________________
.
.
.
.
.
.
.
.
..................................................
तदा रत्नप्रभा वदति स्म- "प्रियतम ! एष तु वीतरागस्तीर्थंकरो जिनदेवः । सर्वासामपि: देवतानां परमः श्रेष्ठः प्रथमश्च । अन्ये सर्वेऽपि समोहाः किन्त्वेष मोहातीतो वीतरागः सर्वज्ञः: सर्वसमर्थः शाश्वतानन्दे लीनश्च । प्रिय ! एष एवाऽऽराध्यो ध्येयो वा" ।
"तदा तस्या जिनधर्मैकतानतां दृष्ट्वा रञ्जितमनस्को वीरभद्रो न किमप्यवदत् । केवलं: मधुरेण हास्येन तदभिमुखं पश्यंस्तिष्ठति स्म । अथाऽन्यदा स तामकथयत्-"भद्रे ! चलत्वद्य: दक्षिणभरते क्रीडितुं गच्छावः" । द्वावपि विद्यया पद्मिनीखण्डपत्तने सुव्रतासाध्व्याः प्रतिश्रय-: बहिरागतौ । तत्र गत्वा
"प्रिये ! क्षणकालं तिष्ठ । अहमाचम्याऽऽगच्छामि" - इत्युक्त्वा वीरभद्रः किञ्चिद्: दूरं गत्वा पुनः प्रत्यागतः । किन्तुं निलीय तद्रक्षणार्थं तत्रैव स्थितः । सा तं द्रष्टुं न पारयति: स्म । बहुकालं यावत् तं प्रतीक्ष्याऽन्ते सा उच्चस्तरां रोदनमारब्धवती- "प्रिय ! क्वाऽधुनाः गतोऽसि । मा मां पीडय । प्रत्यक्षो भव" इत्येतांस्तस्या रोदनशब्दान् श्रुत्वा सुव्रतागणिनी. करुणार्द्रा मध्यरात्रेऽपि प्रतिश्रयस्य द्वारमुद्घाटयति स्म । तां च सान्त्वयित्वा स्ववृत्तान्तं पृच्छति: स्म । साऽपि यथातथं कथयति स्म । तदा गणिन्युक्तवती
__ "भद्रे ! नितरां श्रान्ताऽस्वस्था च दृश्यसे । आगच्छ, प्रतिश्रयान्तर्विरामं कुरु": इत्युक्त्वा च सुव्रतागणिनी तामन्तर्नयति स्म । तदा वीरभद्रोऽपि समुचिते स्थाने गतां तां विज्ञायः ततश्चलति स्म । स वामनस्य रूपं करोति स्म । तत्रैव च पद्मिनीखण्डपुरे भ्रमति स्म । जनान्: विस्मापयन्नुल्लासयंश्च ।
इतः प्रियदर्शनानङ्गसुन्दौँ रत्नप्रभामपृच्छतां यत् - 'भवत्या आर्यपुत्रः कीदृशः' ?: इति । साऽपि कथयति स्म । तदा प्रियदर्शना वदति स्म- "केवलं बुद्धदास इत्यभिधैव: विसंवदति मे भर्तुः।"
अनङ्गसुन्दर्यपि - "बुद्धदास इत्यभिधा शुक्लश्च वर्णो विसंवादी" इति वदति स्म ।:
तास्त्रयोऽपि शील-स्वाध्याय-सेवामग्नाः प्रतिश्रये सुखसुखं कालं यापयन्ति स्म । अन्तराऽन्तरा स वामनोऽपि ता दृष्ट्वा चित्तेऽत्यन्तमानन्दसन्दोहं प्राप्नोति स्म । विचारयति स्मः च- "मम पत्न्यो न केवलं लावण्यवत्यः, किंतु शीलसलिलसम्पूर्णा अपि !"
इतश्च तासां त्रयाणामपि विशुद्धशीलपालनं नगरे सर्वत्र चर्चाया विषयो जात आसीत् ।। सा च वार्ता प्रसरन्ती राजकुले प्रविशति स्म । सर्वे सभासदः कथयन्ति स्म राज्ञे - "ताभिः ।। शीलसमाधिवतीभिः सम्भाषयितुमपि न क्षमः कोऽपि पुरुषः ।" राजा विस्मयगर्ने पतितः ।। तावतैव स वामनो विजृम्भते स्म राजसमक्षमुपस्थितो भूत्वा- "महाराज ! अहं शपथं गृह्णामि: यत्ता भाषयिष्यामि" इति । स मायावामनः कतिपयै राजपुरुषैः सह तत्र प्रतिश्रये आगच्छति:
.
९४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org