SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अङ्गुलीयकं त्वेकमेवाऽऽसीत्, कथं द्वे सञ्जाते ? - महेशः शुद्धि लब्धुं प्रयास कर प्रारब्धवान् । 'किमपि रहस्यं वर्ततेऽत्र । महेश ! ममेदमङ्गलीयकमेव वास्तविकम्'-मनोज उक्तवान् । 'नैव, यन्मम पार्वेऽस्ति तदेव सत्यम्' - महेश उवाच । 'अस्ति कोऽपि लेखो भवत्पावे ?' अनुजः पृष्टवान् । 'अस्त्येव' इत्युक्त्वा महेशो धनपेटकाद् लेखपत्रमानीतवान् । तत्र लिखितमासीत् । - 'अङ्गलीयकस्वीकारानन्तरं महेशेनैव सम्पत्तेविभजनं स्वीकृतम् । केवलं, पञ्च वर्षाणि He/यावदलीयकं न धारणीयमिति प्रतिज्ञातमासीत्' इति । ___किमेतद् ?' - उभयोरपि मनसि किमपि वञ्चनं जातमित्याशङ्का समुद्गता - Ka/कस्याऽङ्गुलीयकं वास्तविकम् ?' - इति । 'भ्रातर ! अरविन्दमहोदयेनैवाऽत्र किमपि चातुर्यं प्रयुक्तं दृश्यते । भवतु नाम, आवां सुवर्णकारमेते दर्शयावः । स च परीक्षणं कृत्वा सत्यासत्यं कथयिष्यति । पश्चात् । WW किं करणीयमिति वयं निर्णेष्यामः ।' - मनोज उक्तवान् । उभावपि धावन्तावेव सुवर्णकारस्याऽऽपणं गतवन्तौ । स च परिचित आसीदतः He स सर्वं तयोर्वृत्तान्तं श्रुतवान् । पश्चाद् द्वे अप्यङ्गलीयके हस्तयोर्गृहीत्वा क्षणं विचार्योक्तवान् । V - एतदङ्गलीयकं युवयोः पित्रा कारितम् । मयैवैतद् घटितम् । द्वितीयं चैतदङ्गलीयकमर विन्दमहोदयेन कारितम् । एतदपि मयैव घटितम् । अद्याऽपि तस्य पञ्चसहस्ररूप्यकाणामृणं \विद्यते' - इति । द्वे अप्यङ्गुलीयके सत्ये एव किल ? - तौ पृष्टवन्तौ । 'आम्' - सुवर्णकारः शिरो विधूय प्रत्युत्तरं दत्तवान् । तौ मन्दस्वरेण किञ्चिद् विचारितवन्तौ यद् - 'कदाचिदेवं स्याद् यदरविन्दमहोदयेन स्वर्णकार एष स्वपक्षीयः कृत स्यात् । तेन पूर्वमेवैवमनुमानं कृतं । स्याद् यद् यदा कदाचिदप्यावां सत्यासत्यपरीक्षणार्थमत्रैवाऽऽगमिष्यावः । अतः र Ca/परीक्षणीयोऽयमपि' - इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy