SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ . . . . . . . . . . ................................................ "कृतकोऽपि यः सम्बन्धो बद्धस्तस्य वियोगोऽपि कियान्दुस्सहो भवति । यदि वाऽहं: महान्कृतघ्नः । मयोपकारिणः श्रेष्ठिनः प्रत्युपकृतं न । तां विनयवतीमपि सन्तुष्टां नैवाऽकरवम् ।। किञ्चिदिव न्यूनं कृत्वैवाऽऽगतोऽहं" इति विचार्य तस्योद्वेगो वर्धते स्म ।। "तहि किमधुना यानानि निवर्तयानि ? पुनस्तत्र गच्छानि ? श्रेष्ठिनमानन्दयानि ?: विनयवतीं रुदती निवारयाणि ? यत्-स्वसः ! तव भ्राता त्वत्तोऽवियुक्त एव सर्वदा स्थास्यति?": इति । आवेगोद्रेकेण स आसनादुत्थितः क्षितिजं यदा सूर्यनारायणोऽवगाढस्तदा तस्य हृदयमपिः विवेकप्रकाशेन पूर्णं जातम् । "न, नैव । अहमस्मि पुरुषः । भावप्रधानता पुंसां न शोभते । यतः पुंसा कर्तव्यप्रधानेन: भवितव्यम् । अन्यच्च परमगुरवः कथयन्ति यत् - संयोगा अनित्याः । सर्वमनित्यं विनश्वरं: च। केवलं मनुष्यस्य कर्तव्यमेकमेव शश्वद् । अन्यत्तु सर्वमचिरकालभावि, नश्वरं गत्वर-: मशाश्वतं च ।" तस्यैतेऽन्तःस्थध्वनय आकाशं व्याप्नुवन्ति स्म । “सर्वमशश्वत्" "सर्वमित्वरं" इति: तस्य ध्वनेः प्रतिध्वनितं कुर्वदिवाऽऽकाशं मैघेराच्छादितमभवत् । उच्चैर्मेघा अगर्जन् ।। पञ्चषक्षणाभ्यन्तरे तु सा काऽपि विषमता वायुमण्डलेऽतर्किताऽभवद् ययाऽकस्मादेव महताः वातेन सह वृष्टिरारब्धा । जनाः सर्वे भीताः । वीरभद्रस्य तु मनसि सैव चिन्तनधाराऽविरतं. प्रचलति स्म - "सर्वमनित्यं सर्वमशश्वत्" । वृष्टेर्वेगो वर्धते स्म । तत्स्पर्धया च वायुरपि महता: रंहसा वाति स्म । कूपपटा यानानां संकीर्ण्यते स्म । स्तम्भा नीचैरवतार्यन्ते स्म । वायोस्तु वेगो: वर्धमान एवाऽऽस्ते स्म । यानपात्रमुच्चैः कम्पते स्म । अन्ततो निर्यामका विलक्षीभूयोच्चैरुद्घोषणं: कुर्वन्ति स्म यत् "जनाः सर्वे स्व-स्वाराध्यदेवं स्मरन्तु । यतो यानस्य सञ्चालनं: नाऽस्मदधीनमधुना । कस्मिन्नपि क्षणे तत् स्फुटितं भविष्यति ।" सर्वे उद्वेगपूर्णाः कान्दिशीका: अजायन्त । एतस्मिन्नवसरेऽनुद्विग्नो निष्प्रकम्पश्चाऽऽसीत् स वीरभद्र: "सर्वमित्वरं सर्वमशश्वत्": इति विचारयन् । अनङ्गसुन्दर्यादयस्तु शयनादुत्थापिता एव नाऽऽसन् । यावता जनाः स्वप्राभातिकं: समापयेयुस्तत्पूर्वं बोहित्थमेव प्राभातिकं समापयन्निवोच्चैः सशब्दं च स्फुटितमभवत् । क्षणकालं. कोलाहलः सर्वत्र प्रासरत् । अनेके जले निमग्ना जाता मृताश्च ।। इतश्चाऽनङ्गसुन्दरी कुतश्चन किञ्चित्पोतफलकं प्राप्य पञ्चभिरहोरात्रैः समुद्रमतिवादै-: कस्मिन्ननाकुले द्वीपप्रदेशे प्राप्ता । किञ्चित्कालानन्तरं शुद्धि प्राप्ता सा रोदनमेवाऽऽरब्धवती ।। क्षणात्स्वस्थीभूय सा स्मृतवती "आर्यपुत्रेण मम कथितमासीत् यत् - यदा कोऽपि न: सहायस्तदा पञ्चनमस्कारस्ते सहायो भविष्यति" । अद्य यद्यपि नाऽस्ति ममाऽर्यपुत्रो मम पार्वे: किं तावता? नमस्कारो मे शरणं भवतु" इति विचार्य शुद्धमनस्का नमस्कारं पठन्ती तिष्ठति: . . . . . . . . . . . . . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy