SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 'मयि विश्वासं कुरु । न किमप्यकरणीयं कृतं मया' । एवं तां बोधयितुं मया बहुशः - प्रयत्नः कृतः, किन्तु स निष्फलो जातः । एवं सार्बेकघण्टासमयो व्यतीतः । ततो। जनकोऽगदत्-रे ! शाम्यताम्, क्षपा समाप्ता । भवतु, यदि नाम युवां स्वप्तुं नेच्छेतं, किन्त्वावयोस्तु निद्रा बाधते, अतः शान्तौ भवताम् । तथाऽपि प्रलपन्ती सा न शान्ता जाता । - अहं तु मुखं परावर्त्य शयितवान्, किन्तु निद्रादेवी नाऽऽलिङ्गिता । मनसि नितरामुद्वेगः । प्रसृतः, तीव्र आघातोऽपि लग्नः । तत उत्थाय जनन्या अपवरके यात्वा तस्या अङ्के वदनं ! स्थापयित्वा मुक्तमनसा रोदितवान् । माता मे पृष्ठे हस्तं प्रसार्य- 'रोदनं मा कुरु' इति । वदत्याश्वासितवती साऽप्युद्विग्ना सञ्जाता । मातर् ! किं करवाणि ? पूर्वभवे मयाऽतीव दुष्टं कर्म कृतं स्याद्, येनाऽद्यैतत् सह्यते । । मया । तस्याश्च क्लेशकारिण्यः सङ्गमो जातः । न किमप्यकरणीयं करोमि, सर्वदा तस्या | इच्छानुरूपमेव सर्वं करोमि, न कदाचिदपि तस्या नैजजीवने हस्तक्षेपं करोमि । किन्तु सा । तु शङ्कितदृष्ट्यैव मां पश्यति । एवं निरन्तरं मामुद्वेजयति । शान्त्यर्थं सर्वं सुखं विहायाऽत्राऽऽगतवान्, किन्तु... मातर् ! मज्जीवनेऽशान्तिर्दु:खं चैवाऽस्ति । कदाऽहं सुखेन । जीवितुं शक्तो भवेयम् ? इतः परमेतां वेदनां सोढुं न शक्तोऽहम्, अत आत्मघातं.... वत्स ! वत्स ! किं वदसि ? एवं कृते अस्माकं किं भविष्यति ? अतः...... जननि ! तव चिन्तयैवाऽद्यावधि नैतादृशं कार्यं कृतम्, किन्त्वितः परमेतया क्रियमाणायाः शङ्काया अग्नौ मध्ये स्थित्वा क्षणमपि जीवितुं न शक्तोऽह'मित्युक्तं मया। गुरुदेव ! किं करवाण्यहम् ? अहं तु त्रस्तः खिन्नो मूढश्च जातः । अतो मम जीवने | शान्तिर्यथा स्याद्, गृहेऽपि प्रसन्नता शान्तिरानन्दश्च भवेयुस्तथाऽऽशिषं ददातु । 'कर्मणो गतिर्गहना' इत्युक्त्यनुरूपं पूर्वभवे यत्कर्म कृतं स्यात् तस्य फलमवश्यंतया । भोक्तव्यमेव स्यात् । अत आपतितां परिस्थिति स्वीकृत्योद्वेगं विहाय धर्ममाराधय । तत्प्रभावेणैव ! सर्वमपि कुशलं भविष्यतीत्यादिवचनैर्मया सान्त्वनं दत्तम् ।। बन्धो ! गच्छता तेन मे निद्राऽप्यपहता । चित्ते विचारस्य यातायातं प्रारब्धम् ।। गृहस्यैकस्यैव जनस्य शङ्कारूपया कुचेष्टया समस्तेऽपि वेश्मनिऽशान्तिरुद्विग्नताऽराजकता च प्रसृता । सदनस्य शान्तिः प्रसन्नता चाऽपहता । तथा गृहस्य मधुरं प्रेमयुतं स्नेहार्दीभूतं च । । वातावरणमपि कलुषितं सञ्जातम् । स्वजनेषु धनेऽद्यतनसुखसाधनेषु स्वकीयगृहापणेषु च ! सत्स्वप्येकस्य कुस्वभावात् स जनोऽसहाय इव दीनो दुःखी निर्धनश्च जातः । स च सुखेन न भोक्तुं शयितुं वसितुं जीवितुं च शक्नोति । एकेन महापुरुषेण गदितम् - 'यस्मिन् वेश्मनि । २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy