SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ • अज्ञानग्रस्तोऽयं भारतीयसमाजो, भविष्यति भवदधमर्णः । कियत्य एव दुःखदैन्यव्यथासागरनिमग्नाः कृष्णाः समुद्धृता भविष्यन्ति । वैधव्यमात्रं न भवति विधवाया नियतिः । तन्नियतिस्तु तत्सौभाग्यम् । तत्सौभाग्यसम्पादनायैव संरक्षकैः, स्वजनैः, कुटुम्बिभिर्लोकैश्च प्रयतनीयम् । एवंवादिनि महेश्वरानन्दे तूष्णीमुपगत एव पितामहः शान्तभावेन निजासनादुत्थाय तच्चरण- द्वयं स्वललाटेन स्पृष्टवान् प्रोवाच च गुरुवर्य ! नेदानीं क्वचिदन्यत्र गन्तव्यम् । कृष्णायाः सोमेन्द्रस्य च विवाहसंस्कारपूर्तिं यावदत्रैव भवद्भिः स्थातव्यम् । बिभेमि, पार्थ इव क्वचिन्मध्येमार्गं भूयोऽपि मोहविद्धो न भवेयम् । Jain Education International विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः । आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ [सुभाषितरत्नभाण्डागारे ] १०७ For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy