________________
जयत्यमदीर्घिकाजलजजालगर्वापहप्रसृत्वरविलोचनप्रशमितोग्रपापज्वरः । प्रमोहरजनीशतक्षपणवाक्यभानूदयः,
प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥५॥ जयत्यवनिसंस्थिताखिलकुसूष्टिवादप्रथानिरस्तभविसन्मतिप्रबलदानकल्पद्रुमः ॥ प्रभीषणभयार्णवप्रबलकर्णधारक्रमः । प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥६॥
जयत्यसमसद्युतिप्रकरसारपीयूषकप्रसिञ्चनकृतावनिप्रबलशान्तिसङ्गक्रमः ॥ सुधासमसमुच्छलद्वचनजातवेगोद्धरः।
प्रभूतकणारसप्रसरणः स चिन्तामणिः ॥७॥ जयत्यजितविक्रमप्रवरदन्तवेगोद्भवत् समग्रकलुषद्रुमोद्दलनदृप्तदन्तावलः ॥ समस्तभुवनोदयप्रथनवैनतेयारवः प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥८॥
जयत्युरुगुणावलिप्रसितचित्रमुक्ताफलप्रकाशिचरणावगत्युदितशुद्धजैनागमः ॥ अचिन्त्यचरितोज्ज्वलज्ज्वलनभासपक्षच्छविः
प्रभूतकरुणारसप्रसरणः स चिन्तामणिः ॥९॥ (अनुष्टुब्बृतेन स्तुत्यनामगर्भो बीजपूरक प्रबन्धः) जय चिन्ताव्रजोद्धार ! जय तापहरो र ! ॥ जय मन्युप्रसंहार ! जयोष्णिक्स्तु तसंवर ! ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org