SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ भवन्तमितोऽपक्रष्टुमलम् । किञ्च, यस्य मुखं निर्मलं व्यवहारश्च शुद्धस्तत्कृत एव जलं LI हितकारि। यदि भवानपि तादृश एव तदा न मयाऽस्ति किमपि वक्तव्यम् । परन्तु / भवानाजीवनमपि तादृश एव स्थातुं शक्तो वा ?, इति चिन्तय सम्यक् " इत्येवं हुदहुदपक्षिण्या उपालब्धः सः ।। ततो मन्दमन्दं चलन् चकोरोऽग्रे आगतः । तद्व्यक्तित्वं चारुतयाऽऽत्मसन्तोषेण च शोभमानमासीत् । तस्याऽरुणवणे वस्त्रे मुक्तानां निधिरिव निहित आसीत् । रक्तवर्णाभ्यां नयनाभ्यां तादृशवर्णया च ग्रीवयोन्नतं मस्तकं धारयन् स स्वीयकोशे खड्गं वोवा तत्राऽऽगतः । लज्जालुतया तेन स्वग्रीवोर्वीकृता कथितं च, "बन्धवः ! गिरिगह्वरेषु / भ्रमणमेव मे रोचते । रत्नसङ्ग्रहणं मेऽभिरुचिः । रत्नैर्मम हृदये सार्वदिकोऽग्निः (9) प्रज्वालितोऽस्ति । यश्च मेऽतीव सन्तोषावहः । किञ्च, यदा मेऽन्तःकरणे कामनाग्निर्जागर्ति - तदा ये रत्नोपला मया गिलितास्तेऽपि शोणितेन सिक्ता इव रक्तवर्णा भवन्ति । बहुशोऽहं स्वमुभयो रत्नाग्न्योर्मध्ये पिष्यमाणं निष्क्रियमुद्विग्नं च पश्यामि । पश्यन्तु सुहृदः ! कथमहं जीवामि । ये पाषाणेषु शेरते कर्करांश्च खादन्ति तेषां जागरणं नाऽस्ति सुकरम् !" "मम हृदयं हि विषादशतैर्वणितमस्ति यतो महार्घाणां रत्नानामभिलाषो गिरिमालासु मां भ्रामयति । यतोऽन्येषां सामान्यवस्तूनामभिलाषो हि क्षणिकः, रत्नानां साम्राज्यं तु सनातनम् । शाश्वतानां गिरिकन्दराणां नि:ष्यन्दं तत् । इह जगति रत्नेभ्योऽप्यधिकमूल्यं ID नाऽस्ति किञ्चिद् वस्तु । मुक्ता अपि तत्कोटि नैव प्राप्नुवन्ति । अत एव कटिपढें खड्गं च धारयन्नहं सर्वदा रत्नान्येव मृगयमाणो भ्राम्यामि । एवं च मे पादौ रत्नेषु कर्दम इव संश्लिष्टौ, सीमुर्गप्राप्तेश्च मार्गोऽतिविकटोऽस्ति । तत्कथमहं तदर्थं साहसं कुर्याम् ? अहं | महार्घरत्नान्येव मृगयमाणो मरिष्ये। एवं च ममाऽऽभिजात्यं स्पष्टमेव । ये च मे जीवनस्याऽऽदर्शान् नाऽवबुध्यन्ते तेषां जीवनं तुच्छम् ।" तदा मस्तकं विधुन्वती हुदहुदपक्षिणी तं प्रत्युत्तरितवती, "भो पक्षिन् ! भवान् यद्यपि नैकवर्णानि रत्नानि धारयति तथाऽपि परेव भवान् । भवतस्तर्का अपि युक्तिहीनाः । भवतश्चित्तं कामनाभिर्विकृतं जातमस्ति । रत्नानां मार्गणमेव भवतोऽधोगतिः । किञ्च, रत्नानि हि तावत् वर्णमया उपलखण्डा एव । यदि तत्र वर्णा न स्युस्तदा तु तेऽपि सामान्याः प्रस्तरा एव । तथाऽपि तेषामासक्तिर्भवन्तं मूढं भवतो हृदयं च कठोरं करोति ।" "तथा, यः स्वयमेव सु-वर्णः स्यात् स कथं वा वर्णानामन्वेषणे मूढो भवेन्ननु ? - KI यश्चाऽन्तःसारधारकः स बाह्यरूपेषु कदाचिद् विमुह्येत् किल? अतो भवांस्तेषां पाषाणानां ) || मोहं त्यक्त्वा सत्यस्याऽऽन्तररत्नस्याऽन्वेषको भूयाः । तदेव भवते श्रेयस्करं भावि ।" | ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521019
Book TitleNandanvan Kalpataru 2007 00 SrNo 19
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2007
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy