________________
पत्रम....
नमो नमः श्रीगुरुनेमिसूरये ॥
मुनिधर्मकीर्तिविजयः। आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । तव कुशलं कामये ।
अस्मिन् जगति प्रायो न कश्चिदपि सुख्यस्ति । सर्वेऽपि प्रायो दुःखिनो भवन्ति ।। कस्यचिदार्थिकपीडा, परस्य शारीरिकपीडा, अन्यस्य कौटुम्बिकपीडा, अपरस्य मानसिकपीडा । बाधते, ततो दुःख्यस्ति । यदि कस्यचिदेतासु न का अपि पीडाः स्युस्तदा तस्याऽन्यस्य । स्वभाववशाद् दुःखं भवति ।
प्रतिव्यक्ति भिन्नभिन्नस्वभावो वर्तते । गृहे एकस्या अपि व्यक्तेविचित्रस्वभावात् । समस्तेऽपि वेश्मन्यशान्तिः क्लेशश्च स्यात् । कदाचिद् बाह्यदृष्ट्या शान्तिर्दृश्यते, किन्तु सा शान्तिः श्मशानभूमिरिव स्यात् । वातावरणे शान्तिर्दृश्यते न तु मनसि । चित्ते तु भृशमुद्वेगः ! क्लेशः सन्तापश्चैव प्रवर्तते । मनसा परस्परं भिन्नता विद्यते । परस्परं मुखं दृष्ट्वा श्वेव स्वान्ते -
तु घुर्घरायते । एतादृशेषु सदनेषु सर्वेष्वद्यतनसुखसाधनेषु सत्स्वपि प्रसन्नताया आनन्दस्य च । ! लेशोऽपि न दृश्यते । हन्त ! यगृहे प्रसन्नताऽऽनन्दश्च नाऽनुभूयते तद् गृहं कथमुच्यते ? अद्य ! । प्रायः सर्वेष्वपि गृहेष्वेतादृशी परिस्थितिर्दृश्यमानाऽस्ति । तत एवाऽहं ब्रवीमि- 'प्रायो न - कश्चिदपि सुखी विद्यते' ।
अद्यैकां हृदयद्राविणी सत्यघटनां लिखामि ।
एकदा निश्यात्मचिन्तनेऽहं रममाण आसम् । तदैको युवाऽऽगतवान् । 'सातं वर्तते' ! इति पृष्टं तेन ।
अहमुवाच- धर्मलाभः । कोऽस्ति ? स अवोचत् - किं न ज्ञातोऽहम् ? क्षणं विचिन्त्य, अहो ! त्वं ? कदा कुतश्चाऽऽगतः ? - इत्यहं पृष्ट्वान् । तेन सर्ववृत्तान्तः कथितः । क्षणं तूष्णीं स्थित्वा 'गुरुदेव !' किञ्चिद् !
H-------
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org