SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ | मदर्थं सर्वस्वम् । तथा, राज्ञां प्रतीक्षा तेषां मृगयार्थं च पशु-पक्षिणां मार्गणमेव मम । जीवनस्य परमलक्ष्ये । तत एव च सुखमनुभवाम्यहम् ।" । एतन्निशम्य विचारशीलदृक्पातपूर्व हुदहुदपक्षिण्युक्तवती, "भो दास्यव्यसनिन् ! (0) भवान् बाह्यरूपेषु सक्तो भूत्वाऽऽन्तरमूल्यान्युपेक्षमाणो दृश्यते । सीमुर्गस्य सत्ता निःसीमाऽप्रतिरूपा च । किन्तु स सर्वथा दयालुः सत्यतया च राजाऽस्ति । सत्यश्च राजा कदाऽपि स्वीयसङ्कल्पशक्तेर्मूर्खवद् दुरुपयोगं नैव कुरुते । किन्त्वेते पार्थिवा राजानो हि कदाचिन्न्यायिनः प्रायशश्चाऽन्यायिनो भवन्ति । तन्निकटे वसतां जनानां दशा हि नितरां शोचनीया भवति । तेषां सदाऽपि जीवितव्यापायो भवति, ततश्च तैः प्रतिपदं राज्ञो A मानसमनुवर्तितुं प्रयतनीयं भवति । तेषां वृत्ती राज्ञां कृपामेवाऽवलम्बते। राजा हि 15 वह्नितुल्यः । ततो दूरे एव वासो वरः । समीपं गतानां स यदा कदाऽपि दाहयत्येव ।" IS ___ "एकं प्रसङ्गं श्रावयामि । 'एकस्य राज्ञ एकः सेवक आसीत् । स रूपवान् दृढकायश्च । राज्ञस्तस्मिन् बहु स्नेह आसीत् । स सदा तं स्वपार्वे एव स्थापयति स्म । क्षणमात्रं चाऽपि तस्य वियोगं सोढुमशक्तश्च । राज्ञा तस्मै सुन्दरवसनानि दत्तवानासीत् । । पर्षदि च तं स्वसन्निधावेवोपवेशयति स्म ।' 'अथो राजा शराभ्यासव्यसन्यासीत् । एनं सेवकं स एकत्रोपस्थाप्य तन्मस्तकोपरि EAN च फलं स्थापयित्वा तद्वेधनेन शरक्षेपणाभ्यासं करोति स्म । यदाऽपि स बाणं मुञ्चति स्म तदाऽस्य सेवकस्य मुखं विवर्णं भवति स्म हृदयं च स्पन्दनाद् भ्रश्यति स्म । यदा च बाणं लक्ष्यं विध्यति स्म तदैवाऽसौ मनोनिर्वृतिमनुभवति स्म । तस्येदृशी चिन्ताचान्तां परिस्थितिं दृष्ट्वा मित्रेणैकेन पृष्टः स कथितवान्, “यदा राजा लक्ष्याच्च्युतो भवति तदा ममैवाऽपयशो, निन्दा मरणचिन्ता च । यदि च स लक्ष्यं साधयति तदा तस्यैव प्रशंसा यशोवादश्च । अतो ममैकैवेच्छा सदा भवति यद् राज्ञो लक्ष्यं सिध्यतु" इति ।' एवं चाऽरे - श्येन ! दास्यव्यसनिनां दशेदृश्येव भवति ।" । अथ च त्वरया सारसोऽग्रे आगतः । आगतमात्रेणाऽपि तेन स्वकथनमारब्धम्, "अरे वयस्या ! अहं समुद्रतटे शैवलखचितायां भूमौ निवसामि । स्वभावतोऽनाक्रमक्रस्य विहगस्य मम विषये कस्यचिदपि न काऽप्यापत्तिरस्ति । किन्तु ममैवैतद् दुर्भाग्यं यदहमेकल एव विषादयुतस्तस्यां क्षारमय्यां पृथ्व्यां तिष्ठन् सदा मधुरजलेच्छया पीडितो भवामि । अहं हि सामुद्रपक्षी नाऽस्मि, तथाऽपि समुद्रतट एवाऽऽमरणं मे निवासः । सामुद्रं जलं सर्वदैव मे पदस्पृगेव वर्तते तथाऽपि तद्विन्दुमात्रमपि नैव पिबाम्यहम् । एवं | सत्यपि समुद्रे मम तथा स्नेहो यथा, तत एकोऽपि बिन्दुर्यधुच्छल्य बहिर्निपतेत् तदा ।। - - ४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy