________________
च न्यासरूपेण प्रदत्तां धनराशिं ग्रहीतुमुद्युक्ता भविष्यन्ति " - इति विचिन्त्याऽनन्यगतिकतया धनव्ययं कृतवन्तौ । तदनु च शीघ्रमेव जनेभ्यः सकाशाद् ऋणरूपेणाऽवशिष्टं धनं प्रतिग्रहीतुं प्रवृत्तावभूताम् । लघुभ्राता यत्र गच्छेत् तत्र कश्चित् स्वल्पमेव धनं ददाति कश्चित् पुनः प्रत्यर्पणं निषिध्यत्यपि । किन्तु, 'लघुभ्राताऽसौ यदपि धनमधमर्णेभ्यः / प्राप्यते तस्मादर्धं तु स्वायत्तं करोति, अर्धं च 'प्रत्यर्पणेऽसमर्थ:' इति कृत्वा तमधमर्णमृणमुक्तं करोति' इति रहस्यं ज्येष्ठेन भ्रात्रा कथमपि लब्धम् । सोऽप्येतादृशीं 'युक्ति प्रयोक्तुमारब्धवान् । किन्तु किञ्चिद् विचारयतस्तस्य प्रतिभातं यद् - 'यद्येवमेव प्रवयवस्तर्हि सोऽधमर्ण एव लाभान्वितो भविष्यति, आवां च हानिं प्राप्स्यावः । इतः परं यदपि धनमवशिष्टमस्ति तच्च सहभूयैव गृहीत्वा विभजनीयम्' । एवं विचार्याऽनिच्छन्नपि स लघुभ्रातरं निमन्त्र्य गृहमाहूतवान् । सोऽपि कुपित एवाऽऽसीत् । आगमनेन सहैव स स्वकीयमन्तः प्रज्वलितं कोपाग्नि प्रकटितवान् - 'हुं... ! चतुरा मम भ्रातृजाया ! चातुर्येण च तया स्वगृहपोषणमारब्धं किल ! भ्रातर् ! यद्यपि नाऽहं / वक्तुमिच्छामि किन्तु भवान् मुखेऽङ्गुलिं प्रक्षिप्य मां वक्तुं विवशं करोति, अतः कथयामि यद्-भवतः कृते स्वकीयभ्रातुरपि पत्न्या भ्राताऽधिकं स्नेहभाजनं वर्तते । अतोऽधुनैव सम्पत्तिर्विभज्या' इति ।
'भवतु, किन्त्वस्माकं पितुरन्तिमेच्छानुसारेण पितृव्यतुल्यः श्रीअरविन्दमहोदय 'आकारणीयः । स एवैतद् विभजनं करोतु नाम' इति ज्येष्ठभ्राता महेश उक्तवान् ।
न नैव । तृतीयस्याऽन्यस्य कस्यचिदपि नाऽस्त्यावश्यकता । आवामेवैतत् करिष्यावः । गृहगुह्यमिदं तृतीयं नाऽवगच्छेत् तदेवोचितमपि' मनोजो विरोधं प्रकटितवान् ।
एवं निर्णीय द्वावेव सम्पत्ति विभक्तुमुपविष्टौ । किन्तु पञ्च दशनिमेषानन्तरमेव , कलह उत्थितः । अन्ततोगत्वा श्रीअरविन्दमहोदयस्याऽऽकारणमनिवार्यं प्रतिभातं तयोः । 'अतो निमन्त्रणं प्रेषितवन्तौ तौ । झटित्येव स गृहमागतवान् । पुनश्च सम्पत्तेर्विभागकार्यं प्रचलितम् । कदाचिज्ज्येष्ठ एवं विचारयति यद् - एनं मनोजमनुजं मत्वा तस्मायधिकं / ददात्यसौ ।' कदाचिच्च मनोज एवं विचारयति यद्- 'ज्येष्ठोऽयमिति कृत्वा तस्य मर्यादामतिक्रमितुमशक्तो ममाऽन्यायं करोति ।' एवं सत्यपि विभागकार्यं बहुलं सम्पन्नं जातम् । केवलमेकस्याऽङ्गुलीयकस्य कृते द्वावपि भ्रातरौ हठाग्रहं प्रदर्शितवन्तौ । पञ्चविंशतिसहस्रं तस्य मूल्यमासीत्, जात्येन च पुष्परागरत्नेन खचितमासीत् तत् ।
Jain Education International
६३
For Private & Personal Use Only
www.jainelibrary.org