SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ एतादृश एव ख्यातनाम्नि कुटुम्बे रूपसौन्दर्यशीलसमुदाचारसम्पन्ना सुरबालोपमविग्रहा कृष्णाऽपि सञ्जाता। पितामह्योपलालिता, जनन्या प्रशिक्षिता, तिसृभि तृजायाभिश्च नितरामनुरञ्जिता कृष्णा द्वादशकक्षां यावत् शिक्षामवाप्नोद् ग्रामपरिसरस्थ बार एव विद्यालये । तावदेव परिणयसन्दर्भस्तस्याः समधिकशिक्षाग्रहणे प्रत्यवायभूतः । ॐ नाऽसौ विश्वविद्यालयं द्रष्टुमशकत् । द्वादशकक्षोत्तीर्णैवाऽसौ परिणीता जाता । तावता कालेन, विवाहसमकालमेव परिणीतायाः श्वसुरालयगमनं न भवति स्म । प्रथमं तावत्परिणयमात्रं, पश्चाच्च वधूवयोदृष्ट्या प्रथमे, तृतीये, पञ्चमे वा वर्षे तस्याः पतिगृहगमनं सम्भवति स्म । एवं हि विवाहो, गमनं, द्विरागमनं, चिरागमनञ्चेति कश्चिल्लोकानुमोदितक्रमो वध्वाः श्वसुरालययात्रायाः प्रतिष्ठित आसीत् । इमामेव लोकरीतिमनुपालयन् भवानीसिंहोऽपि कन्यां सद्यः परिणीतां वर्षानन्तरं पतिगृहे सम्प्रेषयितुं संकल्पितवान् । परन्तु नियतिनटी किञ्चिदन्यदेव चिन्तयति स्म। शुक्लपक्षीया चन्द्रकलेवोत्तरोत्तरं वृद्धिमुपगच्छन्ती कृष्णायाः सौभाग्यलेखा, पर्वणि परां काष्ठामवाप्याऽपि प्रतिपद्यपरेधुरेव क्षीणतामुपगता, अमायाञ्च परमार्थत एव विलीनाऽनन्ततमसि । कृष्णायाः पतिरकस्मादेव राजमार्गदुर्घटनायामाहतः सन् मस्तिष्काघातवशादचेतनः सन् न भूयोऽपि चैतन्यमवाप । दुर्घटनातः पञ्चदश एव दिवसेऽसौ, सर्वान् वारणोपायान् भिषजां वितथीकुर्वन्, कृष्णायाश्चाऽपि सीमन्तारुणलेखां न केशकालिम्नि गूढं गूहयन् कुटुम्बिनश्च सर्वान् विपदम्भोनिधौ मज्जयन् दिवङ्गतः । उभावपि कुटुम्बौ विपत्सागरे निमग्नौ । देवविग्रहरहिता मन्दिरगर्भगुहेव * सञ्जाता कृष्णा । कं नु स्मृत्वाऽसौ विलपेत् ? यत्कृते विलपनीयं, वराकी तं न छ सम्यक्तया दृष्टवती । हा हन्त, देवचरणार्पणात्प्रागेव पुष्पमाला कर्दमे निपत्य मलीमसा जाता ? कर्मानुष्ठानात् प्रागेव गोमयोपलिप्ता पूजाभूमिः कोलदलसञ्चङ्क्रमणैरपवित्रा को ARE जाता ? धवप्राप्तेः पूर्वमेव वैधव्यम् ? भावशून्यं जातं कृष्णाया जीवनम् । प्रायेणाऽसौ स्वशयनकक्ष एव निरुद्धा Ka तिष्ठति स्म । न पितामहीमुपेत्य तदनुभवान् प्राक्तनानुच्चावचान् श्रोतुमुपक्रमते स्म, न भ्रातृजायाभिः सार्धं महानसकलरवं विदधाति स्म, न चाऽपि जनन्याः पार्श्वमुपैति स्म । गृहेऽपरा काऽपि समवयस्का सख्यपि नाऽसीद्या तस्या मनोभावान् विदाङ्कर्यात् । - १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy