________________
"प्रथमं तावद् वयं सम्पदः समुपार्जनेऽतिरक्ता: स्वास्थ्यमपि न परिगणयामः । भूरि श्रमं कुर्महे, यथेच्छं सम्पदः प्राप्तिमपि (कदाचित्) कुर्महे, तदनु तस्याः संरक्षणमपि RO कुर्महे । परं तत्पश्चात् (स्वास्थ्यं विना सम्पद उपभोगोऽशक्य इत्यवबुध्य) पुनः स्वास्थ्यं KC प्राप्तुं (तुच्छमिव मत्वा) धनव्ययं कुर्महे । किन्त्वन्ततो गत्वा चितां विहाय किमप्यन्यद् | न लभामहे ।" | कस्याऽपि सुखसाधनादिकस्य प्रापणं तु नाऽपराधः । मनुष्यो यत्नेन श्रमेण वा | किमप्यर्जयतु नाम, न तत्र काऽप्यापत्ति: । किन्तु विवेकं परित्यज्य लोभाविष्ट आसक्तश्च सन् स किमपि प्राप्तुं प्रयतते तदा तस्याऽपराधो जायते- जीवनं प्रति स्वात्मानं च प्रति कृतोऽपराधः ।
आवश्यकताया इच्छायाश्च मध्ये भेदस्य बोधो नाम विवेकः । अत्र श्लोके कृतो व्यङ्ग एतादृशं भेदमनवबुध्य प्रवृत्तान् जनान् प्रत्यस्ति । आवश्यकतापूर्तये कृताः प्रयत्नाः सफला भवन्ति, न किन्त्विच्छापूर्तये कृताः प्रयत्नाः । सम्राट्सकन्दर इतिहासप्रसिद्धः पात्रमस्ति । विश्वविजयो न तस्याऽऽवश्यकताऽपि त्विच्छाऽऽसीत् । किन्तु न सा पूर्णा जाता। लघुवयस्येव स दिवङ्गतः । यदा तेन सत्यमवगतं तदा तस्य कालः सन्निहित आसीत । अतः स सचितवान- 'मम मरणानन्तरं यदा शवाच्छादनं करणीयं स्यात तदा मम हस्तौ न बन्धनीयौ नाऽप्याच्छादनीयौ। एवमेवाऽनवबद्धहस्तस्याऽनाच्छादितहस्तस्य चैव ममाऽन्तिमयात्रा भवतु, येन सर्वेऽपि जानन्तु नाम यत् किमपि भूरिश्रमेणाऽप्यजितमपि न कस्याऽप्यनुगच्छति, न च कस्याऽपीच्छा कदाऽपि परितृप्ता परिपूर्णा वा भवति' इति ।
बहुशो मनुष्यो यत् सङ्घर्षरतो दृश्यते तन्नाऽऽवश्यकतापूर्तये किन्त्विच्छायाः परिपूर्तये एव सङ्घर्षः सम्प्रवर्तते । यश्च नाऽऽजीवनं समाप्ति गच्छति । दारिद्यं न साधन
सम्पदादीनामभावमवलम्बते किन्तु मनोवृत्तिमवलम्बते – ‘स हि भवति दरिद्रो यस्य तृष्णा bp विशाला' । एतादृशो जनो दीन एव भवति । न स जीवनस्याऽऽनन्दमनुभवितुं शक्नोति ।।
सर्वं सत्यपि स रिक्ततामेवाऽनुभवति । स स्वयं सर्वत्राऽनुकूलो भवितुं न यततेऽपि तु र (सर्वमपि स्वस्याऽनुकूलं यथा स्यात् तथा प्रयतते । यच्च न शक्यमेव । एतेन चर) | सर्वदाऽसन्तुष्टचित्तः स सदा दीनमिवैवाऽवतिष्ठते । । अत्र हरिणा दृष्टान्तत्वेन गृहीताः । यतस्ते वनवासिनः । मनुष्यस्य सम्पर्कस्तु तेषामद्याऽपि न जातः । प्रायश एवं दृश्यते यद् मनुष्यस्य सम्पर्के यः कोऽपि प्राण्यागतश्चेत्
१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org