________________
तस्याः कथनं सम्पूर्णमासीदस्माकं चोपस्थितानां समेषां नेत्राण्यश्रुपूरेण पूर्णान्यासन् प्रियदर्शना मम वक्षसि स्वमुखं हस्तयोर्विधाय रुदत्येवाऽऽसीत् । अहं रुदितवांस्तां च रुदतीं नैवाऽवरुद्धवान् । कानिचित् क्षणानि व्यतीतानि । मया प्रियपुत्र्याः शिरसि स्वहस्तः प्रेम्णा प्रसारितः । पश्चाच्चाऽवदं " यदा कोऽपि स्वधार्मिकता - नैतिकता- कुलीनतादिषु विषयेष्वाक्षेपं कुर्यात्तदा यानि मोचयितुमर्हाणि तान्यश्रूण्येतावत्यां क्षुद्रविपत्तौ मुञ्चती भवती श्राविकाया अश्रूणामुपरि कलङ्कं मा निधा वत्से !" इत्युक्त्वा स्वोत्तरीयेण तस्या अश्रूणि मार्जितवान् । तस्याश्च मुखं दृष्ट्वा - "वत्से ! त्वं तु जिनधर्मकोविदाऽसि । कर्मग्रन्थकुशलाऽसि । सतीजनचरित्राणि बहुधा श्रुतपूर्विण्यसि । अद्य परं तेषां समेषां परीक्षाकालः । यद्येवं धैर्यच्युति करिष्यसि तदा सर्वज्ञशास्त्रे नीलिमा लगिष्यति वत्से !" ममाऽपि तैस्तैर्वचनैः सा स्वस्था धीरा च सञ्जाता । मया सहसा स्मृतं, तस्यै च कथितम् " अन्यच्च पुत्रि ! एषु दिनेष्वस्माकं वसतौ " सुव्रता " गणिनी महता परिकरेण समवसृताऽस्ति । वत्से ! त्वमपि तस्याः सेवायां धर्माचरणे चाऽहर्निशं निरता तिष्ठ | धर्मस्य प्रभावेणैव भवत्या आपत्तिर्निर्मूलाऽवश्यं भविष्यत्येव" । सा शान्तोपशान्ता सर्वदुःखं विस्मृत्य धर्माचरणे मग्ना तिष्ठति । भगवंस्तस्या अत्राऽऽगतायाः षण्मासा अद्य समाप्ताः । मया बहुधा शुद्धिः कारिता । परं काऽपि मम जामातुः प्रवृत्तिर्नैवोपलब्धवानस्म्यहम् । अन्यच्च भगवन् ! तेन सागरदत्तेन वामनमङ्गुल्या निर्दिशता' कथितं - "एषो वामनो मम जामातुः कथां जानाति परं स स्पष्टं न वदति- मयाऽस्य ग्रहणाय मम पुत्रो धनदो नियुक्तः परं तच्छक्यमेव नाऽभूत् कदाचिदपि ।" पश्चात् क्षणं मौनं स्थित्वा पश्चाच्च सागरदत्तेन पुनः कथितं "भगवन्तः ! अनन्यशरण्यस्य तर्हि मे भवानेव शरणमस्तु मम दुःखं शान्तयतु, कृपया जामातुः प्रवृत्तिं सत्यां कथयित्वा । "
"
पर्षत्सर्वाऽपि स्तब्धाऽऽसीत् । सर्वेषां दृष्टिः प्रश्नकरम्बिता कदाचिद्वामने कदाचिच्च . कुम्भगणधरे निपतति स्म । तदा च भगवानपि कुम्भगणी हसन्मुखं वामनं दृष्टिक्षेपेण • पवित्रयित्वा स्वकथनमारभत । " श्रेष्ठिन् ! स भवतो जामाता न सामान्यः, अपि त्वसामान्यशक्तिशाली । यत्र च शक्तिर्विद्यते तत्र महत्वाकाङ्क्षाः सहसोद्गच्छन्त्येव । सागर !: भवतो जामातुर्विषयेऽप्येवमेव किञ्चिद्धटितम् । तस्यां रात्रौ तव जामाता वीरभद्रः शय्योपरि सुप्तोऽप्यन्निद्र आसीत् । काचिन्महती विचारविद्युत् तस्य निद्रामवरुन्धानाऽऽसीत् । स विचारयति स्म “अहं कलानां पारगामी । बहुमन्त्रतन्त्रविद्यागुटिकादयो मम सिद्धाः । सर्वविधेषु विज्ञानेषु • पारगाम्यहम् । सर्वप्रकारेष्विन्द्रजालेषु मम मेधाऽद्वितीया । कर्ममात्रेऽहं समर्थतरः । परं ते सर्वे विद्यामन्त्रगुटिकाः, कलाविज्ञानं, कर्मकोविदता, इन्द्रजालं वा निरर्थकान्येव । यतस्तेभ्यो मम न कोऽपि लाभः । अपि चाऽहं तेषामुपयोगेन जनान् रञ्जयितुमपि न शक्नोमि । अत्र किन्तु •
1
Jain Education International
८४
For Private & Personal Use Only
www.jainelibrary.org