________________
| रूपाणि विनक्ष्यन्ति । अत्राऽऽगतानां 'नाऽहं जीवामि' इत्यात्मनिवेदनं श्रेष्ठं भविष्यति।।
यो हि बिन्दूभूयाऽस्मिन् महासागरे सम्मास्यति सोऽनन्तकालं यावदत्रैव वत्स्यति ।
यद्यप्यत्राऽऽगतः प्रथमं लघुतां पराजयं चाऽनुभवेत् तथाऽपि यदाऽस्या अवस्थायाः जा चैतन्यं प्राप्य स नवसर्जनं ज्ञास्यति तदा सर्वाण्यपि रहस्यानि तत्समक्षं साक्षाद् भविष्यन्ति ।"
___"एताः सप्ताऽपि दर्योऽस्माभिरुल्लङ्घनीयाः । तदर्थं च प्रथममेवाऽस्माभिः साहसेनाऽपि प्रारब्धव्यमेव । यः प्रारभेत स एव पारं प्राप्नुयात् । ये प्रारम्भमेव न कुर्युस्ते
कथं वा मार्गगामिनो भवेयुः ? अतो मनो दृढीकृत्याऽस्माभिः प्रारब्धव्यं, सर्वसामर्थ्येन M) दर्य उल्लङ्घनीयाः सीमुर्गपार्वे च गन्तव्यम् ।"
हुदहुदकथितमिदं वर्णनं श्रुत्वैव बहूनां पक्षिणां शीर्षाण्यवनतानि । तेषां हृदयानि TI ग्लान्या भीत्या च भृतानि । केषाञ्चिच्च स्थगितानि । बहवस्तु तत्रैव मृताः । अन्ये केचन
मनो दृढीकृत्य ‘सर्वमपि सहिष्यामहे' इति निश्चित्य च यात्रार्थं निःसृता एव । नैकवर्षाणि यावत् तेषां यात्रा प्रवृत्ता यत्र तैर्बहवः पर्वता: समुद्रा दर्यश्चोल्लङ्घिताः । बहुशो दुःखानि
सोढानि । तद्वर्णनं तु कर्तुमेव न पार्यते । तदवबोद्धं तैः सह यात्राकरणमेवोचितम् । ON यद्यपि बहवः पक्षिणो हुदहुददर्शितमार्गेण प्रचलिता आसन् तथाऽपि प्रान्ते (0
त्रिंशदेव पक्षिणोऽन्तिमं लक्ष्यं साधयितुं समर्था बभूवुः । अन्ये तु मार्गे एव कुत्रचिद् विनष्टाः । तथैतेऽपि त्रिंशत् पक्षिणोऽतीव श्रान्ताः क्लान्ताश्छिन्नपक्षा व्याकुलाश्चाऽभवन् तथाऽपि पक्षिणां राज्ञः सीमुर्गस्य स्थान प्राप्याऽतीव हृष्टा जाताः । तत्रत्यः प्रकाशोऽगम्योऽचिन्त्यश्चाऽऽसीत् । ननु सहस्रशः सूर्याणां सम्मीलितः प्रकाशोऽपि तादृशो न स्यात् ! तं विलोक्य पक्षिणां मुखेभ्यः स्तुतयो निर्गताः,
"अहो ! सूर्यसहस्रेभ्यस्तेजसाऽधिक ! हे प्रभो ! ।
सूर्यस्त्वग्निकण इव भासते त्वत्पुरो 'विभो ! ॥" इत्यादयः । तावता द्वाराण्युद्धटितानि । राजदूत आगतः । पृष्टवांश्च, "सुहृदः ! कुत आगता 0 भवन्तः ? यं प्राप्तुं चाऽऽगतास्तस्मिन् विलयं प्राप्स्यथ वा तं दृष्ट्वा निवय॑थ वा?"
तदा प्रेमाग्निना तप्त्वा तेजस्विभूतैः पक्षिभिरुत्तरितं, "वयं त्वस्माकं परमात्मनि विलीयैकत्वं प्राप्तुमागताः स्मः ।"
ततो राजदूतेनेतोऽपि बहु परीक्षितास्ते । तत्रोत्तीर्णान् तान् विलोक्य च हृष्टेन तेन / तेऽन्तः प्रवेशिताः । अन्तश्चैकैकं कृत्वा सहस्रशो जवनिकाः क्रमशोऽपावृता राजदूतेन । 00 प्रत्येकं तासां पृष्ठतो नूतनं विश्वमासीत् । यावदन्तिमा जवनिकाऽपावृता तावत् तु सीमुर्गस्य
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org