________________
हि धर्मस्य ग्लानिर्भवति भारत !' - इत्यत्र दर्शिता धर्मग्लानिरपि किं विवेकग्लानिरेव न ? | विचार्यताम् । विवेकमण्डितो मनुष्यो देवानामपि पूज्यो भवति किन्तु स एव यदा विवेकं | परित्यजति तदा पशुभ्योऽपि हीनतरो जायते ।
न हि कश्चित् पशुभ्यो विवेकमपेक्षेत । यतोऽविवेक एव तस्य स्वभाव: स्वरूपं वा । भवतु नाम यत्किमपि शिक्षणं पशूनां किन्तु विवेकोदयस्तस्य न सम्भवत्येव । अभ्यासवशात् शुनको यद्यपि निर्दिश्यमानां वस्त्वानयनादिकां क्रियां कर्तुं प्रभवत्येव | तथाऽपि कदा भषणीयं कस्य वा पुरतो भषणीयमित्यस्य विवेकस्तं शिक्षितुं न शक्यते । | स परिचितापरिचितयोर्मध्ये भेदमेव जानाति, न सदसतोर्विवेकं कर्तुं पारयति । एतदेव तस्य पशुत्वम् । अविवेकित्वमेव पशुत्वं विवेकित्वं च मनुष्यत्वम् ।
एनं विवेकं पुरस्कृत्यैव विचारणीयोऽयं श्लोकः । विवेकमहिमगानमेव ध्वन्यतेऽस्माच्छ्लोकात् । मनुष्यस्याऽविवेकोऽधर्मो व्यथयति कविम् । श्लोकार्थोऽत्र नाऽऽवश्यकः, स त्वयत्रसुलभ एव, केवलं मर्मैवाऽत्र यत्नसाध्यमस्ति । 'ते खलु पशवो वयं सुधियः ' व्यङ्गपूर्वकं कथयति कवि : अहो ! एवं सत्यपि ते पशवो वयं च सुधियः ! | सत्यमेवाऽऽश्चर्यकरमेतत् ।
मनुष्यरूपेण गौरवं यद्यभिलषितं तर्हि विवेकं पुरस्कृत्यैव वर्तितव्यं सर्वैः । | विवेकशील एव गौरवपूर्वकं जीवितुं प्रभवति । विवेकरहितस्य तु दैन्यमेवाऽऽ श्रयणीयं भवति । दैन्यं च मनुष्यत्वस्योपहासः । हस्तौ संयोज्य म्लानवदनो भूत्वा कस्याऽपि पुरतः प्रार्थनं नामैव न दैन्यमपि त्विच्छानामनल्पत्वमपि दैन्यं, पदार्थानां परिस्थितीनां वा पराधीनत्वमपि दैन्यमेव । आदिनमारात्रि वा सुखसाधनानां पदार्थानां प्राप्तये सङ्ग्रहाय वैव सततं वृत्तौ वर्त्तने वा किं मनुष्यत्वस्य गौरवमस्ति ? 'शीतकयन्त्रमावश्यकमेव, विद्युद्व्यजनं विना तु क्षणमपि स्थातुं न प्रभवामि, वातानुकूलकं त्वनिवार्यमेव'.... अहहह । न केवलं धनिषु दैन्यमपि तु धनेषु पदार्थेष्वपि च ! अहो विडम्बनम् ! जीवनं तु स्वयमेवाऽऽनन्दस्य | सुखस्य च खनिरस्ति किन्तु मनुष्यस्तत् पदार्थेषु मृगयति । आङ्ग्लभाषायामेकं काव्यमस्ति । पुनः पुनः पठनीयं विचारणीयं चाऽस्ति
Jain Education International
'We squander health in seeking wealth;
we toil, we hoard, we save
And then squander wealth in seeking health only to find the grave.
१८
For Private & Personal Use Only
www.jainelibrary.org