनैः पठ्यताम् ॥१२॥
एना पार्श्वगुणप्रवाहकणिकाबोधेन धर्मद्रुमप्रोल्लासामलशान्तिवारिविसरप्रोद्वर्षिणी मानवाः !। अज्ञेनाऽपि मया कृतां भणत भोः किं वर्धितः पावको,
मूढेनाऽपि न तार्णकूटदहने प्रौढप्रभावो भवेत् ॥१३॥ एषा यशोविजयसञ्जकृता तनोतु, मोदं नवा बुधजनस्य किमस्ति तेन । श्रीपार्श्वपादयुगले तु समर्प्यमाणा, पापानि सर्वभविनां निहनिष्यतीह ॥१४॥
श्रीनेमिसूरिपादाब्जप्रभावविहिता स्तुतिः । पठ्यमाना सदा भूयात् सर्वकल्याणकारिणी ॥१५॥
निजस्फुरद्वाग्वज्रविदारितपाखण्डप्रचण्डखर्वगर्वपर्वतमहोपदेशामृतसेकसंवर्द्धित भव्यभविहृदयगमातिशर्मदजिनोपज्ञसुज्ञानदानसिद्धान्तसारकारुण्यलताचार्यवर्यश्रीमद्विजयनेभिसूरीश्वरपादपङ्कजमिलिन्दयशोविजयमुनिना विरचितं प्रथमैकवचनान्तपदसन्दर्भितश्रीचिन्तामणिपाश्र्वाष्टकं स्तोत्रं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org