________________
'ग्रन्थसमीक्षा
छOOD
DESIOSE ॥ श्रीकृष्णचन्द्राष्टकम्
समीक्षकः डा. रूपनारायणपाण्डेयः
ग्रन्थकारः - श्रीकेवलरामः । सम्पादकः - श्रीगोस्वामी गोकुलनाथः । प्रकाशकम् - श्रीगोवर्धनेश-प्रकाशनमण्डलम् (मुम्बापुरी) । प्रशासकः - श्रीबिपिनभाई शाह, विपणिसंख्या ४१, प्रथम भोईवाड,
श्रीगोकुलनाथजी महाराजलेन, मुम्बई-४००००२ ।
पृ. सं. २४१, प्रथमसंस्करणम् - वि.सं. २०६२, निःशुल्कवितरणार्थम् । वैदिकसंहितासु भगवतः श्रीकृष्णस्य चरितं वर्ण्यते - इति मन्त्रभागवते शुक्लयजुर्वेदस्य करपात्रभाष्ये च यथास्थलं प्रतिपाद्यते । पुराणेषु महाभारते च भगवतः श्रीकृष्णस्य स्तुतयो विराजन्ते । भगवता शङ्कराचार्येणाऽन्यैश्चाऽऽचार्यवर्यैर्विद्वद्भिश्च भगवान् श्रीकृष्णो रम्यैः स्तोत्रैः संस्तूयते । इमां स्तुतिपरम्परां संवर्धयता श्रीगङ्गारामतनयकेवलरामेण श्रीकृष्णचन्द्राष्टकं प्रणीतम् ।
____ लघुकायग्रन्थेऽस्मिन् अष्ट पद्यानि सन्ति । ग्रन्थस्य सम्यग् बोधाय समेषां पद्यानां सरलार्थः संस्कृतेन गोस्वामिना गोकुलनाथेनाऽयोज्यत । ग्रन्थान्ते 'वेदवेदेभचन्द्रेऽब्दे माधवे | सप्तमीकुजे । शुक्ले पक्षे तुर्ययामे दिनस्याऽजनि चाऽष्टकम् ।।' इति श्लोकाद् ग्रन्थस्य रचना | १८४४ तमे विक्रमाब्देऽभूदिति ज्ञायते । मालिनीवृत्ते विरचितस्याऽस्य स्तोत्रस्य कर्ता श्रीकेवलरामः क आसीदिति विषये किमपि न ज्ञायते । अत्र विद्वांसो विचारयन्तु ।
श्रीकृष्णचन्द्राष्टकं नितरां रम्यं स्तोत्रमस्ति । स्तोत्रेऽस्मिन् भगवतः श्रीकृष्णस्य समग्रं चरितं दिङ्मात्रेण प्रस्तूयते । एकं पद्यं द्रष्टव्यम् ।
"द्विपपरिवृढदन्तं यः समुत्पाट्य सान्तं सदसि परिभवन्तं लीलया हन्त सन्तम् ।
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org