________________
...........
.
.
"स्वस: ! अहमपि तत्राऽऽगच्छेयं वा ?""" "भ्रातः ! मैवं वद । सा कस्याऽपि पुंसश्छायामपि नैव सहते ।" "भगिनि ! चिन्ता माऽस्तु । अहं स्त्रीवेशं कृत्वैवाऽऽयास्यामि खलु ।' "ओह् ! ज्ञातं मया, नाऽस्ति किञ्चिदसाध्यं मम भ्रातुः ।"
ते द्वे अपि तत्राऽगच्छताम् । यदा प्रासादे प्राविशतां तदा दृष्टा लावण्यसुभगाऽनङ्गसुन्दरी: कामपि विरहार्ती हंसी पटे लिखन्ती । वीरभद्रः क्षणार्धं क्षुब्धोऽभवत् तामतिरतिरूपां प्रवीक्ष्य ।। पश्चात्स सुस्थतां प्राप्य प्रोवाच
"राजकुमारि ! विजयतु ।" साऽप्येनां नूतनां निरीक्षते स्म । तदा सा विनयवतीं प्रति: : वीक्ष्य - "का एषा ?" इत्यपृच्छत् ।
"मद्भगिनी।" "किनाम्नी ?"
वीरभद्र एव झटिति वदति स्म-"आर्येऽहं वीरमती नाम्ना । भवतीं च किञ्चिद् विज्ञपयितुमिच्छामि" इति ।
"निःसङ्कोचं वदतु भवती" ।
"आर्ये ! यैषा हंसी पटे प्रविरच्यते भवत्या, सा न समीचीना । अर्पयतु मह्यमहमचिरात् : स्पष्टां सुवर्णां च करिष्ये"-इत्युक्त्वा वीरभद्रस्तदालिखितवान् ।
"अहो ! कीदृशे वियोगार्ने नेत्रे ! अश्रुस्निग्धे कपोले ! आतुरताख्यापनकमेतत्कान्दिशी-: : कत्वम् । आः ! मन्येऽधुनैवाऽस्माच्चित्रपटात्सा हंसी बहिरागमिष्यतीति प्रतिभाति मे" इत्यवदत् : साऽनङ्गसुन्दरी । पश्चाच्च विनयवत्या मुखं प्रलोक्य
"सखि ! इयन्तं कालं वैनां कलापारङ्गतां किमर्थं नाऽऽनीतवती?" तदा वीरभद्र एव: । मध्येऽवदत् - "गुरुवराणां शङ्का न स्यादित्यत एव" । पश्चादपि गोष्ठिरन्यान्यविषया प्रचलिता।:
द्वे घटिके वारिप्रवाहवदतीते । तावता वीरमत्याऽपि साऽनङ्गसुन्दरी स्वोपरि मुग्धा हृतहृदया च:
कृता सर्वथा यथा गमनसमये सा विनयवतीं सोपालम्भमवदत् “सखि ! इतः परं वैनां: : त्वत्स्वसारमवश्यमविस्मृत्यैवाऽऽनयेः ।" : वीरभद्रो गृहमागत्य वधूवेशं त्यक्त्वा त्वरयाऽऽपणं प्रविशति स्म । तदा शङ्खोऽवदत् : : "अरे पुत्र ! कुत्र गत आसीत् ? पश्यैते तव प्रतीक्षां कुर्वन्तो नगरजनास्तिष्ठन्ति ।"
"तात ! एवमेवोद्यानदिदृक्षया निर्गत आसम् ।"
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org