SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ भयश्च दरीदृश्यते स्म । अध्वनि चलन्तः पान्था इव सर्वेऽपि वर्तमानाः परस्परं न केऽपि वार्तालापं कुर्वन्ति । एवं वयं सर्वेऽपि दुःखिनः स्मः । कार्यालये कार्यचिन्ता पीडयति, सदने । चाऽस्याः क्लेशो मां पीडयति । 'किं करणीयं, कथं वसनीयं, कस्मै कथयानि च' इति ! प्रश्ना मां निरन्तरं बाधन्ते । कदाचिदसामनोवेदनावशाद् दुष्टविचारोऽप्यागच्छति- आत्मघातं - कुर्याम्.... इति । अन्ते, पितृभ्यां सह चर्चा विधाय तस्यै कथितम् - रूपे ! अत्राऽहं । सखीभिः सहाऽटामि, व्यसनं दुराचारं चाऽऽसेवे-इति शङ्का त्वद्द्यस्ति । अत एतां नगरी ! विहाय कर्णावतीनगरे गच्छेव, यतस्ते चेतसि शान्तिर्भवेत् । तत्क्षणमेव निर्णयः कृतः ।। दुःखिनौ मातरपितरौ स्वकीयगृहं वाणिज्यं च विहायाऽ श्रूणि मुञ्चन्नहं पन्या सहाऽत्र | कर्णावतीनगरे वसितुमागतवानस्मि । गुरुदेव ! मम दुर्भाग्यवशादत्राऽप्येष एव संघर्षो निरन्तरं प्रवर्तते । दश दिनानि । व्यतीतानि । एकदा सहसैव साऽवोचत् - रात्रौ दीर्घकालानन्तरं त्वं सदनमायासि । अत्राऽपि ! ते प्रेमिका वसति, अत एव त्वमन्यन्नगरं विहायाऽत्राऽऽगतवान् । एवं वेश्मनि पूर्ववत् । क्लेशस्य प्रारम्भो जातः । ह्य एव मे मित्रं विदेशत आगतवान् । पञ्चवर्षेभ्यः पश्चात् स । मीलितवान् । अतस्तेन सह सानन्दं भोजनं कृतं, चर्चा चाऽपि विहिता । प्रात:काले ! विमानोड्डयनस्य समय आसीत् । ततो विमानस्थानकस्य समीपस्थे कस्मिन्नुपाहारगृहे । तेनाऽऽश्रयः कृत आसीत् । ततस्तत्स्थाने तं मोचयितुं निशि गतवानहम् । तदा रूपामुद्दिश्य । मित्रेण जल्पितम् - भ्रातृजाये ! दीर्घकालादावां द्वौ मीलितौ स्वः, ततो रमेशस्याऽऽगमने ! कदाचिद् बहुः कालः स्यात् तदा चिन्ता न करणीया । द्वावपि गतवन्तौ । स्थानमवाप्याऽऽकण्ठं । वार्तालापः कृतः । क्षपायां साढ़ेंकवादनः समयो जातः । तदा 'अर्धघण्टयाऽऽगमिष्यामि' ! इति गृहे दूरभाषध्वनिः कृतो मया । किञ्चित्कालानन्तरं वेश्मनि गन्तुमुत्थितः, किन्तु द्वार्येव । वार्तालापे एकघण्टासमयो व्यतीतः । ततो निर्गन्तुमहं मुहुर्मुहुः प्रयत्नः कृतवान्, किन्तु स । सखा मां मोक्तुं नेच्छन्नासीत् । तथाऽपि खिन्नमानसोऽहं ततो निर्गतः । अतितीव्रगत्या यानं ! चालयित्वा झटिति भवनमागच्छम् । आकारिका ध्वानिता । पुनः पुनराकारिका ध्वानिता। किन्तु तया द्वारं नोद्घाटितम् । प्रायो विंशतिः क्षणं बहि: स्थितवान् । अन्ते, दिपावलीपर्वणि | गृहमागतेन जनकेन द्वारमुद्घाटितम् । अहं ममाऽपवरके आगतवान् । सा मां निरीक्ष्य पृष्ठं परावर्त्य शयिता । किमप्यनुक्त्वाऽहमपि शयितवान् । ततः शयनादुत्थाय तया प्रकाशः । कृतः । किं करोषि ? इति गदितवानहम् । तदा भ्रूकुटिमूर्वीकृत्य "एतावत्कालं कुत्र ! गतवान् । कया सह निश्यटसि स्म । रात्रावपि का कन्या त्वया सहाऽटितुं सिद्धा जाता' ।। समीपमागत्य- ‘पश्य, पश्य तव वदनाद् मद्यपानस्य दुर्गन्ध आयाति' इत्यवोचत् सा ।। - - - - - - २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy