________________
'क्षणे क्षणे यन्त्रवतामुपैति, तदेव रूपं रमणीयतायाः ।
Jain Education International
इतीरिता या विबुधैर्हि व्याख्या, बिभर्ति तामेष गिरिर्नु साक्षात् ॥५॥ ( उपजातिः)
सहकारवृक्षैर्विलसत्पताकं,
तुङ्गैश्व शृङ्गैः शुचिछत्रयुक्तम् । श्री नेमिनाथस्य निषीदनार्थं,
सिंहासनं शैलमयं चकास्ति ॥ ६ ॥ ( उपजातिः)
सोपानानां पतित्राऽस्ति रम्या, सङ्ख्याचितैरङ्गिता तत्र तत्र । घट्टे घट्टे विद्यते ह्यापणालिः,
श्रान्ताद्यर्थे खाद्य-पेयादिकानाम् ॥७॥ ( शालिनी)
जिनालयानां च सुरम्यश्रेणिविराजते शैलशिरः प्रवेणी |
तत्राऽस्ति मुख्यं पृथुमण्डपं च, श्रीनेमिनाथस्य मनोज्ञचैत्यम् ॥ ८ ॥ ( उपजातिः)
श्रीनेमिनाथः कीदृश: ? जना: प्राहुः
सहइ एत्थ खु णेमिजिणेसरो, विमलकज्जलसामलविग्गहो । असियसिंधुजलंमि दिवायरो,
aणु णिमज्जिय झत्ति समागओ ॥९॥ ( द्रुतविलम्बितम्)
१०
For Private & Personal Use Only
www.jainelibrary.org