SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आस्वाद: FACEHATI आदिकविवाल्मीकिः; कविः किं वा मनोवैज्ञानिक: 2 डॉ. महेश्वरः द्विवेदी ___ आसीत्पुरा ईक्ष्वाकुवंशजोऽम्बरीषो नामा नृपतिः । स एकदा यज्ञं कर्तुं निर्णीतवान् । यज्ञार्थमुपयोगिन्यनेकानि वस्तून्यानीय तेन पूर्वसज्जा कृता । तत्रैको यज्ञपशुरप्यानीतः । तत्पशुरप्यन्यैर्वस्तुभिः सह यज्ञशालायां रक्षितः । यजमानस्याऽम्बरीषस्याऽवधानात् तं यज्ञपशुं नीत्वा इन्द्रः पलायनमकरोत् । पशुमदृष्ट्वा पुरोहितो राज्ञेऽकथयत्- "राजन् ! यो राजा यज्ञपशुं रक्षितुं न शक्नोति तं राजानमनेके दोषा घ्नन्ति । यज्ञकर्मणः प्रारम्भपूर्वमेव पशुमानयस्व" इति । तच्छ्रुत्वाऽम्बरीष उद्विग्नो जातो 'विपत्तौ आपतितः' इति । पुनरप्यवदत् पुरोहितः- "यदि स एव यज्ञपशुः प्राप्तो न भवेत् तद्दन्यं पशुं प्रतिनिधिरूपेणाऽऽनयस्व । पशुनाऽन्येन यज्ञकर्म करिष्यामो वयम्" । यज्ञपशोरन्वेषणाय विविधान् देशानटितवानम्बरीषः । महता यत्नेनाऽपि पूर्वानीतो यज्ञपशुस्तु नैव मिलितः । तेन द्वितीयपशोरन्वेषणस्य विचारः कृतः । अन्वेषणं कुर्वन् पृथिवीमटन् स भृगुतुङ्गपर्वतमागतः । तत्र तेन सपरिवार ऋचीकनामा मुनिरुपविष्टो दृष्टः । तं मुनिं प्रणम्य राजाऽम्बरीषोऽवदत् - "अटितवानहमनेकान्भूभागान् यज्ञपश्वर्थम् । न लब्धः कुत्राऽपि यज्ञपशुः । अहं प्रार्थयामि यद् - भवान् भवतः पुत्रं विक्रीणातु यज्ञार्थम् । समुचितं मूल्यं गृहीत्वाऽप्येकं पुत्रं मे ददातु' इति । ज्येष्ठं पुत्रं शुन:पुच्छं स्वसमीपे निगृह्य ऋचीकेनोक्तम् – “पुत्रमिमं तु नैव दास्यामि केनाऽपि मूल्येन । यतः स मेऽतीवप्रियः । तच्छ्रुत्वा सहसैव ऋचीकस्य पत्नी तत्राऽऽगतवती । तयोक्तम्-कनिष्ठमिममहं न दास्यामि, स मेऽतीवप्रियः । ऋचीकस्य पुत्रत्रयमासीत् - शुन:पुच्छ:, शुन:शेप:, शुनकश्चेति । शुनःपुच्छ: पितृवल्लभः; शुनकश्च मातृवल्लभः । केवलो मध्यमः शुनःशेपोऽवशिष्टः । मुनिना VER शुनःपुच्छो गृहीतः, मुनिपल्या शुनकः । अम्बरीषो मुनिसमीपे उपविष्टः, ईदृशी / २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy