________________
श्री
स्थितिः । स्तब्धः खलु परिवेशः । शुन:शेपो मनसि सन्तापमनुभवन् व्याकुलः । व्याकुलता तस्य मुखे स्पष्टतया दृश्यते स्म । स्थितावस्यामादिकविरेकं श्लोकं लिखति ।
प्रायेण हि नरश्रेष्ठा, ज्येष्ठा पितृषु वल्लभाः ।
मातॄणां च कनीयांसस्तस्माद्रक्ष्ये कनीयसम् ॥ श्लोकेऽस्मिन् आदिकवेर्लोकमानसस्याऽभ्यासो दृश्यते । श्लोकोऽयमनुमोदयति मानसशास्त्रमपि । यथोक्तं मनोवैज्ञानिकेन एडलरेण-'व्यक्तित्वनिर्माणे जन्मक्रमोऽतीव महत्त्वपूर्णः । यथा ज्येष्ठमपत्यमाधिपत्ययुक्तं मानसं धारयति । सर्वेषु कनिष्ठः सामान्यतया प्रेमभाजनं भवति, अत एव तस्य मनः कोमलं भवति । स न सोढुं शक्नोति स्वल्पमपि दुःखम् । स्वल्पेनाऽपि दुःखेन स आकुलीभवति । अतस्तस्मिन् न दृश्यते विशेषतया स्वावलम्बित्वं स्वातन्त्र्यं वा। स पराश्रयी भवति । मध्यमो ज्येष्ठकनिष्ठयोर्मध्ये निवसति । अतो निराधार इव मन्यते स्वम् । स स्वाश्रयी कुशली च भवति' । एडलरस्याऽनेन मन्तव्येन सह वाल्मीकेरपि सामञ्जस्यं प्रतिभाति । एडलरात् बहुकालपूर्वमेव कथितमिदमादिकविना । अनेन सिद्धं भवति यदादिकविः कविना सह मनोवैज्ञानिकोऽप्यासीदेव। शौन:शेपोपाख्यानेऽस्मिन्नादिकवेर्मनोवैज्ञानिकरूपं समक्षमागच्छति ।
तत्पश्चादम्बरीषो मध्यमं शुन:शेपं गृहीत्वाऽगच्छत् । अग्रे शुन:शेपो विश्वामित्र-कृपयाऽस्माद् घोरसङ्कयत् विमुक्तो जातः ।
-
व्याख्यातुमेव केचित् कुशलाः शास्त्रं प्रयोक्तुमलमन्ये । उपनामयति करोडलं रसांस्तु जिदैव जानाति ॥
(सुभाषितरत्नभाण्डागारे)
%3
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org