________________
वात्सल्यमौदार्यं विश्वसनीयता प्रेम सहानुभूतिः सेवाभावः त्यागश्च विद्यन्ते तदेव सदनमुपलक्ष्यते, . किन्तु यत्र निरन्तरमुपेक्षाऽविश्वासः शङ्का तिरस्कार ईर्ष्या कटुवचनादिप्रयोगो द्वेषश्चाऽस्ति, तन्न गृहमपि तु स्मशानमुच्यते' । अत्राऽपि तस्याः स्त्रियाः शङ्काशीलत्वेन सदनं रणभूमिरिव ! सञ्जातम् । पितृ-जननी-पति-इत्यादीनां सर्वेषां शान्तिः प्रसन्नता च विनष्टा ।
भ्रातर् ! शङ्का 'उद्देहिका' इव भवति । यथा यस्मिन् भवने पुस्तके चोद्देहिका - प्रविशेत् तदा सोद्देहिका तद् गृहं पुस्तकं चाऽन्तस्तः शीर्णविशीर्णं विदधाति । तद् वेश्म पुस्तकं च बहिस्तु सुन्दरमेव भासते किन्तु किञ्चित्कालानन्तरमेव तत्सर्वमेव नष्टं भवति । तथैव यस्य जनस्य मनसि शङ्कोत्पन्ना स जनः कदाचिद् बाह्यतः सुज्ञः पटुर्व्यवहारी सौम्यप्रकृतिश्चाऽपि स्यात् । समाजे सर्वतस्तस्य प्रभावः प्रवर्तेताऽपि । 'जी, जी' इत्युक्त्वा
सर्वेऽपि जनास्तस्य चरणयोर्नमेयुटुंठेयुश्च किन्तु स जनोऽन्तस्तस्तु नितरां दु:खी सन्तप्त - उद्विग्नश्च भवति । तस्य चित्ते न कदाऽपि शान्तिः प्रसन्नता च भवति । यदि कदाचित् सहसैव । । कश्चिज्जन आगच्छेत् । आगमिष्यतीत्युक्तवान् जनः कारणवशाद् नाऽऽयायात् । कश्चिज्जनो
ऽन्यजनं मीलितुमागच्छेत् । अन्यजना मन्दैर्मन्दैरारावैर्वातालापं कुर्युः - इति निरीक्ष्याऽपि । तस्य स्वान्ते शङ्कोद्विग्नता च प्रसरेत् । हन्त ! यस्य यस्य जनस्योपरि विशेषरागः स्यात् स कदाचिदन्यान् मीलितुं गच्छेत्, अन्यैः सह वार्तालापं वा कुर्यात् तद्यपि स शङ्काशीलो जनो ! दुःख्युद्विग्नश्च भवेत् । यतस्तस्य मनस्येकैव चिन्ता यदेष मम गुप्तवार्ता कस्मैचित् कथयिष्यति,
मत्तो दूरीभविष्यति-इति । एवं शङ्काशीलजनस्य चित्ते निरन्तरमुद्विग्नताया अशान्तेश्चाऽग्निः । ! प्रज्वलितो भवति । एवं शङ्काशीलो जनः स्वयं तु दुःखी भवत्येव किन्त्वन्यानपि दुःखाब्धौ ! । निमज्जयति । प्रायः सर्वेऽपि जनाः शङ्काशीलजनाद् दूरमेव वसन्ति, न च कोऽपि तस्य ।
कार्यकरणे साहाय्यं कुर्वन्ति, यतस्ते तस्माद् बिभ्यति । ते जानन्त्येव यद्, यद्यहं किमपि |
कार्यं करिष्यामि, वदिष्यामि च, तदा स शङ्कां विधाय क्लेशमुत्पादयिष्यते । हन्त ! कदाचिद् . । वायुनाऽपि तस्य वस्तु स्यूतं च चलेत् । गृहशुद्ध्यर्थं वस्तु स्थानान्तरं कुर्यात् तद्यपि तस्य । i चित्ते शङ्कोत्पद्यते- 'केनाऽपि मे वस्तु ग्रहीतुं द्रष्टुं च प्रयत्नो विहितः' इति । एवं तस्य कृते ।
येन स्वस्य सर्वस्वमपि विहाय साहाय्यं क्रियते, अन्येभ्यो रक्षणं विधीयते, अन्यैः सह - कदाचित् क्लेशोऽपि क्रियते, तथाऽपि तस्योपरि विश्वासो न स्यात् । बहुवर्षेभ्यः समीपे । वसतां मातृ-पितृ-भगिनी-पुत्र-दुहितृ-भ्रातृ-इत्यादिजनानामुपर्यपि विश्वासो न स्याद्, यदा !
कदाऽपि 'त्वमेतादृशः, त्वं मे विरोधी, मायावी, दोषदर्शी चिकित्सकश्च' इतिवचनैः । पुत्रादीनां श्रद्धाभङ्गं विधाय शङ्का क्रियते, तथाऽऽजीवनं तया शङ्कितदृष्ट्यैवोपेक्षात्मक- ।
२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org