________________
।
__ "श्वसुरोऽस्मभ्यमेवैतद् दातुमुत्सुक आसीत् । अस्माकं गुरुग्रहः प्रबलोऽस्त्यत एतस्य धारणं फलवज्जायते' इति तस्याऽभिप्राय आसीत्" - इति अनुजस्य पत्नी
|
|
कथितवती।
'नैव नैव' - ज्येष्ठा वधूजितवती- 'गुरुग्रहोऽस्माकं प्रतिकूलो वर्ततेऽतः । TO 'एतद् युष्माकं कृत एव निर्मितमस्ति । अस्य धारणेन ग्रहोऽनुकूलो भविष्यति' - इति
तस्याऽऽशय आसीत् । एवं च कथितमपि तेन ।" Hel पत्न्योर्हस्तक्षेपेण विवादो वक्रो जातः । द्वे अपि पत्न्यौ स्व-स्वपतिमुद्दिश्यVg "भवानेव मन्दस्वभावः । अन्यथा कथमेवं भवेत् ? सम्पत्तिं विभक्तुमत्रोपविष्टोऽस्ति ।
- भवान्, न संसारं त्यक्तुम्" - इति सरोषमुपालम्भं दत्तवत्यौ । शरो लक्ष्यं विद्धवान् । | उभावपि भ्रातरौ सहैव निर्णयं प्रकटितवन्तौ - 'प्रथममङ्गलीयकस्य निर्णयो भवतु, । र पश्चादन्यत् किमपि । अन्यथा न्यायालय एव मार्गः' - इति ।
"भ्रातरौ ! न्यायालयस्याऽऽश्रयेण न कस्याऽपि लाभो जातः । आद्वारपालाद् ! न्यायाधीशपर्यन्तं सर्वेभ्योऽधिकारिभ्यो यद् देयं भवति तत्रैव महान् व्ययो भवति । म
अन्यच्च, भवन्तौ न्यायालयं गतवन्तौ श्रुत्वैव सर्वेऽपि स्व-स्वधनं प्रतिग्रहीतुमागमिष्यन्ति । Wएवं च सत्यामपि सम्पत्तौ निर्धनौ भविष्यतः " - इत्यरविन्दमहोदयः सस्नेहं बोधितवान् ।
न किन्तु - ‘एवं व्यर्थं मा भापयतु भवानस्मान् । एवं कृते यदि वयं निर्धना भविष्यामः, - G/नाऽस्ति चिन्ता । किन्तु प्रथमं त्वङ्गलीयकस्यैव निर्णयो भवतु' - इति द्वे अपि पत्न्यो NW प्रतिज्ञामिव वाक्यमुच्चारितवत्यौ । एवं च विवादो विकटः सञ्जातः । कोऽपि निर्णयो /
दुष्करो जातः । अथ किं करणीयम् ? 'श्वो निर्णयं करिष्यामः' इत्युक्त्वा अरविन्दमहोदयः Ka स्वगृहं गतवान् । पश्चाच्च- 'दीपावलिपर्व यावत् किमपि समाधानं करिष्यामी'ति
कालक्षेपं कृतवान् । तावन्तं कालं प्रतीक्षितुं सम्मतावपि तौ स्वकीयनिर्णये दृढावेवाऽऽस्ताम् । Cat दीपावलिपर्व सन्निहितमासीत् । 'किं समाधानं भविष्यती'ति प्रातिवेशिकNIW मित्र-स्वजना-दिवर्गेऽपि कुतूहलमासीत् । किन्तु, अरविन्दमहोदयेन तथा कार्यं कृतं । न तथा च सम्पत्तिविभक्ता येन समीचीनं समाधानं जातम् । अल्पं वाऽधिकं वा यत्किमपि र Ne/ प्राप्तं तेनोभावपि सन्तुष्टावेवाऽऽस्ताम् । एतेन च सर्वेऽप्यन्ये जना आश्चर्यमनुभूतवन्तः ।
उभयोरपि भ्रात्रोः कृते 'अरविन्दमहोदयः पूज्य आदरणीयश्च सञ्जातः । सुखेन का Ka/कालो व्यत्येति स्म । व्यापारोऽप्युभयोवृद्धिं गतः । एवमेव पञ्च वर्षाणि व्यतीतानि ।। I WW दीपावलिदिवस आगतः । अनुजो ज्येष्ठं प्रणन्तुं गन्तुं सज्जोऽभूत् । तदा तस्य पत्नी तं /
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org