________________
! व्यवहारोऽपि विधीयते । ततो हताशा उद्विग्नाश्च ते पुत्रादयो मनसि विकल्पं कुर्वन्ति यद्, निरन्तरमेतेन क्लेशेनोपेक्षात्मकव्यवहारेणाऽलम्, मम कृते तु मरणमेव श्रेष्ठम्, इति ।
एषा शङ्का मनसि दम्भमनुदारतां च प्रकटयति । सारल्यमौदार्यं च हन्ति, तथा स्वकीयजनेभ्य एवाऽनादरतां विरोधितां च प्रापयति । एवमेषा शङ्का जीवनोन्नतिबाधकरूपस्य पूर्वग्रहस्य जनन्यस्ति । यत्र शङ्का तत्र पूर्वग्रह: । यत्र पूर्वग्रहस्तत्र क्लेशोऽशान्तिश्चाऽस्ति । ! - एष पूर्वग्रहो व्यक्तेर्वास्तविकबोधने गुणशोधने च बाधकोऽस्ति । अद्य गृहे गृहे क्लेशोऽशान्तिश्च ।
प्रवर्तते, तस्या मूलं पूर्वग्रहोऽस्ति । यतोऽद्य पितरौ पुत्रं प्रति, वत्सो जनकं प्रति, श्वश्रूर्वधूं । प्रति, वधूः श्वश्रू प्रति चाऽऽशङ्कते, तथा ते परस्परं पूर्वग्रहदृष्ट्यैव वर्तन्ते । एतद्दृष्टिवशात् तत्तद्व्यक्तनिषेधात्मकवर्तनं कुशीलं चैव नयनपथमायाति, न च सुशीलं विधेयात्मकवर्तनं च दृग्गोचरीभवति । पूर्वग्रही जनो न कदाऽपि परेषां कथनं रीतिं स्वभावं च स्वीकरोति।।
स त्वात्मना यद् विचारितं तदेव सत्यं सुन्दरं पूर्वापरविचारितं लाभालाभयुतं च मन्यते, : तथाऽऽत्मानमहं श्रेष्ठो दीर्घद्रष्टोदारः पूर्वग्रहमुक्तश्चैव मन्यते । अतोऽन्यान् प्रति द्वेषबुद्धिर्दृढीभवति।। । एवमेष पूर्वग्रहो मधुरं सम्बन्धं वियोजयति, निर्व्याजं स्नेहं प्रेम च तथा सदनस्यैक्यं संवादितां । च नाशयति । अत एव पूर्वग्रहस्य जननी शङ्का तु दूरत एव त्याज्या ।।
बन्धो ! प्रत्येक व्यक्तिः, प्रसन्नतामानन्दं च स्पृहयति । एषा प्रसन्नता धनेना! ऽत्याधुनिकसाधनैश्च नाऽवाप्यते, अपि तु गृहस्य मधुरेण स्नेहयुतेन च परिसरेण । एवं वेश्मनः । सर्वैः सदस्यैः सह ममतायुतेन हृदयौदार्यपूर्णेन व्यवहारेणैव गृहे प्रसन्नता प्रवर्तेत ।
अन्ते, भ्रातर् ! यदि जीवने शान्ति-प्रसन्नताप्राप्तेरभिलाषा स्यात् तद्येतादृशं शङ्काशीलस्वभावं त्यजेः । सर्वेषां कार्यस्य निरीक्षणमवश्यं करणीयं, किन्तु शङ्का न | करणीया । सर्वैः सहोदात्तदृष्ट्या प्रेम-वात्सल्ययुतं व्यवहारं विधाय जीवने शान्ति प्रसन्नतां । चाऽऽप्नुहि, इत्याशंसे ।
इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् । गिरिशिखरगताऽपि काकपङ्क्तिः पुलिनगतैर्न समत्वमेति हंसैः ॥
(सुभाषितरत्नभाण्डागारे) ---------------------------
-
२९
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org