________________
................................................. : भवति सा त्रिदुर्गी । तस्य च त्रयाणां दुर्गाणां प्रथमे रौप्यमये दुर्गे वाहनानि, स्वर्णमये द्वितीये: तिश्चः, रत्नमये च तृतीयवप्रे द्वादशाऽपि पर्षदोऽवस्थिता द्रक्ष्यामः । तस्मिश्च तृतीयवप्रे बहुमध्यभागे: रत्नमयपीठिकोपरिस्थिते महाघे स्वर्णमयसिंहासने उपविश्य यदा भगवन्तो देशनासुधां पाययिष्यन्ति, : अहा हा ! तदा सर्वं भेदं विस्मरिष्यामः, केवलं चिन्मयः, चैतन्यमयश्चाऽभेद एवोल्लसिष्यति । तत्सुधां पीत्वा परमतृप्ता भविष्यामः ।"
"तर्हि मित्र !" तत्सम्मुखं दृष्ट्वा "चलतु, सत्वरं यातः, प्रभोरेकोऽपि शब्द:: श्रवणस्याऽगोचरतां यथा न भजेत् तथा कुर्वः" ।
तौ सत्वरं यातः । अद्याऽपि समवसरणविषये सागरदत्तेन बहु प्रष्टव्यमस्ति, वीरदत्तेन: च बहु ज्ञातव्यमस्ति । परं तौ कौ ? किं तावेवाऽस्माकं कथानायकौ ? न, तौ तु सामान्यौ: कौचिद् रत्नवणिजौ । नीति-न्यायेन व्यवहारस्तयोः शोभा । द्वयोरपि सप्ताट्टालिकात्मके हर्ये : हस्तिनागपुर-नगरस्य राजमार्ग शोभयतः स्म । तयोरत्राऽन्यान्यपि बहून्यापणान्यासन् । येषु: तयोः पुत्रा व्यवहरन्ति स्म ।
यदाऽत्र पञ्चाशद्वर्षेभ्यः पूर्वमागतं तदा तयोः पार्वे किमपि नाऽसीत् । अकिञ्चनौ: सर्वथा तावास्ताम् । परं शनैश्शनैरभ्युदयं प्राप्तवन्तौ तौ सर्वगामिनी तावती विभूतिमपि प्राप्तौ; : येन तन्नगरे गण्येषु श्रेष्ठिवर्येष्वन्यतमौ परिगणितौ सज्जन-सम्मतौ च जातौ ।
एतावता सागरदत्तस्य गृहवसतौ कुम्भगणिप्रमुखाः साधवश्चतुर्मासी स्थिताः । स: महताऽऽदरेण तेषां सपर्यां कुर्वंस्तेभ्यो धर्ममपि श्रुतवान् । संगतेः फलस्वरूपेण स परमः श्राद्ध:: समजनि । तस्य च षण्णामपि पुत्राणामुपरि दुहितैकाऽऽसीत् । तस्या नाम प्रियदर्शनेति । साऽपि: तदा जिनधर्मंकताना जाता । परमद्य तस्या उपरि तन्निमित्तं च सागरदतोपर्येका महत्यापत्ति-: रापतिताऽऽसीत् । का सा ? तां तु सागरदत्त एव कुम्भगणिने विस्तरेण श्रावयिष्यति । :
अद्य किन्तु हस्तिनागपुरनगरे नयनानन्ददः परममहोत्सवः । यतोऽद्य प्रभोर्ज्ञान-: कल्याणकमहस्तत्र । देवा अपि तस्मिन्नगरे, तस्मिन्नुद्याने, तत्र समवसरणे चलितासनाः प्राप्तप्रेरणा:: भक्तिभरनिर्भराः प्रभोः सेवायामागच्छन्तो दृश्यन्ते स्म । तेन सर्वोऽप्याकाशपथोऽवरुद्ध आसीत् । : अन्यतोऽद्वैतानन्दकल्लोले मग्ना जानपदाः श्राद्धादयः समवसरणं द्रष्टुमुत्सुका वरयात्रया महत्या विभूत्या महता परिकरेण च तस्मिन्नुद्यान आगच्छन्ति स्म । तेन भूमार्गोऽपि सम्मर्दमयः सञ्जात : आसीत् । आभाति स्म यत् - नगरं रिक्तीभूय वारिपूरवन्महता रंहसा सहस्राम्रवणोद्याने : समवसरणं व्याप्नुवदासीत् । एतावत्यपि सम्म प्रभोः प्रभावेण न कोऽपि कमपि बाधतेऽवरोधी: भवति स्म वा । हर्षपूर्णमनस्काः सर्वेऽपि तां तस्य शोभा महताऽऽनन्देन पश्यन्तोऽग्रे गच्छन्तिः
७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org