________________
.................................................
...................
वीरदत्तः स्वमित्रस्य मुखमेव निर्निमेषं पश्यन्नास्ते स्म । स विचारयति स्म यत् -: : "अद्याऽस्मिन्मुखाम्बुजेऽदृष्टपूर्वा श्रीविराजते । एतयोर्नेत्रयोः समुद्रलहरीवदुन्मादानन्दमिश्रिता:
काचिद्विलक्षणैव गभीरता विलसति । तौ च कपोलावानन्देन पुलकितौ रक्तोत्पलशोभां वहतः ।। तौ चौष्ठौ मुखे स्थितां सन्तुष्टिं मुखरीकुरुतः । तस्य मुखमेव तस्मिन्स्थितममन्दमानन्दसन्दोहं: पिशुनयति" इति ।
"अन्यच्च मित्र ! दर्शनीयानि त्वस्माभिर्बहुत्र बहूनि दृष्टानि, परं तेभ्य एतानि: किंचिद्विलक्षणानीव न भासते ? तत्कि वैशिष्ट्यमिति भवता ज्ञायते ?" वीरदत्तं तु तस्य: प्रश्नमाला रहस्यमयगर्ते पातितवती । स तु मुग्धवत्केवलं मुखमेव नकार-मुखरं कृतवान् ।
"वयस्य ! किं भवता स्मर्यते यदितस्त्रिभ्यो वर्षेभ्यः पूर्वं, भूतपूर्वस्य महाराज्ञः: सुपुत्रोऽस्माकं च राजा महाराजोऽरकुमारोऽत्रैवोद्याने दीक्षां गृहीतवानासीदिति ?" तदा वीरदत्तेन केवलं वदनमेव स्वीकारमुद्रयाऽऽन्दोलितम् । "मित्र ! स तदानीमासीत्केवलं सामान्यः कश्चिद्ः भिक्षुः । तस्याऽन्तः-सम्पत्तु यद्यपि महार्घा महाप्रमाणा च, तथाऽपि सामाजिकदृष्ट्या स:
अकिञ्चन एव । यदि वा तस्य दृष्ट्या बाह्या सम्पद् धूलिवदसारा । अत एव स स्वयमेव तत्सर्वं: त्यक्त्वा साधनायाः कठोरं मार्गमनुसृतवान् । वयस्य ! अद्य दिने तस्य कठोरा सा साधना. समाप्ते: शिखरं प्रतिगताऽस्ति । त्रीणि वर्षाणि यावत्प्रचलिता तस्य साधनाऽद्यदिवसे सिद्धेश्चरमबिंदु प्रतिगताऽस्ति । वयस्य ! तस्याऽधुना कैवल्यज्ञानं सञ्जातमस्ति । यस्मिश्च त्रैकालिकी त्रिलोकी,: करामलकवद् दृश्यते। मित्र ! सोऽधुना त्रिलोक्यामपि परमनाथः, परमतारकः, परमोच्चः,: परमद्धिमांश्च सञ्जातोऽस्ति । देवताभिरपि नाथनाथस्य तस्य नाम - "अरनाथः" इत्युद्घोषितमस्ति": इत्युक्तवान् सागरदत्तः । अन्तरैव वीरदत्तः "अहो ! कियन्मनोहार्यभिधानम् "अरनाथ इति" ? : वयस्य ! केवलं नामाऽपि त्रिजगदाक्रष्टुं लोहचुम्बकायते ।"
तस्य स्वमित्रस्य जिनधर्मानभिज्ञस्याऽप्येतावदुल्लासं दृष्ट्वा रञ्जितमनस्क: सुश्राद्धः: सागरदत्तः स्वकथनमनुसन्दधाति स्म । "मित्र ! स एव भगवानरनाथ एतस्या उद्यानश्रियाः आर्यपुत्रः।"
"आम् ! ज्ञातं मया ।"
"अन्यच्च मित्र ! अद्याऽपि वयमेकयोजनदूरस्थिते एव प्रदेशे स्मः । यदाऽग्रे: गमिष्यामस्तदा वयमेकां त्रिदुर्गों द्रक्ष्यामः । तस्यास्तु सा काऽप्यत्यद्भुता शोभा, या सर्वथा. वर्णनातीता । मित्र ! यदा भगवन्तोऽर्हन्तः कैवल्यमासादयन्ति, तदैव ते कर्मभिर्दोषैः कुसंस्कारैश्चः
सह प्रचलमाने-ऽनन्तकालीने युद्धे महान्तं विजयं प्राप्नुवन्ति । तदा च तेषां जयेनोन्मत्ता: : हर्षनिर्भराः सर्वेऽपि देवास्तेषां किङ्करा एतं समवसरणं विरचयन्ति । तस्यैव च मुख्यो भागो:
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org