SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ foreveryoppyrmyppyrry repreveryपयाण अतः परीक्ष्य कर्तव्यं, विशेषात्संगतं रहः ।। अज्ञातहृदयेष्वेवं, वैरीभवति सौहृदम् ॥ राजा अयि भोः ! किमत्रभवतीप्रत्ययादेवाऽस्मान् संयुतदोषाक्षरैः क्षिणुथ ? शारिवः (सासूयम्) श्रुतं भवद्भिरधरोत्तरम् । राजा भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसन्धाय लभ्यते ? शारवः विनिपातः । राजा विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् । शारद्वतः शारव ! किमुत्तरेण ? अनुष्ठितो गुरोः सन्देशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति) तदेषा भवतः कान्ता, त्यज वैनां गृहाण वा । उपपन्ना हि दारेषु, प्रभुता सर्वतोमुखी । गौतमि ! गच्छाग्रतः । (इति प्रस्थिताः ।) सउन्दला कहं इमिणा किदवेण विप्पलद्ध म्हि ? तुम्हे वि मं परिच्चअह ? (इदि अणुगच्छदि ।) गौतमी वच्छ संगरव ! अणुगच्छदि इअं क्खु णो करुणपरिदेविणी सउन्दला । पच्चादेसपरुसे भत्तुणि किं वा मे पुत्तिआ करेदु ? शारिवः (सरोषं निवृत्य) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे ? तिष्ठ पतिकुले, अत्र दास्यमपि तवोचितम् । साधयामो वयम् । राजा भोस्तपस्विन् ! किमत्रभवती विप्रलभसे ? शार्ङ्गरवः यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः ? (गच्छति) (पुरोहितं प्रति) भवन्तमेवाऽत्र गुरुलाघवं पृच्छामि । मूढः स्यामहमेषा वा, वन्मिथ्येति संशये । दारत्यागी भवाम्याहो, परस्त्रीस्पर्शपांसुलः ।। राजा १२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy