________________
। वक्तुमत्राऽऽगतवानहम् ।
'निःसङ्कोचं वद' मया व्याकृतम् ।
भवान् मां मे कौटुम्बिकजनानपि च जानाति । मम न कोऽप्यन्यो भ्राता, न च भगिन्यपि विद्यते, तथाऽपि मातापितरौ विहायाऽत्राऽनिच्छयैव वसामि । मनसि बाढं क्लेश । उद्वेगश्च प्रवर्तते । भोजनं पानं चैवं न किमपि मह्यं रोचते । निद्रादेव्यपि मां विहायाऽन्यत्र - गतवती । अतः.....
अहमवोचम् - भो ! मा रोदीः, सङ्कोचं दूरीकृत्य शान्तचित्ततया यज्जातं तत् ! कथय । स उक्तवान्
अहं मोहमय्यां मुम्बईनगर्यां वसामि स्म । बाल्यकालादेव धर्मसंस्कारा दृढा । आसन् । चित्ते धर्म प्रति विशेष आदर आसीत् । सदाचारः सत्सङ्गश्चैव सदा मह्यमरोचत । तत एव संयममुरीकर्तुमतीवोत्कण्ठाऽऽसीत्, तथाऽपि प्रबलमोहनीयकर्मवशात् तमङ्गीकर्तुं न । समर्थो जातः । अनुक्रमेण यौवनं प्राप्तवान् वाणिज्ये च प्रवृत्तः । एवं वेश्मनि नितरां ! शान्तिरानन्दश्च प्रवर्तमान आसीत् ।
नियत्यनुरूपं यथाकालं रूपाभिधेयया कन्यया सह विवाहः सञ्जातः । सा नामानुरूपं । रूपवती संस्कारी विदुषी चाऽऽसीत् । ततो मया मे पूज्यजनैश्च बाढं तृप्तिरनुभूयते स्म । "एष पुण्यशाली' अत एतादृशी कन्या लब्धेति सर्वैरुच्यते स्म । साऽपि मयि । भृशमनुरक्ताऽऽसीत् । सा सर्वान् पूज्यजनानपि सादरमासेवत । अतोऽहमपि तस्यां विशेषतोऽनुरक्त आसम् । कदाचिदप्यहं तस्याः स्वान्तमुद्विग्नं भवेत्तादृशं न वदामि स्म न च करोमि स्म।। एवं सुखेनाऽस्माकं कालो गच्छति स्म ।
स्नेहिजनानामनुभवेन ज्ञातमासीद् यत्, सम्बन्धः प्रेम च मनसः सामीप्येन, ! - हृदयस्यौदार्येण सारल्येन च तथा परस्परं विश्वसनीयतयैव संभवति । अतस्तया सहाऽहं। सावधानं वर्ते स्म । तस्याश्चित्ते शङ्का कुशङ्का विकल्पश्च कदाचिदपि न स्याद्, अतो 'मयैवं ।
कृतं, अहं तत्र गतवानासम्' इति यत्किमपि कुर्यां तत्सर्वं तस्यै सारल्येन वच्मि स्म । क्षपायां!
बहिरटितुमपि नाऽगच्छम् । यदि कदाचिद् गच्छेयं तदा नियतकालेऽवश्यं प्रतिनिवर्ते स्म ।। । एवं सत्यपि तया विश्वासघातः कृतः ।
एकदा मित्रस्य गृहे विवाहप्रसङ्ग आसीत् । 'पञ्चतारक उपाहारगृहे तेन रात्रौ । । समारम्भ आयोजितः । तस्याऽतीवाऽऽग्रहवशादनिच्छयाऽपि तत्र गतवान् । सदनमागत्य । ! "एवं कृतम्, एतद् भक्षितम्' इति तस्यै सर्वमपि कथितम् ।
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org