________________
अनुवादः ।
पक्षिपरिषत्र
मुनिकल्याणकीर्तिविजयः जगतो ज्ञाता अज्ञाताश्च पक्षिण एकत्र मिलिता एकदा । तेषां चर्चाया विषय | Wआसीद् यद्- 'जगत्यस्मिन् कोऽपि देशोऽराजको नाऽस्ति, केवलमस्माकं पक्षिणां न (9
1 कोऽपि शासिता विद्यते । परिस्थितिरियं नोचिता चिराय । अतोऽस्माभिर्यथाशीघ्रं प्रयत्नान् । | कृत्वा मृगयितव्योऽस्माकं राजा। अन्यथाऽस्माकं तन्त्रं सम्यक्तया कार्यरतं न भवेद्'
इति । \ सर्वेऽपि पक्षिणश्चिन्ताक्रान्ता आसन् यत् 'कथमस्माकं राजाऽस्मान् मिलेत् ?', एतदर्थं च सर्वेऽपि सर्वसामर्थ्येन प्रयतितुमुत्सुका उत्साहयुताश्चाऽऽसन् ।
अथ तान् चिन्तितान् दृष्ट्वा हुदहुद* - नाम्नी पक्षिणी तान् सम्बोधयितुं । ITA पर्षन्मध्यमागता । तस्या उरस्यध्यात्मज्ञानस्य रहस्यमयं प्रतीकमासीत्, मस्तके सत्यमयो मुकुट आसीत् । सा सत्यमनृतं शुभमशुभं चेति सर्वमपि जानाति स्म ।।
मधुरस्वरेण तयोक्तं, "बन्धवः ! अहमस्माकं राज्ञः स्थानं जानामि । किन्तु तत्र प्राप्तुमस्माकं राजविषयिकी हार्दिकी निष्ठाऽऽवश्यकी सर्वप्रथमतया। तत्स्थानं शोधयितुं | नैकानि गुप्तरहस्यानि ज्ञातव्यानि, तथैवोत्कटा श्रद्धाऽविचला धृतिरश्रान्तश्च परिश्रम जा आवश्यकाः । यदि भवन्त एतदर्थं सिद्धास्तदा कथयेयं भवद्भयो नो राज्ञो नाम तत्स्थानं च ।"
सर्वैरुक्तं, "वयं सिद्धाः स्मः ।" ।
सोक्तवती, "तर्हि शृण्वन्तु, अस्माकं राज्ञोऽभिधानं सीमुर्ग इत्यस्ति । स पृथिवीं A) सर्वतो वेष्टिते काफनामके पर्वते एकस्यां गुहायां निवसति । स जगतः सर्वेषामपि पक्षिणां IA
राजाऽस्ति । यद्यपि स सर्वदाऽस्माकं सन्निहितोऽस्ति तथाऽपि नः सामर्थ्याभावाद् वयं 0 ततोऽतीव दूराः स्मः । अस्माकं ज्ञानं तं ज्ञातुं तत्स्वरूपं वाऽवबोद्धं नैव समर्थम् । स्वीये
Hoopoe
३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org