SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ त.................................................. .................... : मिलिष्यामो मधुयामिन्यामेव।" इत्युक्त्वा तस्या मुखमेव निरीक्षमाणो निर्गच्छति स्म । साऽपि: : द्वारि तिष्ठन्ती यावदृष्टि तं दृष्टवती । पश्चात्सत्वरं गृहमागत्य स्वमातुः सर्वमवितथं कथितवती ।। वदति स्म च "यदि न मे स भर्ता तदाऽग्निरेव मम पति" इति । साऽपि तन्माता महाराजायः कथयति स्म -राजाऽपि विचारयति “प्रियमेव वैद्यैन सूचितमिदम् । विधे ! शतं धन्यवादा: भवते-" इति विचार्य - "प्रिये ! एवमेव भविष्यति" इत्युक्त्वा सत्वरं सम्प्रेष्य शङ्खमामन्त्रयति: स्म । शङ्खश्चाऽऽगतो राज्ञा स्वपुत्र्या वीरभद्रेण सह विवाहार्थं प्रार्थितः । 'समानानामेव: सम्बन्धः' इति कृत्वा सोऽनङ्गीकारमदर्शयत् । तदा राज्ञा सनिर्बन्धमाज्ञापितः स सज्जीभूतः ।। ततः पञ्चदशदिनाभ्यन्तर एव विवाहो निश्चितोऽभवत् । विवाहोत्सवे सकलं पुरं मग्नमानन्दसागरे । महति विस्तीर्णे मण्डपके तयोविवाह:: : संवृत्तः। प्रवृत्तानि तारामेलकादीनि । हर्षिताः सर्वे आगताः शङ्खश्रेष्ठिहर्म्य । प्रवृत्ता : गृहोचितकल्पाः । विजृम्भिता रात्रिः । व्यतीता द्वयोरपि सा परस्परं विश्रब्धयोः । __ अन्यान्यपि कानिचन दिनान्येवं व्यतीतानि । वीरभद्रेण च सा जिनधर्मरता कृता ।: अन्यान्येषु पटेषु देवं गुरुमर्हत्प्रतिमादींश्चतुर्विधमपि च सङ्घ विलिख्य तां परिचायितवान् सः । अथाऽन्यदा स्वदेशगमनाय स राजानमापृष्टवान् । तदा रुदन्सोऽप्यनुमतिं ददाति स्म।: वीरभद्रः सर्वं सन्नाह्य विनयवतीं द्रष्टुं गच्छति स्म । सा तु रुदत्येवाऽऽलिङ्गति स्म तम् । तदा: सोऽपि ललाटे तां चुम्बित्वाऽनुशास्य चाऽगच्छत् समुद्रकूले । प्रवहणारूढः स स्वपत्न्या सह गतवान् । ___ रत्नपुरं सर्वं तद्दिने रिक्तीभूय वेलाकुलमागतवदासीत् । नृप-शङ्ख श्रेष्ठि-श्रेष्ठिनी-: विनयवत्यादयश्च सर्वेषामग्रे स्थिता आसन् । वीरभद्रः सपत्नीको गृहीत्वा गुरूणामाशीर्वाद,: प्रेम्णा सम्भाष्य विनयवत्यादिकैः, अभिवाद्य च सकलं नगरं पोतमध्ये प्रविष्टः । पोता:: प्रवाहस्पर्धया समुद्रे प्रवहन्ति स्म । वीरभद्रः सपरिवारो हस्तं चालयन्सर्वेषां राजादिकनगरजनानाम-: भिवादान्गृह्णनने प्रस्थितः । अद्य यात्रायास्तृतीयो दिवस आसीत् । वीरभद्रः प्रातरुत्थाय क्षितिजं पश्यन्कस्मिंश्चिद्: बहिःस्थित आसन उपविष्टे आसीत् । तस्य मुखं दृष्ट्वा भाति स्म यदद्य स कस्याञ्चिद्ः विचारधारायां गभीरं निमग्न आसीत्- "यदा मासद्वयपूर्वमत्र रत्नपुरेऽहमागतवानासं तदा मे का: स्थितिरासीत् ? सर्वथाऽनाथवदनाश्रय आसमहम् । तातकल्पेन श्रेष्ठिना मह्यमाश्रयो दत्तः ।: भद्रादेवी तु मातरमेव विस्मारितवती । सा च प्रेममयी विनयवती मम स्वसुरपि समाधिकाऽऽसीत्": - इति । अकस्मात् तस्य मुखे उद्वेगरेखाऽङ्किता । . . . . . . . . . . . . . . . . . . . . ९० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy