________________
हुदहुदपक्षिणी कथितवती, "निधिलालसया मूढो जातोऽस्ति भवान् । किन्तु । प्राप्तेनाऽपि तेन भवतो न किञ्चित् प्रयोजनम् ! यतो यदि कदाचिद् भवता निधिः / प्राप्येताऽपि, परं यदा भवान् मरिष्यति तदा स निधिः किं भवन्तमनुसरिष्यति वा ? यस्मिन्नुच्चलक्ष्ये भवान् बद्धादरोऽस्ति तदपि भवद्धस्ताच्च्युतं भविष्यति । सुवर्णस्य मोहेन जातं मूढत्वं कापुरुषाणां जीवनस्य वैशिष्ट्यम् । सुवर्णस्य सङ्ग्रहीतारस्तत्राऽऽसक्ताश्च जीवा अपि मरणदिने तु कूटनाणकवद् हताशीभूय जीवनं हारयन्ति ।"
ततश्च सुकोमलशरीरा भीतचित्ता च चक्रवाकी समागता कथितवती च । वेपमानकाया, "बन्धवः ! दैवहता हारिताऽहं किं वा वदानि ? कथं जीवितव्यमित्यपि A न जानाम्यहम् । केशवदतिदुर्बलो मे कायोऽस्ति । एकस्य कीटकस्याऽपि बलं नाऽस्त्येव (७) मे देहे । तथा, मे कोऽपि सहायकोऽपि नास्ति । एवं स्थिते मादृशी निर्बला निराधारा निःसत्त्वा च पक्षिणी सीमुर्गस्य प्राप्तेः कल्पनमपि कथं कुर्यात् ? शक्तिहीनाया ममैषा वार्ता विचारयितुमप्ययोग्या ननु ! । यत् स्थान प्राप्तुं सर्वथाऽसमर्थाऽहं तत् स्थानं प्राप्तुमतितमां कठिनामिमां यात्रामहं नैव चिकीर्षामि । तादृशीं यात्रां कुर्वाणाऽहं मध्येमार्गमेव मरणं शरणीकुर्याम् । अत एवाऽहं समीपवर्तिषु कूपेषु गृहेषु च मे प्रियतमं चक्रवाकं
मृगयमाणा भ्राम्यामि । यदि कथमपि चक्रवाकं प्राप्नुयां तदा तु तत्सहिताऽहं 71 केनाऽप्यनवरुद्धतया चन्द्रमसमपि प्राप्स्यामि ।" ।
हुदहुदपक्षिण्या कठोरतयोपालब्धा सा, " रे तपस्विनि ! भवती कदाचिनिराशेव ग्लानि कदाचिच्चाऽऽशाया आनन्दमनुभवति । किन्तु द्वन्द्वस्याऽस्याऽतीव भ्रामके मायाजाले पतनं भयजनकम् । अपि च, भवत्या वचनेष्वपि दम्भ एव व्यक्तीभवति । भवत्या नम्रताऽपि गर्व-दर्पयुक्तैव । इतः परमेकमपि शब्दं मा वादीत् । ओष्ठपुटं सीवित्वाऽग्रेसरा भवतु । यदि मरणं वाऽप्यापतेत् तदा सर्वैरपि सहैव मर्तव्यं भवेत् ।"
एवं चाऽनेकैः पक्षिभिः सीमुर्गप्राप्तेरनिच्छाया अशक्तेश्च कारणानि प्रस्तुतानि, किन्तु हुदहुदपक्षिणी तत्सर्वं श्रुत्वाऽपि लेशमपि नैराश्यं नैव प्राप्ता । प्रत्युत सा सीमुर्गप्राप्त्यर्थमन्यैः कृतानां पराक्रमाणां कथा अनुभवांश्च कथयित्वा पक्षिणोऽपि तदर्थं प्रेरितवती । तेषामुत्साहवृद्ध्यर्थं च, "वयस्या ! जीवनमेतन्नैवोदरपूरणार्थं बाह्यार्थपरिग्रहार्थं ममत्ववृद्ध्यर्थं वा प्राप्तम् । एतत्तु किञ्चिदतिभौतिकं ध्येयं साधयितुं प्राप्तम् । तदर्थं चाऽस्माभिः सर्वसामर्थ्येन प्रयतितव्यम् । अन्यथा नो जन्म निरर्थकमेव पूर्णीभविष्यति, सदाऽऽवर्तमाने च जन्ममरणचक्रे वयमेवमेवाऽटाट्यमाना कालं यापयिष्यामः । इह चाऽस्माभिरिदं ध्येयं - सीमुर्गप्रापणस्य निश्चितमस्ति । यदि तदनुसृत्य प्रवत्या॑महे तदा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org