________________
M
एतन्निशम्य पूजकानां जनानां च हृदयान्यनृत्यन् । एतत्किम् ? अहिंसाया उपासकोऽपि जैनाचार्यः स्वमुखेनैव हिंसामनुरुणद्धि खलु – एवं विचारयद्भिस्तैः पुनराचार्यवर्यस्य ध्वनिः श्रुतः । भो ! अवश्यमेव बलिया, किन्तु देव्याश्चरणयोर्जीवत एव पशून् समर्पयन्तु । मन्दिरस्य द्वाराणि च पिधीयन्ताम् । देवी स्वेच्छानुरूपं बलि ग्रहीष्यति । अद्यपर्यन्तं भवद्भिः शवान्येव दत्तानि । अद्य जीवत पशूनेवाऽपर्यन्तु । पशूनामक्षतदेहस्य प्रापणेन देवी विशेषतः प्रसन्नतामनुभविष्यतीति ।
___ सर्वे तूष्णीं स्थितवन्तः । सर्वैविना विरोधं गुरोर्वचनं स्वीकृतम् । तस्मिन् दिने जीवन्त एव पशवो मन्दिरस्याऽङ्गणे स्थापिताः पूजकैः ।
त्रीणि दिनानि व्यतीतानि । तत्र 'किं जातम्' इति ज्ञातुं सकौतुकं सर्वेऽपि मन्दिरं गतवन्तः । आनन्देन क्रीडन्तः सर्वेऽपि पशवो दृष्टाः सर्वैः । तेन सर्वेषां चित्ते गुरुमहिंसां च प्रति श्रद्धा दृढीभूता । ततोऽहिंसा जयतु, श्रीहेमचन्द्राचार्यगुरुवर्यो जयतु, कुमारपालराजर्षिर्जयतु - इत्युच्चैर्वदन्तः सर्वेऽपि स्वस्थानमगच्छन् ।
"अद्याऽऽरभ्यते मूकजीवा अभयं प्राप्स्यन्ति" इति विमृशन् प्रसन्नवदनो राजर्षिः कुमारपाल: स्वगुरोश्चरणयोः पतितवान्, तथा हर्षा श्रुभिस्तयोः प्रक्षालनं कृतवान् ।
हेम-धेनु-धरादीनां दातार: सुलभा भुवि । दुर्लभः पुरुषो लोके य: प्राणिष्वभयप्रदः ।
। [मार्कण्डपुराणे २/७/९३]
७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org