________________
:) कथा
भाषापा क्षाणामा
मुनितीर्थबोधिविजयः:
अहो ! विस्मयावहमदृष्टपूर्वं च । मित्र ! कियन्मनोहरं स्थानमस्ति ? जगति स्थितानां: सारतमानां पुद्गलानां निचय एव मन्येऽद्य सहस्राम्रवणोद्यानेऽवतीर्णोऽस्ति । वयस्यैतत्तु पश्य, : कीदृगाह्लादकं समशीतोष्णं च वातावरणं, मणिरत्नैः खचितः समः स्वच्छश्च स्पष्टश्च भूप्रदेशः,: सुवर्णबद्धश्च विशालो विस्तृतः पन्था, मार्गस्योभयस्मिन्नपि पार्वे षड्ऋतूद्गतानि मनोहराणिः चित्ताकर्षकाणि पुष्पाण्युपरि च गतागतं कुर्वतां जनानां कृते आतपवारकमिव शोभमाना वल्लीनां: मञ्चकपङ्क्तिः । किमहं स्वर्गे वा वैकुण्ठे वा, नागलोके वा, सुपर्णलोके वा कुत्र: वाऽऽगतोऽस्मि?" इति युगपदेवाऽवदत् वीरदत्तः । पश्चाच्च किञ्चिद्विश्रम्य- "मित्र ! वयस:: षष्टिवर्षाण्येतावता व्यतीतानि । बहुत्र बहूनि स्थानानि मया दृष्टानि । परमेतादृवस्थानं कुत्राऽपि न दृष्टम् । मित्र ! तावदन्यानि स्थानानि तिष्ठन्तु, एतस्मिन्नप्युद्यानेऽनेकेषु प्रसङ्गषु: नैकधाऽऽगतपूर्व्यहम् । परमेतावदपि लावण्यमत्र कदाऽपि नैव दृष्टवानस्मि । मन्येऽद्य तूद्यानश्री:: स्वयंवरसज्जितषोडशशृङ्गारा स्वप्रियतमं वरितुं महता परिकरेण बह्वाडम्बरेण सर्वरसेन निर्गताऽस्ति ।: परं स प्रियतमः कः ? तत्तु नैव जानेऽहम् ।" इत्युक्त्वा वीरदत्तेन स्वबालमित्रस्य सागरदत्तस्य मुखं प्रविलोकितं, यस्मिंश्च मधुरं हास्यमुद्गच्छद् दृश्यते स्म । - "मित्र ! किं भवानस्याः : प्रियतमं जानाति ?"
सागरदत्तः केवलमनिच्छयैवोक्तवान् - "आम् !"
वीरदत्ताय तस्येदं मौनाश्रयणमसहनाय जातं । उद्वेगपूर्णया वाचा सोऽवदत् - "तद्देव-: मविदग्धवत्संदिग्धजनवत्प्राकृतवद्वा मौनाश्रयणं कथम् ?"
"मित्र ! यदाऽन्तःकरणमेवाऽनुभूत्या संपूर्णं जातं स्यात्तदा शब्दस्याऽऽवश्यकतैव नः तिष्ठति !" .... “वीर !" वीरदत्तस्य मुखं प्रलोक्य- "त्वमेव मेऽकथयः, जन्मतः: षष्टिर्वर्षाण्यावयोरेतावता व्यतीतानि । परमेतावति बृहत्तरेऽपि जीवनभवने किं तादृक्कोऽपि: स्मृति-खण्डस्तव स्मृतिपथमवगाहते, यदा त्वं तादृशि स्थानेऽभवः, यत्र च स्थितस्य तव: चैतन्यं पूर्णतया पुष्पितं स्यात् ? शरीरमज्ञाततया पुलकितं स्यात् ? प्रत्येकमपि रोम्ण्यगोचरस्याऽननुभूतपूर्वस्य चाऽऽनन्दस्य साम्राज्यं प्रवर्तेत ?, चेतनाऽन्तरङ्गं भित्त्वा बहिरागन्तुं. प्रयासमिवं कुर्वीत ? सर्वस्वं प्रकृतेरानन्दसागरे लीनं स्यात् ?" इति पृष्टवान् सागरदत्तः ।
क्षणकालं गम्भीरं मौनं प्रावर्तत । .................................................
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org