________________
NNN
आई राजन् ! चिराभ्यस्तेन क्षुण्णेन मार्गेण साधारणजना गच्छन्ति, ये स्वकीयं मार्ग आर निर्मातुमक्षमाऽज्ञा वा । परन्तु केसरिणः कवयः सत्पुरुषाश्च न प्रवर्तन्तेऽभ्यस्तवर्मना !
ते स्वकीयां सरणिं स्वयमेव विदधति । भवानपि कृष्णाया जीवनं मङ्गलमयं विधाय, 5 सैनिकविधवाञ्चैकां समुद्धृत्य नूतनसमाजसरणि निर्मातु । भवन्निर्मितेयमेव सरणिरन्येषां रकृतेऽनुकरणीया भविष्यति । यतो हि- 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत् और प्रमाणं कुरुते लोकस्तदनुवर्तत' इति श्रीमद्भगवद्गीता निर्दिशति ।
पितामह ! स्वश्रेष्ठत्वं चरितार्थयतु भवान् । पुनर्नवा जायेत भवदीया पौत्रीति मात्रमहं कामये । सर्वा अपि स्मृतयः, सर्वेऽपि महर्षयो विधवाविवाहं समर्थयन्ते । यथा वर्षाजलपरीवाहेनाऽपेयसलिलाऽपि वापी परमार्थतः शुध्यति राजन् तथैव प्रत्येकं रजोदर्शनेन नारी शुध्यतीति स्मृतयः समुपदिशन्ति । स्वयं-ब्रह्मर्षिवसिष्ठ एव कथयतितस्मान्निष्कलुषाः स्त्रियः । न स्त्री दुष्यति जारेणेति । स्त्रियो मेध्यास्तु सर्वत्र इति । पुनश्चाऽसौ ब्रवीति -
स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता । बलात्कारोपभुक्ता वा चोरहस्तगताऽपि वा ।। न त्याज्या दूषिता नारी नाऽस्यास्त्यागो विधीयते ।
पुष्पमासमुपासीत ऋतुकालेन शुध्यति ।।
राजन् ! धर्मलक्षणकारो ब्रह्मर्षिर्वसिष्ठस्तु प्रसङ्गान्तरे भूयोऽपि कथयति यत् श्री बलादपहृता मन्त्रविधिपूर्वकमपरिणीता कन्या कन्यैव भवति । अपहरणमात्रेण नाऽसौ दूषिता भवति । सा पुनरपि विधिना कस्मैचित्सुयोग्याय वराय देया ।
एवमेव, मन्त्रसंस्कृताऽपि अक्षतयोनिर्बाला, पाणिग्रहे मृते सति भूयोऽपि विवाहसंस्कारमर्हति
बलाच्चेत् प्रहृता कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिना देया यथा कन्या तथैव सा ॥ पाणिग्रहे मृते बाला केवलं मन्त्रसंस्कृता ।
सा चेदक्षतयोनिः स्यात् पुनः संस्कारमर्हति ॥ राजन् ! तिरोहितमिदं धर्मशास्त्रं प्रकाशयतु भवान्, प्रतिष्ठापयतु भवान् !
१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org