SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सन विशेषविज्ञप्तिः र आचार्यपदशताब्दीसमर्चना वि.सं. २०६४तमवर्षं विंशशताब्द्याः यथावस्थिततत्त्वप्रणयनप्रवीणविशुद्धधियां विद्वद्व्न्दवन्द्यानां परमप्रभावकाणां शासनसम्राजां जैनाचार्यवर्यश्रीविजयनेमिसूरीश्वरभगवतामाचार्यपदारोहणशताब्दीवर्ष-मस्ति । यस्मिन् काले सामान्यतया संस्कृतभाषाविदोऽपि जनाः समाजे विद्वन्मुख्यत्वेन पूज्यन्ते स्म तस्मिन्नपि काले तैर्व्याकरण-काव्य-कोशालार-च्छन्दस्तर्कादिशास्त्राणां पारगामित्वं प्राप्य षड्दर्शनानि, स्वान्यसिद्धान्ता, आगमा, अन्यानि च शास्त्राणि स्वयमधीतानि स्वशिष्येभ्यश्चाऽध्या-पितानि; विशुद्धप्रज्ञाबलेन च व्याकरणमधिकृत्य बृहल्लघुपमलघुहेमप्रभाख्यास्त्रयो गन्थाः, न्यायविषयकाश्च न्यायसिन्धु-प्रतिमामार्तण्ड-अनेकान्ततत्त्वमीमांसासप्तभङ्गयुपनिषद्-नयोपनिषद्-इत्याख्या मूलग्रन्थाः न्यायालोकटीका-न्यायखण्डनखण्डखाद्य(जैन)टीका-सन्मतितर्कटीका-अनेकान्त-व्यवस्थाटीका-इतिटीकाग्रन्थाश्च विरचिताः; सहैव रघुवंशमहाकाव्यस्य द्वितीयसर्गस्य २९ श्लोकानां किरातार्जुनीयमहाकाव्यस्य च १९ श्लोकानां चाऽपि विस्तृता वृत्तिर्विरचिता । एवं च समग्रेऽपि जैनसमाजे ज्ञानयोगस्य महज्ज्योतिः प्रज्वलितं तैः । वि.सं. १९६४ तमे वर्षे ज्येष्ठशुक्ल-पञ्चमीतिथौ योगविधिपुरस्सरं जैनशासनेऽस्याः शताब्धाः सर्वप्रथममाचार्यपदं समधिरूढवन्तस्ते । एनं शुभावसरमुपलक्ष्य नन्दनवनकल्पतरोरागामिनी शाखा श्रीविजयनेमिसूरिविशेषाङ्कत्वेन प्राकाश्यं नेष्यते । अस्य विशेषाङ्कस्य कृते गुरुगुणवर्णनमधिकृत्य रचितं गद्यं पद्यं वा संस्कृतभाषया प्राकृतभाषया वा रचितं साहित्यं प्रेषयितुमामव्यन्ते विद्वज्जनाः । 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy