________________
| | गाढमैत्र्यमासीत् । एतस्मादेव कारणादहं स्वर्गान्निष्कासितो विश्वासपदाच्च भ्रंशितः ।" ।।
"अथ पृथ्व्यामागतस्य मे पादावेव मदर्थं कारायितौ । अतः प्रत्यहमहं कञ्चिद् (/ देवदूतं प्रतीक्षे यो मामिहत्यादन्धतमस उन्नीय प्रकाशस्य महाप्रासादे स्थापयेत् । भवदुक्तस्य
राज्ञः समीपेऽपि गन्तुं नाऽहमिच्छामि । तस्योद्यानस्य द्वारमपि प्राप्नुयामहं तदाऽप्यलम् । किञ्च, पृथिव्याः स्वर्गे वस्तुकामा मादृशाः कथं वा सीमुर्गं प्राप्नुयुः ? मम परमाभिलाषस्तु स्वर्गजीवनस्यैवाऽस्ति, अन्यत् सर्वमपि मदर्थं निरर्थकमेव !!"
तदुक्तं निशम्य हुदहुदपक्षिणी स्थैर्येणोक्तवती, "भोः ! भवान् कुमार्ग प्रस्थितोऽस्ति । | स्वर्गादपीह नो राज्ञो महालयोऽत्यधिकं सुन्दरोऽस्ति । आत्मनः शाश्वतं निवासस्थानं स । एव । अस्माकं मनोरथानां परमास्पदं हृदयस्यैकैव महत्त्वाकाङ्क्षा च तस्य सत्पदस्य प्राप्तिरेव स्यात् । तत्पदं हि विराटसागर इव समस्ति । तदने स्वर्गसुखानि तु बिन्दूयते। । सागर एव यदा सुप्रापस्तदा किमर्थं वा तुषारकणस्य कृते तपः कर्तव्यम् ? यः सूर्यस्याऽनन्तरहस्यानां सहभागी स धूलिकणैः कथं वा रमेत ? पूर्णत्वापेक्षी किं कदाऽपि अल्पैरंशैः प्रीणितो भवेन्ननु ! यदि भवान् पूर्णीभवितुमिच्छेत् तदा पूर्णमेवाऽभिलषस्व, पूर्णमेव मृगयस्व पूर्णमेव च प्राप्नुहि ।"
तावता पक्षिकदम्बकमध्याद् भीतभीत इव कादम्बो बहिरागतः । तच्छरीरं TA श्वेतकन्थया विभूषितमासीत् । पर्षन्मध्यमागत्य स उक्तवान्, "सुहदः ! मत्तोऽपि सुन्दरतरो
निर्मलतरश्च पक्षी भवद्भिदृष्ट एव न स्यात् । प्रतिक्षणं जीवनस्य मलं वारिणा क्षालयन्
जले एव च निवसन्नहं जले प्रार्थनाया आस्तरणमेव प्रसारयामि । को वा पक्षी एवंरीत्या || जले निवसेत् ? तथा, जलवासेनैव मयाऽन्येभ्यो विलक्षणा शक्तिरपि प्राप्ताऽस्ति । | मादृशः स्पष्टदृक् स्वच्छवेषः शुद्धमूलः सदाऽनुतापी च पक्षी नाऽन्यः कोऽपि प्राप्येत ।"
"किन्तु सलिलादप्यन्यत् किञ्चिदपि मदर्थं कल्याणकारि नैवाऽस्ति । मम निर्वाहो वासश्च जले एव । यदा काश्चनाऽपि बाधा मां पीडयन्ति तदा जलसाहाय्येनैव ताः दूरीकर्तुं समर्थोऽहम् । यत्र चाऽहं वसामि तज्जलमपि स्वच्छमेव भवति । परं शुष्का पृथिवी मे नैव रोचते । यतोऽत्र जगति जलस्यैव प्रभावाज्जीवन्ति सर्वेऽपि जन्तवः । अतो भवन्त एव कथयन्तु, कथं वाऽहं तादृशं जलं त्यक्त्वा विषमा दरीरुल्लचितुं सीमुर्गं च
प्राप्तुं शक्नुयाम् ? का वाऽऽवश्यकता मम तादृशमायासयितुम् ? अहं तु वारितले एव ना जीवामि तेनैव च सन्तुष्टोऽस्मि सन्तृप्तश्च ।"
तदा, "समग्रं जीवनं जलवासस्याऽऽनन्दमनुभवन्नरे पक्षिन् ! जलवासेन भवान् | अलसत्वं प्राप्य तन्द्रारतः सञ्जातोऽस्ति । किन्तु भवतोऽतिप्रियस्य जलस्यैक एव कल्लोल |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org