SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कदाचिद्विपणौ स्थितेन मया ताम्रलिप्तिनगरादागच्छन्नृषभदत्तनामा सार्थवाहो दृष्टः साधर्मिक वात्सल्याच्च मया स्वगृह आनाय्य सादरमुपचरितः । प्राभातिकं कृत्वा यदा भोजनायोपविष्टौ तदा परिवेषयन्तीं मम पुत्रीं स निर्निमेषं दृष्टवान् । तस्या विनय-व्यवहारनम्रतादीन् दृष्टवतस्तस्य मनः किञ्चिद् योजनामिव घटयदज्ञायि मया । यावता तं किमपि पृच्छेयम् - तावता स मामेव पृष्टवान् " महाशय ! एषा कस्य दुहिता ? " । मयोक्तं " ममैवाऽस्ति । परं भवानेवं कथं पश्यति ? " तदा च तेन मृदु हसित्वोक्तं “महाशय ! अन्यथा मा भावयतु । परं ममैको• पुत्रोऽस्ति । तस्य नामाऽस्ति वीरभद्र इत्यन्वर्थकम् । त्रिभुवनातिशायिनस्तस्य रूपस्याऽतिशायिनो : यदि स्युस्तर्हि केवलं तस्य गुणाः । स यथा देहकान्त्या तथा कलाभिरपि परानाह्लादयति । श्रेष्ठः सरलो विनयवांश्च स सुशीलोऽस्ति । अन्यच्च बन्धो ! द्वासप्तत्यामपि कलायां तु स प्रवीणोऽतिशायी चाऽस्त्येव । परमाश्चर्यं नाम सोऽनेकानि मन्त्राणि विद्याश्च जानाति । नैकप्रकारे ऐन्द्रजाले तस्य हस्तलाघवमपूर्वमस्ति । तस्य पार्श्वे नैकविधा गुटिका अपि सन्ति । सर्वविधेष्वपि कलाविज्ञानेषु तस्य कोविदता बुधानामप्याश्चर्यस्य हेतुभूताऽस्ति ।" स तु धाराप्रवाहवदस्खलन्प्रवहन्नेवाऽऽसीत् । अहं च तां धारां पीयूषवत्पिबन्नासम् । "बन्धो ! सोऽधुनाऽस्ति प्राप्तवयाः परं तस्य योग्यां कामपि कन्यामेतावता कालेन न दृष्टवान् । परमधुनाऽहं स्वात्मानं भाग्यशालिनं मन्ये । यतो मया तस्मै भवत एषा कन्यका समुचिता, योग्या च परिशीलिताऽस्ति । तर्हि भवानेव कथयतु यत्किमभिप्रैति भवान् " इति । तस्य कथनमिदं श्रुत्वाऽहं क्षणकालं तु हतप्रभ एव सञ्जातः । स यथा गुणवर्णनमकरोत्तथा तु वीरभद्रो मम पुत्र्याः कृतेऽत्यन्तं समुचित एवाऽऽसीत् । परं स कदाऽपि न दृष्टो मया । केवलं कस्माच्चित् श्रुतमात्रा वास्तविकता वा कीदृशी स्यात् ? मया तस्य नेत्रे प्रलोकिते । ते परमात्मविश्वासेन सम्पूर्णे आस्ताम् । वास्तविकतायाः समुद्रस्तयोर्विलसन्नज्ञायि । दम्भस्य मायाया वितथताया वा लेशोऽपि तत्र नाऽदृश्यत । मयाऽऽत्मनि धैर्यं प्रपूर्योक्तं - "यथा भवांस्तथैव भवतः पुत्रोऽपि स्यान्नाम" । तेनाऽपि किञ्चिद्विहस्योक्तं - "बन्धो ! तद्विषये चिन्ता माऽस्तु । यतोऽहं सुतरां जानामि यत्- केवलं बन्धनं यथा न स्यात्तथैव बद्धव्योऽस्माभिः । " तदा च तस्योदात्तेन स्वभावेन रञ्जितेन मयाऽपि भगवति श्रद्धां निधाय स सम्बन्धोऽनुमतः अहं ऋषभदत्तस्य व्यवहारेण "यथा पिता तथा पुत्रः" इति न्यायेन यद्यपि सन्तुष्ट एवाऽऽसम्, तथाऽपि पञ्चदशदिनाभ्यन्तर एव वीरभद्रः स्वयं यदा जन्ययात्रयाऽऽगतस्तदा तु • तांस्तस्य- उदात्तता-सुशीलता - कुलीनतादीन् गुणान् दृष्टवतो मम सन्तुष्टिश्चरमां कक्षां प्राप्नोत् मनसः कोणे स्थिता शङ्काऽपि सहसैव बहिर्निरगच्छत् । महता सन्तोषेण पुत्र जामातरं Jain Education International - ८२ For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy