SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्थानेऽपि स पूर्णतया न प्रकटीभवति, अतस्तत्प्रापणं तु कठिनमेव, परं तद्वर्णनमपि । दुष्करम् । सहस्रशो विहगास्तं प्राप्तुं प्रयतितवन्तः, सहस्रशश्च तदर्थमुत्कण्ठिताः, किन्तु बुधम्मन्याः पक्षिणोऽपि तं शोधयितुं तत्सौन्दर्यं वा प्राप्तुं नैव शक्ताः । तत्प्रापणायाऽऽदरणीयः प्रवासोऽप्यतिदी? दुर्गमश्च । तत्र प्रवसितुकामेन स्वजीवितमपि पणीकर्तव्यं, तस्य शोधने च कदाचिन्मरणमपि सम्मुखीकर्तव्यम् ।" "किन्तु, यदि वयं निष्ठापूर्वकं तस्य मार्गणे प्रयत्नरता भवेमस्तदा स स्वयमेवाऽस्माकं सम्मुखमागत्याऽस्मान् स्वस्थाने नेष्यति स्वतुल्यांश्च करिष्यति ।" हुदहुदपक्षिण्या एतानि वचनानि श्रुत्वा सर्वेऽपि पक्षिणो विषयमेनं परस्परं चर्चितवन्तः। सर्वेषां मनसि स्वनृपसंशोधनस्याऽभिलाष आसीत् । अतः प्रथमं तु सर्वैरपि- "वयं सीमुर्गं शोधयिष्यामहेऽवश्यं मृगयिष्यामहे" इत्यादि कलकलः कृतः । | किन्तु यदा भावावेशोऽपगतः परिस्थितेश्च भानमभवत् तदा सर्वेषां 'कठिनैषा यात्रा, दुष्करा दुःशका चेति प्रतिभातम् । अत एकैकोऽपि पक्षी तत्र गमनाय स्वीयानिच्छां दर्शयितुं विविधान् व्याजान् विमोचनहेतूंश्च कथयितुमारब्धवान् । सर्वप्रथममेव बुल्बुल आगतः । पञ्चमस्वरेण तेन स्ववृत्तकथनमारब्धम् । तस्य कण्ठान्माधुर्यप्रवाह एव निःसृत इव । प्रत्येकं शब्दः पूर्वतनाच्छब्दान्मधुरतरो नूतनानि च रहस्यान्युद्धाटयन्निव प्रत्यभात् । अनेन हृदयस्पर्शिमाधुर्यश्रवणेन सर्वेषां पक्षिणां कोलाहलः शान्तोऽभवत् । तेनोक्तं, "सुहृदः ! अस्मिञ्जगति प्रेम्णो रहस्यान्यहमेव जानामि । आरात्र्यहं प्रेमसङ्गीतस्य गानं करोमि । वंशादीनि वाद्यान्यपि मधुरतार्थं मामेवाऽऽश्रयन्ते । अन्यच्च, पाटलपुष्पाणि ममाऽतीव प्रियाणि । तेषु विहरनहं प्रेमिजनानां हृदयेषु व्याकुलतां जनयामि । विषादप्रेरकं मे प्रत्येकं गानं नूतनमेव रहस्यमुद्घाटयति । मम सङ्गीतेन विरहिजनानां हृदयेभ्यो निःश्वासानां सागर एव समुद्भवति । पण्डिता अपि मद्गानश्रवणेन प्रेमपरवशीभूय स्वबुद्धिमप्यवमन्यन्ते ।" ___ "किन्तु पाटलपुष्पं विनाऽहं वियोगीवैकलो जीवितुं नैव शक्तः । तदपश्यतो मत्तः सङ्गीतमेव न प्रकटति, प्रत्युत मम गानरहस्यानि विलीनीभवन्ति । ममाऽन्तःसत्त्वमस्तित्वं च पाटलपुष्पाणामस्तित्वे एव विद्यते । तैर्विना नाऽहं किमपि कर्तुं शक्तः । पाटलपुष्पाण्येव (9) ना मदर्थं पर्याप्तानि । यतस्तानि मत्कृते एव प्रोत्फुल्लन्ति । ततोऽप्यधिकं न किमप्याशासे। यतः प्रेमगानं पाटलपुष्पसन्निधिं च विना कथमहमेकदिनमपि जीवितुं शक्तो भवेयम् ? | अतो राज्ञः सीमुर्गस्य प्रापणाय यात्रां कर्तुं नाऽस्ति मे सामर्थ्यम् ।" ३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy