Page #1
--------------------------------------------------------------------------
________________
महोपाध्यायवर्यश्रीभानचंद्र - सिद्धिचन्द्रगणिभ्यां
विरचितया टीकया परिमंडिता महाकविबाणभट्ट - तदपत्यभूषणभट्टविनिर्मिता।
कादम्बरी
-: सम्पादयिता :पूज्य-मुनिराजश्रीहितवर्धनविजयमहाराजः
-: प्रकाशक :कुसुम - अमृत ट्रस्ट – वापी
Page #2
--------------------------------------------------------------------------
________________
॥ जय सव्वण्णू सासण ॥ ॥ नमामि नित्यं गुरुरामचन्द्रम् ॥
जगद्गुरु - श्रीहीरविजयसूरीश्वरसाम्राज्यवर्तिभ्याम्, शाही श्री अकब्बरजलालुद्दीन - सम्मानिताऽङ्घ्रियुगलाभ्याम्, जैनोपाध्याय - श्रीमद्भानुचन्द्र- सिद्धिचन्द्रगणिवराभ्याम् समुद्भुतया टीकया परिमण्डिता महाकवि बाणभट्ट - तदपत्य- भूषणभट्ट विनिर्मिता
कादम्बरी
॥ उत्तरभागः ॥
सपादक
व्याख्यानवाचस्पति - देवद्रव्यादिधर्मद्रव्यसंरक्षक पूज्यपाद -
• परमगुरुदेव आ. भ. श्री. वि. रामचन्द्रसूरीश्वराणां पट्टालङ्कार - परमशासनप्रभावक -
पू. आ. भ. श्री. वि. नयवर्धनसूरीश्वराणां कृपापात्रशिष्यरत्न, अध्यात्मनिधि, पूज्यगुरुदेव -
मुनिराजश्रीभव्यवर्धनविजयमहाराज्ञां विनेयरत्न- पूज्यगुरुदेव - मुनिश्रीमङ्गलवर्धनविजयमहाराज्ञां शिष्याणुः
मुनिहितवर्धनविजयः
प्रकाशक
कुसुम अमृत ट्रस्ट
शांतिनगर, अलकापुरी, वापी (वेस्ट) - ३९६१९१.
2
Page #3
--------------------------------------------------------------------------
________________
નામ
ભાષા
ગ્રંથના વર્ગો
પૂર્વખંડના સર્જક
ઉત્તરખંડના સર્જક
મૂળકાવ્યનો નિર્માણ સમય
પૂર્વખંડ પર વૃત્તિનું સર્જન
ઉત્તરખંડ પર વૃત્તિનું સર્જન વૃત્તિરચનાનો સમય પ્રથમમુદ્રિત પ્રતિનું સંશોધન
પૂર્વાવૃત્તિ (આઠમી) પ્રકાશન
પૂર્વપ્રકાશક
નવ્યાવૃત્તિ પ્રકાશન
પ્રતિ
મૂલ્ય
સૂચના
પ્રાપ્તિસ્થાન
મુદ્રક
: વ્યાવશ્ર્વરી - ધવદ્ય.
: સંસ્કૃત.
:
૧ અને ૨ / પૂર્વખંડ અને ઉત્તરખંડ.
: મહાકવિ બાણભટ્ટ.
ગ્રંથ પરિચય
: બાણભટ્ટ પુત્ર - ભૂષણભટ્ટ.
: ઈસુની ૭મી શતાબ્દીનો મધ્યયુગ. મહોપાધ્યાય ભાનુચંદ્ર ગણિવર.
: મહોપાધ્યાય સિધ્ધિચંદ્ર ગણિવર.
:
:
:
:
વિક્રમના ૧૭મા શતકનો ઉત્તરભાગ.
કાશિનાથ પાંડુરંગ પરબ આદિ વિદ્વગણ દ્વારા.
સન્ ૧૯૪૦,
નિર્ણય સાગર પ્રેસ - મુંબઈ.
: અષાઢ સુદ બીજી છઠ્ઠ, બુધવાર, ૧૩-૭-૨૦૦૫
: ૫૫૦ સેટ
: રૂા. ૩૬૫/- (બંને ભાગના )
: પ્રસ્તુત ગ્રંથરત્નના બન્નેય ભાગોનું પ્રકાશન જ્ઞાનદ્રવ્ય દ્વારા કરવામાં આવ્યું છે. આથી સ્વાધ્યાયેચ્છુ મુમુક્ષુવર્ગે ગ્રંથ વસાવવો હોય તો ઉપર લખ્યા મુજબનું સંપૂર્ણ મૂલ્ય જ્ઞાન દ્રવ્યમાં ભરપાઈ કરવું અને ગ્રંથનો કેવળ વાંચનાર્થે ઉપયોગ કરવો હોય તો યોગ્ય નકરો જ્ઞાન દ્રવ્યમાં નોંધાવી દેવો. પૂ. સાધુ-સાધ્વીજી ભગવંતોને તેમજ ભારતભરના જ્ઞાનભંડારોને પ્રસ્તુત ગ્રંથરત્ન સાદર સમર્પિત કરવામાં આવશે.
: કુસુમ અમૃત ટ્રસ્ટ
શાંતિનગર, અલકાપુરી, વાપી (વેસ્ટ) - ૩૯૬ ૧૯૧.
Tejas Printers
403, Vimal Vihar Apartment, 22, Saraswati Society, Nr. Jain Merchant Soc., Paldi, Ahmedabad - 380 007. Ph. : (079) 26601045
Page #4
--------------------------------------------------------------------------
________________
आशीर्वचनम्
ભાદરવા વદ બીજી નોમ - ૨૦૬૦
વલ્લભવિદ્યાનગર (ગુજરાત)
બહુગુણ સંપન્ન, વિદ્વાન મુનિ શ્રી હિતવર્ધનવિજયજી...
તમારો પત્ર મળ્યો. તમો વિશ્વરી મહાકાવ્ય ઉપર વીશહજાર શ્લોક પ્રમાણ મહોપાધ્યાય શ્રીભાનુચંદ્ર - સિધ્ધિચંદ્ર ગણિવર વિરચિત અપ્રાપ્ય ગ્રંથ (વૃત્તિ)નું સંપાદન કાર્ય કરો છો, તેમાં મારા આશીર્વચન છે, આશીર્વાદ છે, અભિવાદન છે.
આવી શ્રુત ભક્તિ ખૂબ-ખૂબ કરો એજ એક અભ્યર્થના.
अना२RI UP मनु
પ્રભાકરસૂરિની સાદર અનુવંદના
समर्पणम्
महोपाध्याय-श्रीभानुचन्द्र - सिद्धिचन्द्र गणिवरौ ! भवद्भ्यामसामान्याऽऽश्चर्यश्रेणिविरचिता,
यथा* भगवती सरस्वती निजजिह्वाग्रे निमन्त्रिता । * नृपतिद्वयी स्वकीयक्रमकमले भृङ्गायिता । * देवाङ्गनानिर्जिताहोरूपराजिः समग्राङ्गेऽवतारिता । * जगद्गुरुश्रीहीरविजयसूरीणां साम्राज्यं स्वीयप्रतिभया धवलीकृतम् । * महाकाव्येषु प्राप्ताग्रपङ्क्तिः कादम्बरी वृत्तिविनिर्माणेन समलङ्कृता ।
है कृपावन्तौ भगवन्तौ ! भवदीयकरकमलयोरर्पयामीमा नवसंपादितां सवृत्ति कादम्बरीम्
- संपादयिता
Page #5
--------------------------------------------------------------------------
________________
| लसल्लालित्यराजिः कादम्बरी
कोशशतसंघीकृतक्लिष्ट शब्दसंस्तरतया चातिशयपृथुलपदावलीतया च सुकुमारमतीनां प्रस्वेदजननीयं कादम्बरी लसल्लालित्यराजिः कविचूडामणिना बाणभट्टेन परिकल्पिता काव्यगात्रेषु पिण्डीकृता च ।
मन्दमतीनां मतेरगोचराऽप्यसौ विदुषां चित्तरञ्जनाय रचितशपथैवाऽऽभाति । कल्पनाधरणीसमुद्गतापीयं पाठकहृदयं विकसद्वास्तवव स्पृशति । कविद्वयेन परिपूर्णीकृताऽप्येषा यावदान्तिम्यं प्रथमपदाद् रसैकतानतां बिभर्ति । एवं प्रत्यक्षाश्चमत्कृतयः, प्रगटा विरोधाद्य लङ्कारसंततिः, विद्वद्विनोदननन्दितजन्मन्यां कादम्बर्याम् ।
नाऽत्र छन्दसां बाधा, नाडत्र व्यस्तपदसमारचनसंश्रमः, भूरि रसप्राचूर्यम्, स्फूर्तिमती प्रतिपादन शैलिः, नावीन्यमयी प्रस्तावपद्धती, रुचिरं कथावस्तु, गद्यात्मकः प्रबन्धः, परम-प्रौढिमा च शब्दार्थयोः, एवमत्र गणनातीतगुणगणा विराजन्ते ।
प्रद्योतयत्पाण्डित्यमरीचिना कविना बाणभट्टेन प्रारब्धाऽसौ कादम्बरी तदपत्यभूषणभट्टेन समापितेति विश्वासार्हा वृद्धोक्तिः । काव्यगुम्फनक्रियां प्रारभ्य मध्य एव महाकविर्दिवंगतः । तत्पश्चात् तादृशसामर्थ्यविधुरेणाऽपि भूषणभट्टेनाऽवशिष्टा कथा तात भक्त्या - नुसन्धिता ।
विबुधसंप्रदायः बाणपुत्रं 'भूषणभट्ट' इति नाम्ना परिचाययति किन्त्वस्मिन् विषये पौर्वात्येषु ग्रन्थेषु मतान्तरा अप्यवलोक्यन्ते । तिलकमञ्जरीरचयित्रा धनपालेन बाणपुत्रः 'पुलिन्द' इत्यभिधया परिचायितः । अन्ये 'पुलिन' इत्याह्वमपि प्रचारयन्ति । अस्तु. नैतन्निर्णेतुं नोऽभिरुचिः ।
ख्रिष्टीयकालगणनासु प्रायः सप्तमशताब्द्याः मध्ययुगो महाकवेर्बाणस्य कर्मसमयः । राजाहर्षवर्धनो बाणेन साकं परां मैत्रीमदधत् । बाणविनिर्मिता कादम्बरी पञ्चसु महाकाव्येषु लब्धाऽस्पदा । दण्डी सुबन्धुश्च बाणस्य पुरोयायिनौ, एतौ द्वावपि गद्यकवी प्रतिभाभारभू बभूवतुः । तदनुयायी कविवतंसोबाणोऽपूर्वगद्यप्रबन्धनिर्माणेन स्फूर्जत्प्रतिभया च द्वावपि पुरोगामिनौ विजित्य साहित्यसृष्टौ परां निषद्यां लेभे ।
बाणोद्भुतायां कादम्बर्यां बह्व्यो वृत्तयः निरीक्ष्यन्ते, तासु प्राथम्यं जैनोपाध्याययुगलविनिर्मितायाः टीकायाः । महोपाध्याययुगोऽसौ शाही श्री अकब्बर-जलालुद्दीननरेश्वरसमर्पित-'जगद्गुरु' बिरुदशालिनां, जिनशासनशिरोमुकुटानां, पूज्यपाद-हीरविजयसूरीश्वराणां कृपापात्रता मलप्सीद् । नाम्ना श्रीभानुचन्द्र - सिद्धिचन्द्रगणिवरौ, सहस्रशो जनसमूहैर्निसेवितचरणौ, पृथुलविद्याधनौ, निर्वर्तितमन्मथरुपगर्वी,. साक्षात्कन्दर्परुपौ, समासादितब्राह्मीप्रसादौ, स्वकीयचातुरीपटाच्छादितदिशान्तौ, निधूतपरमतवादिमदरजसौ बाणग्रथितां कादम्बरीमवलम्ब्य सुसमृद्धां वृत्तिं निरमीमाताम् ।
अहो, आकस्मिकीय घटना!, यथा कादम्बरीग्रथनकाले कृतिमसमाप्यैव बाणभट्टोयमसाद्भूतस्तथाऽकब्बरनृपानुरोधाद् वृत्तिमिमामारब्धवान् भगवान् भानुचन्द्रमहोपाध्यायवर्थोऽपि वृत्तावपूर्णायां कालसाज्जातः । बाणान्वयेन भूषणभट्टेन यथाऽवशिष्टा कादम्बरी परिपूर्णतामिता तथाऽवशिष्टामेतां वृत्तिं भगवद्भानुचन्द्रगणिवराणां विनेयवरः सुगृहीतनामधेयो महोपाध्याय श्रीमत्सिद्धिचन्द्रगणी पारितवान् । निर्मातृद्वन्द्वतायारेवं यथामूलं वृत्तावप्यनुवृत्तिः ।
Page #6
--------------------------------------------------------------------------
________________
टीकाकर्तारौ शाहिद्वयेन सम्मानितौ । प्रथम अकब्बरजलालुद्दीनेन तदनन्तरं तदनुयायिना शाहिजहांगीरेण महोपाध्यायश्री भानुचन्द्रसिद्धिचन्द्रयोरुपदेशः शिरोधारितः । शाहिद्वयशासने वृत्त्या निर्माणमतोऽनुमीयते विवृत्त्याः समुद्भवसमयः विक्रमसंवत्सरस्य सप्ताधिकदशमशताब्या मध्ययुगः । एषा वृत्तिःशब्दवैविध्यरसिकेभ्यो वरदानरुपा, मूलस्य नैकोऽपि शब्दः टीकाविधात्रा पर्यायप्रगटनप्रक्रियायामुपेक्षाविषयीकृतः । भारतीयेषु शिक्षाप्रणालीषु बहुश्लोकतामिता कादम्बरी नानुपलब्धा न चाऽप्रचारिता किन्तु तदुपर्याः प्राय आदिमाया एतवृत्त्या आयुःक्षये समुपस्थित उभयासामपि प्रकाशनोपक्रम वयमङ्गीकृतवन्तः ।
अस्या वृत्त्याः प्रकाशनावश्यकता मत्सुहृदयैर्विद्वत्सु प्राप्ताऽभिधैः पूज्यपादमुनिप्रवरश्रीधर्मतिलकविजयैर्मत्समक्षं वर्षत्रयीं पूर्वमेवाऽऽवेदिता । प्राप्तानुकूलसामग्या वर्षद्वयीपूर्वं वयं ग्रन्थस्याऽस्य संशोधन-संपादनक्रियामारब्धवन्तः । बहुलश्रमेण सा साम्प्रतं सफलीभूता । __ अस्या वृत्त्याः पूर्वप्रकाशनं खिष्टीय १९४० तमे संवत्सरे संजातम् । वर्तमानेऽनेहसि ज्ञानागारेष्वपि प्रायोऽनुपलब्धिः, उपलब्धप्रतीनामपि भङ्गुरप्राया दशा । अतोऽस्मत्कृतमेतत्प्रकाशनं सामयिकमावश्यकञ्चेति सुतरां संसिद्धिः ।
पूर्व संस्करणे वृत्त्यास्तिरोलिखिता टिप्पणी पूर्वसम्पादकेन द्वेषजोभिराप्लावितोच्चारणद्वारा धूलिसात्कृता, साऽस्माभिर्भृशं संशोधिता निराधाराक्षेपप्रत्याक्षेपनिरासनेन मात्सर्यजन्यानां दोषारोपणकारिशब्दानां दूरीकरणेन च सुस्वच्छीकृता ।
अर्वाचीनमुद्रणशैल्या सवृत्ति-कादम्बर्याः पुनर्मुद्रणेऽप्येक विनोदपदम् । काव्यमिदं कविद्वयेन समुद्भुतम्, वृत्तिरेषा महोपाध्यायद्वयेन विनिर्मिता, तदभुयोरत्र प्रकाशनं भागद्वयेन प्रस्तुतम् ।
ग्रन्थस्याऽस्य प्रुफशोधनकर्मणि मद्गुरुदेवानां, समाधिधर्मज्योतिर्दण्डधराणा, दिवि संप्राप्तसंवासाना, पूज्यपादमुनिप्रवरश्रीभव्यवर्धनविजयमहाराज्ञां बाढं सहकर्म समुपलब्धम्, नाऽथ भगवतां तातपादानामत्र पार्थिवी समुपस्थितिः किन्तु दिव्यकृपापिण्डेन भवान् सदैव मे शिरोऽधियायी एवेति नितान्तं श्रदधे । यथा सकलकृत्यकलापमस्मिन्प्रस्तावेऽपि भवतां कृपाप्रसादी नः प्रति हर्षितमुखी संवेद्यते । अनन्ता अञ्जलयोभवच्चरणयोरनन्तं वन्दनं भवत्क्रमाम्बुजयोः ।
एवञ्च पूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणां साम्राज्यवर्तिनीनां तथा प्रवर्तिनीपूज्यसाध्वीश्रीरोहितश्रियां शिष्यरत्ना-विद्यारुचिसाध्वीवर्याश्रीचन्दनबालाश्रियामपि यथावसरः सहकारः सम्प्राप्तः सोऽप्यवश्यमुल्लेखनीयः ।
प्रान्ते, काव्यजगत्सु मूर्धन्यभूतां कादम्बरी सवृत्तिं साधनग्रंथरूपेण स्वीकृत्वा जगतस्त्रयीणां मूर्धन्यभूतायाः द्वादशाङ्ग्या शरणाऽऽसन्ना भवतु भुवनत्रयीत्याकाङक्षामभिव्यनज्मि ।
- हितवर्धनविजयो मुनिः । कार्तिकशुक्ला पञ्चमी - वि.सं. २०६१ रत्नपुरी (रतलाम) मध्यप्रदेशः प्रान्तः ।
Page #7
--------------------------------------------------------------------------
________________
क्रमः
५२७
६
ل
.
سه
سه
:
سا
:
S
:
ه
6
:
..
ه
.
............
ه
ه
:
..........
(: विषयानुक्रमणिका : )
उत्तरभागे क्रमः विषयाः पृष्ठाङ्काः
विषयाः
पृष्ठाङ्काः १३८ मङ्गलाचरणम् ............ ४८१ १८४ अच्छोदगमनम् ............
..६०५ १३९ कथारम्भप्रस्तावना .............
............४८३ १८५ महाश्वेताश्रमे गमनम् .................. .............. ६०७ १४० पत्रलेखाद्वारा कादम्बर्याः सदेशः........ .......४८५-४९२ १८६ तस्या वैशम्पायनवृत्तकथनम् ......................६०९-६१२ १४१ कादम्बर्या वृत्तान्तश्रवणनम् ............. ............. ४९३
१८७ वैशम्पायनस्य महाश्वेताऽभिसारः ........................ ६१३ १४२ चन्द्रापीडस्यानुतापः ................ .......४९५-४९८ १८८ वैशम्पायनस्य तिरस्कारः ............. ............६१५ १४३ चन्द्रापीडस्य मनसि विचारः.......... ............. ४९९ १८९ वैशम्पा०मृत्युः, चन्द्रा० हृदयस्फोटः .................... ६१६ १४४ चन्द्रापीडस्य विरहावस्था ................ ....... ५०१-५०४ १९० कादम्बर्यास्तत्रागमनम्..................................६१९ १४५ आगच्छतः केयूरकस्यावलोकनम् .......... ............. ५०५ १९१ अनुमरणार्थं विलापः .............................६२१-६२४ १४६ कादम्बरीदशानिवेदनम् ................. ............. ५०७ १९२ आकाशवाण्या कादम्बर्याः सान्त्वनम् .................... ६२५ १४७ कादम्बर्या विरहावस्था.......... ....... ५०९-५१८
१९३ कपिजलस्यागमनम्
........... ६२७ १४८ चन्द्रापीडस्य प्रतिवचनम् .............
५१९-५२२
१९४ कपिजलस्य वृत्तम् ..............................६२९-६३१ १४९ केयूरकेण सह संलापः .............. ....... ५२३-५२५ १९५ कपिजलकृतं सान्त्वनम् ............... ...............६३३ १५० यात्रार्थं चन्द्रापीडस्य विचारः ............
१९६ महाश्वेतोपदेशात्काद०श्चन्द्रा०देहरक्षा..... १५१ वैशम्पायनस्यागमनश्रवणम्
१९७ शरीरस्य निर्विकारतया सर्वेषां प्रमोदः ................... १५२ पत्रलेखया सह केयूरकस्याग्रतो विसर्जनम् . ..............
१९८ दूताना कुमारदर्शनाग्रहः ...
६४१ १५३ कादम्बर्यर्थं पत्रलेखायै सदेशः .............
१९९ दूतानां सान्त्वनम् ...................................... ६४३ १५४ पत्रलेखाया अभिनन्दनं विसर्जनं च .........
२०० दूतैः सह त्वरितकप्रेषणम् ................ ............. ६४५ १५५ चन्द्रापीडस्य परिणयप्रस्तावः ....
२०१ देवमन्दिरे विलासवत्या दूतानामाह्वानम् ............ ६४७-६४९ १५६ चन्द्रापीडस्यौत्सुक्यम् ...................
२०२ अशुभमनुमाय तस्या विलापः .......................... ६५१ १५७ अपररात्रे यात्राशङ्खध्वनिः
२०३ तारापीडस्याऽऽगमनम् ......... .............. ६५३ १५८ चन्द्रापीडस्य यात्रासमारोहः
.............
२०४ राज्ञा विलासवत्याः सान्त्वनम् ........................... ६५५ १५९ मागे प्रातःकालः
५४५ २०५ सर्वं वृत्तं श्रुत्वा राज्ञो मरणाध्यवसायः ................... ६५७ १६० स्कन्धावारदर्शनम् ............... ............. ५४७ २०६ शुकनासस्य सान्त्वनम् ...........................६५९-६६१ १६१ वैशम्पायनार्थं प्रश्नः ............ ............. ५४९ २०७ सपरिकरस्य राज्ञो गमनम् ......... ............. ६६३ १६२ स्कन्धावारलोकेभ्यो वैशम्पायनवृत्तान्तश्रवणम् ............ ५५१ २०८ अच्छोदतीरे मेघनादस्याभिगमनम् . ............. ६६५ १६३ वैशम्पायनवृत्तान्तः ............... ....... ५५३-५५६ २०९ विलासवत्याः शोकः .
..............६ १६४ वैशम्पायनस्यावस्थाश्रवणम् ............. ५५७ २१० कादम्बर्या दर्शनमालापश्च.
............ १६५ चन्द्रापीडस्य चेतसि चिन्ता
..........
............. ५५९ २११ तारापीडस्य परिशमः .. .............. ............. १६६ पटमण्डपे दैनिककार्यकरणम् .......... ............. ५६१ २१२ चन्द्रापीडादीनां जन्मप्रश्नः ........... ........... १६७ मध्याह्नः ...........
५६३ २१३ पुनः पूर्वावस्थाप्राप्तिप्रश्नः ............................. ६७५ १६८ चन्द्रापीडस्योज्जयिनीयात्रा.............
२१४ गोष्ठी भक्त्वा जाबालेरुत्थानम् ........................ १६९ पितुश्चन्द्रापीडोपरि सदेहः .............
२१५ शुक०पुण्ड०सह कपिञ्जलसमागमः ..................... १७० शुक०चन्द्रा०प्रशंसा, वैश०तिरस्कारः ................... ५७१ २१६ कपिजलस्य श्वेतकेत्वादिवृत्तनिवेदनम् ................... ६८१ "१७१ वैशम्पायनतिरस्कारः ...
............. ५७३ २१७ जाबाल्याश्रमं त्यक्त्वा शुकस्योड्डयनम् .................... ६८३ १७२ तारापीडस्य शुकनासपरिबोधनम् ...........
.............
५७५ २१८ वृक्षे निद्रितस्य तस्य चण्डालहस्ते गमनम् ................ ६८५ १७३ चन्द्रापीडस्य यात्रानुमतियाचनम् ........... ....... ५७७-५७९ २१९ दीनप्रार्थनोत्तरमपि पक्कणे नयनम् .................६८७-६९० १७४ तारापीडस्याऽऽज्ञापनम् .................. .............. ५८१
२२० चण्डालकन्यकया पजरबन्धः ........................... १७५ मातुरनुमतियाचनं यात्रासंविधानं च ..................... ५८३ २२१ निर्वेदात् शुकस्य भोजनादित्यागः ....................... ६९३ १७६ प्रस्थापनकालिकी मातुरुक्तिः ........... ............. ५८५ २२२ राज्ञो जन्मान्तरस्मरणम् .......... १७७ पितुः शिक्षा
............. ५८७ २२३ शुकस्य राज्ञश्च शरीरत्यागः . .१७८ विसर्जने पितुरुक्तिः ........... ............. ५८९ २२४ वसन्तागमने कादम्बर्युत्कण्ठा .. ............... १७९ मार्गे गच्छतश्चन्द्रापीडस्य भावनाः ....... ५९३-५९५ २२५ चन्द्रापीडस्योज्जीवनं पुण्डरीकस्यागमनं च ..........७०१-७०३ १८० मार्गे प्रावृटुककालः ..........
........... ५९७ २२६ कपिजलद्वारा श्वेतकेतुसदेशः
७०५ १८१ प्रावृषा कुमारस्य वैकल्यम् ..... ............. ५९९
२२७ चन्द्रापीडपुण्डरीकयोर्विवाहः ............................. ७०७ १८२ परावर्तमानस्य मेघनादस्य दर्शनम् ......... ........... ६०१ २२८ चन्द्रापीडादीनां सुखलाभः .......
............ १८३ मेघनादसदेशेन विषादः ........... ६०३ . (तदनन्तरं परिशिष्टम्) .....
............. १-९ । विषयानुक्रमणिका)
:
पच............
Mmmmm 66mm
.............
..........
५६५
६७७ ६७९
५६९
६९१
.... ६९७
..........
७०९
Page #8
--------------------------------------------------------------------------
________________
कादम्बरी
उत्तरभागः । देहद्वयार्धघटनारचितं शरीरमेकं ययोरनुपलक्षितसंधिभेदम् । वन्दे सुदुर्घटकथापरिशेषसिध्यै सृष्टेर्गुरू गिरिसुतापरमेश्वरौ तौ ॥१॥
***********
मेरुः स्नानभवैः सकुङ्कुमपयःपूरैः परीतोऽभव
त्पीतस्तेन सुवर्णपर्वत इति ख्यातिं जगाम क्षितौ । देवीनृत्यविशीर्णहारमणिभिस्तारो गतस्तारका
____धारोऽसाविति यज्जनिव्यतिकरः सोऽव्यावृषाङ्कः प्रभुः ॥ श्रीमाञ्शान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा
____ यं राजश्रीः सुभगमभजत्किं नु यस्य प्रभोर्न । तद्रागोऽन्तःकरणमविशब्युष्टचेष्टाविशिष्टं
वार्धिस्यन्दस्तटमिव विषं भोगिचूडामणीवत् ॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवा
सिद्धाः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्रदेशे स्फुटं
श्रीमत्पाठकपुंगवः स जयताच्छ्रीभानुचन्द्राभिधः ॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी
शाहिस्वान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्राभिधः । पूर्वं श्रीविमलाद्रिचैत्यरचनां दूरीकृतां शाहिना
विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत्तां पुनः ॥ यावन्या किल भाषया प्रगुणितान्ग्रन्थानशेषांश्च ता
विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छाहिराट् । दृष्टानेकविधानवैभवकलां चेतश्चमत्कारिणी
___ चक्रेषु स्पृहमेति सर्वविदितं गोत्रं यदीयं पुनः ॥ प्रोच्चैः पञ्चसहस्त्रतुङ्गतुरगाश्रीसिन्धुरान्दुर्धरा
न्दत्त्वा प्राग्भवसंभवप्रणयतो धृत्वा करे यं जगौ । शाहिश्रीमदकब्बरक्षितिपतिस्त्यक्त्वा व्रतं दुष्करं
श्रीमत्संयमयामिनीशवसुधाधीशोऽधुना त्वं भव ॥ साक्षात्कंदर्परूपः क्षितितलविदितो वाचकवातशक्रः
स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्वानगर्वात । धीमान्षट्शास्त्रवेत्ता रचयति रुचिरां सज्जनैः श्लाघनीयां
____टीका कादम्बरीयां निजगुरुघटितां किंचिदूनस्थितां सः ॥ स्वयं करिष्यमाणोत्तरप्रबन्धनिष्प्रत्यूहसमाप्तयेऽभीष्टसमाचारप्राप्तस्वाभीष्टदेवताप्रणतिरूपं कृतं मङ्गलं शिष्याशिक्षयितुमादावुपनिबध्नाति - देहेत्यादिना । तौ गिरिसुतापरमेश्वरौ वन्दे इति संबन्धः । तौ निरु -
Page #9
--------------------------------------------------------------------------
________________
व्याधतकेसरसटाविकरालवक्र हस्तानविस्फुरितशखगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥२॥ आर्यं यमर्चति गृहे गृह एव लोकः पुण्यैः कृतस्य यत एव ममात्मलाभः ।
*********** पाधिकसकललोकाभीष्टार्थदायकत्वेन प्रसिद्धावम्बाशंकरौ नमस्कुर्वे इत्यर्थः । अन्यतरनमस्कारेणैवाभीष्टसिद्धावुभयोपादानं शक्तेर्वागात्मकत्वाद्भगवतोऽर्थात्मकत्वादविकलशब्दार्थपरिस्फूर्त्यर्थमिति बोध्यम् । अहमित्यप्रयुञ्जानेन व्यङ्ग्यार्थ एव प्राधान्येन निरूप्यत इति ध्वनितम् । निर्गुणस्य वस्तुनो नमस्काराद्ययोग्यतया परमेश्वरपदोपादानेनैव तत्सिद्धे निगरणार्थकगिरिपुत्रीसाहित्येन कारणगुणा हीति न्यायेन तस्या अपि तथात्वात्तदाराधकस्यानायासेनैव वाणीनिगरणं भवतीति सूचितम् । तच्छब्दसंबन्धिभूतं यच्छब्दार्थमाह - ययोर्देहद्वयार्धघटनारचितमेक शरीरम् । अस्तीति शेषः । ययोः पार्वतीपरमेश्वरयोदेहद्वयस्य स्त्रीपुरुषरूपदेहद्वयस्यार्धं स्त्रीदेहार्धं पुरुषदेहार्धं च तयोर्घटना संघट्टस्ताभ्यां वा घटना निर्माणं तेन रचितम् । स्वयं निष्पादितमित्यर्थः । ननु विजातीयोत्पन्नत्वेन कथमेकत्वमित्यत आह - अन्विति । अनुपलक्षितोऽप्रतीयमानः संधिः परस्परसंधानम् । संयोजनमिति यावत् । तत्कृतो भेदः स्त्रीत्वपुंस्त्वरूपो यस्येति समासार्थः । द्व्यणुकादिप्रक्रमेणारम्भे स्यादयं दोषः । अस्य चार्धनारीश्वरलीलाविग्रहस्यैकस्यैवोपलम्भाद्भेदप्रत्ययाभावादिति भावः । एतेनोत्तरमात्मकृत्या संधितायाः पितृपूर्वकृतेरर्धनारीश्वरविग्रहवदभेदः संदर्भशुद्ध्या सूचितः । तेनालौकिकचमत्कारिता च । नतिफलं दर्शयति - सुदुर्घटेति । सुदुर्घटः कादम्बरीप्रत्यागतपत्रलेखाकथिततत्सदेशानां किंचिद्ग्रथनकाल एव दैवात्परं लोकं गते बाणेऽन्येन केनापि कविना तथा विरचयितुमशक्यः कथापरिशेषः । 'कृदभिहिते' इति न्यायेन परिशिष्यमाणा कथेत्यर्थः । तत्सिद्ध्यै स्वरूपनिष्पत्त्यै अयं भावः - पितुरूपरमे तत्कृतावुत्तरकथाविच्छेददर्शना दसमाप्तिरूपकलङ्कदूरीकरणाय पितृप्रसादप्राप्तवाग्वैभवस्तत्पुत्रस्तत्समाप्त्यै स्वयं यत्नं कृतवान् । स च तादृशपुरुषधौरेयाराधनं विना न सिद्ध्यतीति । एवंविधाम्बेश्वरसद्भावे प्रमाणमाह - सृष्टेरिति । सृष्टेर्जगतो गुरू पितरौ । उत्पत्तिमनिमित्तकारणभूतावित्यर्थः । नन्वीश्वरस्यैव निमित्तत्वं श्रुतं नाम्बाया इति चेत्, न तनीयांसमित्यायुक्त्यवष्टम्भेन शक्तिरहितस्य तत्रासामर्थ्यावधारणादिति दिक् ॥१॥
विघ्नसमसंख्यमङ्गलस्य कारणत्वावधारणाहुविघ्नशङ्कया कृतं नतिरूपं मङ्गलान्तरमुपनिबध्नाति - व्याधूतेति । तं नारायणमपि नमामीत्यन्वयः । तमङ्गीकृतमत्स्याद्यवतारं निरस्तसमस्तदुःखं नारायणमपि क्षीरशायिनमपि । एतेन स्वस्य तत्रागम्यत्वं सूचयति । नमामि । प्रह्वीभवामीत्यर्थः । नन्वगम्यत्वे कथं नमस्करणीयतेत्यत आह - येनेत्यादि । क्षीरशायिना स्वसेवार्थं नृसिंहरूपं परस्परविरुद्धजात्याश्रयं सगुणस्वरूपमाविष्कृतम् । प्रकटीकृतमित्यर्थः । एतेन कर्मारब्धत्वं निवारयति । ध्यानार्थं तत्स्वरूपं विशेषणद्वाराह - व्याधूतेत्यादिना । व्याधूतानां कम्पितानां केसराणां स्कन्धवालानां सटाश्रेणयोऽग्रभागा वा ताभिरभक्तानां विशेषेण करालं भीषणं वक्र मुखं यस्येति समासार्थः । तथा हस्ताग्रेषु विस्फुरितानि देदीप्यमानानि शङ्खगदासिचक्राणि पाञ्चजन्यकौमोदकीनन्दकसुदर्शनानि यस्य स इत्यर्थः । चतुर्भुजत्वमनेनोक्तम् । अज्ञानहिरण्यकशिपुध्वंस आद्यविशेषणेन, द्वितीयेन चासेः प्रत्यासन्नवधोपायत्वादितरेषामप्रत्यासन्नवधोपायत्वात्तादृशविघ्नध्वंसः सूचितः । प्रमाणमाह - विश्वेति । सर्वोत्पत्तिमनिमित्तमित्यर्थः ॥२॥ __ आर्यमिति । तं पितरमेवानतोऽस्मीत्यन्वयः । तं प्रसिद्धं पातीति व्युत्पत्त्या सर्वापद्रक्षक जनक बाणमानतोऽस्मि । नमस्कारेणाभिमुखीकरोमीत्यर्थः । एवकारेण नेदं पितृत्वमन्यत्रेति सूचयति । तच्छब्दसंबन्धिनमाह - लोक आर्यं यं गृहे गृह एवार्चतीति । लोकते गुणानिति व्युत्पत्त्या गुणग्राहको जनो गृहे गृह एव । एवकारः प्रातिस्विकतामाह । स्वस्वगृहे आर्य कर्णपथप्राप्तमर्चति । स्तौतीत्यर्थः । श्लेषोपबृंहितामेतद्गवीमाकर्ण्य श्रवणहृदयाह्लाददायितया मौलिमण्डलान्दोलनविरचनेन 'हृदि लग्नेन बाणेन' इत्यादिना । अद्य यावत्सहृदयहृदयः को वा तन्नोररीकरोतीति भावः । अन्यच्च पुण्यैरेव कृतस्य मम यत आत्मलाभः पुण्यैरेव धमैरेव । एतेन धर्ममा -
पाठा० - १ मया.
482
कादम्बरी।
कथायाम्
Page #10
--------------------------------------------------------------------------
________________
सृष्टैव येन च कथेयमनन्यशक्या वागीश्वरं पितरमेव तमानतोऽस्मि ॥३॥ याते दिवं पितरि तद्वचसैव सार्धं विच्छेदमाप भुवि यस्तु कथाप्रबन्धः ।। दुःखं सतां तदसमाप्तिकृतं विलोक्य प्रारब्ध एंव स मया न कवित्वदात् ॥४॥ गये कृतेऽपि गुरुणा तु तथाक्षराणि यनिर्गतानि पितुरेव स मेऽनुभावः । एकप्लवामृतरसास्पदचन्द्रपादसंपर्क एव हि मृगाङ्कमणेवाय ॥५॥ गङ्गां प्रविश्य भुवि तन्मयतामुपेत्य स्फीताः समुद्रमितरा अपि यान्ति नद्यः ।
***********
त्रारब्धत्वेनात्मनो देवांशत्वं प्रतिपादयति । कृतस्य निष्पादितस्य मम यतो बाणादात्मलाभो देहसंबन्धो जात इति शेषः । एतत्पुत्रत्वमेव मे धर्ममात्रारब्धत्वं सूचयति । येन च बाणेनानन्यशक्या तदितरजनेन कर्तुमशक्येयं प्रसिद्धा कथैव । एवकारोऽप्यर्थे । कादम्बरीविषयिणी कथापीत्यर्थः । सृष्टा । कल्पितेत्यर्थः । पुराणेतिहासादिष्वदृष्टापीयं कथा स्वयं निर्मिता निबद्धा चेति भावः । स्वयं निर्माणे हेतुगर्भ विशेषणमाह - वागीश्वरमिति । वाचां वाणीनामीश्वरं नियन्तारम् । स्वायत्तीकृतवाक्प्रपञ्चस्य किमशक्यमिति भावः ॥३॥ .. कविरिदानी स्वमौद्धत्यं परिहरति - यात इत्यादिना । श्लोकद्वयेन । पितरि कथारब्धके बाणे दिवं स्वर्ग याते प्राप्ते सति तद्वचसैव तस्य बाणस्य वचसा । वचोभिरित्यर्थः । यः कथाप्रबन्धश्चरितगोष्ठीविस्तारो भुवि भूमण्डले विच्छेदं विनाशमाप प्राप्तवान् । ततः सतां सहृदयानां तदसमाप्तिकृतं तस्याः कथाया असमाप्तिरसंपूर्णता तत्कृतं तत्प्रयुक्तं दुःखम् 'हा, बाणारब्ध एतादृशः प्रबन्धो न समाप्तिमगात्' इत्याकारमधर्मफलं विलोक्य दृष्ट्वा तद्दुःखपरिहारार्थं मया प्रारब्ध एव । मया तत्पुत्रेण 'आत्मा वै पुत्रनामासि' इत्युक्तेस्तेनैव मया प्रारब्ध एवाविच्छेदेन समाप्तिं नीत एव । कवित्वदन्नि लोकोत्तरवर्णनानिपुणतरकविकर्मगर्वान्न । तथा च सहृदयान्तस्तापनिरासायैवायमारम्भः, न पुनः स्वकविताप्रौढिदादिति भावः ।
गुरुणा पित्रा गये कृते । जातावेकवचनम् । गयेषु कृतेष्वित्यर्थः । यत्तथा पितृकृतगद्याक्षरतुल्यान्यक्षराण्यज्झलूसमुदायात्मकान्यक्षराणि निर्गतानि प्रादुर्भूतानि स मे पितुरेव बाणस्यैवानुभावः सामर्थ्यम् । स्वशरीरमोचनसमये तथा तेनानुगृहीतो यथा नूतनकथापूरकगद्यावली तत्समानाकारैवाविरभूदिति भावः । उक्तमर्थमर्थान्तरन्यासेन द्रढयति - एको मुख्य प्लवः प्रवाहो यस्मिंस्तादृशो योऽमृतरसः पीयूषद्रवस्तदास्पदं स्थानं यश्चन्द्रस्तत्पादसंपर्क एव तत्किरणसंबन्ध एव मृगाङ्कमणेश्चन्द्रकान्ताश्मनो द्रवाय सवाय भवतीति शेषः । यथा चन्द्रकान्तमणिश्चन्द्रकिरणसंपर्काद्रवीभवति तथा मद्वाण्यपि पितृवाक्संबन्धेनामृतसाविणी भविष्यतीति भावः ॥५॥
अर्थान्तरन्यासं पद्यान्तरेण दर्शयति - गङ्गामिति । यथेतरा नद्यो यमुनाया भागीरथीसंभेदं कृत्वा पृथिव्यां तद्रुपतामेत्योद्दण्डाः सागरं गच्छन्ति एवमासमुद्रगे मत्तातवाणीस्रोतस्याख्यानसंधानार्थं पतिता - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'पुण्यैः कृतश्च यत एव मयात्मलाभः' इत्युचितः पाठः । मया पुण्यैः (पूर्वजन्मकृतैः सुकृतैः) यतः यस्मात् (पितुः) आत्मलाभः कृतः, जन्म लब्धमिति तदर्थः । 2 कथा तन्नामक गद्यकाव्यम् । कादम्बरीकथानकस्य तु बृहत्कथामूलकत्वात् 'पुराणेतिहासादिष्वदृष्टे 'त्यादिकथनं न स्वारस्याय ।
पाठा० - १ एष च. २ एकः प्लव. ३ पादैः संपर्क.
WA83
कथारम्भप्रस्तावना
उत्तरभागः ।
Page #11
--------------------------------------------------------------------------
________________
आसिन्धुगामिनि पितुर्वचनप्रवाहे क्षिप्ता कथानुघटनाय मयापि वाणी ॥६॥ कादम्बरीरसभरेण समस्त एव मत्तो न किंचिदपि चेतयते जनोऽयम् । भीतोऽस्मि यन्न रसवर्णविवर्जितेन तच्छेषमात्मवचसाप्यनुसंदधानः ॥७॥ बीजानि गर्भितफलानि विकाशभाञ्जि वैष्त्रैव यान्युचितकर्मबलात्कृतानि । उत्कृष्टभूमिविततानि चे यान्ति पुष्टिं तान्येव तस्य तनयेन तु संहृतानि ॥८॥ अपि चेदानीमानीतस्यापि कुमारस्य न ददाति तैरलतालज्जिता लज्जैव दर्शनम् । मनो -
1
*** ******
मद्गवी सिन्धुगामिनी भविष्यतीत्यर्थः । यथा यमुनादीनां परप्रवाहसंबन्धेन सिन्धुगामित्वम्, तथा मद्वचनप्रवाहोऽपि तातवाक्प्रवाहमिलित आसमुद्रं गमिष्यतीति भावः ॥ ६ ॥
ननुद्भटपितृवाण्या स्ववाणीं संयोजयतः कथं न भयं तत्राह - कादम्बरी । कादम्बरी कथा मद्यं च तस्या रसः शृङ्गारादिः पानीयं च, तस्य भरेणाधिक्येन समस्त एव जनो जन्तुमात्रं मत्तः क्षीबः किंचिदपि न चेतयते । कर्तव्याकर्तव्यविधुरः सन्नानुसंधत्त इत्यर्थः । तथा च ममापि स्वान्तःपातित्वेन मत्ततया विवेकाननुसंधानान्न भीतिरिति भावः । एवं सति रसवर्णविवर्जितेन, रसः शृङ्गारादिस्तद्घटिताक्षरमालिकारहितमद्वाण्या पितृकृतग्रन्थशेषसंधानकर्ता भयं न प्राप्तोऽस्मि । तदनुसंधानाभावादित्यर्थः । रसेत्यादिना भीतिहेतुरक्तः ||७||
मम पुनरेतन्निर्माणे न कोऽपि प्रयासलेश इत्याह - बीजानीति । तस्य बाणस्य तनयेन पुत्रेण नान्येन बीजानि संहृतानि कैथाविषयीकृतानि पुष्टिं फलोद्रेकतां यान्ति । प्राप्नुवन्तीत्यर्थः । यानि बीजानि गर्भितफलान्यङ्करोत्पादनानुकूलशक्तिमन्ति वत्रैव वापकेनैव बाणेनोत्कृष्टभूमौ सर्वतोऽप्यधिककादम्बरीलक्षणायां भुवि विततानि गद्यादिरूपेण सर्वतः स्थापितानि उचितं कर्म रससेकादि तस्य बलात्सामर्थ्यात्कृतानि निष्पादितानि । विकाशः श्लेषाभिव्यक्तिस्तद्भाञ्जि तत्संपादकानि कृतानि । केनचिद्वापकेन गुल्मादिरहित भूम्युप्तानि शाल्यादिबीजानि जलसेकादिक्रियाबलादङ्कुरावस्थां प्रापितानि फलादिसंपन्नान्युपसंहियन्त इति श्लेषार्थः ॥८॥
अत्र च पूर्वकादम्बर्यां विभावानुभावव्यभिचारिसंयोगात्पुष्टो विप्रलम्भस्तत्र स्मृतिव्यभिचारिभावोदयात् 'आनयामि तं देवम्' इति पत्रलेखोक्तिस्मृतावुत्तरार्धे उत्तरितं कादम्बर्या निवेदयति पत्रलेखा चन्द्रापीडाय- अपिचेत्यादिना । अपि च । अन्यदपि श्रृण्वित्यर्थः । इदानीमपि तद्दर्शनं विना जीवितावसानकालेऽप्यानीतस्य मल्लोचनगोचरं प्रापितस्य कुमारस्य पृथिव्यां कंदर्पमूर्तेर्दर्शनं साक्षात्कारं प्रतिकूलादृष्टवशात्कुमारीस्वभावो लज्जैवेन्द्रियादिवृत्तीनां स्वच्छन्दचारसंकोचिका त्रपैव न ददाति । वर्तमानसामीप्ये लट् । न दास्यतीत्यर्थः । यद्वा वर्तमान एव वा लट् । प्रथमदर्शनवल्लज्जया तथाकृतमनुभूतमिदानीमपि सैवानुवर्तत इति पूर्वोत्तरावधिशून्यता निषेधस्य द्योत्यते । ननूत्कण्ठा लज्जां दूरीकरिष्यतीत्यत आह - तरलतेति । तरलता दर्शनोत्कण्ठारूपं चाञ्चल्यं चक्षुषोस्तेन लज्जिता लज्जां प्राप्ता । मयि विद्यमानायां दर्शनोत्कण्ठा जातेति लज्जाया लज्जोदयात्तत्र लज्जाव्याप्तिर्भूयसीति भावः । तस्यां च सत्यां प्रत्ययनिर्निमेषावलोकनं च कथं स्यादिति पुनरपि दिदृक्षा दैन्यं च व्यभिचारि व्यज्यते । लज्जितेयं दृष्टिः । तल्लक्षणं तु - 'मनागञ्चितपक्ष्मा च किंचित्स्तब्धकनीनिका ।
टिप्पo - 1 अस्मिन् पूर्वपद्ये च प्रकृताप्रकृतयोर्बिम्बप्रतिबिम्बभावाद् दृष्टान्तालंकारः । 2 वप्त्रा वपनकर्त्रे उचितानां कर्मणां कर्षणादीनां बलात् यानि बीजानि उत्कृष्टभूमिषु विततानि प्रक्षिप्तानि, गर्भितफलानि गर्भितं (गर्भस्थित) फलं येषां तानि (फलोन्मुखानीति भावः), अत एव विकासभाञ्जि कृतानि सन्ति वृद्धिं गच्छन्ति । तस्य (प्लुः) पुत्रेण तु तान्येव फलोन्मुखानि वर्धमानानि च बीजानि संहृतानि नाशितानि । सुरसानि पितुर्वचनानि विरसैर्वचनैः संयोज्य नाशितानि मयेति स्वविनयः सूच्यते ।
पाठा० - १ वष्त्रेव. २ गतातिपोषम् च यान्ति पोषम् ३ सुतरां लज्जितेव लज्जा. ४ दर्शनं दातुम्.
484
कादम्बरी |
कथायाम्
Page #12
--------------------------------------------------------------------------
________________
भवविकारवेदनाविलक्षं वैलक्ष्यमेव न पुरस्तिष्ठति । अप्रतिपत्तिसाध्वसजडा जडतैव नोप -
***
***
संसस्ताऽर्धपुटा दृष्टिर्लज्जिता लज्जिते स्त्रियः ।' इति । यद्वा चिन्तासंतत्युपनीतं भवन्तं विभाव्य 'क्वाकार्यम्' इत्यादिवदुन्मादव्यभिचारिभावाक्रान्ताहेत्याह - अपि चेति । इदानीं भावनासमये । आ ईषदर्थे । ईषत्कालमल्पकालं नीतस्य भावनया पुरः प्रापितस्य तरलतोन्मादो लज्जा वेत्येवकार एवार्थे । संकल्पसमागमेष्वाभिमुखं प्राप्तस्य तरलतौत्सुक्यं दर्शनं न ददाति । अपि तु ददातीत्यर्थ इति वा । ननु तर्हि किमर्थं ताम्यसीत्यत आह - लज्जितेति । क्षणमात्रस्थायितया लज्जां प्राप्ता । तिरोभूतेत्यर्थः । औत्सुक्यस्य क्षणिकत्वेन संपूर्णदर्शनफलालाभादिति भावः । यद्वा पत्रलेखां प्रत्युपालम्भोक्तिः । कादम्बर्याः । अस्मिन् काले सामस्त्येन नीतस्य देशान्तरं कथं गच्छेदिति भावः । तत्संबन्धिनी तरलता लज्जिता दृष्टिर्लज्जैव । एवकारश्चार्थे । लज्जा च समुच्चयो दर्शनं न ददाति । तरलतागमनानन्तरं पुनरागमरूपा चञ्चलता तस्या एवाभावादिति भावः । लज्जिता दृष्टिः । दृष्टेर्लज्जात्वमस्थिरत्वेन फलालाभादिति भावः । कथं निरपत्रपस्तस्यै मुखं प्रदर्शयामीति त्रपातिदर्शनप्रतिबन्धकीभूता जातेति भावः । तथा च तस्य पुनरागमनमसंभावितमिति भावः । औत्सुक्यचिन्ताहर्षादीनां शबलता । तत्र स्थितस्यापि तस्य स्वप्नादिसाक्षात्कारेण चक्षुः फललाभेन पुनरपि दिदृक्षा दैन्यं च व्यभिचारी व्यज्यते । नन्वसन्तमपि भावमतिचतुराः स्त्रियः स्वाधीनसहजसिद्धचेष्टाविशेषैराविर्भावयन्तीति कथं तरलतादीनां तादृगाशयवत्त्वं निर्णेयमिति मयाक्षिप्ते सैवमाहेत्याह मनोभवेति । मनोभवोऽतिविवेकिप्रभवः कामस्तस्य तत्कर्तृको विकारः कार्श्यपाण्डिमादिस्तज्जनिता वेदनाः संतापादिरूपास्ताभिर्विलक्षं विगतलक्षणम् । अप्रतिसंधीयमानमिति यावत् । वैलक्ष्यम् । 'लक्ष्यं वेध्ये च भावे च' इत्यभिधानाद्विविधभावभावो न पुरस्तिष्ठति । न पुरः स्थास्यतीत्यर्थः । तथा च कामविकारकीलिताया मे सहजचेष्टाविर्भावात्तरलतादीनामतिप्राबल्यादिति भावः । विकारपदं च सहजसिद्धस्नेहावलोकनन्यूनतां व्यनक्ति । मनोभवपदं च कामवेदनाबाह्येन्द्रियाविषयत्वं व्यनक्ति । ज्ञानार्थप्रकृतिकवेदनापदेनाज्ञायमानदुःखखध्वंसाभावं व्यनक्ति । अत्रापि भविष्यदर्थे लट् । यद्वा दर्शनफलमाह - मनोभवेति । वैलक्ष्यदर्शनजनितकार्श्यपाण्डिमादिवैलक्षण्यं तदेव पुरः । प्रथममिति यावत् । न स्थास्यतीत्यर्थः । एतेन तस्य दुःसहतोक्ता । दुःसहत्वे हेतुगर्भं विशेषणमाह - मनोभवेति । उक्त एवार्थः । यद्वा संतापादिविकारवेदनास्थिरत्वेन निर्विण्णाह । वैलक्ष्यं संतापादिकृतं कार्श्यमोहादिकं न बहुकालं स्थास्यतीत्यर्थः । मध्ये स्वप्नसंकल्पसमागमेष्वाश्वासात् । अन्यथा तत्स्थैर्येऽल्पेनैव कालेन मरणसंभवात् । दुःखविमोकादिति भावः । एतदप्यकृतपुण्याया मे कुत इति निर्वेदध्वनिः । तदेव विशेषणद्वाराह - मनोभवेति । कंदर्पकृता विकाराः स्वप्नसंकल्पसमागमादयस्तत्कृता वेदना तथा समागमस्यास्थिरत्वेन पुनर्विरहदुःखानुसंधानं तेन विलक्षं मरणलक्षणविगमं प्राप्तमित्यर्थः । ननु गाढान्धकाराभिसरणशीलानां कामिनीचक्षुर्विषयाभावेऽपि त्वगिन्द्रियस्य स्पर्शः केन वा वारणीय इति मयोक्ते सैवमुत्तरितवतीत्याह- अप्रतिपत्तीति । जडता स्पर्शजन्यः स्तम्भाख्यः सात्त्विकभावः स एव नोपसर्पति । न यास्यतीत्यर्थः । अत्रापि भविष्यदर्थे लट् । यथाकथंचित्त्वयानीतस्यापि गाढान्धकारे दर्शनायोग्यस्य त्वगिन्द्रियस्पर्शसुखानुभवे प्रथमस्पर्शजन्यजडताप्रतिबन्धेन चुम्बनाद्यननुष्ठाने स्पर्शस्य निष्फलत्वेन तत्रापि दैववैमुख्येन विरहज्वरोपशान्तिमलभमानायाः स्पर्शो वृथैव भविष्यतीति भावः । ननु शारीरा भावाः क्षणस्थायिनो भवन्ति, उत्पन्नापि जडता न स्थास्यतीत्यत आह - अप्रतिपत्तीति । अप्रतिपत्तिः स्पर्शो ज्ञानं साध्वसं भयं मा कदाचित्कश्चिन्मा दर्शीति ताभ्यां जडा भावान्तरानुत्पादेन पदात्पदं दातुमसमर्था गाढान्धकारसंजातस्पर्शजायमानस्तम्भेन चुम्बनाद्यनुष्ठानेऽसामर्थ्यात्तथा क्रियमाणे दुःखानपगमादिति भावः । यद्वा जडता व्यभिचारिभावोऽपि दैवप्रातिकूल्यान्नापयास्यति । तत्र कारणमाह- अप्रतिपत्तिर्मोहः, साध्वसं भयम्, ताभ्यां जडा । स्थिरेत्यर्थः । तथा च जडतामोहभयव्यभिचारिणां शबलतयान्यापगम एव मया गन्तव्यमिति स्थिरेति भावः । यद्वा नास्ति प्रतिपत्तिर्ज्ञानं यस्यां साऽप्रतिपत्तिर्मूर्च्छा व्यभिचारिभावः । यावदेव त्वं तमानेष्यसि तावदेव मे मूर्च्छाभिभविष्यति । तदानयनसंभ्रमोत्थिताया मे मूर्च्छापगमानन्तरं यद्भयं बहुकालं स्थित्वा लोको ज्ञास्यतीति ताभ्यां जड स्तब्धा । आविर्भवितुमशक्येति यावत् । जडता डलयोरैक्याज्जलता । स्वेदसात्त्विकभावो नाविर्भविष्यतीत्यर्थः । मूर्च्छाभयाभ्यां
पत्रलेखाद्वारा कादम्बर्याः संदेशः
उत्तरभागः ।
485
-
Page #13
--------------------------------------------------------------------------
________________
सर्पति । स्वयमुपसर्पणलघु लाघवमेव तत्प्रतिपत्तिस्थैर्यं नावलम्बते । बलात्तदानयनापराधभीता भीतिरेव न संमुखीभवति । अथ कथंचिद्गुरुजनत्रपया वा, राजकार्यानुरोधेन वा, -
***********
स्थातुमसमर्थया त्वया मयैव सह कुतो नागम्यत इति मयोदिते सैवमाहेत्याह - स्वयमिति । स्वयमुपसर्पणं तदननुमत्या स्वयं गमनं तेन लघु लाघवमेव तुच्छलाघवमेव तत्प्रतिपत्तिस्त्वयैवागन्तव्यमित्युपदेशज्ञानं तत्स्थैर्य तत्स्थिरतां नावलम्बते । नावलम्बनं करोतीत्यर्थः । अन्यत्र ज्ञानस्य विक्षणावस्थायित्वेऽपि युक्त्यनुपष्टम्भोपहितमिदं ज्ञानं क्षणमात्रमपि न तिष्ठतीति भावः । स्त्रीणां स्वयमुपसर्पणं लघुतापादकं नितरामननुमत्या कृतं नितरां राजकन्यानाम् । किंचैवमौत्सुक्यातिरेकेण कृतेऽपि तेनापि मदीयां निःसारतामाकलय्य विद्याधनसौन्दर्यादिगर्वेणानादरे कृते तव का प्रतिष्ठा, ममापि किं गौरवम्, तदुत्तरकालं च प्रयत्नाभावेन मम मरणमेव शरणं स्यादिति तुषकण्डनमेव फलितमिति शब्दशक्त्युद्भवो ध्वनिः । इह तु वर्तमान एव लट् । तेन पूर्वोत्तरावधिशून्यता प्रत्यक्षप्रमाणगोचरतां च व्यनक्ति । यद्वा स्वयमुपसर्पणं स्वयं गमनं तेन लघुस्तूलादपि निःसाराहं तस्या मे लाघवमेव लघुभावमेव । दृष्ट्रेति शेषः । तत्प्रतिपत्तिस्तस्य चन्द्रापीडस्य प्रतिपत्तिर्मयि सर्वोत्कृष्टताबुद्धिः स्थैर्य स्थिरत्वं नावलम्बते । न स्थिरतां यास्यतीत्यर्थः । अस्मिन्पक्षे भविष्यदर्थ एव लट् । तेन फलितमिदं भविष्यतीति ध्वन्यते । ननु तर्हि मयैव यथाकथंचिदयमानेय इति मयोदिते सैवमाहेत्याह - बलेति । बलात्तदरुच्या यत्तदानयनं त्वत्कृतं चन्द्रापीडानयनं स एवापराधस्तेन भीताया मे भीतिरेव न संमुखीभवति । एतदनुमोदनसांमुख्यं न करोतीत्यर्थः । इदमपि मया कथं वक्तव्यं त्वयानेय इति कदाचित्त्वया मदीयां दशामालोक्य पादपतनादिना बलादानीतस्य तथैव स्थितस्य मदपराधं गृह्णतोऽसन्मुखस्यानयनफलालाभेन लोकोपहास्यता परितापाधिक्यं च मे भवेदिति भावः । तस्मादेते सर्व एव पक्षाः प्रकृतानुपयुक्तत्वादनादरणीयाः । केवलं मनोवाकायकर्मभिस्तत्स्वीकार एव मय्यनुग्रहो गतागतेन च तदभावनिश्चयात्त्वया तथा यतनीयं मदनुग्रहे विलम्बालस्योपेक्षास्तस्य न भवन्ति । भवत्याच मत्प्राणत्राणसुकृतादिहलोकः परलोकश्च भवेत् । सख्यादीनामुपहासपात्रतां न यायाम, जन्मसाफल्यं च यायां मित्रादिपारवश्यतां च न लभेयम् । गौरवसंरक्षणं भवेत् । नान्यं शरणमुपयायामित्याद्यत्यन्ततिरस्कृतवाच्याभिधाभिन्नमूलध्वनिः । तेन च प्रबन्धस्योत्तमता सूचिता । तेन चालौकिकरसास्वादनसामग्रीदाढ्यं च सूचितम् । अत्र सर्वत्र काव्यलिङ्गं विभावना चालंकारः । यद्वा भीतिरेव बलात्संमुखीभवतीति संबन्धः । एतत्प्राप्तौ पित्रादिभ्यो भयं त्यक्तमित्यर्थः । भीतिप्राप्तौ हेतुमाह - बलादिति । बलादरुच्या तदानयन चन्द्रापीडानयनं स एवापराधो महासाहसिकत्वादिरूपस्तत्र भीता । भयहेतूनुत्प्रेक्षमाणेत्यर्थः । तथा चोटोक्षाया आरोपविषयत्वेनाहार्यभीतेरङगीकारादिति भावः । पर्वोक्तं सर्वमप्यन्यथयन्त्याह - अथेति । अथशब्दः पर्वापरितोषे इति प्रकरणालभ्यते । मयि मद्विषये स्नेहाम्णो हेतोः । हेतौ पञ्चमी । कृता विहिता यत्ना आनयनोपाया यया सा तया । प्रिया प्रियकर्ची चासौ सखी चेति तया पत्रलेखयापि यदा यद्यानेतुमानयनाय न पारितो न शक्तः, तदा तर्हि सुतरामेवातिशयेनैव न किंचित् लघुतोत्कर्षः । तद मम जीवितेन न किंचित्प्रयोजनमिति भावः । आनयनप्रकारमाह - पादपतनेनापीति । करणे तृतीया । पादयोश्चरणयोः पतनेन । दण्डवत्प्रणामेनापीत्यर्थः । आनयनाशक्तौ पूर्वपूर्वापरितोषेण तृतीयान्तान्हेतूनाह - कथंचिदिति । एतत्पदं सर्वतृतीयान्तेन संबध्यते । गुरुजनाः पितृमातृप्रभृतयस्तेषां त्रपा लज्जा तया - - - - - - - - - - - - - - - टिप्प० -1 'अथ' इति पक्षान्तरात्पूर्वम्, पत्रलेखाद्वारक - कादम्बरीसदेशेऽस्मिन् - यदि कुमारोऽत्रानीतस्तर्हि लज्जा - वैलक्ष्य - जडतादिभिस्तत्सामुख्य न भविष्यतीति सर्वस्य तात्पर्यम् । तरलतया (चापल्येन) लज्जिता लज्जैव दर्शनं न ददाति (अन्तर्भावितण्यर्थः), लज्जापि लज्जिता जाता, अत एव सा कुमारस्य दर्शनं मे न दापयतीति वाक्यस्यार्थः । भविष्यत्सामीप्ये लट् । एवमेव - मनोभववेदनया विलक्षम् (अप्रतिभम्) वैलक्ष्यमेव (अप्रतिभत्वमेव) अग्रतो न तिष्ठति (अयमप्यन्तर्भावितण्यर्थः), वैलक्ष्यमेव मामग्रतो न स्थापयति, न स्थातुमवसरं ददातीत्यर्थः । जडतैव नोपसर्पति, नोपसर्पयतीत्येवंरूपेण सर्ववाक्येषु ण्यर्थमन्तर्भाव्य वाक्यार्थः परिकल्प्यते ।
-
-
-
-
-
-
486
कादम्बरी।
कथायामू
Page #14
--------------------------------------------------------------------------
________________
चिरावलोकितसहसंवर्धितबन्धुजनोत्कण्ठया वा, सुहृन्मुखकमलदर्शनेन वा, पुनरागमनखेदपरिजिहीर्षया वा, निजगृहावस्थानरुच्या वा, जन्मभूमिस्नेहेन वा, अनिच्छया वास्य जनस्योपरि पादपतनेनापि नानेतुमेव पारितो यदा मयि स्नेहात्कृतयत्नयापि प्रियसख्या पत्रलेखया तदासुतरामेव न किंचित् । किं चाधुनाप्यधिकमुपजातम् । सैवाह कादम्बरी याऽनेन कुमारेण मत्तमदमुखरमधुकरकुलकलकोलाहलाकुलिते कोककामिनीकरुणजिते विरहिजनमनोदुःखे विक -
***********
वा । वाशब्दः पूर्वापरितोषे । राजकार्यं संधिविग्रहादि तस्यानुरोधोऽनुसरणं तेन वा । चिरेण बहुकालेनावलोकितो दृष्टो यः सहसंवर्धितः पांसुक्रीडनादिभिः सहवृद्धि प्रापितो बन्धुजनो बान्धवलोकस्तस्योत्कण्ठया विरहासहनेन वा । सुहृदो मित्राणि । 'सुहृदुईदौ मित्रामित्रयोः इति निपातः । तेषां मुखानि कमलानीवेत्युपमितसमासः । तेषां दर्शनेन सादरावलोकनेन वा । पुनरागमनं पुनरत्रागमः तेन यः खेद आयासस्तस्य परिहर्तुमिच्छा त्यागस्पृहा तयेति वा । पुनरपि यातायातश्रमो मा भूदितिविधयेत्यर्थः । निजं स्वकीयं यद्गृहं तत्रावस्थानं सुखवासस्तत्र रुचिः प्रीतिस्तयेति वा । जन्मभूमिर्जन्मस्थानं तत्र स्नेहः प्रेमा तेन वा । सर्वमेतत्संभावनामात्रेणोक्तम् । वस्तुतस्त्वस्य मल्लक्षणस्य जनस्य जन्तुमात्रस्योपर्यनिच्छाऽरुचिः । अप्रीतिरिति यावत् । तया वा । किंचेति पक्षान्तरे । सैवाह कादम्बरी यानेन कुमारेण चन्द्रापीडेन । कुमुदानि विद्यन्ते यस्यां सा कुमुदिनी तस्याः कुमुदिन्याश्चतुरसजलक्रीडासरस्याः । पुष्करिण्या इति यावत् । तटे तीरे । सामीप्ये सप्तमी । हिमप्रचुरं गृहं हिमगृह तस्मिन्मुक्तावनिर्मलो मुक्ताखचितो वा यः शिलायाः पट्टः स एव शयनं शय्या तस्मिन्कुसुमानां सस्तरस्तमवलम्बत इत्येवंशीला तन्मात्रावलम्बिनी वीक्षिता दृष्टा । अधुना किमधिकमुपजातम् । इतः सप्तम्यन्तानि हिमगृहविशेषणानि - मत्तेति । मत्ताः क्षीबा अत एव मदेन मुखरा वाचाला ये मधुकरा भ्रमरास्तेषां कुलानि सजातीयवृन्दानि तेषां कलो मनोज्ञो यः कोलाहलः कलकलस्तेनाकुलिते व्याप्ते । कोकेति । कोकाचक्रवाकास्तेषां कामिन्यो योषितस्तासां करुणानि दीनानि कूजितानि विरुतानि यस्मिन् । कीदृशे कूजिते । विरहीति । विरहिण्यश्च विरहिणश्चैकशेषे विरहिणस्तेषां जनः समुदायः । विरहिणश्च ते जनाश्चेति वा । तेषां मनसि स्वान्त उत्पादितं दुःखं येन तस्मिन् । विकचेति । विकचानि विकस्वराणि दलानि -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अथेत्यारभ्य 'न किञ्चित् पर्यन्तस्य 'यदि गुरुजनवपादिकारणैः कुमारो नानेतुं शक्येत तदापि न हानिः, मम जीवितमेव न रक्षणीयम् । किं तदा कुमारस्याऽनागमेन मे इत्याशयः । 2 तस्मात् 'जनितविरहिजनमनोदुःखे' इत्युरीकर्तव्यः पाठः । किञ्च - ‘मत्तमदमुखरमधुकर०' इत्यारभ्य 'वीक्षिता' एतावत्पर्यन्ते मूले भूयान् पाठभेदः, न किल बाणस्य पुत्रोपि 'मत्त' इत्युक्तौ पुनः 'मदमुखर' इति विशेषणं प्रयुञ्जीत । 'मधुमदमुखर' इति हि तत्र पाठः । एवं स्थाने स्थाने । भूयानंशः पाठान्तरेषु धृतः ।
पाठा० - १ चिरावलोकितबन्धुजनदर्शनोत्कण्ठया वा. पुनरागमनचिरावलोकितसहसंवर्धितबन्धुजनदर्शनमुखेन वा सुहन्मुखकमलावलोकनोत्कण्टया वा. २ स्वजनस्य. ३ महास्नेहान्मदलेखया पादपतनेनापि गच्छन्. ४ अनुनेतुम्. ५ पारितः कृतयत्नयापि प्रियसख्या तदा. ६ अभ्यधिकम्. ७ उपयातम्. ८ मधुमद. ९ कुलकोलाहलाकुलित. १० कूजितजनित; कूजितेन जनित.
कादम्बर्याः संदेशः
उत्तरभागः ।
487
Page #15
--------------------------------------------------------------------------
________________
चदलारविन्दनिस्यन्दसुगन्धमन्दगन्धवाहानन्दितदशदिशि प्रदोषसमये, विकसितकुसुमामोदमुकुलितमानिनीमानग्रहोन्मोचनहस्ते कुसुमायुधे, कर्पूरविशदकरनिकरनिर्भरावर्जितज्योत्स्नाजलासारवर्षिणि चन्द्रमसि, दूरविक्षिप्तदलनिवहकुमुदकाननामोदवासितदिगन्तायाः कुमुदिन्यास्तटे, चन्द्रकरस्पर्शप्रवृत्तशशिमणिशिखरनिर्झरझंकारिणि क्रीडापर्वतनितम्बके, हृद्यहरिचन्दनरसकणिकाजालकच्छलेन तत्करतलस्पर्शसुखसंभवस्वेदजलनिवहमिव वहति तत्कालहारिणि मुक्ताशिलापट्टशयने, कुसुमामोदसुरभितदशदिशि तुषारकणनिकरहोरिण्यपि बहिरेव देहँदाहमात्रकायहारिणि सर्वरमणीयानां संदोहभूते हिमगृहे कुसुमसस्तरावलम्बिनी वीक्षिता । ममापि चोपुनरुक्ततद्दर्शनस्पृहे ते एवैते लोचने, ययोरालोकनपथमसौ यातः । तदेव चेदम -
***********
पत्राणि येषामेवंविधानि यान्यरविन्दानि कमलानि तेषां निस्यन्दो रसो यस्मिन्नेवंभूतः सुगन्धः सुपरिमलो मन्दो मृदुर्यो गन्धवाहो वायुस्तेनानन्दिता वासिता दश दिशो यस्मिन् । सर्वाणीति । सर्वाणि समग्राणि यानि रमणीयानि मनोहराणि तेषां संदोहो दोहनं तस्माद्भूते निष्पन्ने तस्मिन् । पुनः कस्मिन्सति । कुसुमायुधे कंदर्प सति । कीदृशे । विकसितानां विनिद्राणां कुसुमानां पुष्पाणामामोदः परिमलस्तेन करणभूतेन मुकुलित एकीभूतो यो मानिनीनां मनस्विनीनां मानग्रहोऽहंकारग्रन्थिस्तस्योन्मोचनं दूरीकरणं तस्मिन्हस्त इव हस्तस्तस्मिन् । पुनः कस्मिन्सति । चन्द्रमसि शशिनि सति । कीदृशे । कर्पूरी हिमवालुका तद्वद्विशदो निर्मलो यः करनिकरः किरणसमूहस्तेन निर्भरं यथा स्यात्तथाऽऽवर्जिता मुक्ता या ज्योत्स्ना चन्द्रिका सैव जलासारोऽम्भसां कणस्तं वर्षतीत्येवंशीलस्तस्मिन् । 'आसारोऽम्भसां कणः' इत्यभिधानाज्जलपदं पुनरुक्तम् । तच्चादोषाय, शाब्दपुनरुक्तित्वात् । तदुक्तं वृद्धकविभिः - 'द्विरदबृहितकरिकलभाश्चहेषाकरकङ्कणकरिहस्ते-. त्यादौ पुनरुक्तेरदोषत्वम् । कथंभूतायाः कुमुदिन्याः । दूरं विक्षिप्तो दलनिवहः पत्रसमूहो यैरेवंविधानि यानि कुमुदकाननानि कैरववनानि तेषामामोदः परिमलस्तेन वासिताः सुगन्धं प्रापिता दिगन्ता यया सा तस्याः । पुनः कस्मिन्सति । क्रीडार्थं पर्वतः शैलस्तस्य नितम्बके कटके सति । 'मेखला मध्यभागोऽद्रेनितम्बः कटकश्च सः' इति हैमः । कीदृशे नितम्बे । चन्द्रकराणां स्पर्शस्तेन प्रवृत्तः प्रवृद्धो यः शशिमणिशिखरनिरिश्चन्द्रकान्तसानुझरस्तस्य झंकारो विद्यते यस्मिन्स तथा तस्मिन् । कीदृशे मुक्ताशिलापट्टशयने । हृद्य मनोहरं यद्धरिचन्दनं तस्य रसस्य कणिकाः सूक्ष्माः कणास्तासां जालकानि तेषां छलं मिषं तेन । तस्य चन्द्रापीडस्य करस्तस्य तलस्तस्य स्पर्शस्तस्मात्सुखं सातं तस्मात्संभवा समुत्पत्तिर्यस्यैवंभूतो यः स्वेदजलनिवहस्तमिव वहतीति वहनं तत्तस्मिन् । एतेन सात्त्विकभावः सूचितः पुनः कीदृशे शिलापट्टके । तत्कालं सद्यो हरत्याकर्षति जनानां चेत इत्येवंशीलः स तथा तस्मिन् । पुनः किंविशिष्टे । कुसुमानां पुष्याणामामोदः परिमलस्तेन सुरभिता सुगन्धीकृता दशदिशो येन तत्तथा तस्मिन् । कीदृशे हिमगृहे । तुषारकणा हिमविपुषस्तेषां निकरण समूहेन हारिण्यपि मनोहरत्वेऽपि बहिरेव बाह्यवृत्त्या देहदाहमात्रेण केवलं शरीरदाहज्वरोत्पादकत्वेन कायं देहं हरतीत्येवंशीलं तत्तथा तस्मिन् । यच्छीतलं तत्कथं दाहकमिति विरोधः । विरहित्वेन तत्परिहारः । अत एव विरोधाभासोऽलंकारः । ममापि च कादम्बर्या अप्यपुनरुक्ता प्रथमा तस्य चन्द्रापीडस्य दर्शनस्पृहावलोकनेच्छा ययोस्त एवैते लोचने नेत्रे । यत्तदोर्नित्याभिसंबन्धात् । ते के । ययोर्नेत्रयोरालोकनपथं विलोकनमार्गमसौ चन्द्रापीडो यातः प्राप्तः । च पुन -
पाठा० - १ वृन्दनिष्यन्दानन्दितमन्दगन्धवहसुगन्धदशदिशि विकसितविविधकुसुमामोदमुकुलितमानिनीमानग्रहोन्मोचनदक्षकुसुमायुधि कर्पूरक्षोदमिश्रचन्दनपङ्कपिण्डे कुपितकामिनीविनोददक्षगेयमुखरपरिजने पुनरुक्तदर्शनाभ्युत्थानव्रीडितकञ्चुकिजने प्रदोषसमये जरठशरकाण्डविपाण्डुनिबिडकुण्डलोदृष्टलडहयुवतिगण्डस्थलान्यखण्डमण्डले मण्डयति गगनचानवरतविस्फुरद्विशदकरनिर्भरावर्जितज्योत्स्नाजलसारवर्षिणि चन्द्रमसि. २ पर्वतकनितम्बे. ३ नीहारिण्यपि. ४ दाहमात्रकापहारिणि. ५ पुनरुक्त. ६ आलोचन.
488
1 कादम्बरी ।
कथायाम्
Page #16
--------------------------------------------------------------------------
________________
प्रतिपत्तिशून्यं हतहृदयम्, येनान्तःप्रविष्टोऽपि न पारितो धारयितुम् । तदेव चैतच्छरीरं येन तत्समीपे चिरमुदासीनेन स्थितम् । स एव चायं पाणिः, योऽलीकगुरुजनापेक्षी नात्मानं परिग्राहितवान् । अनपेक्षितपरपीडश्चन्द्रापीडोऽपि स एव, योऽत्र वारद्वयमागत्य प्रतिगतः । मय्येवोपक्षीणमार्गणतया वाकिंचित्करोऽन्यत्र पञ्चशरोऽपि स एव, यस्त्वयावेदितो मे।
प्रतिज्ञातं च मया महाश्वेतायाः 'त्वयि दुःखितायां नाहमात्मनः पाणिं ग्राहयिष्यामि' इति । तामहं पुनरप्यवदम् । सा तु 'देवि, मैवं स्म मनसि करोः । कुमतिरियम् । अतिदारुणोऽयं पापकारी मकरकेतुः कदाचिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमप्यपहरति' इत्यब्रवीत् । तदपि नास्त्येव मे । मदनेन वा, देवेन वा, विरहेण वा, यौवने वा, -
***********
रर्थे । इदं प्रत्यक्षं तदेव हतहृदयं दैवेन हतं ताडितं हृदयं चेतः । कीदृशम् । अप्रतिपत्तिरज्ञानं तेन शून्यम् । तत्किम् । येन हृदयेनान्तःप्रविष्टोऽपि मध्यगतोऽपि धारयितुं ग्रहीतुं न पारितः । च पुनरर्थे । एतच्छरीरं तदेव । तत्किम् । येन शरीरेण तत्समीपे चन्द्रापीडसंनिधौ चिरं बहुकालमुंदासीनेन तटस्थेन स्थितम् । स एवायं पाणिर्हस्तः । स कः । योऽलीकोऽसत्यो गुरुजनो मातृपित्रादिस्तमपेक्षते इत्येवंशीलः स तथात्मानं स न परिग्राहितवान् । अनपेक्षिता परस्य अर्थान्मम पीडा येनैवंविधश्चन्द्रापीडोऽपि स एव नान्यः । स कः । योऽत्र मत्पार्थे वारद्वयं द्विवारमागत्यागमनं कृत्वा प्रतिगतो निवृत्तः । मय्येव मयि विषय एव । नान्यत्रेत्यर्थः । उपक्षीणा नष्टा मार्गणा बाणाः शरा यस्य स उपक्षीणमार्गणस्तस्य भावस्तत्ता तया । वाशब्द इवार्थे । तथा चोपक्षीणमार्गणतया इव । अन्यत्र चन्द्रापीडादौ न किंचिद्दुःखादिक करोतीत्यकिंचित्करः पञ्चशरोऽपि कामोऽपि स एव । स कः । यस्त्वया सख्या मे ममावेदितस्तत्स्वरूपज्ञापनपूर्वकं निवेदितः ।
महाश्वेताया मयेदं प्रतिज्ञातं च पुनरहं तां महाश्वेतामित्यवदमवादिषम् । इतीति किम् । तदेवाह - प्रतिज्ञातमिति । अङ्गीकृतं च । तदेव दर्शयन्नाह - त्वयीति । त्वयि महाश्वेतायां दुःखितायां नाहं कादम्बर्यात्मनः स्वपाणिं करं ग्राहयिष्यामि । उद्वाहं न करिष्यामीत्यर्थः । सौ तु महाश्वेतेत्यब्रवीत् । इतीति किम् । हे देवि, एवं मनसि चित्ते त्वं माकरोर्मा कार्षीः । 'मेऽटि' इत्यटो लोपः । तदकरणे हेतुं प्रदर्शयन्नाह - कुमतिरिति । कुत्सिता मतिः कुमतिरियं न सम्यग्बुद्धिः । कथमित्याह - अतीति । अयं पापकार्यधर्मजनको मकरकेतुः कंदर्पोऽतिदारुणोऽतितरां भीषणः कदाचिन्न सर्वदा दृश्यमानेऽवलोक्यमाने प्रियजने वल्लभजने जनितहृदयानुरागादुत्पादितमानसिकस्नेहाज्जीवितमपि जीवनमप्यपहरत्यपाकरोति । प्रियजनस्यादृश्यमानत्वं नास्तीत्याशङ्कयाह - तदपीति । तदपि प्रियजनादृश्यमानत्वं मे मम नास्त्येव न विद्यत एव । एतदेव स्पष्टीकुर्वन्नाह - दैवेनेत्यादि । मदनेन वा, कंदर्पण वा, देवेनादृष्टेन वा । विरहेण वियोगेन वा, यौवनेन तारुण्येव वा, अनुरागेन स्नेहेन वा, - टिप्प० - 1 'किंचाधुनाप्यधिकमुपयातम्' इत्यारभ्य एतावत्पर्यन्तस्य - 'न किञ्चिनवीनं जातम् । अहं कुमारादि च सर्वं तदेव । किञ्च महाश्वेतासविधे प्रतिज्ञावशाद्विवाहेऽप्यहं विवशा । अत एव कुमारागमनेन किं मे' इति प्रणयकोपसूचने तात्पर्यम् । 2 'हरति । एतावत्पर्यन्ता पत्रलेखाया उक्तिः । एतदग्रे 'सा तु अब्रवीत् इति पाठः । ततश्च ‘सा तु अब्रवीत् 'एतदने 'तदपि नास्त्येव मे एतदारभ्य 'तदानयनकथया' इति कादम्बयुक्तिः । 3 न हि सेयं महाश्वेताया उक्तिः । सा किल देवीति न तां संबोधयेत् । “तामहं पुनरप्यवदम्-'देवि'-" इत्यादिका पत्रलेखाया उक्तिः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ चिरतत्समीपेऽपि. २ उदासीनं स्थितम्. ३ अलीकगुरुजनापेक्षणात्. ४ इति । सा तु. ५ मैतन्मनस्यकरो. ६ जनितहृदयानुरागः, हृदयानुरागात्. ७ हरति. ८ एतदपि.
कादम्बर्याः सदेशश्रवणम्
उत्तरभागः ।
Page #17
--------------------------------------------------------------------------
________________
अनुरागेण वा, मदेन वा, हृदयेन वा, अनेन वा केनापि दत्तः संकल्पमयःकुमारो जनसंनिधावपि केनचिदविभाव्यमानः सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि चौसाविव नायमकाण्डपरित्यागनिष्ठुरहृदयः । अयमेवास्मद्विरहकातरः । नायं नक्तदिवं लक्ष्म्या समाकुलः । न पृथिव्याः पतिः । न सरस्वतीमपेक्षते । न कीर्तिशब्द वर्धयति । पश्यामि चाहर्निशमासीनोत्थिता भ्राम्यन्ती शयाना जाग्रती निमीलितलोचना चलन्ती स्वप्नायमाना शयने श्रीमण्डपे गृहकमलिनीषूयानेषु लीलादीर्घिकासु क्रीडापर्वतके बालगिरिनदिकासु च यथा तमज्ञजनविडम्बनैकहेतुं विप्रलम्भक कुमारं ते तथा कथितमेव मया । तदलमनया तदानयनकथया' इत्यभिदधानाऽतर्कितागतमूडूंव निमीलिताक्षी पक्ष्माग्रसंपिण्डितनयनजलवर्षिणी विलीयमानेवोत्पीड्यमानेवान्तर्जातमन्युवेगेन तथैव वेदिकाविताननाभिदामांशुकावलम्बिन्यां -
***********
मदेन मत्ततया वा, हृदयेनान्तःकरणेन वा । अत्र वाशब्दः सर्वत्र विकल्पार्थः । किं विकल्पान्तरेण । अनेनानुद्दिष्टनाम्ना वा केनापि दत्तोऽर्पितः संकल्पमयः कल्पनात्मकः कुमारश्चन्द्रापीडो जनानां लोकानां संनिधावपि समीपेऽपि केनचिदविभाव्यमानोऽज्ञायमानागमनः सिद्ध इवाणिमायष्टगुणोपेत इव मे मम सर्वदा दर्शनं ददाति वितरति । अपि चेति प्रकारान्तरे । असाविव चन्द्रापीड इवायं संकल्पककुमारोऽकाण्डेऽप्रस्तावे यः परित्यागो मोचनं तस्मिनिष्ठुरं निर्दयं हृदयं यस्यैवंभूतो न । अयमेव संकल्पकुमार एवास्माकं विरहे वियोगे कातरो भीरुः । एतदर्थमन्यासक्तिप्रतिषेधद्वारा स्पष्टीकुर्वनाह - नायमिति । अयं पूर्वोक्तो नक्तंदिवमहर्निशं लक्ष्म्या रमया समाकुलो व्याकुलीभूतो न । तथा पृथिव्या वसुंधरायाः पतिः स्वामी न । तथा सरस्वतीं वाणी नापेक्षते नेहते । तथा कीर्तिशब्दं यशोवादं न वर्धयति न वृद्धिं नयति । सर्वदा तत्स्वरूपमहं पश्यामीत्याशयेनाह - पश्यामीति । यथा येन प्रकारेण तं चन्द्रापीडाभिधमज्ञजनो मूर्खजनस्तस्य विडम्बनाया विरहादिरूपायामेकमद्वितीयं हेतुं कारणं विप्रलम्भकं वञ्चकं कुमारमहं कादम्बर्यासीनोपविष्टा, उत्थितो भूता, भ्राम्यन्तीतस्ततः पर्यटन्ती । विरहादिति शेषः । शयाना स्वापं कुर्वाणा, जाग्रत्यशयाना, निमीलितलोचना मुद्रितनयना, चलन्ती स्वेच्छया गच्छन्ती स्वप्नायमाना स्वप्नं पश्यन्ती, शयने शय्यायाम, श्रीमण्डपे श्रियोपलक्षितजनाश्रये, गृहकमलिनीषु सदनपद्मिनीषु, उद्यानेषूपवनेषु, लीलादीर्घिकासु क्रीडावापीषु, क्रीडापर्वतके क्रीडाशैले, बालगिरिः क्रीडार्थं निर्मितः शैलस्तस्य नदिकासु स्वल्पतटिनीषु चाहर्निशमहोरात्रं पश्याम्यवलोकयामि । तथा तेन प्रकारेण मया कादम्बर्या कथितमेव पूर्वं निवेदितमेव । तदिति पूर्वोक्तहेतोरनया मानसिकप्रत्यक्षया । 'इदमः प्रत्यक्षगतम्' इत्युक्तेः । तस्य कुमारस्यानयनम् । उज्जयिन्या मत्समीपानयनमित्यर्थः । तस्य कथा वार्ता तया अलं भृतम् । इत्यभिदधानेति जल्पन्त्यतर्किताऽसंभाविता मूर्छा मोहो यस्याः सेव । सहसा प्राप्तमूर्छवेत्यर्थः । निमीलिते मुद्रिते अक्षिणी लोचने यया सात एव पक्ष्मणां नेत्ररोग्णामग्रेषूपरिभागेषु संपिण्डितं पिण्डीभूतं यन्नयनयोर्जलं तद्वर्षतीत्येवंशीला । तथान्तर्मध्ये जातो मिथ्या किं जीवितेनेत्यादिप्रभवो यो मन्युवेगः क्रोधरयस्तेन विलीयमानेव द्रुततां गच्छन्तीव, उत्पीड्यमानेवोत्प्राबल्येन पीडां प्राप्यमाणेव, तथैव तथावस्थैव वेदिका बद्धभूमिस्तस्या वितानमुल्लोचस्तस्य नाभिर्मध्यप्रदेशस्तत्र यद्दाम तनिष्ठं यदंशुक हस्तक्षतनिवारणार्थं वस्त्रं निबध्नन्तीति सार्वत्रिकी प्रसिद्धिस्तदवलम्बत इत्येवंशीलायां बाहुलतिकायां भुजलतायामाननं मुखमुपावेश्य संस्थाप्य तूष्णीं मौनेन तस्थौ स्थितवती । अत एवोत्कीर्णेव लोह(श)लाकाक्षोदितेव ।
पाठा० - १ अन्येन. २ आदाविवासौ. ३ तस्मादस्मदिरहमरणभयहरः. ४ लक्ष्मीसमाकुलः. ५ उच्छ्रिता. ६ च गृहशयने. ७ गृहे कमलिनीषु; गृहदीर्घिकाकमलिनीषु. ८ अभिदधाना गुरुमन्युभारवेगा.
(490)
कादम्बरी।
। कथायाम्-)
Page #18
--------------------------------------------------------------------------
________________
बाहुलतिकायामच्छसलिलप्रसूतायां मृणालिकायामिव जलाहतिश्यामारुणतामरसमिवाननमुपावेश्य तूष्णीमुत्कीर्णेव तस्थौ ।
अहं तु तच्छ्रुत्वा समचिन्तयम् - 'सत्यमेव गरीयः खलु जीवितालम्बनमिदं वियोगिनीनाम्, यदुक्तं संकल्पमयः प्रियो नितरां कुलाङ्गनानां विशेषतः कुमारीणाम् । तथा हि । अनेन सार्धमकृतदूतिकापादपतनदैन्यान्यन्यानि च प्रतिक्षणं समागमशतान्यकालरमणीयानि स्वेच्छाभिसरणसौख्यान्यत्यन्तादूषितकन्यकाभावानि सुरतानि, सुरतेषु चाकृतस्तनव्यवधानदुःखान्यालिङ्गनानि, अजनितव्रणदर्शनव्रीडानि नखदन्तपदानि, अनाकुलितकेशपाशाः कचग्रहमहोत्सवाः, शब्दविहीनानि निधुवनानि, अनुत्पादितगुरुजनविभावितक्षतवैलक्ष्याण्यधरख -
***********
बाहुलतिकानने उत्प्रेक्षयन्नाह - अच्छेति । अच्छं निर्मलं यत्सलिलं पानीयं तस्मिन्प्रसूतोत्पन्ना या मृणालिनी कमलिनी तस्यामिव, जलस्य पानीयस्याहतिराघातस्तया श्याम कृष्णं यदरुणं रक्तं तामरसं कमलमिव । सरलसुकुमारत्वसाधाद्धाहुलतिकाया मृणालिन्युपमानम् । वर्तुलत्वरक्तसादृश्यत्वेन मुखस्य तामरसोपमानत्वमिति भावः ।
अहं त्विति । तु पुनरर्थे । इदं पत्रलेखा तत्पूर्वोक्तसंकल्पमयः कुमारो जनसंनिधावपि ददाति दर्शनमिति श्रुत्वाकर्ण्य समचिन्तयममृशम् । इदं सत्यमेवावितथमेव । इदं किम् । यदुक्तसंकल्पमयः संकल्पस्वरूपः प्रियः, खलु निश्चयेन, वियोगिनीनां विप्रलम्भवतीनां नितरामतिशयेन कुलाङ्गनानां कुलवधूनाम्, विशेषतो विशेषात्कुमारीणाम् । कुमारीति पदमनूढायां रूढम् । अतिशयेन गुरुर्गरीयः अतिशयार्थे ईयप्रत्ययः । जीवितस्य जीवनस्यालम्बनमाधारभूतम् । तदेव दर्शयति - तथा हीति । अनेन कुमारेण सार्धं समं न कृतानि विहितानि दूतिकायाः संचारिकायाः पादपतनादिदैन्यानि येभ्यस्तान्येवंविधान्यन्यानि च प्रतिक्षणं प्रतिसमयं समागमस्य संयोगस्य शतानि । केचित्तु समागमस्य संभोगस्येति व्याख्यां कुर्वन्ति । तदसत् । एकक्षणे संभोगशतस्यासंभवात् । तथा कालो विरहदिवसस्तेन रमणीयानि मनोहराण्येवंविधानि स्वस्यात्मन इच्छेहा तयाभिसरणं समीहितस्थले गमनम्, अभिरमणं वा, तज्जनितानि सौख्यानि सुखान्यत्यन्तं परज्ञानाभावेनादूषितोऽदुष्टो कन्यकाभावो येष्वेवंभूतानि सुरतानि मैथुनानि । सुरतेषु च संभोगेषु च न कृतं न विहितं स्तनानां व्यवधानं तस्माद्दुःखं यैस्तान्येवंभूतान्यालिङ्गनान्युपगृहनानि । अजनिताऽनुत्पादिता व्रणदर्शनात्क्षतावलोकनाद् व्रीडा लज्जा यैस्तान्येतादृशानि नखदन्तयोः पदानि लक्ष्माणि । अनाकुलितः संबद्धः । विप्रकीर्ण इति यावत् । केशपाशः केशकलापो येष्वेवंविधाः कचानां केशानां ग्रहा एव महान्त उत्सवाः । शब्दैः सीत्कारैर्विहीनानि रहितानि निधुवनानि सुरतानि । अनुत्पादितं न निर्मितं गुरुजनैर्मातृपित्रादिभिविभावितं ज्ञातं क्षतं व्रणं यैरेतादृशान्यत एव विलक्षणानि वैलक्ष्याणि भिन्नान्यधरस्यौष्ठस्य खण्डनान्येव विलसितानि क्रीडितानि । एतेन चन्द्रापीडसंभोगादप्यस्य संभोगस्य सर्वदा विलक्षणत्वमिति ध्वनितम् । एवमिति । एवमग्रे वक्ष्यमाणं चिन्तयन्त्या विचारयन्त्या एव मे ममानुरागस्य स्नेहस्य कथा वार्ता सैव रसस्तेन प्लावः स्नपनं तेनैव दिवसो -
टिप्प० -1 'अन्यान्येव' प्रसिद्धसंभोगशतेभ्यः अन्यविधान्येव (विलक्षणान्येव) इति यदि स्यात्तर्हि समुचितमपि । 2 'सुरतेषु च इत्यारभ्य 'निधुवनानि इत्युक्तिः 'सुरतेषु सुरतानि' इति पर्यवसायिका स्यात्, अत एव 'शब्दविहीनानि चुम्बनानि इत्यन्यसंमतः पाठः । 3 न उत्पादितं गुरुजनैः विभावितेन (लक्षितेन) क्षतेन (व्रणेन) वैलक्ष्यम् (लज्जा) येषु तानि, इति स्पष्टोऽर्थः ।
पाठा० - १ सलिलसोतसि. २ जलसंहति. ३ तरुण. ४ अबाङ् निवेश्य. ५ विनोदश्च वियोगिनीनाम्. ६ यदुत; अन्तः. ७ प्रियजनः; प्रियतरः. ८ सुतराम्. ९ कुमारिकाणाम्. १० अन्यान्येव. ११ अन्यत्राकालनीयानि रमणीयानि. १२ दूषित. १३ भावचिह्नानि. १४ दन्तक्षतमुखानि. १५ चुम्बनानि.
(कादम्बर्याः संदेशश्रवणम् ।
उत्तरभागः ।
491)
Page #19
--------------------------------------------------------------------------
________________
ण्डनविलसितानि । नैनमन्धकारराशिरन्तरयति, न जलधरधारापातः स्थगयति, न नीहारनिकरस्तिरोदधाति' इत्येवं चिन्तयन्त्या एव मेऽनुरागकथारसप्लावेनेव रक्ततामगादिवसः । तत्क्षणं प्रकटितरागं हृदयमिव कादम्बर्यास्त्रपया पलायमानमदृश्यत रविमण्डलम् । पल्लवशयनमिव संध्यारागमरचयद्यामिनी । परिचारक इव चन्द्रमणिशिलातलेतल्पमकल्पयत्प्रदोषः ।
अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्वाणा दूरतो दीपिकाधारिण्यो गन्धतैलावसिक्तसुरभिगन्धोद्गारिणीभिदीपिकाभिर्विरचितचक्रवालिका बालिकाः पर्यवारयन् । अथ निर्मललावण्यलक्षितानि दीपिकाप्रतिबिम्बानि ज्वेलितानि मदनसायकस्य शल्यकानीवाङ्गलग्नानि समुदहन्तीं नवनिरन्तरकलिकाचितां चम्पकलतामिव तथास्थितां तां पुनर्व्यजिज्ञपम् - 'देवि, -
***********
वासरो रक्ततामरुणतामगाज्जगाम । किमित्याकाङ्क्षायामाह - नैनमिति । अन्धकारस्य ध्वान्तस्य राशिः समूह एनं सूर्यं नान्तरयति । नान्तरायीकरोतीत्यर्थः । तथा जलधरस्य मेघस्य धारापातो जलासार एवं न स्थगयति । न स्तम्भयतीत्यर्थः । नीहारस्य हिमस्य निकरः समूह एनं सूर्यं न तिरोदधाति न च्छादयति । तत्क्षणमिति । मद्रागो न्यून इति त्रपया लज्जया पलायमानं नश्यमानं रविमण्डलं सूर्यबिम्बमदृश्यतावीक्ष्यत । जनैरिति शेषः । कीदृशम् । तत्क्षणं तत्कालं प्रकटित आविष्कृतो रागो येन तत्तथा । रक्तत्वसाम्यदाह - कादम्वर्या हृदयमिव स्वान्तमिव । यामिनीति । यामिनी रात्रिः संध्यारागमरचयदकरोत् । रक्तत्वसाम्यादाह - पल्लवेति । पल्लवानां किसलयानां शयनं शय्या तदिव । परिचारक इवेति । परिचारक इव सेवक इव प्रदोषो यामिनीमुखं चन्द्रं शशिनं मणेः शिलातलं मणिशिलातलं तल्पं शय्यामकल्पयदरचयत् । अत्रान्तर एवंविधसमये दूरतो दीपिकाधारिण्यो बालिका आगत्य पर्यवारयन्दूरीचक्रुः । अन्धकारमिति शेषः । एकीबभूवुरिति वा । किं कुर्वन्त्यः निरन्तरं दीपिकाः कर्तव्या इति स्वं स्वं स्वकीय स्वकीयं नियोगमादेशमशून्यमवन्ध्यं कुर्वाणा विदधानाः । किंविशिष्टाः । विरचितेति । विरचिता निष्पादिताश्चक्रवालिका मण्डलं याभिस्ताः । काभिः दीपिकाभिः 'दीवी' इति जनप्रसिद्धाभिः । दीपिकाभिः कीदृशीभिः । गन्धतैलं सुगन्धस्नेहस्तेनावसिक्ताः सिञ्चिताः सुरभिगन्धमुद्गिरन्तीत्येवंशीलाभिः । अथेति । दीपिकानमनानन्तरमहं ताम् । पत्रलेखामिति शेषः । पुनर्व्यजिज्ञपं विज्ञप्तिमकार्षम् । कीदृशीं ताम् । समुद्वहन्ती धारयन्तीम् । कानि । दीपिकानां प्रतिबिम्बानि प्रतिच्छायारूपाणि प्रतिबिम्बानि । कीदृशानि । निर्मलं स्वच्छं यल्लावण्यं लवणिमा तेन लक्षितानि ज्ञातानि । अतिसुन्दरलावण्ये प्रतिबिम्बितानीत्यर्थः । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ उत्प्रेक्षते - मदनसायकस्य कामबाणस्य ज्वलितानि घुषितान्यङ्गलग्नानि शल्यकानीवानिःसृताग्राणि बाणानीव । पुनः कीदृशीं ताम् । चम्पकस्य हेमपुष्पकस्य लतामिव शाखामिव तथास्थिताम् । चम्पकलतां कीदृशीम् । नवाः प्रत्यग्रा निरन्तरा । व्यवधानरहिता याः कलिकाः कोरकास्ताभिश्चितां व्याप्ताम् । अत्र सरलत्वंसादृश्याछरीरस्य चम्पकलतोपमानम् । दीपिकाप्रतिबिम्बानां कोरकाकृतित्वेन कलिकोपमानम् । कां विज्ञप्तिं कृतवतीत्याशयेनाह - देवीति । हे देवि कादम्बरि, त्वं प्रसीद प्रसन्ना भव । तथा खेदाभावोऽखेदस्तस्मै अर्हा -
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'एनं संकल्पमयं प्रियमित्यर्थो बोध्यः । 2 बालिकाः कादम्बरी पर्यवेष्टयन इति स्पष्टोर्थः । 3 विरचितं चक्रवालं याभिस्ताः, बहुव्रीह्यवयवः कप् । 4 तां कादम्बरीमिति बोध्यम् ।
पाठा० . १ प्लवेन परेण. २ तलम्. ३ स्वनियोगम्. ४ अवसेकसुरभिधूम. ५ चलन्ति. ६ सायकशल्यानि. ७ तथावस्थिताम्.
(4921
कादम्बरी।
कथायाम्
Page #20
--------------------------------------------------------------------------
________________
प्रसीद । नार्हस्यखेदाए हृदयखेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादाय चन्द्रापीडमागतैव' इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहरणमन्त्रेण विषमूर्छितेव झटित्युन्मील्य नयने सस्पृहं मामवलोक्य 'कः प्रदेशेऽस्मिन्' इति परिजनमपृच्छत् ।
अथ धवलवसनोल्लासितगात्रयष्टयः, द्वारप्रदेशसंपिण्डिताङ्ग्यः, परशुरामशरविवरविनिर्गता इव राजहंसपङ्क्तयः, कलहंसकलालापमधुररवैः प्रतिवाचमिव प्रयच्छद्भिपुरैः पतत्कर्णपूरपल्लवोल्लासितैश्चाज्ञाश्रवणाय धावद्भिरिव श्रवणैर्मीक्तिककुण्डलांशुजालकानि स्कन्धदेशनिक्षिप्तानि चामराणीव वहन्त्यः समाहतकपोलस्थलैः कुण्डलैर्बलादिव वाह्यमानाः, वाचालैः कर्णोत्पलमधुकरैः 'समाज्ञापय' इति व्याहरन्त्यः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च मुखक -
***********
योग्या त्वं हृदये स्वान्ते खेदं करोतीत्येवंशीलं संतापमङ्गीकर्तुं नार्हसि न योग्या भवसि । तथा मन्युः क्रोधस्तस्य वेगं रयं संहर त्यज । कोपवृद्धिं मा कुर्वित्यर्थः । एषाहं पत्रलेखाख्या सखी चन्द्रापीडमादाय गृहीत्वागतैव । अथेति । तच्छ्रवणानन्तरं विषमूर्छिता विषापहरणमन्त्रेणेव । अनेन देवनाम भवन्नामग्रहणं गर्भेयस्मिन्नेवंविधेन मम पत्रलेखाया वचसा वाक्येन झटिति शीघ्र नयने नेत्रे उन्मील्योद्घाट्य सस्पृहं स्पृहायुक्तं यथा स्यात्तथा मां पत्रलेखामवलोक्य निरीक्ष्येति परिजनं सेवकलोकमपृच्छत्पप्रच्छ । इतीति किम् । अस्मिन्नासत्रप्रदेशे समीपस्थले कः । तिष्ठतीति शेषः ।
अथेति । तदनन्तरं कन्यका कुमार्यः समधावंस्त्वरितं चेलुः । कन्यका विशेषयन्नाह - धवलेति । धवलैः शुभैर्वसनैर्वस्त्रैरुल्लासिताः शोभिता गात्रयष्टयो देहलता यासां ताः । द्वारेति । द्वारप्रदेशे प्रतोलीदेशे संपिण्डितानि संकोचितान्यङ्गानि शरीराणि याभिस्ताः । उत्प्रेक्षते - परशुरामस्य जामदग्न्यस्य शरविवरेण बाणच्छिद्रेण विनिर्गता राजहंसानां पङ्क्तय इव । शुभ्रवस्त्रावृतत्वेन तासां हंसपङ्क्तिसाम्यं । तदुक्तं काव्यप्रकाशे - 'साधर्म्यमुपमाभेदे' इति । किंविशिष्टाः कन्यकाः । नूपुरैश्चरणभूषणैरुपलक्षिता ज्ञाताः । उपलक्षणे तृतीया । नूपुराणि विशेषयन्नाह - कलेति । कलहंसानां कादम्बानाम् - 'कादम्बास्तु कलहंसाः' इति हैमः । तेषां कला मनोहरा य आलापाः शब्दास्त इव मधरा मिष्टा ये रखाः शब्दास्तैः प्रतिवाचं प्रत्यत्तरं प्रयच्छद्भिर्ददद्भिरिख । च पनरर्थे । पनः किंविशिष्टाः । श्रवणैः कर्णेरुपलक्षिताः । किंविशिष्टैः श्रवणैः । पतन्तो भ्रश्यन्तो ये कर्णपरस्य कर्णाभरणस्य पल्लवाः किसलयास्तैरुल्लासितैरुद्भासितैः । अतएवोत्प्रेक्षते श्रवणैः कीदृशैरिव । आज्ञाया निदेशस्य श्रवणं श्रुतिस्तदर्थं धावद्भिरिव त्वरितं गच्छद्भिरिव । पुनः किं कुर्वन्त्यः । वहन्त्यो धारयन्त्यः । कानि । मौक्तिकैर्मुक्ताफलैः खचितानि कुण्डलानि कर्णभूषणानि तेषामंशवः किरणास्तेषां जालकानि समूहाः । स्वार्थे कः । 'जालं समूह आनायगवाक्षक्षारकावपि' इत्यमरः । उप्रेक्षते - स्कन्धदेशे भुजशिरःप्रदेशे निक्षिप्तानि स्थापितानि चामराणीव वालव्यजनानीव । पुनः किंविशिष्टाः । समाहतानि ताडितानि कपोलस्थलानि गलात्परप्रदेशा यैरेवंविधैः कुण्डलैर्बलाद्धाद्वाह्यमाना इवोत्पाद्यमाना इव । पुनः किं कुर्वन्त्यः । कर्णोत्पलानां श्रवणकुवलयानां वाचालैर्मधुकरैभ्रमरैरिति व्याहरन्त्य इति वदन्त्य इव । इतीति किम् । समाज्ञापय । आज्ञा देहीत्यर्थः । आज्ञेति । कादम्बरी मरकतशिलातलेऽश्मगर्भदृषदुपरि न्यषीदत् । अतिष्ठदिति क्रियासंटङ्कः । किं कुर्वन्ती । - - - - - - - - - - - - --
- - टिप्प० -1 कार्तिकेयस्य स्पर्धया, शरेण कौञ्चपर्वतविवरं विधाय तद्वारेण अवरुद्धा हंसपङ्क्तयो निःसारिता जामदग्न्येनेति महाभारतकथाऽनुसंधेया । 2 कर्णैः (करणैः) मौक्तिककुण्डलांशुजालकानि वहन्त्य इति स्पष्टोऽर्थः । अस्तु. 3 बलपूर्वकं गमनाय प्रेर्यमाणा इत्यर्थः ।
पाठा० - १ बहुलसित. २ समुल्लसित. ३ द्वारदेशसंदण्डिताः; द्वारप्रदेशप्रवेशसंपिण्डिताङ्ग्यः . ४ कलहंस. ५ कलापमधुरालापैः. ६ समन्तात्समधावन्. ७ आज्ञा प्रतीक्षमाणासु.
(कादम्बर्या वृत्तान्तश्रवणम् ।
उत्तरभागः ।
493
Page #21
--------------------------------------------------------------------------
________________
मलावलोकिनीषु च तासु क्रमेण दृष्टिं पातयन्ती मरकतशिलातले न्यषीदत्, अब्रवीच्च - 'पत्रलेखे, न खलु प्रियमिति ब्रवीमि । त्वामेव पश्यन्ती संधारयाम्येव जीवितमहम् । तथापि यद्ययं ते ग्रहस्तत्साधय समीहितम्' इत्यभिधायाङ्गस्पृष्टनिवसनाभरणताम्बूलप्रदानप्रदर्शितप्रसादातिशयां मां व्यसर्जयत् ।"
इत्यावेद्य च किंचिदिव नमितमुखी शनैः पुनर्व्यजिज्ञपत् - 'देव, प्रत्यग्रदेवीप्रसादातिशयाहितप्रागल्भ्या दुःखिता च विज्ञापयामि । देवेनाप्येतदवस्थां देवीं दूरीकुर्वता किमिदमापन्नवत्सलायाः स्वप्रकृतेरनुरूपं कृतम् ? ' इति । चन्द्रापीडस्तु तथोपालम्भगर्भ विज्ञप्तः पत्रलेखया -
***********
पातयन्ती क्षिपन्ती । काम् । दृष्टिं दृशम् । कासु । तासु कन्यकासु । कथम् । क्रमेणानुपूा । कथंभूतासु तासु । आज्ञाया निदेशस्य प्रतीक्षा प्रतीक्षणम् । प्रतिपालनमिति यावत् । यासा तास्तथा तासु । पुनः कीदृशीषु मुखमेव कमलं पद्मम् । स्वामिन्या इति शेषः । तदेवावलोकितुं शीलं यासां तास्तथा तासु । अब्रवीच्चेत्युपवेशनानन्तरमित्यवोचत् । च पुनरर्थे । किमुवाचेत्याह - पत्रेति । हे पत्रलेखे । खलु निश्चयेन त्वद्गमनं प्रियमिष्टमितिहेतोरहं त्वां न ब्रवीमि न कथयामि । यतोऽहं त्वामेव । न त्वदन्यमित्यर्थः । पश्यन्ती विलोकयन्ती जीवितं जीवनं संधारयाम्येव दधाम्येव । अतः सर्वथा त्वद्गमनं मम नेष्टम् । तथापि यद्ययं कुमारानयनलक्षणस्ते तव ग्रहो हठः, तत्तर्हि समीहितं वाञ्छितं साधय विधेहि । इत्यभिधाय प्रतिपाद्य मां पत्रलेखां व्यसर्जयदप्रेषयत् । किंलक्षणां माम् । अङ्गस्पृष्टानि शरीरलग्नानि यानि निवसनाभरणताम्बूलानि सुवस्त्रालंकारनागवल्लीदलानि तेषां प्रदानेन वितरणेन प्रदर्शितोऽन्येभ्यो ज्ञापितः प्रसादातिशयः प्रसन्नताधिक्यं यस्याः सा ताम् ।
इति पूर्वोक्तमावेद्य निवेद्य च किंचिदिवेषन्नमितं नम्रीकृतं मुखमास्यं यया सैवंविधा पत्रलेखा शनैर्मन्दमन्दं पुनर्व्यजिज्ञपद्विज्ञप्तिमकार्षीत् । देवेति । हे देव हे स्वामिन्, अहं विज्ञापयामि विज्ञप्तिं करोमि । किंलक्षणाहम् । प्रत्यग्रो नवीनो यो देव्याः प्रसादः प्रसन्नता तस्यातिशय आधिक्यं तेनाहितमारोपितं प्रागल्भ्यं महत्त्वं यस्याः सा । परं दुःखिता च संजातदुःखा च सती । अथ विज्ञापनां विशदयति - देवेनापीति । देवेनापि स्वामिनापीदं स्वप्रकृतेः स्वस्वभावस्यानुरूपं सदृशं कृतं विहितम् । कथंभूतायाः स्वप्रकृतेः । आपन्नं प्राप्तं वत्सलत्वं हितकारित्वं यया सा तस्याः । किं कुर्वता देवेन । दूरीकुर्वता त्यजता । काम् । देवी कादम्बरीम् । कीदृशीम् एषानन्तरोदितावस्था यस्याः सा ताम् । चन्द्रापीड इति । चन्द्रापीडस्तु पत्रलेखयोपालम्भगर्भमुपालम्भो गर्भे मध्ये यत्र क्रियायां स्यात्तथा विज्ञप्तो नितरामत्यन्तं पर्याकुलो व्याकुलोऽभवदिति क्रियासंटङ्कः । किंलक्षणः । स्वभावेन निसर्गेण धीरा स्थिरा प्रकृतिः स्वभावो यस्यैवंविधोऽपि । किं कृत्वा । कादम्बर्या देव्यास्तमालापमाकर्ण्य श्रुत्वा । किंलक्षणमालापम् । स्नेहोक्तिः स्नेहस्य प्रीतेरुक्तिः पुरःसरा मुख्या यत्र तम् । चेत्यपरम् । किं कृत्वा स्तिमिते निश्चले पक्ष्मणी नेत्ररोमराजी ययोस्तयोर्भावस्तत्ता तया दुर्विषहमसह्यं दुःखं तेन यो बाष्पोऽसं तेनोपप्लुते व्याप्ते आयते विशाले अक्षिणी यस्य तत्तन्मुखं तस्याः पत्रलेखाया मुखमुत्प्रेक्ष्यो - टिप्प० - 1 प्रयासपूर्वकं गत्वा तदानयनं मम नाभीष्टमिति विबोकः सोयम् । 'विवोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः' इति तल्लक्षणम् । त्वद्गमनं प्रियमिति तु न केनचिदाशङ्कितमासीत् । 2 अर्थात् निजशरीरधृतानां निवसनाभरणानां तथा ताम्बूलस्य च प्रदानेन । ताम्बूलपर्यन्तस्य शरीरलग्नत्वविशेषण तूपहासायैव । 3 'आपन्नवत्सलायाः' इत्यस्यैवं स्पष्टव्यम् । आपनेषु विपद्ग्रस्तजनेषु वत्सलायाः स्नेहवत्याः (प्रकृतेः) इति सुप्रसिद्धोऽर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ स्निग्धामिन्दीवरसवमिव मरकत. २ प्रत्यहं.
(494
कादम्बरी।
कथायाम्
Page #22
--------------------------------------------------------------------------
________________
तं च कादम्बर्याः स्नेहोक्तिपुरःसरं च गम्भीरं च, सतापं च सपरिहासं च, साभ्यर्थनं च साभिमानं च, सावलेह च सप्रसादं च, सनिर्वेदं च सानुरागं च, सकोपं च सनिर्विशेषं च सावष्टम्भं च, सात्मार्पणं च सोत्यासं च, सोपालम्भं च सानुक्रोशं च, सस्पृहं च सावधारणं च, मधुरमपि दुःश्रवम्, सरसमपि शेषहेतुम्, कोमलमपि कठोरम्, नम्रमप्युनतम्, पेशलमप्यहंकृतम्, ललितमपि प्रौढमालापमार्कोत्प्रेक्ष्योत्प्रेक्ष्य च स्तिमितपक्ष्मतया दुर्विषहदुःखबाष्पोपप्लुतायताक्षं तन्मुखं स्वभावधीरप्रकृतिरपि नितरां पर्याकुलोऽभवत् ।
***********
प्रेक्ष्य दृष्ट्वा दृष्ट्वा । आदरार्थे वीप्सा । अथो आलापं विशेषयन्नाह - गम्भीरमित्यादि । अत्र सर्वत्र चकारो वाक्यालंकारार्थः । गम्भीर महार्थम् । सतापं तापेन सहवर्तमानम् । सपरिहासं परिहासेन सह वर्तमानम् । साभ्यर्थनमभ्यर्थना प्रार्थना तया सहवर्तमानम् । साभिमानं साहंकारम् । सावलेहमवलिह्यत आस्वाद्यत इत्येवलेहो रसस्तेन सहवर्तमानम् । अवज्ञया सहवर्तमानं वा । प्रसादोऽनुग्रहः, गुणो वा, तेन सहवर्तमानम् । निर्वेदः स्वावमाननं तेन सहवर्तमानम् । अनुरागो भक्तिस्तेन सहवर्तमानम् । कोपः क्रोधस्तेन सहवर्तमानम् । सनिविशेष नितरां विशेष उत्कृष्टविशेषस्तेन सहवर्तमानम् । सावष्टम्भमवष्टम्भः स्तब्धता तेन सहवर्तमानम्, सात्मार्पणं सहात्मार्पणेन वर्तते यः स तम् । सोव्यासं सहोत्यासेनोत्कण्ठया वर्तमानम् । सोपालम्भं सहोपालम्भेन वर्तमानम् । सानुक्रोशं सहानुक्रोशेनामर्षेण वर्तमानम् । सस्पृह सह स्पृहया वाञ्छया वर्तमानम् । सावधारणं विमर्शपूर्वकं च । विरोधाभासेन तमेव विशेषयन्नाह - मधुरमित्यादि । अत्र सर्वत्रापिशब्दो विरोधाभासालंकारद्योतनार्थः । मधुरमपि मिष्टमपि । दुःखेन श्रूयत इति दुःश्रवमिति विरोधः । आभासस्तु श्रृङ्गाराथुपयुक्तार्थप्रदत्वलक्षणमाधुर्यस्य विवक्षणात् । सह रसेन वर्तमानमपि शोषस्य हेतुर्निदानमिति विरोधः । आभासस्तु सरसमिति श्रृङ्गारादिरसोपयुक्तमित्यर्थात् । कोमलं मृदुमपि कठोरमिति विरोधः । आभासस्तु कोमलमनिष्ठुराक्षरत्वमित्यर्थात् । नम्र नमनशीलमप्युनतमुच्चैस्तरमिति विरोधः । आभासस्तु नम्र पतत्प्रकर्षमित्यर्थात् । पेशलं सुकुमारमप्यहंकृतमिति विरोधः । आभासस्तु हृद्यमित्यर्थात् । ललितं लघ्वपि प्रौढं महदिति विरोधः । आभासस्तु ललितं सुकोमलबन्धमित्यर्थात् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 स्नेहोक्तिपुरस्सरं च गंभीरं च, ससंतापं च सपरिहारं च, साभ्यर्थनं च साभिमानं च, इत्यादिरूपेण परस्परविसंवादिविशेषणद्वयस्य एकत्रसंनिवेशेन कादम्बर्या आलापस्य साधारणतोऽतिशयः सूच्यते । यथा हि-तत्र स्नेहोक्तिकातर्ये सत्यपि गाम्भीर्यमस्ति, विरहसंतापे सत्यपि कुमारसमागमप्रत्याशया तस्य विरहस्य परिहारोप्यस्ति । अभ्यर्थनालाघवं यद्यस्ति तर्हि आत्माभिमानोऽप्यस्ति इति ग्रन्थकारस्य गुम्फनचातुर्यम् । 'मधुरमपि दुःश्रवम्, सरसमपि शोषहेतुम्,' इत्यादिना अग्रे तु सोयमर्थः स्वयमेव स्पष्टीकृतः । 'सकोपं च सात्मार्पणं च, ससद्धावं च सोत्प्रासं च, टीकाकारेण तदेतन्निर्वासितम् । 2 'सावहेलं च सप्रसादं च,' इत्येव पाठः । अर्थात् तस्मिन्नालापे अवज्ञा यदि प्रकाशिता, तर्हि प्रसादोऽप्याविष्कृत इति तत्तात्पर्यम् ।
पाठा० - १ ससंतापम्. २ सावहेलम्. ३ च. ससद्भावं च. ४ आकर्ष्याकर्ण्य. ५ अभूत.
चन्द्रापीडस्यानुतापः
उत्तरभागः ।
495
Page #23
--------------------------------------------------------------------------
________________
I
अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्य युगपद्गृहीतो हृदये मन्युना, कण्ठे जीवितेन, अधरपल्लवे वेपथुना, मुखे श्वसितेन, नासाग्रे स्फुरितेन, चक्षुषि बाष्पेण तुल्यवृत्तिर्भूत्वा कादम्बर्याः क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुच्चैः प्रत्युवाच - ‘पत्रलेखे, किं करोमि । अनेन दुःशिक्षितेन ज्ञानाभिमानिना पण्डितंमन्येन दुर्विदग्धेन दुर्बुद्धिनालीकधीरेण स्वयंकृतं मिथ्याविकल्पशतसहसभरितेनाश्रद्दधानेन मूढहृदयेन यद्यदेवानेकप्रकारं शृङ्गारनृत्ताचार्येण भगवता मनोभवेनान्तर्गतविकारावेदनाय मामुद्दिश्य बाला बलात्कार्यते, तत्तदेवादृष्टपूर्वत्वाद्धि दिव्यकन्यकानां रूपानुरूपलीलासंभावनया च तावतो मनोरथानप्यात्मन उपर्यसंभावनया च सर्वं सहजमेवैतदस्या इति विकल्पसंशयदोलाधिरूढं मां ग्राहयतैवमीदृशस्य देव्या दुःखस्य तव
-
496
***
अथेति । पर्याकुलतानन्तरं चन्द्रापीडः क्षरन्यो बाष्पो नेत्राम्बु तस्य विक्षेप इतस्ततः पातनं पर्याकुलानि व्याप्तान्यक्षराणि यत्रेति क्रियाविशेषणम् । उच्चैर्बाढस्वरेण । पत्रलेखामिति शेषः । प्रत्युवाच प्रत्यब्रवीदिति क्रियासंटङ्कः । किं कृत्वा । कादम्बर्याः समं तुल्या सदृशी वृत्तिर्यस्य सैवंविधो भूत्वा । किंलक्षणः । उत्प्रेक्षते - कादम्बरीशरीरादिवालापपदैर्दुःखवचनपदैरेव सहागत्य । एभिरेतेष्वित्यध्याहारः । युगपदेकसमये गृहीतः । एभिः कैः, एतेषु केषु इत्यपेक्षायामाह - हृदय इत्यादि । हृदये चित्ते मन्युना क्रोधेन । गृहीत इति पूर्वोक्तं सर्वत्र संबध्यते । कण्ठे निगरणे जीवितेन प्राणितेन । वेपथुना कम्पेनाधर एव पल्लव इति रूपकं तस्मिन् । श्वसितेन निःश्वासेन मुख आनने । स्फुरितेन स्फुरणेन नासाग्रे नासिकान्ते । बाष्पेण रोदनेन चक्षुषि । जातावेकवचनम् । किमुवाचेत्याह - पत्रलेखे इति । हे पत्रलेखे, अहं किं करोमि । किंचित्कर्तुं न समर्थ इत्यर्थः । श्रृङ्गारश्च नृत्तं च तयोरुज्ज्वलदृक्वालनाद्य आचार्य उपदेष्टा तेन । श्रृङ्गारस्य नृत्याचार्येण रङ्गाचार्येणेति वा । भगो माहात्म्यमस्यास्तीति भगवांस्तेन । 'भगोऽर्कज्ञानमाहात्म्यवैराग्यादिषु' इति वैजयन्ती । मनोभवेन कामेन यद्यदनेकप्रकारं मन्युजीवितवेपथुश्चसितपरितापादिकं बाला योषितो (तु) मामुद्दिश्य मदुद्देशेन बलाद्धटात्कार्यते निष्पाद्यते । किमर्थमित्याह - अन्तरिति । अन्तर्गतो यो विकारस्तस्यावेदनं ज्ञापनं तस्मै । तादर्थ्ये चतुर्थी । तत्तदनेन प्रत्यक्षेण मूढमज्ञानावृतं यद्धृदयं चित्तं तेन स्वयं कृतमात्मना विहितम् । न तु मयेत्यर्थः । इतो मूढहृदयं विशेषयन्नाह - दुःशिक्षितेनेत्यादि । दुर्दुष्टं शिक्षितमभ्यसितं यस्य तत्तथा तेन । ज्ञाने ज्ञानविषयेऽभिमानोऽहंकारो विद्यते यस्य तत्तथा तेन । पण्डितमात्मानं मन्यते यत्तत्तथा तेन । दुर्दुष्टं विदग्धत्वं छेकत्वं यस्य तत्तथा तेन । दुर्दुष्टा बुद्धिः प्रतिभा यस्य तत्तथा तेन । अलीकेन मिथ्याभिमानेन । धीरं साहसगुणोपेतं तेन मिथ्याविकल्पानामलीकमनोरथानां शतसहस्राणि लक्षास्तैर्भरितमाकीर्णं तेन । न श्रद्दधातीति शास्त्रोक्तं नावधारयतीत्य श्रद्दधानं तेन । कया । अदृष्टपूर्वत्वादनवलोकितपूर्वत्वाद्दिव्या मनोहरा याः कन्यकास्तासां रूपं सौन्दर्यं तस्यानुरूपा योग्या या लीला विलासस्तस्याः संभावनोत्कटकोटिकः सदेहस्तया । पुनः कया । आत्मनः स्वस्योपर्येषा मामिच्छत्येतादृशस्य मनोरथानप्यसंभावनया च । किं कुर्व मूढहृदयेन । मामेवं ग्राहयता । ग्राहयतिर्द्विकर्मकः । एवं किम् । अस्याः कादम्बर्या एतत्परितापादिकं सर्वं सहजमेव स्वभाविकमेव । किंलक्षणं माम् । विकल्पसंशययोर्दोलामधिरूढमाश्रितं तथा । तेनैवेति शेषः । मूढहृदयेनैवेदृशस्य पूर्ववर्णितस्य देव्या कादम्बर्या दुःखस्य तवोपालम्भस्य च हेतुतां नीतः प्रापितोऽस्मि । सर्वं यदसम्यक्तन्मूढहृदयेनैव कृतम् । न मयेति
पाठा० - १ अनेन दुरात्मना. २ स्वयंकृत. ३ नृत्याचार्येण ४ पूर्वत्वाद्दिव्य. ५ मनोरथस्याप्यात्मना; मनोरथा, नामप्यात्मना.
***
कादम्बरी |
-
कथायाम्
Page #24
--------------------------------------------------------------------------
________________
I
1
चोपालम्भस्य हेतुतां नीतोऽस्मि । मन्ये च ममापि मनोव्यामोहकारी कोऽपि शाप एवायम् । अन्यथाऽप्रबुद्धबुद्धेरपि येषु न संदेह उपपद्यते, तेष्वपि स्फुटेषु मदनचिह्वेषु कथं मे धीर्व्यामुह्येत । तिष्ठन्त्वेव तावदतिसूक्ष्मतया दुर्विभाववृत्तीनि तानि स्मितावलोकितकथितविहृतलीलालज्जायितानि यान्यन्यथापि संभवन्ति । चिरानुभूतात्मकण्ठसंसर्गसुभगं हारमिममकृतपुण्यस्य मे तत्क्षणमेव कण्ठे कारयन्त्या किमिव नावेदितम् ? अपि च हिमगृहकवृत्तान्तस्तु तवापि प्रत्यक्ष एव । तत्किमत्र प्रणयकोपाक्षिप्तयाप्यन्यथा व्याहृतं देव्या ? सर्व एवायं विपर्ययान्मम दोषः । तदधुना प्राणैरप्युपयुज्यमानस्तथा करोमि यथा नेदृशमेकान्तनिष्ठुरहृदयं जानाति मां -
***
भावः । विचारणान्तरं प्रदर्शयन्नाह मन्य इति । अहमिति मन्ये संभावयामि । इतीति किम् । ममायं कोऽप्यनिर्वचनीयो मनसश्चित्तस्य व्यामोहं वैचित्त्यं करोतीत्येवंशीलः शाप एव विरुद्धाशीर्वचनमेव । उक्तवैपरीत्ये आह- अन्यथेति । शापाभावेऽप्रबुद्धाऽजाग्रद्रूपा बुद्धिः प्रतिभा यस्यैवंविधस्य । मूर्खस्यापीत्यर्थः । येषु स्फुटेषु विशदेषु मदनचिह्नेषु कामलक्षणेषु सदेहो द्वापरो नोपपद्यते न जायते । एतानि दुःखजनकान्येवेति निश्चय एवोत्पद्यत इति भावः । तेष्वति । मदनचिह्नेष्वपीत्यर्थः । कथं मे मम धीर्बुद्धिर्व्यामुह्येत व्यामोहं व्रजेत् । तिष्ठन्त्विति । तावदिदानीं तानि स्मितमीषद्धास्यम्, अवलोकितं वीक्षितम्, कथितं जल्पितम्, विहृतमितस्ततो गतम्, लीलया विलासेन लज्जायितानि त्रपयाचरितानि । एतान्यतिसूक्ष्मतया निकृष्टतया । अत एव दुर्विभावा दुर्ज्ञेया वृत्तिर्येषामेवंभूतानि तिष्ठन्तु । एतादृशनिकृष्टचिन्तयाऽलमित्यर्थः । तानि कानीत्याह - यानीति । यानि पूर्वोक्तानि । अन्यथापि स्नेहव्यतिरेकेणापि संभवन्ति । उपपद्यन्त इत्यर्थः । स्वस्मिंस्तस्याः स्नेहं प्रदर्शयन्नाह - चिरेति । चिरं चिरकालमनुभूतः प्राप्तो य आत्मनः स्वस्य । अर्थात्कादम्बर्याः । कण्ठसंसर्गो निगरणसंपर्कस्तेन सुभगं मनोहरमिमं प्रत्यक्षगतं हारं मुक्ताप्रालम्बं तत्क्षणमेव तस्मिन्समय एवाकृतमविहितं पुण्यं सुकृतं येनैवंविधस्य मे मम कण्ठे गले कारयन्त्या प्रक्षेपयन्त्या । सखिद्वारेति शेषः । किमिव नावेदितं किं न ज्ञापितम् । अहं त्वदर्थिनीति तदैव ज्ञापितमिति भावः । अपि चेति । अपि च प्रकारान्तरे । हिमगृहकस्य नीहारवच्छीतलसद्मनो वृत्तान्त उदन्तस्तवापि भवत्या अपि प्रत्यक्ष एव विदित एव । न केवलं ममैवेति भावः । तदिति हेत्वर्थे । अत्रेति । अस्मिञ्जने प्रणयः स्नेहस्तेन तस्माद्वा यः कोपः क्रोधस्तेनाक्षिप्तया प्रेरितया देव्या कादम्बर्या किमन्यथा व्याहृतम् । तदलमनया तदानयनकथयेत्यात्मकमित्यर्थः । सर्व इति । अयं सर्व एव समग्र एव विपर्ययादज्ञानान्मम दोषो वैगुण्यम्, न तु तत्त्वतः । तदिति । तत्तस्माद्धेतोरधुनाहं तथा करोमि रचयामि यथा देवी कादम्बरीदृशमेकान्तेनातिशयेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधं मां न जानाति ।
-
(चन्द्रापीडस्यानुतापः
****
टिप्पo - 1 'अनेन दुःशिक्षितेन' इत्यारभ्य 'नीतोस्मि' इति पर्यन्तस्य दुरूहवाक्यस्य अन्वयानुसारिणीयं व्याख्या अन्तर्गतविकारस्य ( कामवासनायाः ) आवेदनाय भगवता मनोभवेन मामुद्दिश्य बाला ( कादम्बरी) अनेकप्रकारं यद्यदेव (चेष्टादिकम् ) बलात् कार्यते, तत्तदेव अदृष्टपूर्वत्वात्, दिव्यकन्यकानां रूपस्यानुरूपा सेयं लीलास्तीति संभावनया, एतावतो मनोरथस्य आत्मन उपर्यसंभावनया ( कादम्बर्या एतावानभिलाषो मदुपरि स्यादिति न मे संभावनेत्याशयः), च विकल्पसंशययोर्दोलामधिरूढंमाम् 'सर्वमेव एतत् अस्याः सहजमेव (मनोवेदना विभ्रमादिकं वा यद्यत् प्रकाशितं तत्तत् स्वाभाविकमेव, न तु मद्विषयकम् ) ' इति ग्राहयता (बोधयता) दुःशिक्षितादिविशेषणविशिष्टेन मूढहृदयेन एवमीदृशस्य देव्याः (काद०) दुःखस्य तव चोपालम्भस्य हेतुतां नीतोऽस्मि । कामप्रणोदिता या याश्चेष्टा मयि कादम्बर्या कृतास्ताः सर्वा न मामुद्दिश्य, इति मूढहृदयेन मह्यं बोधितम् । अत एव देव्या दुःखं तव चायमुपालम्भो जात इति सर्वस्याशयः । एतदनुसारेणैव मूलपाठो ज्ञेयः । टीका चानुसंधेया ।
पाठा० - १ तेष्वतिस्फुटेषु. २ वियुज्यमानाः.
उत्तरभागः ।
497
Page #25
--------------------------------------------------------------------------
________________
देवी' इत्येवं वदत्येव चन्द्रापीडेऽश्रावितैव प्रविश्य वेत्रहस्ता प्रतीहारी कृतप्रणामा व्यज्ञापयत् - "-'युवराज, एवं समादिशति देवी विलासवती, कृतजल्पात्परिजनतः श्रुतं मया, यथा किल पृष्टतः स्थिताऽद्य पत्रलेखात्र पुनः परागता' इति । न च मे त्वय्यस्यां च कश्चिदपि स्नेहस्य विशेषो विलसतीति मयैवेयं संवर्धिता । अपि च तवापि कापि महती वेला वर्तते दृष्टस्य । तदनया सहित एवागच्छ । मनोरथशतलब्धमतिदुर्लभं ते मुखकमलावलोकनम्" इति ।
चन्द्रापीडस्तु तदाकर्ण्य चेतस्यकरोत् - 'अहो सदेहदोलाधिरूढं मे जीवितम् । एवमम्बा निमेषमपि मामपश्यन्ती दुःखमास्ते । पत्रलेखामुखेन चैवमाज्ञापितमागमनाय मे निष्कारणवत्सलेन देवीप्रसादेन । आजन्मक्रमाहितो बलवाजननीस्नेहः, वाञ्छाव्याकुलं हृदयम्, अमोच्यं तातचरणशुश्रूषासुखम् । प्रमाथी मन्मथहतकः, हारिणी गुरुजनलालना, दुःसहान्युत्कण्ठितानि, अनुबन्धिनी बान्धवप्रीतिः, कुतूहलिन्यभिनवप्रार्थना, मुखावलोकिनः कुलक्र -
*********** किं कुर्वाणः प्राणैरप्युपयुज्यमानस्तदीप्सितं कुर्वाणः । इत्येवं चन्द्रापीडे वदत्येव कथयत्येव प्रतीहारी द्वारपालिका कृतः प्रणामो ययैवंभूता मातृपरिजनत्वेन कुमारप्रतीहार्यऽश्रावितैवानिवेदितैव प्रविश्य प्रवेशं कृत्वा व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कीदृशी । वेत्रं हस्ते यस्याः सा । हे युवराज, देवी विलासवत्येवं समादिशत्याज्ञापयति । एवं किमित्याह - कृतेति । कृतो विहितो जल्पोऽन्योन्यालापो येनैवंविधात्परिजनतः सेवकवर्गान्मयेति श्रुतमित्याकर्णितम् । इतीति किम् । तदेव दर्शयति - यथेति । किलेति सत्ये । पृष्ठ इति पृष्ठतः । तस्प्रत्ययस्य सार्वविभक्तिकत्वात् । स्थिता विलम्बिता पत्रलेखाद्यास्मिन्नहन्यत्रास्मिन्प्रदेशे पुनः परागता प्रत्यावृत्य समागता । पुनः किं समादिशतीत्याह - न चेति । मे मम त्वयि भवत्यस्यां पत्रलेखायां चेति हेतोः स्नेहस्य प्रेम्णः कश्चिदपि विशेषो न विलसति । न वर्तत इत्यर्थः । इतीति किम् । यत इयं पत्रलेखा मयैव संवर्धिता वृद्धि प्रापिता । एतेनोभयोरपि मयैव प्रवर्धनात्त्वयि तस्यां च मम स्नेहः समान एवास्तीति ध्वन्यते । पुनः किं समादिशतीत्याह - अपि चेति । अपि च प्रकारान्तरे । तवापि भवतोऽपि दृष्टस्यावलोकितस्य कापि महती गुर्वी वेला कालविशेषो वर्तते । तत्तस्माद्धेतोरनया पत्रलेखया सहित एव समन्वित एवागच्छैहि । त्वमिति शेषः । यतस्ते तव मुखमेव कमलं तस्यावलोकनं वीक्षणमतिदुर्लभमतिदुःप्रापम् । कीदृशम् । मनोरथानां समीहितानां शतैर्लब्धं प्राप्तम् ।
तु पुनश्चन्द्रापीडस्तत्पूर्वोक्तमाकर्ण्य श्रुत्वा चेतस्यकरोदचिन्तयत् । एवं किमित्यत आह - अहो इति । अहो इत्याश्चर्ये । मे मम जीवितं प्राणितं कादम्बरीसमीपे व्रजामि उत मातुः संनिधाविति संशयो द्वापरः स एव दोला दोलनं तामधिरूढमाश्रितम् । कथमित्याह - . अम्बेति । एवं अम्बा विलासवती निमेषमपि निमीलितमात्रमपि मा चन्द्रापीडमपश्यन्त्यनवलोकयन्ती दुःखं यथा स्यात्तथास्ते तिष्ठति । तथा निष्कारणं निर्निमित्तं वत्सलेन हितकारिणा देव्याः कादम्बर्याः प्रसादेनानुग्रहेण पत्रलेखामुखेन च पत्रलेखावाक्येन च मे ममागमनायैवमाज्ञापितम् । आजन्मक्रमेति । जनन्या मातुः स्नेहो बलवान्बलिष्ठः । कीदृक् । आजन्मतो जन्म मर्यादीकृत्य क्रमेण मर्यादयाहित आरोपितः । जन्ममर्यादयारोपितत्वमेवास्य विशेषः । विशेषादत्रैव स्थातुमुचितमित्याशयः । हृदयं चेतो वाञ्छाभिरिच्छाभिर्व्याकुलम् । तातस्य पितुश्चरणौ पादौ तयोः शुश्रूषा सपर्या तस्याः सुखममोच्यं न मोक्तुं योग्यम् । मन्मथहतकः कंदर्पहतकः प्रमथ्नातीत्येवंशीलः प्रमाथी । चित्तोद्वेगकृदित्यर्थः । गुरुजनस्य मात्रादेालना प्रतिपालना हारिणी मनोहरा । दुःसहानि सोढुमशक्यान्युत्कण्ठितान्युत्कण्ठाविषयीभूतानि । बान्धवानां स्वजनानां प्रीतिः स्नेहोऽनुबध्नातीत्येवंशीलानुबन्धिनी । गमनविघ्नकारिणीत्यर्थः । अभिनवस्यादृष्टपूर्वस्य वस्तुनः प्रार्थना वाञ्छा कुतूहलिन्याश्चर्यकारिणी । कुलक्रमेण पट्टपरम्परया आगताः प्राप्ता -
पाठा० - १ श्रावितैव. २ अदृष्टस्य. ३ सहैव. ४ त्वन्मुख. ५ जन्म. ६ आकुलय; अनुकूलय.
498
कादम्बरी।
कथायाम्
Page #26
--------------------------------------------------------------------------
________________
मागता राजानः, जीवितफलं प्रियतमामुखावलोकनम्, अनुरक्ताः प्रजाः, गरीयान्गन्धर्वराजसुतानुरागः, दुस्त्यजा जन्मभूमिः, परिग्राह्या देवी कादम्बरी, कालातिपातासहं मनः, विप्रकृष्टमन्तरं हेमकूटविन्ध्याचलयोः' इत्येवं चिन्तयन्नेव प्रतीहार्योपदिश्यमानमार्गः पत्रलेखाकरावलम्बी जननीसमीपमगात् । तत्रैव च तमनेकप्रकारजननीलालनसखाचिन्तितदुर्विषहहृदयोत्कण्ठं दिवसमनयत् ।
उपनतायां चात्मचिन्तयामिवान्धकारितदशदिशि शर्वर्याम्, अनिवार्यविरहवेदनोन्मथ्यमानमानसाकुलेषु कलकरुणमुच्चाहरत्सु चक्रवाकयुगलेषु, उत्तेजितस्मरशरं समुत्सर्पमाणेषु चन्द्रमसोऽङ्कोल्लधूलिधूसरालोकेष्वग्रमयूखेषु, विजृम्भमाणकुमुदिनीश्वासपरिमलग्राहिणि मन्दं -
*********** राजानो भूभुजो मुखामाननमवलोकयन्तीत्येवंशीला मुखावलोकिनो वक्रवीक्षकाः । प्रियतमाः स्त्रियस्तासां मुखावलोकनं वक्रवीक्षणं जीवितस्य प्राणितस्य फलं साध्यम् । प्रजा जनपदवासिनो जना अनुरक्ता अनुरागिणः । गन्धर्वराजसुता कादम्बरी तस्यां तस्या वानुरागः स्नेहो गरीयानतिशयेन गुरुः । दुस्त्यजा दुःखेन मोक्तुं शक्या जन्मभूमिर्जन्मनः स्वोत्पत्तेभूमिः स्थलम् । तदुक्तमन्यत्र - 'जणणी जम्मुप्पत्ती पच्छिमनिद्दा सुभासियं वयणं । मणइट्ट माणुस्सं पंच वि दुक्खेहिं मुच्चंति ॥ जननी जन्मोत्पत्तिः पश्चिमनिद्रा सुभाषितं वचनम् । मनसेष्टो मनुष्यः पञ्चापि दुःखाद्विमुच्यन्ते इति । कादम्बरी देवी परिग्राह्या परिणेतुं योग्या । कालस्यानेहसोऽतिपातो विलम्बस्तं न सहतीत्येवंशीलं मनः स्वान्तम् । तदीयमिति शेषः । हेमकूटविन्ध्याचलयोरन्तरं विचालं विप्रकृष्टं दूरम् । इत्येवं चिन्तयन्नेव विमृशन्नेव प्रतीहार्या द्वारनियुक्तयोपदिश्यमानः कथ्यमानो मार्गः पन्था यस्यैवंभूतः पत्रलेखायाः करं हस्तमवलम्बत इत्येवंशीलः स तथा जनन्या मातुः समीपमभ्यर्णमगादगमत् । तत्रैव मातुः समीपे तं दिवसं वासरमनयन्निनाय । कीदृशं दिवसम् । अनेकप्रकारं बहुविधं जनन्या मातुालनसुखं तेनाचिन्तिताविज्ञाता दुर्विषहहृदयोत्कण्ठा यस्मिन्स तथा ।
रात्रौ विशेष प्रदर्शयन्नाह - उपेति । उपनतायां च प्राप्तायां च शर्वर्यां रजन्याम् । कृष्णत्वसाम्यादाह - आत्मचिन्तायामिव चन्द्रापीडो मनसा मनोव्यापारेण स्मरस्य कंदर्पस्यायतनभूतं सद्मतां गतं प्राप्तं यत्कादम्बरी रूपं तस्य सस्मार । ‘स्मृतौ च इति सूत्रेण कर्मणि षष्ठी । शर्वरी विशेषयन्नाह - अन्धकारितेति । अन्धकारिता अन्धकार प्रापिता दशदिशो यस्यां सा तस्याम् । केषु सत्सु । चक्रवाकयुगलेषु द्वन्द्वचरमिथुनेषु सत्सु । किं कुर्वत्सु । कलं मधुरं करुणं दीनं यथा स्यात्तथोच्चैरुच्चस्वरेण व्याहरत्सु ब्रुवत्सु । कीदृशेषु अनिवार्या निवारयितुमशक्या या विरहवेदना वियोगपीडा तयोन्मथ्यमानानि पीड्यमानानि मानसानि चेतांसि येषां तानि तत्तथा तेषु । पुनः केषु सत्सु । उत्तेजिता निशिताः स्मरशराः कंदर्पबाणा यैरिति क्रियाविशेषणम् । चन्द्रमसः शशिनोकोल्लस्य वृक्षविशेषस्य धूलिः परागस्तद्वद्भूसर ईषत्पाण्डुर आलोकः प्रकाशो येषां ते तथा तेषु । एवंविधेषु समुत्सर्पमाणेषु विस्तरत्स्वग्रमयूखेषु प्रधानकिरणेषु । पुनः कस्मिन्सति । प्रदोषो यामिनीमुखं तस्यानिले वायौ मन्दं मन्दं शनैः शनैरावातुं प्रचलितुमारब्धे सति । किंलक्षणे प्रदोषानिले । विजृम्भमाणा विकसन्त्यो याः कुमुदिन्यस्तासां वासस्येव यः परिमलस्तं गृह्णातीत्येवंशीलः स तथा तस्मिन् । किंलक्षणश्चन्द्रापीडः । टिप्प० - 1 प्रियतमायाः (कादम्बर्याः) मुखावलोकनमित्युचितम् । 2 मदीयमित्येवोचितम्, स्वस्यैव कथायाः प्रक्रान्तत्वात् । 3 उन्मथ्यामानमानसाश्च ते आकुलाश्च तेषु, अथवा विरहवेदनया उन्मथ्यमानेन मानसेन आकुलेष्वित्युचितम् । 4 'उत्तेजितस्मरशरसमुत्सर्पणेषु' इत्यपि पाठो मनोरमः । 'गम्ल सृप्लू गतौ इति धातुपाठात् परस्मैपद्येव 'सृप्' धातुः । उत्तेजिताः स्मरशरा येन तादृशं समुत्सर्पणम् (समुदयः) येषां तेषु सत्सु इति तदर्थः । 5 विकासस्येव, इति तात्पर्यम् ।
-
-
-
-
-
-
-
--
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अनुरक्ता प्रजा. २ भूमी. ३ वा. ४ अचेतितम्. ५ शर. ६ मन्दमन्द.
चन्द्रापीडस्य मनसि विचारः
उत्तरभागः ।
499
Page #27
--------------------------------------------------------------------------
________________
मन्दमावातुमारब्धे प्रदोषानिले च, शयनवर्ती निमीलितलोचनोऽप्यप्राप्तनिद्राविनोदो हेमकूटागमनखेदान्निपत्य विश्रान्तेनेव पादपल्लवच्छायायाम्, जङ्घानुरोधरोहिणा लग्नेनेव संहतेयोरूर्वोः, उल्लिखितेनेव विस्तारिणि नितम्बफलके, मग्नेनेव नाभिमुद्रायाम्, उल्लसितेनेव रोमराज्याम्, आरूढेनेव त्रिवलिसोपानहारिणि मध्यभागे, कृतपदेनेवोन्नतिविस्तारशालिनि स्तनतटे, मुक्तात्मनेव बाह्वोः कृतावलम्बनेनेव हस्तयोः, आश्लिष्टेनेव कण्ठे, प्रविष्टेनेव कपोलयोः, उत्कीर्णेनेवाधरपुटे, ग्रन्थितेनेव नासिकासूत्रे, समुन्मीलितेनेव लोचनयोः स्थितेनेव ललाटशालायाम्, अन्वितेनेव चिकुरभारान्धकारे, प्लवमानेनेव सर्वदिक्पथप्लाविनि लावण्यपूरप्लवे मनसा सस्मार स्मरायतनभूतस्य कादम्बरीरूपस्य ।
"
उत्पन्नात्मीयबुद्धिश्च निर्भरस्नेहार्द्रचेतास्तत एव वासरादारभ्य तां प्रति गृहीतरक्षापरिकर इव यतो यत एव मण्डलतकुसुमकार्मुकं मकरध्वजमस्यां प्रहरन्तमालोकितवान्, ततस्तत -
***********
शयने शय्यायां वर्तत इत्येवंशीलः स तथा । पुनः कीदृक् । निमीलिते मुद्रिते लोचने नेत्रे येन स तथा । एवंविधोऽप्यप्राप्तोऽलब्धो निद्रायाः प्रमीलाया विनोदः सुखं येन स तथा । इतो मनो विशेषयन्नाह - हेमकूट इति । हेमकूटादागमनं तस्माद्यः खेदः परिश्रमस्तस्मान्निपत्य पादावेव पल्लवौ तयोश्छायातपाभावस्तस्यां विश्रान्तेनेव गृहीतविश्रामेणेव । जङ्घा नलकीलिनी तामनुरुणद्धीत्येवंशीलो जङ्घानुरोधी जङ्घानलकीलस्तं रोहतीत्येवंशीलं तत्तथा तेन संहतयोर्मिलितयोरूर्वोः सक्थ्नोलग्नेनेव मिलितेनेनेव । विस्तारिण्यायते नितम्बावेव फलकं तस्मिन्नुल्लिखितेनेव चित्रितेनेव । नाभिस्तुन्दकूपिता तस्य मुद्राकृतिविशेषस्तस्यां मग्नेनेव ब्रुडितेनेव । रोमराज्यां तनूरुह श्रेण्यामुल्लसितेवोच्छसितेनेव । तथा त्रिवलिरेव सोपनानि तैर्हारिणि मनोहरे मध्यभागे ऽवलग्नप्रदेश आरूढेनेवोपविष्टेनेव । उन्नतिरुच्चता, विस्तारो विस्तीर्णता, ताभ्यां शालत इत्येवंशीलं यत्स्तनतटं कुच एव तटं तस्मिन्कृतपदेनेव विहितस्थानेनेव । बाह्वोर्भुजयोर्मुक्तात्मनेव संस्थापितजीबेनेव । हस्तयोः करयोः कृतावलम्बनेनेव विहितालम्बानेनेव । कण्ठे निगरण आश्लिष्टेनेवालिङ्गितेनेव । कपोलयोर्गल्लात्परप्रदेशयोः प्रविष्टेनेव कृतप्रवेशेनेव । अधरपुट ओष्ठपुट उत्कीर्णेनेवोल्लिखितेनेव । नासिका नासैव सूत्रं तस्मिन्ग्रथितेनेव गुम्फितेनेव । लोचनयोर्नेत्रयोः समुन्मीलितेनेव विकसितेनेव । ललाटशालायामलिकगृहैकदेशे स्थितेनेवोपविष्टेनेव । कृतावस्थानेनेवेत्यर्थः । चिकुरभारः केशकलापः स एवान्धकारं तिमिरं तस्मिन्नन्वितेनेव सहितेनेव । सर्वदिक्पथानि प्लावयतीत्येवंशीले लावण्यपूरप्लवे चातुर्यपूरप्रवाहे प्लवमानेनेव स्नानं. कुर्वाणेनेव ।
उत्पन्न इति । च पुनस्तत एव वासराद् दिवसादारभ्य मर्यादीकृत्योत्पन्ना संजातात्मीया मदीयत्वलक्षणा बुद्धिर्यस्यां सा तथा । निर्भरः प्रबलो यः स्नेहः प्रेम तेनार्द्रं चेतो यस्यैवंभूतः कुमारस्तां प्रति कादम्बरीं प्रति गृहीत आत्तो रक्षार्थं परिकरः परिच्छदो येनैवंभूत इव । यतो हेतोर्यतॆ एव यस्मादेघ मण्डलितं वक्रीकृतं कुसुमकार्मुकं पुष्पचापं येनैवंभूतं मकरध्वजं कंदर्पमस्यां कादम्बर्यां प्रहरन्तं ताडयन्तमालोकितवान्दृष्टवान् । ततो हेतो
-
टिप्पo - 1 मुक्तः आत्मा स्वस्वरूपं येन तेनेव । बाह्वोर्मध्ये मनः स्वं मुक्तवदित्यर्थः । मनसो जीवकल्पनाऽनुचिता । 2 'यतो यतः, ततस्ततः' इति वीप्साया इदमेव तात्पर्यं यत् यस्मिन् स्थानेऽवकाशे वा दृष्टवान् तस्मिन्नेव, अर्थात्, सर्वत्रैवेति ।
पाठा० - १ अनुरोधरोहिणा; अनुसाराधिरोहिणा. २ सुसंहतयोः ३ लिखेतेनेव. ४ सर्वतः ५ लावण्यपयःपूर. ६ समुत्पन्न.
500
कादम्बरी |
कथायाम्
Page #28
--------------------------------------------------------------------------
________________
एवात्मानमन्तरेऽर्पितवान् । ‘एवमम्लानमालतीकुसुमकोमलतनौ निघृणं प्रहरन लज्जसे' इत्युपालभमान इव दिवसमुत्तरलतारयान्तर्बाष्पया दृष्ट्या कुसुमचापम्, पुनः स्मरशरप्रहारमूर्छितां संज्ञामिव लम्भयितुं तामवयवरुवाह स्वेदजललवानुत्ससर्ज च दीर्घदीर्घानिःश्वासमारुतान् । तच्चेतनालम्भमुदित इव च सर्वाङ्गीणं क्षणमपि न मुमोच रोमाञ्चम् । सह्यते हृदयेन वेदना न वेति तद्वार्ता प्रष्टुमिव नियुक्तेन मनसा शून्यतामधार्षीत् । तत्प्रतिवार्ताकर्णनायेव च गृहीतमौनः सर्वदेवातिष्ठत् । तदाननालोकनान्तरितमिव सर्वमेव नाद्राक्षीत् । चन्द्राबिम्बेऽपि नास्य दृष्टिररमत । तदालापपूरितश्रोत्रेन्द्रिय इव न किंचिदपरमन्तःकर्णं कृतवान् । वीणाध्वनयोऽप्यस्व बहिरेवासन् । सुभाषितान्यपि न प्रवेशमलभन्त । सुहृद्वाचोऽपि परुषा इवाभवन् । बान्धवजनजल्पितान्यपि नासुखायन्त । भावावगमभीत्येव यथापूर्वं न कस्यचिद्दर्शन -
***********
स्तत एव तद् दिवसादेवात्मानमन्तरे मध्येऽर्पितवान्दत्तवान् । एवमिति । अम्लानं सद्यस्क यन्मालत्याः कुसुमं पुष्पं तद्वत्कोमला सुकुमारा या तनुः शरीरं तस्यां निघृणं निष्कृपमेवममुना प्रकारेण । दिवसमित्युपलक्षणमहोरात्रस्य । तेनाहोरात्रं प्रहरंस्ताडयन लज्जसे न त्रपां प्राप्नोति । उप्राबल्येन तरला चञ्चला तारा कनीनिका यस्यां सा तया । अन्तर्मध्ये बाष्पोऽश्रु यस्यामेवंविधया दृष्ट्या नेत्रेण कुसुमचापं कंदर्पमित्युपालभमान इवोपालम्भं ददान इव । एतेनात्यन्तदैन्यमाविष्कृतम् । स्वेदो धर्मस्तदेव जलं तस्य लवा विपुषस्तानवयवैरुपनैरुवाहावहत् । च पुनरर्थे । अतिशयेन दीर्घा दीर्घदीर्घास्तानेवभूतानिःश्वासमारुतानुत्ससोन्मुमोच । किं कर्तुम् । उत्प्रेक्षते - पुनरिवार स्मरस्य शरा बाणास्तैः प्रहारस्ताडनं तेन मूर्छिता मोहप्राप्तां तां कादम्बरी संज्ञचेतना लम्भयितुमिव प्रापयितुमिव । यथान्यः कश्चिन्मूर्छितस्य स्वेदजललववत्स्वल्पजलं निःश्वाससमानमारुतांश्च मुञ्चतीति वस्तुगतिः । स चन्द्रापीडः सर्वाङ्गे भवः सर्वाङ्गीणस्तं रोमाञ्चं रोमोद्गम क्षणमपि न मुमोच । क्षणमात्रं तद्विरहितो नाभूदित्यर्थः । उत्प्रेक्षते - तस्याः कादम्बर्याश्चेतना चैतन्यं तस्या आलम्भः प्राप्तिस्तेन मुदित इव हर्षित इव । सह्यत इति । स मनसा शून्यतामधार्षीदभार । किंलक्षणेन मनसा । तस्यै कादम्बर्यै इति वार्ता प्रष्टुं नियुक्तेनेव प्रेषितेनेव । इतीति किम् । हृदयेन वेदना पीडा सह्यते न वेति । तदिति । गृहीतं मौनभाषणं येनैवंविधः सर्वदा निरन्तरमतिष्ठदस्थात् । उत्प्रेक्षते - तस्याः कादम्बर्याः प्रतिवार्ता प्रत्युत्तरं तस्या आकर्णनायेव । श्रवणायेवेत्यर्थः । तदाननेति । स सर्वमेव नाद्राक्षीनापश्यत् । किंलक्षणं सर्वम् । उत्प्रेक्षते - तस्या आननं मुखं तस्यालोकनं वीक्षणं तेनान्तरितमिव व्यवहितमिव । चन्द्रबिम्ब इति । चन्द्रबिम्बेऽपि शशिमण्डलेऽप्यस्य चन्द्रापीडस्य दृष्टिश्चक्षु रमत न चिरमस्थात् । विरहोत्कर्षे तापकारित्वात् । तदालापेति । स चन्द्रापीडः किंचिदप्यपरं शब्दजातं कर्णस्यान्तरन्तःकर्णं न कृतवान् । द्विकर्मकोऽयं धातुः । उत्प्रेक्षते - तस्याः कादम्बर्या आलापस्तेन पूरितं भृतं श्रोत्रेन्द्रिय यस्यैवंविध इव । कर्णानां करणत्वं दर्शयन्नाह - वीणेति । वीणानां वल्लकीनां ध्वनयः शब्दा अस्य चन्द्रापीडस्य बहिरेव बाह्यभूता एवासत्रभूवन् । सुभाषितानीति । सुभाषितानि समीचीनोक्तयस्तान्यपि प्रवेशं मध्यगमनावकाशं नालभन्त न प्राप्नुवन् । सुहृदिति । सुहृदां मित्राणां वाचो वाण्योऽपि परुषा इव कठिना इवाभवन् । बान्धवेति । बान्धवजनस्य बन्धुलोकस्य जल्पितान्यपि कथितान्यपि नासुखायन्त । सुखमिवाचरन्ति सुखायन्ते । अद्यतन्यामात्मनेपदेऽसुखायन्त इति रुपम् । भाव इति । यथा येन प्रकारेण पूर्वं विरहदशाया अग्दिर्शनं नादानं ददौ तथेदानीमपि । तत्रो - टिप्प० - 1 विभिन्नवचनयोः कोयमुपमानोपमेयभावः ? कचार्थः ? अस्तु. सुखं वेदयन्ते सुखायन्ते इति विग्रह उचितः । 'सुखादिभ्यः कर्तृवेदनायाम् इति क्यङ् । शुकोक्तौ कवेरुक्तौ वा नेयमद्यतनी घटना । 2 विरहदशायाः पूर्वं यथा दर्शनमदात् तथा इदानीं न ददावित्यर्थः । पाठा० - १ तनोः. २ अन्तर्बाष्पार्द्रया; स्नुतबाष्पाभ्या. ३ लवम्. ४ हृदयवेदना. ५ चास्य दृष्टिारमत. ६ परिपूरित. ७ किंचिदपि.
चन्द्रापीडस्य विरहावस्था
उत्तरभागः ।।
501
Page #29
--------------------------------------------------------------------------
________________
मदात् । अनवरतमुक्तज्वालेन मदनहुतभुजान्तर्दह्यमानोऽपि गुरुजनत्रपया न सद्यःसमुद्धृता रविन्दशयनमभजत । न सरसबिसलताजालकानि गात्रेष्वकरोत् । न जललवमौक्तिकक्षोदतारकितान्यजरठपद्मिनीपत्राणि पार्श्वेऽप्यकारयत् । न कुसुमपल्लवसस्तररचनामादिदेश । नानवरतधारोपातोल्लसितशिशिरसीकराबद्धदुर्दिनं ददर्शापि धारागृहम् । न मकरन्दसंततसंपातशीतलाभ्यन्तराणि हर्योद्यानलताभवनान्यप्यसेवत । न मलयजजललुलितपृष्ठेषु मणिकुट्टिमेष्वप्यलुठदिच्छया । न तुहिनकरकरनिकरसंक्रान्तिहयेषु ललनाकरकलितचन्द्रकान्तमणिदर्पणेष्वप्यसंक्रामयदात्मसंपातम् । किं बहुना, नाश्यानहरिचन्दनरसचर्चामप्याचरणाददापयत् ।
***********
प्रेक्षते - भावस्य चित्ताभिप्रायस्यावगमो ज्ञानं तस्मादीतिर्भयं तयेव, यदि कश्चिद्विलोकयिष्यति तदा ज्ञास्यत्येष विरहादेवंभूत इति भीत्येवेत्यर्थः । स चन्द्रापीडः सद्यस्तत्क्षणं समुद्धृतान्युत्खातान्यामा॑णि जलक्लिन्नानि यान्यरविन्दानि कमलानि तेषां शयनं शय्या नाभजत नाशेरत । कया । गुरुजना मातृपित्रादयस्तेषां त्रपा लज्जा तयेति सर्वत्र वक्ष्यमाणेषु संबन्धनीयम् । भृशं तापो न भविष्यतीत्याह - अनेति । किं कुर्वाणोऽपि । दह्यमानोऽपि । कथम् । अन्तर्मध्ये । केन मदनहुतभुजा कंदर्पवह्निना । कीदृशेन । अनवरतं मुक्ता ज्वाला येनैवंभूतेत्यर्थः । नेति । सरसानि जलार्द्राणि बिसानि मृणालानि तेषां लता वल्लयस्तेषां जालकानि समूहा गात्रेष्वङ्गेषु नाकरोत्रान्वतिष्ठत् । पूर्वोक्तहेतोरेवेति भावः । नेति । जललवा अम्भो(द)बिन्दवस्त एव मौक्तिकक्षोदास्तैस्तारकितानि तारावदाचरितानि यान्यजरठानि कोमलानि पद्मिनीपत्राणि नलिनीदलान्यपि । व्यस्तक्रमोऽत्रापिशब्दः । पार्चे पृष्ठे नाकारयत् । सेवकैरिति शेषः । नेति । कुसुमानां पल्लवाः प्रत्यग्रदलानि, कुसुमानि च पल्लवाश्चेति द्वन्द्वसमासो वा, तेषां सस्तरस्तस्य रचनां नादिदेश नादिष्टवान् । नेति । स चन्द्रापीडो धारागृहमपि न ददर्श नाद्राक्षीत् किंलक्षणं धारागृहम् । अनवरतं निरन्तरं धारापातेनोल्लसिता ये शिशिराः । शीतलाः सीकरा वातास्तजलविप्रुषस्तैराबद्धं दुर्दिनं मेघजं तमो यस्मिंस्तत्तथा । नेति । स चन्द्रापीडो हर्येषु गृहेषु यदुद्यानं तस्य लता वल्लयस्ता एव भवनानि
हाण्यपि नासेवत नाभजत । किं लक्षणानि । मकरन्दस्य मरन्दस्य संततं निरन्तरं संपातः संपतनं तेन शीतलानि शिशिराण्यभ्यन्तराणि मध्यभागा येषां तानि । न मलयजेति । स मणीनां कुट्टिमानि बद्धभूमिकानि । 'कुट्टिमं त्वस्य बद्धभूः' इमि हैमः । तेष्वपीच्छयेहया नालुटनाशेरत । किंलक्षणेषु । मलयजस्य चन्दनस्य जलं पानीयं तेन लुलितान्यार्दीकृतानि पृष्ठानि येषां तेषु । नेति । स ललनानां योषितां करास्तैः कलिता धृता ये चन्द्रकान्तमणिभिः खचिता दर्पणा आदर्शास्तेष्वप्यात्मनः स्वस्य संपातं प्रतिबिम्ब न संक्रामयन्न संकामणमकारयत् । किंलक्षणेषु । तुहिनकरश्चन्द्रस्तस्य करनिकरः किरणसमूहस्तस्य संक्रान्तिः संक्रमस्तया हृया मनोहरास्तेषु । किं बहुनेति । किं बहुना किं बहुजल्पितेन । चरणौ मर्यादीकृत्याचरणं तस्मादाश्यानमीषच्छुष्कं यद्धरिचन्दनं तस्य रसस्तेन चर्चा पूजा तामपि नादापयदातुं न प्रेरयति स्म ।
--- टिप्प० . 1 समूहान् इत्याशयः । 2 पद्मिनीपत्राणि न तारावदाचरितानि । अत एव जललवमौक्तिकक्षोदैः तारकितानि (संजाताः तारका येषु तानि) इतच् । 3 समीपे इत्युचितम् । 4 आत्मनः संतापं तेषु न संक्रमयामासेति 'संतापम् इति पाठ उचितः प्रतिभाति । चन्द्रकान्तसानिध्यात्तापस्य लाघवमिति । असंक्रमयत्' इति तु मन्ये लेखदकोषः स्यात्, अन्यथा 'समक्रामयत्' इत्युचितम् ।
-
-
-
-
-
पाठा० - १ जलानि. २ अजटर; जरठ. ३ निपात. ४ मकरन्दसंपात. ५ तुहिनकरनिकर. ६ संतापम्.
(502)
कादम्बरी।
कथायाम्
Page #30
--------------------------------------------------------------------------
________________
एवमेव केवलं रात्रौ दिवा चाकृतनिर्वृतिराज्यलताप्यदहनात्मकेन दहताप्यक्षतस्नेहेन्धनेन दुःखानुभवनायैव भस्मसादकुर्वता मदनदहनेनान्तर्बहिश्च क्वाथ्यमानदेहः शोषमगात्, आर्द्रतां पुनः प्रतिक्षणाधीयमानवृद्धिं नात्याक्षीत् । एवं च निष्प्रतिक्रियतया दुस्त्यजतया वातिविसंस्थुलेनोपास्यमानोऽपि मनसिजेनाकारमेव लोकलोचनेभ्योऽरक्षत्, न कुसुमशरसायकेभ्यो जीवितम् । तनोरेव तानवमङ्गीचकार, न लज्जायाः । शरीरस्थितावेवानादरं कृतवान्, न कुलस्थितौ । प्रजा एर्वान्वरुध्यत, न मन्मथोत्कलिकाः । सुखमेवावधीरयामास, न धैर्यम्, । एवं चास्य पुरः कादम्बरीरूपगुणावष्टम्भाहितप्राणेन बलवतानुरागेणाकृष्यमाणस्य, पश्चाद्गुरुजनप्रतिबन्धदृढतरेण महीयसा स्नेहेन च वार्यमाणस्य, गंम्भीरप्रकृतेः सरित्पतेरिव चन्द्रमसा सुदू -
***********
I
एवमिति । स चन्द्रापीडो मदन दहनो वह्निस्तेनान्तर्हृदये बहिरवयवादौ क्वाथ्यमान उत्काल्यमानो देहः शरीरं यस्यैवंविधः शोषं क्षीणत्वमगात्प्राप । किंलक्षणः । एवमेव पूर्ववत् । रात्रौ निश्यपरं दिवा दिवसेऽकृताऽविहिता निर्वृतिर्मनःस्वास्थ्यं येन सः । किंलक्षणेन मदनदहनेन । आ समन्ताज्ज्वलता प्रज्वलता । पुनः कीदृशेन । अदहनात्मकेनावह्निस्वरूपेणापि दहता भस्मीकुर्वता । पुनः कीदृशेन । न क्षतमक्षीणं स्नेहलक्षणमिन्धनमेधो येन स तथा तेन । पुनः किं कुर्वता । दुःखस्यासातस्यानुभवनं साक्षात्कारणं तस्मै तदर्थमेव । तादर्थ्ये चतुर्थी । सर्वं भस्म भस्मसादकुर्वताऽघटयता । शरीरव्यतिरेकेण दुःखानुभवाभावादिति भावः । शरीरशोष आर्द्रता न भवतीत्याशयेनाह न पुनरिति । न पुनरार्द्रतां मृदुतां स्नेहवत्तां वाऽत्याक्षीत्तत्याज । आर्द्रतां विशेषयन्नाह - प्रतीति । प्रतिक्षणं प्रतिसमयमाधीयमानारोप्यमाणा वृद्धिर्यस्याः सा ताम् । एवं चेति । स लोकानां जनानां लोचनानि नेत्राणि तेभ्य आकारमिङ्गितमरक्षद्रक्षयामास । परं कुसुमशरः कामस्तस्य सायका बाणास्तेभ्यो जीवितं प्राणितं नारक्षत् । किंविशिष्टः सः । उपास्यमानोऽपि सेव्यमानोऽपि । कंन । मनसिजेन कामेन । किंलक्षणेन । अतिविसंस्थैलेनातिव्याकुलेन । वीक्षापन्नेनेति यावत् । तन्निदानमाह - निष्प्रतीति । निर्गता प्रतिक्रिया प्रतीकारो यस्यां क्रियायां तस्या भावस्तत्ता तया । दुःखेन त्यज्यत इति दुस्त्यजस्तस्य भावस्तत्ता तया वा । तनोरेवेति । तनोः शरीरस्य तानवं कृशत्वमङ्गीचकार स्वीचक्रे । न लज्जायास्त्रपायाः । लज्जाधिक्यमेवाङ्गीकृतवानिति भावः । शरीरेति । शरीरस्य देहस्य स्थितिर्धारणं तस्यामेवानादरणमनाग्रहं कृतवान् । न कुलस्याभिजनस्य स्थिती मर्यादायाम् । प्रजा इति । प्रजा एव प्रकृतिरेवान्वरुध्यत न्यवीर्यत । न मन्मथस्य कंदर्पस्योत्कलिका उत्कण्ठाः । सुखमिति । स चन्द्रापीडः सुखमेव सौख्यमेवावधीरयामासावगणयामास । न धैर्यं न साहसम् । एवं चेति । एवं पूर्वोक्तप्रकारेणास्य चन्द्रापीडस्य कादम्बर्या रूपं सौन्दर्यं गुणो गाम्भीर्यादिस्तयोरवष्टम्भेनावलम्बेनाहितः स्थापिताः प्राणा येनैवंभूतेन बलवता बलिष्ठेनानुरागेणाभ्यन्तरस्नेहेन पुरोऽग्र आकृष्यमाणस्य हटान्नीयमानस्य, गुरुजनो मातृपित्रादिस्तस्य प्रतिबन्धः प्रतिरोधस्तेन दृढतरेणातिनिबिडेन महीयसातिमहता स्नेहेन प्रीत्या च पश्चात्पृष्ठे वार्यमाणस्य पृष्ठे निषिध्यमानस्य । केन कस्येव । चन्द्रमसा शशिना सुदूरमतिविप्रकृष्टमुल्लास्यमानस्यापि गम्भीरप्रकृतेरलब्धमध्यस्य । राजपक्षे गम्भीरस्वभाव
टिप्प० - 1 आकारम् आकृतिम् । विरहसूचिकामाकृतिं न प्रकटयामासेति तात्पर्यम् । 2 न किल विरहिणां सेवकभावमङ्गीकरोति कामः । अत एव 'आयास्यमानः' इत्युचितः पाठः । खेद्यमान इति तदर्थः । 3 अतिविषमेण (दारुणेन ) इत्यर्थः । 4 कर्मणि प्रत्ययः अत एव 'अन्वरुध्यन्त' इत्येव पाठः । चन्द्रापीडेन प्रजा एव अन्वरुध्यन्त अकाम्यन्त अर्थात् प्रजानामेवाऽनुरोधः कृतः, न मन्मथोत्कण्ठानामिति तदाशयः ।
पाटा० - १ निर्वृतिना. २ दुःखानुभावनायेव. ३ चाति ४ आयास्यमानोऽपि ५ कुलक्रमस्थितौ ६ अन्वरुध्यन्त ७ कृष्यमाणस्य ८ गम्भीर.
विरहावस्था
-
उत्तरभागः ।
503
Page #31
--------------------------------------------------------------------------
________________
रमुल्लास्यमानस्यापि मर्यादावशादात्मानं स्तम्भयतः कथंकथमपि कतिपयेष्वपि सहससंख्यायमानेष्वतिक्रान्तेषु वासरेषु, एकदा रणरणकसकाशादिवान्तरलब्धावस्थानो निर्गत्य बहिर्नगर्यास्तरङ्गसङ्गशीतशीकरांसारमरुन्ति कलक्वणितकलहंसचक्रवाकचक्रवालाक्रान्तसरससुकुमारसैकतानि सिप्रातटान्यनुसरन्, युज्यमानांश्च विरलीभवतश्च संघट्टमानांश्च विश्लिष्यतश्चोत्सहमानांश्च लम्बमानांश्च परापततश्च विच्छिन्नपक्त्यवस्थानान्स्खलतोऽपि पततोऽप्यवसीदतोऽपि च यथाशक्ति सादिभिरुत्पीडितानिःसहतया दूरागमनखेदमतित्वरया चागमनकार्यगौरवमावेदयतो दूरादेवातिबहूनिव तुरंगमानद्राक्षीत् । दृष्ट्वा चोत्पन्नकुतूहलस्तेषां परिज्ञानायान्यतमं पुरुषं प्राहिणोत् । आत्मनाप्यूरुदध्नेन पयसो -
***********
स्य । एवंभूतस्य सरित्पतेः समुद्रस्येव मर्यादावशात् । राजपक्षे कुलक्रमागतस्थितिः । समुद्रपक्षे जलागमनलक्षणा च मर्यादा तद्वशादात्मानं स्वं स्तम्भयतो रक्षतः कथंकथमपि महता कष्टेन कतिपयेषु कियत्सु सहससंख्यायमानेषु सहससंख्यामिवाचरमाणेषु वासरेषु दिवसेष्वतिक्रान्तेषु गतेषु सत्सु एकदा एकस्मिन्समये रणरणकसकाशादिवौत्सुक्यपाङदिवान्तर्मध्येऽलब्धमप्राप्तमवस्थानमवस्थितिर्येनैवंभूतो नगर्या अवन्त्या बहिर्निर्गत्य बहिरागत्य दूरादेव दूरत एवातिबहूनिव तुरंगमानवानद्राक्षीदपश्यत् । किं कुर्वन् । तरङ्गाणां वीचीनां सङ्गः संस्पर्शस्तेन शीताः शीतला ये शीकरा वातास्तवारीणि तेषामासारा वर्षणं येष्वेवंविधा मरुतो वायवो येषु तानि । क्वचित् 'सिकरसाराणि' इति पाठः । कलानि मनोहराणि क्वणितानि शब्दितानि येषामेवंविधा ये कलहंसाः कादम्बाश्चक्रवाका द्वन्द्वचरास्तेषां चक्रवालं समूहस्तेनाक्रान्तानि व्याप्तानि सरसानि सजलानि सुकुमाराणि कोमलानि सैकतानि सिकतामयानि सिप्रानयास्तटानि तीराण्यनुसरनाश्रयन् । तुरंगमान्विशेषयन्नाह - युज्येति । युज्यमानान्परस्परं योगं प्राप्नुवतः । अविरला विरलाः संपद्यन्त इति विरलीभवतस्तान् । एकीभवत इत्यर्थः । संघट्टन्ते संयुज्यन्त इति संघट्टमानास्तान् । आस्फाल्यमानानित्यर्थः । विश्लिष्यत इति । विश्लिष्यतः । भिन्नीभवत इत्यर्थः । तान् । उत्सहन्त इत्युत्सहमानास्तान् । उत्साहयुक्तानि इत्यर्थः । लम्बन्त इति लम्बमानास्तान् । स्वशरीरं दी(कुर्वतः । परा सामस्त्येनापतन्त आगच्छन्तस्तान् । विच्छिन्नं विच्छेदं प्राप्तं पङ्क्त्या लेखयावस्थानं येषां ते तथा तान् । धावतां पङ्क्तिविच्छेदः प्रत्यक्षसिद्ध एव । स्खलत इति स्खलतस्तान्स्खलनां प्राप्नुवतः । अत एव पततोऽति गिरतोऽपि । अत एवावसीदतोऽप्यवसादनं प्राप्नुवतोऽपि । शक्तिमनतिक्रम्य यथाशक्ति सादिभिरश्ववारैरुत्पीडितानुप्राबल्येन पीडितास्ताडितानुप्राबल्येन पीडितांस्ताडितान् । सहनं सहः निर्गतः सहो येभ्यस्ते निःसहास्तेषां भावस्तत्ता तया । असमर्थतयेत्यर्थः । दूरादागमनं तज्जनितो यः खेदः प्रयासस्तमतित्वरयातिशीघ्रणागमनं तेन यत्कार्यस्य कृत्यस्य गौरवं गुरुत्वं चावेदयतः परेभ्यो ज्ञापयतः ।
दृष्ट्वा चेति । दृष्ट्वा विलोक्योत्पन्न प्रकटीभूतं कुतूहलमाश्चर्यं यस्यैवंभूतस्तेषां तुरंगमाणां परिज्ञानाय कस्येमे इति ज्ञानार्थमन्यतमं पुरुष प्राहिणोत्प्रहितवान् । ऊरू परिमाणं यस्यैवंभूतेन पयसा जलेनात्मनापि सिप्रानदीमुत्तीर्य तस्मिन्नेव स्थले भगवतो माहात्म्यवतः कार्तिकेयस्य षण्मुखस्यायतने चैत्ये तस्य प्रहितपुरुषस्य -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'रणरणकवशादिवान्तरलब्धावस्थानः' इत्येव पाठः । उत्कण्ठावशादिव अन्तः राजभवनस्याभ्यन्तरे न लब्धमवस्थान येन । राजभवने स्थातुमशक्नुवन्नित्याशयः । 2 सत्यावश्यकत्वे भ्रश्यमानानिति वक्तव्यम् ।
पाठा० - १ अन्तरलब्ध. २ तरङ्गशीत. ३ आकारमरुन्ति; असाराणि. ४ नातिदूरमिव चरणाभ्यामेव बभ्राम । भ्राम्यश्च रुद्रतनया(सुता) यतनं रयेणागच्छतः सावष्टम्भया गत्या त्वरितखुरसंचारान्युज्यमानांश्च. ५ पङ्क्तिव्यवस्थानम्, पङ्क्तिव्यवस्थितान्. ६ दूरगमन.
504
कादम्बरी।
कथायाम्
Page #32
--------------------------------------------------------------------------
________________
तीर्य सिप्रां तस्मिन्नेव भगवतः कार्तिकेयस्यायतने तत्प्रतिवार्ता प्रतिपालयन्नतिष्ठत् । तत्रस्थश्च कुतूहलात्तस्मिन्नेव वाजिवन्दे निक्षिप्तदृष्टिः पार्थस्थितां हस्तेनाकृष्य पत्रलेखामवादीत् - 'पत्रलेखे, पश्य । य एष पुर एवार्ककिरणनिवारणोल्लासितया प्रेङ्खदालोललम्बशिखया मयूरपिच्छमय्या वङ्किकया दुर्विभाव्यवदनोऽश्चवारो ज्ञायते, केयूरकोऽयम् इति । यावत्तया सहैव निरूपयत्येव, तावत्तस्मात्प्रहितपुरुषादुपलब्धात्मावस्थानं दृष्टिपथ एवावतीर्य तुरंगमादापतन्तं दूराद्दुतागमनधूलिधूसरश्यामीकृतशरीरं परिवर्तितमिवेतराकारेणोज्झिताङ्गरागसंस्कारमलिनेन वपुषा विषादशून्येन च मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या दूरत एवापृष्टामपि कष्टां कादम्बरीसमामवस्थामनक्षरमावेदयन्तं केयूरकमद्राक्षीत् ।
दृष्ट्वा च दर्शितप्रीतिरेह्येहीत्याहूय संसंभ्रमप्रणतोपसृतमतिदूरप्रसारिताभ्यां दोर्थ्यां पर्य -
***********
प्रतिवार्ता प्रत्युत्तरं प्रतिपालयन्विलोकयन्नतिष्ठत्तस्थौ । तत्रस्थ इति । तत्र चैत्ये स्थितश्च कुतूहलात्कौतुकात्तस्मिन्नेव पूर्वप्रतिपादित एव वाजिवृन्देऽश्वसमूहे निक्षिप्ता स्थापिता दृष्टिदृग्येनैवंभूतः पार्थस्थितां समीपस्थां पत्रलेखां हस्तेन करेणाकृष्याकर्षणं कृत्वावादीदवोचत् । किमवादीदित्याह - पत्रलेखे इति । हे पत्रलेखे, पश्यावलोकय । य एष पुरोऽग्र एवार्ककिरणाः सूर्यरश्मयस्तेषां निवारणे दूरीकरण उल्लासितयोल्लासं प्राप्तया प्रेजन्ती दीप्यन्ती आलोला चञ्चला लम्बायता शिखाग्रं यस्याः सा तथा तया । मयूरपिच्छैः कलापिबर्हनिष्पन्ना मयूरपिच्छमयी । 'प्राचुर्यविकारार्थे इति मयट् । तयैवंविधया वङ्किकया शीकरिण्या दुर्विभाव्यं दुःखेन ज्ञातुं शक्यं वदनमाननं यस्यैवंभूतोऽश्चवारोऽयं केयूरक इति ज्ञायते संभाव्यते । स यावद्यावत्कालं तया सह. पत्रलेखया सममेवं निरूपयत्येव कथयत्येव, तावत्कालं तस्मात्प्रहितपुरुषात्प्रेषितनरादुपलब्धं ज्ञातमात्मनः स्वस्यावस्थानमुपवेशनं येनैवंभूतं केयूरक कादम्बर्या अनुचरमद्राक्षीदपश्यदिति दूरेणान्वयः । किं कुर्वन्तं केयूरकम् । दूरादापतन्तमागच्छन्तम् । किं कृत्वा । अवतीर्यावरोहणं कृत्वा । कस्मात् । तुरंगमादधात् । कस्मिन् । दृष्टिपथ एव दृग्विलोकन एव । चन्द्रापीडस्येति शेषः । दृष्टेः पन्था दृष्टिपथः । 'ऋक्पूरब्धःपथामानक्षे' इत्यच् । इतः केयूरक विशेषयन्नाह - द्रुत इति । द्रुतं शीघ्रं यदागमनं तेन धूल्या रजसा धूसरमीषत्पाण्डुरमत एव श्यामीकृतं शरीरं यस्य सः । उत्प्रेक्षते - इतरो भिन्नो य आकार आकृतिस्तेन परिवर्तितमिव विनिमयीकृतमिव । उज्झितो दूरीकृतो योऽङ्गरागो विलेपनं संस्कारश्चाधिवासनं ताभ्यां मलिनेन कश्मलेन वपुषा शरीरेण विषादो हर्षाभावस्तेन कृत्वा शून्येन निस्तेजसा मुखेनाननेन चान्तमध्ये यदुःखमसातं तस्य संभारः समूहस्तस्य पिशुनया ज्ञापिकया दृष्ट्वा च चक्षुषा च दूरत एव दूरप्रदेशादेवापृष्टामप्यप्रश्नविषयीकृतामपि कष्टं विद्यते यस्यां सा कष्टा ताम् । अस्त्यर्थेऽप्रत्ययः । एवंविधां कादम्बर्याः समां अवस्था दशामनक्षरं वाग्व्यापाररहितं यथा स्यात्तथावेदयन्तं ज्ञापयन्तमद्राक्षीदिति । अन्वयस्तु पूर्वमेवोक्तः।
दृष्ट्वा चेति । दृष्ट्वा च विलोक्य च तं केयूरकं दर्शिता प्रकटिता प्रीतिः स्नेहो येनैवंभूतो दोर्त्यां भुजाभ्यां पर्यष्वजताश्लिष्यत् । किं कृत्वा । एह्यह्यागच्छेत्याहूयाह्वानं कृत्वा । कीदृशं केयूरकम् । ससंभ्रमेणादरेण प्रणतश्चासावुपसृतश्च तम् । न त्वपसरन्तमित्यर्थः । कथंभूताभ्यां दोाम् । अतिदूरं प्रसारिते विस्तारिते ताभ्याम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प०- 1 छत्रिकया । स्वल्पं छत्रम् । 2 'कादम्बरीसमवस्थाम इत्यपि पाठः । कादम्बर्याः समवस्थाम् (अवस्थितिम्) इति तदर्थः ।
पाठा० - १ य एव पुरुषः पुरः. २ छत्रिकया. ३ अवस्थानम्. ४ अपृष्टम्. ५ ससंभ्रमप्रणयप्रणत.
lllllllll
(आगच्छतः केयूरकस्यावलोकनम्
उत्तरभागः ।
505
Page #33
--------------------------------------------------------------------------
________________
ध्वजत तम् । अपसृत्य पुनः कृतनमस्कारे तस्मिन्ननामयप्रश्नवचसा संवर्दी सर्वानेव तत्सहायान्पुरःस्थितं पुनः पुनः सस्पृहमालोक्य केयूरकमवादीत् - 'केयूरक, त्वदर्शनेनैव भद्रं देव्याः सपरिवारायाः कादम्बर्या इत्येतदावेदितम् । आगमनकारणमपि विश्रान्तः सुखितः कथयिष्यसि' इत्युक्त्वा संभ्रान्तागतारोहकढौकितां करिणीमारुह्य ‘कुतोऽस्य जनस्य सुखिता' इत्यभिदधानमेव केयूरकं पृष्ठतः कृत्वा पत्रलेखां चारोप्य स्वभवनमयासीत् । तत्र च निषिद्धाशेषराजलोकप्रवेशः प्रविश्य वल्लभोद्यानं सपरिवारेण केयूरकेण सहोत्ताम्यता चेतसाऽचेतितमेव दिवसकरणीयं निर्वतयामास । निर्वयं च पत्रलेखाद्वितीयः सुदूरोत्सारितपरिजनः केयूरकमाहूयाब्रवीत् - 'केयूरक, कथय देव्याः कादम्बर्याः समदलेखाया महाश्वेतायाश्च संदेशम्' इत्यभिहितवति चन्द्रापीडे पुरः सप्रश्रयमुपविश्य केयूरकोऽप्यवादीत् - 'देव, किं विज्ञापयामि नास्ति मयि संदेशलवोऽपि देव्याः कादम्बर्याः समदलेखाया -
***********
अपसृत्येति । अपसरणं कृत्वा पुनः कृतो विहितो नमस्कारो तस्मिन्केयूरके सत्यनामयस्य प्रश्नः पृच्छा तस्य वचस्तेन सर्वानेव समग्रानेव तस्य केयूरकस्य सहायान्सहागतान्संवर्य संतोष्य पुरःस्थितमग्रतः स्थितं पुनः पुनः सस्पृहं साभिलाषमालोक्य समीक्ष्य चन्द्रापीडः केयूरकमवादीदवोचत् । किमवादीदित्याशयेनाह - केयूरक इति । हे केयूरक, तव दर्शनालोकनं तेनैव सपरिवारायाः सपरिच्छदाया देव्याः कादम्बर्या भद्रं कल्याणमित्येतदावेदितं कथितम् । आगमनेति । स चन्द्रापीडः स्वस्य भवनं गृहमयासीदगच्छदित्यन्वयः । किं कृत्वा । आगमनकारणं निदानं तदपि विश्रान्तः कृतविश्रामः सुखितः संजातमुखः स त्वं कथयिष्यसि निवेदयिष्यसीत्युक्त्वा प्रोच्य । क्वचित् 'सुखी नः कथयिष्यसि इति पाठो दृश्यते । तेन नः अस्माकमिति तस्यार्थः । पुन किं कृत्वा । संभ्रान्त ससंभ्रम आगतो य आरोहको हस्तिपकस्तेन ढौकितामानीतां करिणी हस्तिनीमारुह्यारोहणं कृत्वा अस्य केयूरकलक्षणस्य जनस्य कुतः कस्मात्सुखिता इत्यभिदधानमिति ब्रुवन्तमेव केयूरक पृष्ठतः पृष्ठप्रदेशे पत्रलेखां चारोप्यारोपणं कृत्वेत्यर्थः । स्वभवनमयासीदित्यन्वयस्तु प्रागेवोक्तः । तत्र चेति । स चन्द्रापीडो दिवसकरणीयं वासरकृत्यं निवर्तयामास कृतवान् । किं कृत्वा । सह परिवारेण परिच्छदेन वर्तते यः स सपरिवारः एवंभूतेन केयूरकेण सह समं वल्लभमुद्यानमारामं प्रविश्य प्रवेशं कृत्वा । किंलक्षणः सः । निषिद्धो निवारितोऽशेषाणां समग्राणां राजलोकानां प्रवेशो येन सः । कीदृशं दिवसकरणीयम् । उत्ताम्यतातिव्याकुलेन चेतसाऽचेतितमेवाज्ञातमेव । निवर्त्य चेति । स चन्द्रापीडः केयूरकमाहूयाह्वान कृत्वाब्रवीदवोचत् । किं कृत्वा । निवर्त्य विधाय । दिवसकरणीयमिति शेषः । चन्द्रापीडं विशेषयन्नाह - पत्रलेखेति । पत्रलेखैव द्वितीया यस्य सः । सुदूर दूर उत्सारितो दूरीकृतः परिजनः सेवकवर्गो येन सः । किमब्रवीदित्याशयेनाह - केयूरक इति । हे केयूरक, देव्याः कादम्बर्याः समदलेखाया मदलेखया सह वर्तमानायाः । कादम्बर्या विशेषणम् । महाश्वेतायाश्च सदेशं वाचिकं कथय निवेदयेति चन्द्रापीडेऽभिहितवति कथितवति सति पुरोऽग्रे सप्रश्रयं सविनयमुपविश्य निषद्य । केयूरकोऽप्यवादीदुवाच ।
किमुवाचेत्याह - देव इति । देव, किं विज्ञापयामि किं विज्ञप्तिं करोमि । यदादिष्टं तदेव वदेत्याह - नास्तीति । मयि विषये देव्याः कादम्बर्याः समदलेखाया महाश्वेताया वा संदेशलवोऽपि वाचिकादेशोऽपि -
-- -- -- - - टिप्प० . 1 'संवर्य (समादृत्य) इत्येव पाठः समुचितः ।
--
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० . १ संवर्ध्य; समावw. २ विश्रान्तसुखितः. ३ निवर्तयामास. ४ निवर्त्य, ५ अगादीत्.
(506
कादम्बरी ।
कथायाम्
Page #34
--------------------------------------------------------------------------
________________
महाश्वेताया वा । यदैव पत्रलेखां मेघनादाय समर्प्य प्रतिनिवृत्य मयायं देवस्योजयिनीगमनवृत्तान्तो निवेदितः, तदैवोधं विलोक्य दीर्घमुष्णं च निःश्वस्य सनिर्वेदम् ‘एवमेतत्' इत्युक्त्वोत्थाय महाश्वेता पुनस्तपसे स्वमेवाश्रमपदमाजगाम । देव्यपि कादम्बरी झटिति हृदये द्रुघणेनेवाभिहता ह्यतर्कितापतिताशनिनेव मूर्ध्नि ताडिता, अन्तःपीडाकूणननिमीलितेन चक्षुषा मूर्छितेव, मुषितेव, परिभूतेव, वञ्चितेव च, उन्मुक्तेव चान्तःकरणेन, अविदितमहाश्वेतागमनवृत्तान्ता, चिरमिव स्थित्वोन्मील्य नयने, विलक्षेव, लज्जितेव, विस्मृतेव, विस्मयस्तब्धदृष्टिः 'महाश्वेतायाः कथय' इति सासूयमिव मामादिश्य, मदलेखायां पुनर्वलितमुखी सविलक्षस्मितम् ‘मदलेखे, अस्ति केनचिदपरेणैतत्कृतं करिष्यते वा यत्कुमारेण चन्द्रापीडेन' इत्येवमभिदधत्युत्थाय निवारिताशेषपरिजनप्रवेशा शयनीये निपत्योत्तरवाससोतमाङ्गमवगुण्ठ्य निर्विशेषहृदयवेदना मदलेखामप्यनालपन्ती सकलमेवं तं दिवसमस्थात् । परेाश्च प्रातरेवोपसृतं माम् । ‘एवं दृढतरशरीरेषु प्रियमाणेष्विव भवत्स्वहमीदृशीमव -
***********
नास्ति न विद्यते । तन्निदानमाह - यदैवेति । यदैव यस्मिन्नेव क्षणे पत्रलेखां मेघनादाय समर्प्य समर्पणं कृत्वा प्रतिनिवृत्य परावृत्य मया केयूरकेण देवस्य भवत उज्जयिन्यामवन्त्यां यद्गमनं तस्य वृत्तान्त उदन्तो निवेदितः कथितः, तदैव तस्मिन्नेव क्षण ऊर्ध्वं विलोक्य निरीक्ष्य दीर्घमायतमुष्णं च निःश्वास मुक्त्वा सनिर्वेदं स्वावमाननसहितं यथा स्यात्तथा । एतदेवमेव निश्चयेन चन्द्रापीडो गत इत्युक्त्वोत्थानं कृत्वा महाश्वेता पुनस्तपसे तपोऽर्थं स्वमेवात्मीयमेवाश्रमपदं स्थानमाजगामाययौ । कादम्बर्यपि सकलमेव तं दिवसमस्थादतिष्ठदिति दूरेणान्वयः । इतः कादम्बरी विशेषयन्नाह - झटिति तत्कालं हृदये स्वान्ते द्रुघणेन घनेनाभिहतेव ताडितेव । अतर्कितमचिन्तितमापतितो योऽशनिवज्र तेन मूर्ध्नि मस्तके ताडितेवाभिहतेव । अन्तःपीडा मानसी व्यथा तया कूणनं क्रन्दनं तेन निमीलितेन मुद्रितेन चक्षुषा नेत्रेण मूर्छितेव मोहं प्राप्तेव । मुषितेव गृहीतसर्वस्वेव । परिभूतेव पराभवं प्रापितेव । वञ्चितेव वञ्चनाविषयीकृतेव । अन्तःकरणेन चित्तेनोन्मुक्तेव । अविदितोऽज्ञातो महाश्वेताया गमनवृत्तान्तो यया सर्वभूता कादम्बरी चिरमिव बहुकालमिव स्थित्वा नयने नेत्रे उन्मील्योन्मुद्य, विलक्षेव वीक्षापनेव, लज्जितेव त्रपितेव, विस्मृतेव विस्मरणं प्राप्तेव, विस्मय आश्चर्यं तेन स्तब्धा दृष्टिर्यस्या एवंभूता महाश्वेतायाः कथय निवेदय । चन्द्रापीडो गत इति शेषः । इति सासूयं सेयं मामादिश्य प्रतिपाद्य, मदलेखायां विषये पुनर्वलितं मुखं यस्या एवंविधा सती विलक्ष यस्मितं तेन सह वर्तमानं यथा स्यात्तथा हे मदलेखे, केनचिदनिर्दिष्टनाम्ना परेणेतद्गमनलक्षणं कृतमस्ति । करिष्यते वा यत्कुमारेण चन्द्रापीडेन कृतमिति । एवमभिदधती कथयन्त्युत्थायोत्थानं कृत्वा निवारितो दूरीकृतोऽशेषपरिजनस्य समग्रसेवकलोकस्य प्रवेशो यया सा शयनीये शय्यायां निपत्य पतनं कृत्वोत्तरवाससोत्तरीयवस्त्रेणोत्तमाङ्ग शिरोऽवगुण्ठ्याच्छाद्य निर्गतो विशेषो यस्या एवंविधा हृदयवेदना चित्तपीडा यस्यास्ताम् । समानदुःखामित्यर्थः । एवंभूतां मदलेखामप्यनालपन्त्यभाषयन्ती सकलमेव तं दिवसमस्थादित्यन्वयस्तु प्रागेवोक्तः ।
परेधुश्चेति । अपरदिने प्रातरेव प्रभात एवोपसृतमागतं मामित्युपालभमानेवोपालम्भं ददानेव । इतीति किम् । एवं पूर्वोक्तप्रकारेण दृढतरमतिशयेन कठिनं शरीरं येषामेवंभूतेषु भवत्सु केयूरकप्रभृतिषु । उत्प्रेक्षते - प्रियमाणेष्विव मरणं प्राप्यमाणेष्विवाह कादम्बरीदृशीमवस्था दशामनुभवाम्यनुभवविषयीकरोमि । पार्थवर्तिभिः -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अप्रतिभेव । 2 महाश्वेतायाः कारणादेव ममेवं दशा, यतस्तयैव कुमारोऽत्रानीतः । अत एव तस्यै ममेमा दशां निवेदेयेति सासूयमुच्यते । 3 अतो 'ध्रियमाणेष्वेव' इत्युचितः पाठः । अर्थात् भवत्सु वर्तमानेष्वेव ।
पाठा० - १ समागतेन. २ प्रतिनिवर्त्य. ३ अयोधनेन. ४ शुष्काशनिना. ५ मिलितेन. ६ उन्मत्ता. ७ लक्षितेव. ८ अपरेयुः. ९ दृढशरीरेषु. १० म्रियमाणेष्विव.
(कादम्बरीदशानिवेदनम्
उत्तरभागः ।
1507
507
Page #35
--------------------------------------------------------------------------
________________
स्थामनुभवामि' इत्युपालभमानेव, 'न मे भवद्भिः पार्श्ववर्तिभिः कार्यम्' इति निर्भर्त्सयन्तीव 'किं मे पुरस्तिष्ठसि ' इत्यन्तर्मन्युवेगेन तर्जयन्तीव च बाष्पपुरोद्रेकोत्कम्पपर्याकुलया दृष्ट्या चिरमालोकितवती । तया दृष्टश्च तथादुःखिता देव्यादिष्टमेव गमनायात्मानं मन्यमानोऽहमनिवेद्यैव देव्यै देवपादमूलमुपागतोऽस्मि । तच्च देवैकशरणजनजीवितपरित्राणाकुलमतेः केयूरकस्य विज्ञापनाकर्णनावधानदानेन प्रसादं कर्तुमर्हसि ।
देव, श्रूयताम् । यदैव ते प्रथमागमनेनामोदिना मलयानिलेनेव चलितं समस्तमेव तत्कन्यकालतावनम्, तदैव सकलभुवनमनोभिरामं भवन्तमालोक्य वसन्तमिव, रक्ताशोकतरुलतामिवारूढवान्मकरकेतनस्ताम् । इदानीं तु महान्तमायासमनुभवति त्वदर्थे कादम्बरी । तस्यैौ हि दिनकरोदयादारभ्य दिवसकरकान्तोपलानलस्येव निःशब्दस्यापवनेरितस्याधूमस्याभस्मनः प्रज्वलतो मकरध्वजहुतभुजो न परिजनकरकमलकलितकोमलपल्लव -
***********
समीपस्थायिभिर्भवद्भिर्मे मम न कार्यं न कृत्यमिति निर्भर्त्सयन्तीव निर्भर्त्सनां कुर्वन्तीव । मे मम पुरोऽग्रे किं तिष्ठसीत्यन्तर्मन्युवेगेनान्तःक्रोधरयेण तर्जयन्तीव तर्जनां कुर्वन्तीव । तथा बाष्पो नेत्राम्बु तस्य पूरः प्रवाहस्तस्योद्रेक आधिक्यं तेन उत्प्राबल्येन कम्पो वेपथुस्तेन पर्याकुला व्याप्ता तया दृष्ट्या दृशा चिरं बहुकालमालोकितवती निरीक्षितवती । तथादुःखितया तेन प्रकारेण दुःखं प्राप्तया देव्या कादम्बर्या दृष्टोऽवलोकित आत्मानं गमनायादिष्टमेवाज्ञापितमेव मन्यमानोऽहं देव्यै कादम्बर्ये अनिवेद्यैवाननुज्ञाप्यैव देवस्य भवतः पादमूलं चरणसमीपमुपागतोऽस्म्यायातोऽस्मि । तच्चेति । तत्तस्मात्कारणाद् देव एव भवानेवैकः शरणं यस्यैवंविधो यो जनः कादम्बरीलक्षणस्तस्य प्राणितं तस्य परित्राणं रक्षणं तस्मै आकुला मतिर्यस्यैवंभूतस्य केयूरकस्य विज्ञापना विज्ञप्तिस्तस्या आकर्णनं श्रवणं तस्मिन्नवधानाने चित्तप्रदानेन प्रसादं कर्तुं त्वं देवोऽर्हसि योग्यो भवसि ।
1
हे देव, श्रूयतामाकर्ण्यताम् । विज्ञप्त्यन्तरमिति शेषः । यदैव यस्मिन्नेव क्षणे ते तव प्रथमागमनेनाद्यागमनेन । उत्प्रेक्षते - आमोदिना सुगन्धिना मलयानिलेनेव मलयमारुतेनेव समस्तमेव समग्रमेव तत्कन्यकालतावनं कन्यका एव लतास्तासां वनं चलितं क्षुब्धम्, तदैव तस्मिन्नेव क्षणे सकलं यद्भुवनं जगत्तस्य मनोभिरामं चेतोरुचिरं वसन्तमिव भवन्तं त्वामालोक्य निरीक्ष्य रक्ता याऽशोकतरुलता तामिव तां कादम्बरीं मकरकेतनः कंदर्प आरूढवान्प्रविष्टवान् । इदानीं त्विति । सांप्रतं तु तवार्थः प्रयोजनं तस्मिन् । निमित्ते सप्तमी । तथा च त्वन्निमित्तं कादम्बरी महान्तमायासं श्रममनुभवति । करोतीत्यर्थः । तस्या इति । हीति निश्चये । तस्याः कादम्बर्या दिनकरस्य सूर्यस्योदय उद्गमनं तस्मादारभ्य । तन्मर्यादीकृत्येत्यर्थः । दिवसकरकान्तोपलो दृषत्तस्यानलो वह्निस्तस्येव मकरध्वज एव हुतभुग्वह्निस्तस्य प्रज्वलतो दीप्तिमतः परिजनः सेवकवर्गस्तस्य करा एव कमलानि तैः कलिता धृता ये कोमलपल्लवा मृदुकिसलयानि तेषां लाया नृत्यक्रीडा तया न प्रसरभङ्गो न प्रचारहानिः । उभयानलयोः साम्यं प्रदर्शयन्नाह - निःशब्दस्येति । निर्गतः शब्दो ध्वनिविशेषो यस्मात्स तस्य, अपवनेरितस्य न पवनेन वायुनेरितः प्रेरितस्तस्य । अधूमस्य न विद्यते दहनकेतनो यस्मिन्स तस्य । अभस्मनो न विद्यते भस्म भूतिर्यस्मिन्स तस्य । एतेन सूर्यकान्तानलेन निःशब्दत्वादिधर्मैः साम्यं
-
टिप्प० - 1 मलयानिलेन आमोदिना सुगन्धिना, भवदागमनेन आमोदिना हर्षजनकेन, 'प्रमोदामोदसंमदाः' इत्यमरः । 2 सूर्यस्पेर्शेनाग्निजनकः सूर्यकान्तमणिः । 3 परिजनहस्तेषु कमलत्वारोपणं बाणपुत्रस्य स्थूलतैव ।
पाठा० - १ दृष्टश्च तथा दुःखितया; दृष्टश्च दुःखितया २ अर्हति देवः । देव श्रूयताम् . ३ तथाहि .
508
कादम्बरी |
कथायाम्
Page #36
--------------------------------------------------------------------------
________________
लास्यलीलया प्रसरभङ्गः । नानुत्तालतालवृन्तवान्तजलजडकणिकासारसेकेन निवृत्तिः । न सरसहरिचन्दनपङ्कच्छटाच्छुरणेन छेदः । न विदलितमुक्ताफलवालुकापटलोद्भूलनेन व्युपरमः । नोत्कीलितयन्त्रमयकलहंसपङ्क्तिमुक्ताम्बुधारेण धारागृहेण प्रशमः । यथा यथा चलितजलयन्त्रविगलिताभिरतिशिशिरशीकरनिकरतारकिताभिरम्बुधाराभिराहन्यते तथा तथा वैद्युतानलसहोदर एव स्फुरति मदनपावकः । सुतरां च शिशिरः कुन्दकलिकाकलापमञ्जरीमिव विकासयति स्वेदजललवजालकसंततिमुपचारः । चित्रं चेदम् । मकरकेतुहुतभुजा दह्यमानमप्यग्निशौचमंशुकमिव नितरां निर्मलीभवति लावण्यम् । मन्ये च मूदुस्वभावमपि जलमिव मुक्ताफलतामुपगतं कठिनीभवत्युत्कण्ठितं हृदयमबलाजनस्य, यत्तादृशेनातिसंतापेनापि न विलीयते । बलवती खलु वल्लभजनसंगमाशा, यत्तथाविधमप्यनुभववेदनाविह्वलितप्राणमति -
*********** शीतलद्रव्यादिना तदितरवहरेतस्य भिन्नत्वमाविष्कृतमिति भावः । नानुत्तालानि यानि तालवृन्तानि व्यजनानि तेभ्यो या वान्ताः पतिता जलस्य जडाः शीतलाः कणिकास्तासामासारो वर्षणं तेन सेकः सिञ्चनं तेन निवृत्तिर्नाशः । अस्य मकरध्वजहुतभुज इति पूर्वेणान्वयः । न सरसेति । सरसो यो हरिचन्दनपङ्को घर्षितश्चन्दनद्रवस्तस्य छटया धारया छुरणं सिञ्चनं तेन न छेदो विनाशः । विदलित इति । न च विदलितानि स्फोटितानि यानि मुक्ताफलानि मौक्तिकानि तेषां वालुकाः सिकतास्तासां पटलानि समूहास्तैरुद्भूलनमुद्वर्तनं तेन व्युपरमो निवृत्तिः । नोत्कीलित इति । न चोत्कीलिता उत्कोरिता या यन्त्रमया यन्त्रनिष्पन्नाः कलहंसपङ्क्तयः कादम्बश्रेणयस्ताभिमुक्ता अम्बुधारा यस्मिन्नेवभूतेन धारागृहेण यन्त्रधारासदनेन प्रशमः प्रशमनम् । यथा यथेति । इयं कादम्बरी यथा यथा अम्बुनोऽम्भसो धाराभिराहन्यत आच्छोट्यते, तथा तथा मदनपावकः कंदर्पवह्निः स्फुरति दीप्तिमान्भवति । किंलक्षणो मदनवह्निः । उत्प्रेक्षते - विद्युतोऽयं वैद्युतः स चासावनलश्च तस्य सहोदर इव बन्धुरिव । किंलक्षणाभिरम्भुधाराभिः । चलितं कम्पितं यज्जलयन्नं ततो विगलिताभिः पतिताभिः । पुनः किंलक्षणाभिः । अत्यन्त शिशिरः शीतलो यः शीकरनिकरो वाताक्षिप्तजलकणसमहस्तेन तारकिताभिर्नक्षत्रिताभिः । सतरा चेति । उपचारः प्रतिक्रिया स्वेदस्य धर्मस्य जललवा अम्भःकणास्तेषां जालकानि युगपदनेकेषां पातलक्षणानि तेषां संततिः समूहस्तां
। तहष्णो भविष्यतीत्याशयेनाह - सतरां चेति । सतरामतिशयेन शिशिरः शीतलः । अधिकविरहिणो विधुरपि सवितरतीत्यादिवदेतस्याः शिशिरोऽप्युपचारोऽधिकतर उष्णो बभूवेत्यर्थः । कीदृशीं संततिम् । कुन्दस्य कुसुमं कुन्दः पुष्पवृक्षो वा तस्य कलिकाः कोरकास्तासां कलापः समूहस्तस्य मञ्जरीमिव । वर्णनीयाया जललवसंततेः कुन्दकलिकाकलापमञ्जरीसदृशसंभावनयोत्प्रेक्षालंकारः । तदुक्तम् - 'संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इति काव्यप्रकाशे । चित्रमिति । इदं चित्रमाश्चर्यम् । इदं किम् । मकरकेतुरेव हुतभुग्वहिस्तेन दह्यते ज्वाल्यत इति दह्यमानं ज्वाल्यमानमपि लावण्यं सौन्दर्यं नितरामतिशयेन निर्मलीभवति विशदीभवति । कीदृशं लावण्यम् । उत्प्रेक्षते - अग्निना शौचं शुद्धमंशुकं वस्त्रमिव । मन्य इति । अहमिति मन्ये जाने । इतीति किम् । अबलाजनस्य स्त्रीजनस्य मृदुस्वभावमपि कोमलमप्युत्कण्ठितं हृदयं मुक्ताफलतामुपगतं मौक्तिकत्वं प्राप्तं जलमिव पानीयमिव कठिनीभवति । दृढीभवति । यदिति हेत्वर्थे । यतो हेतोस्तादृशेनातिसंतापेनापि न विलीयते न विलयं गच्छति । बलवतीति । खलु निश्चयेन वल्लभः प्रियो यो जनस्तस्य संगमो मेलापकस्तस्याशा वाञ्छा बलवती बलीयसी । यद्यस्मात्कारणात्तथाविधो योऽनुभवः साक्षात्कारस्तेन या वेदना पीडा तया विह्व -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अग्निना शौचं शुद्धिर्यस्य ईदृशमिति वाच्यम् ।
पाठा० - १ निवृत्तिः, निर्वृतिः. २ उद्भूननेन. ३ दन्त. ४ कलापि. ५ प्राणाम्.
कादम्बर्या विरहावस्था
उत्तरभागः ।
1509
Page #37
--------------------------------------------------------------------------
________________
कष्टं प्राण्यते । किं करोमि, कथय कथं कथ्यते, कया वृत्त्या वर्ण्यते, कीदृशेनोपायेन प्रदर्श्यते, केन प्रकारेणावेद्यते, कया युक्त्या प्रकाश्यते, कतमया वेदनयोपनीयते । तदुत्कण्ठास्वप्नेषु विगलितवेदनाः स्फुटं प्राणिनः, प्रतिदिवसं दृश्यमानोऽपि यन्न पश्यसि तोमीदृशीमवस्थाम् । प्रचण्डकिरणसहसातपसहानि कमलानि शयनीकृतानि म्लानिमुपनयन्त्या दिवसकरमूर्तिरपि निर्जिता तया निजोष्मणा ।
निष्करुणेन चाकारणवामेन कामेन मNमानास्तास्ताश्चेष्टाः करोति । तथा हि । सासोढमदनवेदने, त्वमतिकठिने मनसि निवससि' इति मृदुनि कुसुमशयने कथमपि सखी -
***********
लिताः प्राणा यत्रेति क्रियाविशेषणम् । अतिकष्टं मया प्राण्यते जीव्यते । किं करोमीति । प्रतिदिवसं प्रतिवासरं दृश्यमानोऽपि साक्षाक्रियमाणोऽपि तामीदृशीं पूर्वव्यावर्णितामवस्था दशा यन्न पश्यसि यन्न जानासि तत्कथय ब्रूहि । किं करोमि किं कुर्वे । कथं कथ्यते केन प्रकारेण भण्यते । कया वृत्त्या आरभट्यादिकया वर्ण्यते वर्णनाविषयीक्रियते । कीदृशेनोपायेन सामादिना प्रदर्श्यते दृग्विषयीक्रियते । केन प्रकारेणावेद्यते निवेद्यते । कया युक्त्या युक्तिरुपपत्तिस्तया केन हेतुना वा प्रकाश्यते प्रकटीक्रियते । कतमया कतरया वेदनया ज्ञानेनोपनीयते प्राप्यते । निश्चयकोटिमिति शेषः । यदा तु 'उपमीयते' इति पाठस्तदा कतमया वेदनया पीडयोपमा प्राप्यत इत्यर्थः । दृश्यमानोऽपि न पश्यसीति तस्य वैगुण्यं परिजिहीर्षुराह - तदुत्कण्ठेति । तदुत्कण्ठालक्षणेषु स्वप्नेषु निद्रादृष्टान्तःकरणजन्येषु ज्ञानेषु विगलितवेदना विगतदुःखाः स्फुटं प्रकटं प्राणिनोऽसुमन्तः स्युः । तेन त्वमप्युत्कण्ठानिद्रां प्राप्तो विगतवेदनो जाननपि न जानासीति फलतीत्यर्थः । प्रचण्डेति । प्रचण्डानि तीव्राणि यानि किरणसहसाणि तेषामातपो वर्चस्तं सहन्त इत्येवंभूतानि शयनीकृतानि शय्यीकृतानि कमलानि पद्मानि म्लानिं ग्लानिमुपनयन्त्या प्रापयन्त्या तया कादम्बर्या निजोष्मणा स्वकीयतापेन दिवसकरमूर्तिरपि दिवसकरबिम्बमपि निर्जिता तिरस्कृता ।
तथा निष्करुणेन निर्दयेनाकारणवामेन निर्हेतुकप्रतिकूलेन । अर्थात्कामेन मथ्यमाना विलोड्यमानास्तास्ताश्चेष्टाः कायव्यापाररूपाः करोति निर्मिमीते । तदेव दर्शयति - तथा हीति । सासोढा मदनस्य कंदर्पस्य वेदना पीडा यया तस्याः संबोधनं हे सासोढमदनवेदने । अतिकठिनेऽतिकर्कशे मनसि चित्ते । चन्द्रापीडस्येति शेषः । त्वं निवसस्यवतिष्ठसीति कृत्वा मृदुनि सुकुमारे कुसुमशयने पुष्पशय्यायां सखीजनेन कथमपि महता कष्टेन - -
- - - - - - - - - - - - - - - - - - - -- टिप्प० - 1 केयूरस्य सेयमुक्तिः , अत एव 'तया' इत्युचितम् । 2 'उपमीयते' इत्युचितः पाठः । 'उपनीयते' इति तु श्रवणेप्यसमञ्जसम् । 3 'कतमया वेदनयोपमीयते । बलवती तदुत्कण्ठा । स्वप्नेषु विगलितचेतनाः स्फुटं प्राणिनः । इति पाठः । 'स्वप्ने दृश्यमानोपि तद्बदनां न दूरीकर्तुमिच्छसि । इति शङ्कायाः परिहारार्थमाह - स्वप्नेषु (दृश्यमानाः) प्राणिनः स्फुटं विगलितचेतनाः चैतन्यविहीना भवन्ति । यतो हि प्रतिदिनं दृश्यमानोपि तस्यास्तादृशीम न पश्यसि । यदि चैतन्यं स्यात्तर्हि अवश्यं तस्या दुर्दशां पश्येः इत्यर्थः । किन्तु टीकाकारचूडामणिः 'बलवती तदुत्कण्ठा' एतद्धटितमुत्कण्ठापदं 'स्वप्नेषु विग०' इत्यग्रिमवाक्यस्थेन 'स्वप्नेषु' इत्यनेन संयोज्य 'उत्कण्ठास्वप्नेषु' इति पदमाविष्कुर्वनलौकिकं तद्वयाख्यानमाह । 4 सोढा मदनवेदना येन तादृशे । अत एव अतिकठिने मनसि (चन्द्रापीडस्य) वससि । ततश्च कठिनस्थले निपतित्वात्ते पीडा स्यादिति सखीभिः सा मूदुनि कुसुमशयने पात्यते । सोढमदनवेदने (सप्तम्येकवचनम्) सा इत्यनयोर्योगेन 'सासोढमदनवेदने !' इति संबोधनजन्म ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ उपमीयते. २ बलवती तदुत्कण्ठा स्वप्नेषु. ३ विगलितचेतनाः. ४ प्रतिदिनम्. ५ तादृशीम्. ६ दिनकरकिरण. ७ वामनेन. ८ कथ्यमानाः.
510
कादम्बरी ।
कथायाम्
Page #38
--------------------------------------------------------------------------
________________
जनेन पात्यते । कुसुमशयनगता च संतापगलितचरणतलालक्तकलवपाटलितैश्च शय्याकुसुमैः कुसुमशरेण शरतामुपनीतैः सरुधिरैरिव हृदयात्पतितैर्भयमुपजनयति । सर्वाङ्गीणमनङ्गशरनिवारणाय कवचमिव भवदनुस्मरणरोमाञ्चमुदहति । रोमाञ्चिनि कुचयुगले श्वासगलितमंशुकं निदधाना त्वत्पाणिग्रहणतॄष्णया कण्टकशयनव्रतलीलामिव दक्षिणकरकमलमनुभावयति । वामं तु वामकपोलभरजडागुलिमुल्लसत्पद्मरागवलयप्रभांशुरज्यमानं ज्वलितमदनहुताशनविप्लुष्यमाणमिव हस्तकमलं विधुनाति । नलिनीदलव्यजनपवनविक्षिप्यमाणकर्णकुँवलयं वदनमजससवदश्रुभयपलायमानलोललोचनमिव बिभर्ति । प्रतिक्षणं क्षामतां व्रजन्ती न केवलं मङ्गलवलयम्, पतनभयेन दोलायमानं हृदयमपि मुहर्मुहुः पाणिपल्लवेनारुणद्धि । शिशिरवारिक्षोदक्षरिण्या लीलाकमलमालिकयेव वपुषि निहितया सखीजनहस्तपरम्परया परिक्ला -
***********
पात्यते शयनं कार्यते । च पुनरर्थे । कुसुमशयनगता पुष्पशय्यां प्राप्ता कादम्बरी तस्याः संतापेन गलितो यश्चरणतलालक्तकः पादतलयावकरसस्तस्य लवो लेशस्तेन पाटलितैः श्वेतरक्तीभूतैः शय्याकुसुमैः शयनीयपुष्पैः कुसुमशरेण कामेन शरतां बाणतामुपनीतैः प्रापितैः सरुधिरैः सशोणितैर्हदयात्पतितैरिव सस्तैरिव भयं भीतिमुपजनयत्युत्पादयति । सर्वाङ्गीणमिति । सर्वाङ्गीणं समग्रदेहव्यापिनं भवतस्तवानुस्मरणमनुचिन्तनं तस्माद्यो रोमाञ्चो रोमोद्गमस्तमनङ्गस्य कंदर्पस्य शरा बाणास्तेषां निवारणं दूरीकरणं तदर्थं कवचमिव संनाहमिवोद्वहति धारयति । या रोमाञ्चिनि रोमोद्गमवति कुचयुगले पयोधरयुगे श्वासेन निःश्वासेन गलितं सस्तं यदंशुकं वस्त्रं निदधाना स्थापयन्ती तव पाणिग्रहणस्य तृष्णया वाञ्छया कण्टकशयनमेव व्रतं तस्य लीलामिव दक्षिणकरकमलमपसव्यपाणिपद्ममनुभावयत्यनुभवविषयीकरोति । वामं त्विति । वामभागवतीं यः कपोलो गल्लात्परप्रदेशस्तस्य भरो भारस्तेन जडाः स्तब्धा जाता अङ्गुलयो यस्यैवंभूतमुल्लसद्विकसत्पद्मरागवलयं लोहितककटकं तस्य प्रभाया अंशवः किरणास्तै रज्यमानं रक्तीक्रियमाणं । ज्वलितो यो मदन एव हुताशनो वह्निस्तेन विप्लुष्यमाणमिव प्रज्वाल्यमानमिव वामं हस्तकमलं करकमलं विधुनाति कम्पयति । 'धूञ् कम्पने स्वादिः क्यादिश्च । एतेन सात्त्विकभाव उक्तः । स्वभावोक्ति वर्णयन्नाह - नलिनीति । नलिन्याः कमलिन्या दलानि पत्राणि तेषां व्यजनं तालवृन्तं तस्य पवनो वायुस्तेन विक्षिप्यमाणमितस्ततः क्रियमाणं कर्णयोः श्रवणयोः कुवलयं कुवलयपत्रं यस्मिन्नेवंभूतं वदनं मुखमजसं निरन्तरं सवत्क्षरद्यदश्रु नेत्राम्बु तस्माद्यद्भयं भीतिस्तेन पलायमानं नश्यमानं लोललोचनमिव तरलनयनमिव बिभर्ति धारयति । प्रतिक्षणं अनुक्षणं क्षामतां शरीरकृशतां व्रजन्ती कादम्बरी, तव विरहेणेत्यर्थः । न केवलं मङ्गलवलयं सौभाग्यकटकं पतनभयेन हस्ताच्च्युतिभीत्या दोलवच्चचलत्वमाचरन्तं किन्तु हृदयमपि स्वान्तमपि मुहुर्मुहुर्वारंवारं पाणिपल्लवेन करकिसलयेनारुणझ्यावरणं करोति । करपल्लवे मुखस्य हृदये च करस्य व्यवस्थापनम् । विरहिजनस्वभावोऽयमिति भावः । शिशिरेति । शिशिरं शीतलं यद्वारि जलं तस्य क्षोदःपृषतं क्षरतीत्येवंशीलया वपुषि शरीरे निहितया स्थापितया सखीजनस्य हस्तपरम्परया पाणिश्रेण्या । क्षरद्वारिसाम्यादुप्रेक्षते - लीलायै क्रीडा) कमलानां पद्मानां मालिकयेव परिक्लाम्यति । ग्लानिं प्राप्नोतीत्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अश्रुभयेन पलायमाने अर्थात् पलायनोद्यते अत एव लोले चञ्चले लोचने यस्मिन् तादृशम् । लोलतायां अश्रुभयस्य हेतुत्वमुप्रेक्ष्यते । अयमाशयो ज्ञेयः ।
पाठा० - १ सखीनां सर्वाङ्गीणम्. २ तृप्तया. ३ दक्षिणं. ४ अनुभवति. ५ भरसजलागुलिम्. ६ विधुनोति. ७ कुवलयदलं. ८ रुणद्धि.
कादम्बर्या विरहदशा
उत्तरभागः ।
511
Page #39
--------------------------------------------------------------------------
________________
म्यति । तथा च चरणयुगलेन रसनाकलापम्, नितम्बविस्तारेण मध्यम्, संगमाशया हृदयम्, हृदयेन भवन्तम्, उरसा बिसिनीपलाशप्रावरणम्, कण्ठेन जीवितम्, करकमलेन कपोलपालीम्, त्वदालापेनाश्रुपातम्, ललाटफलकेन चन्दनलेखिकाम्, अंसेन वेणीमधुना धारयति । त्वद्दिदृक्षया विघटमानं हृदयमभिवाञ्छति । गोत्रस्खलनेनेव जीवितेन लज्जते । प्रियसख्येव मूर्छया मनसि मुहुर्मुहुः स्पृश्यते । परिजनेनेव च रणरणकेन मदनपरवशा कुसुमशयनादुत्थाप्यते । परिचारिकयेवा, सस्ताङ्गी संचार्यते । मुहुः पवनप्रेखोलितमुत्कण्ठाव्यजनपल्लवभङ्गभयकम्पितमिव लतामण्डपमधिवसति । मुहुः सत्कोशकलिक बिसवलयसंरक्षणरचिताञ्जलिपुटमिव स्थलकमलिनीवनमधिशेते । मुहुरुद्वन्धनभयादिव निरन्तरकिस -
***********
एतेन विरहाधिक्यमाविष्कृतम् । तदेव प्रपञ्चयन्नाह - तथा चेति । अधुना सांप्रतं चरणयुगलेन पादयोर्युग्मेन रसनाकलापं कटिमेखला धारयति धत्ते । एतेन कटिप्रदेश्स्य कृशत्वमाविष्कृतम् । नितम्बेति । नितम्ब आरोहस्तस्य विस्तारेण विष्कम्भेन मध्यं विलग्नम् । धारयतीत्यस्य सर्वत्रानुषङ्गः । संगमेति । संगमस्य मेलापकस्याशा वाञ्छा तयैव हृदयं स्तनान्तरम् । धारयतीत्यर्थः । तदुक्तम् - 'आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि' इति । हृदयेनेति । हृदयेन 'सर्वं वाक्यं सावधारणमित्युक्तेर्भवन्तमेव त्वामेव धत्ते । नान्यमित्यर्थः । उरसेति । उरसा वक्षःस्थलेन बिसिन्या नलिन्याः पलाशानि पत्राणि तेषां प्रावरणमुत्तरीयक धारयति । विरहजनितदाहोपशामकत्वेन तद्धारणमिति भावः । कण्ठेन निगरणेन जीवितं प्राणितम् । एतेन कण्ठगतप्राणा सांप्रतं समस्तीति ध्वनितम् । करेति । करकमलेन पाणिपद्मन कपोलपाली गल्लात्परप्रदेशलेखां धत्ते । विरहिजनस्वभावोक्तिरियम् । त्वदिति । तव संबन्धी य आलापस्त्वकिंवदन्ती तेनाश्रुपातं रोदनम् । ललाटेति । ललाटफलकेन भालपट्टेन चन्दनलेखिकां मलयजरचनाम् । एतेन तदितरालंकृतिशून्यत्वं सूचितम् । अंसेनेति । अंसेन स्कन्धेन वेणी प्रवेणीम् । एतेन केशानामनियन्त्रितत्वमाविष्कृतम् । त्वदिति । तव दिदृक्षा द्रष्टुमिच्छा तया हृदयं स्तनान्तरं विघटमानं भेदैमापद्यमानमप्यभिवाञ्छति समीहते । हृदयविघटनेन तदन्तस्थायिनस्तव चक्षुषा दर्शन स्यादिति भावः । गोत्रेति । सा कादम्बरी जीवितेन प्राणितेन लज्जते त्रपते । केनेव । गोत्रस्य नाम्नः स्खलन विपर्ययेण ग्रहण तेनेव । प्रियसख्येवेति । मुहुर्मुहुर्वारं वारं मूर्छया मोहेन मनसि चित्ते स्पृश्यत आश्लिष्यते । कयेव । प्रियसख्येव वल्लभवयस्ययेव । परीति । रणरणकेनोत्कण्ठया मदनपरवशा कामपराधीना कुसुमशयनात्पुष्पशयनीयादुत्थाप्यत उत्थानं कार्यते । केनेव । परिजनेनेव । परिच्छदजनेनेव । परीति । आर्त्या मानसीव्यथया सस्तं पतितमङ्गं यस्याः सैवंविधा सती संतार्यते संचरणं कार्यते । कयेव । परिचारिकयेव दूत्येव । मुहुरिति । मुहुरिवार पवनेन वायुना प्रेस्रोलितं कम्पितम् । उत्प्रेक्षते - उत्कण्ठयोत्कलिकया व्यजनार्थं पल्लवभङ्गः किसलयध्वंसस्तस्माद्यद्भयं तेन कम्पितमिव धूतमिव । एवंविधं लतामण्डपं वल्लीजनाश्रयमधिवसत्यधितिष्ठति । मुहुरिति । मुहुर्वारंवारं सच्छोभना कोशकलिका बीजोत्पत्तिस्थलकोरको यस्मिन् । अत एवोत्प्रेक्षते - बिसानां तन्तूनां यद्वलयं कटक तस्य संरक्षणं तदर्थं रचितमञ्जलिपुट येनैवंभूतमिव स्थलकमलिनीवनमधिशेते शयनं करोति । 'अधिशीस्थासां-'इत्यनेनाधिकरणस्य कर्मत्वम् । मुहुरिति । उद्घन्धनभयादिव गलपाशविधानभीतेरिव निरन्तरमव्यवहितं किसल -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 पूर्वत एव कृशः कटिप्रदेशो विरहेणातिकायें नीतः, अत एव तस्मात्स्थानात्स्खलित्वा काञ्चीकलापः पादयोः प्राप्तः । 2 विश्लिष्यत्, निर्गत्य, भवत्समीपे गच्छत् इति तात्पर्यम् । 3 वारं वारं पार्थपरिवर्तन कार्यत इत्यर्थः । परिचारिकया सेविकया इव । 4 मृगौलानि मे रक्षणीयानि इति प्रार्थनार्थं मन्ये अञ्जलिपुटमेव रचितमित्युत्प्रेक्षा ।
-
-
-
-
पाठा० -१ मध्यभागम्. २ स्खलितेनेव. ३ परवशा. ४ उत्क्रोश; सत्क्रोश. ५ नलिनी.
(5120
1 कादम्बरी ।
कथायाम्-)
Page #40
--------------------------------------------------------------------------
________________
लयाच्छादितलतापाशमुद्यानमासेवते । मुहुर्निष्येतदविरतरोदनाताम्रनयनप्रतिबिम्बं सस्तरास्तरणत्रासनिमज्जत्कमलमिवोपवनसरोजलमवगाहते ।
तस्मादुत्थाय तमालवीथीमुपैति । तस्यां शाखावलम्बोर्ध्वभुजलतानिहितनिमीलितलोचनवदना चम्कदलमालिकोद्धद्धदेहाशङ्कामुत्पादयन्ती मुहूर्तं विश्रम्य संगीतकगृहमाविशति । ततो मधुरमुरजरवलयललितलास्यलीलयोद्वेज्यमाना मयूरीव मुक्तधारं धारागृहमभिपतति । ततोऽपि घर्नेजलधारासीकरपुलकितकाया कादम्बकलिकेव कम्पमाना शुद्धान्तकमलिनीतीरमुपसर्पति । तस्माच्च भवनकलहंसरवमसहमाना प्रस्थिता तत्कालावतारितनूपुरयुगला निपुणप्रेक्षामिव क्षामतामभिनन्दति । वलयरचनाम्लायितमृणालकुपितैरिव भवनवापीचक्रवाकमिथुनैः कूजितेन खेद्यते । शय्याविलासमृदितकुसुमसंचयामर्षितैरिव प्रमदवर्नमधुकरैर्विरुते -
***
यैर्नवीनपल्लवैराच्छादितस्तिरोहितो लता एव पाशो यस्मिन्नेवंभूतमुद्यानमारामं मुहुर्वारंवारमासेवते । आश्रयतीत्यर्थः । मुहुरिति । निष्पतदन्तः प्रविशदविरतं निरन्तरं यद्रोदनं परिदेवनं तेनाताम्र ईषद्रक्ते ये नयने नेत्रे तयोः प्रतिबिम्बं प्रतिच्छाया यस्मिन् । अत एवोत्प्रेक्षते सस्तरे संस्तारके यदास्तरणमुपरिस्थापनं तस्माद्यस्त्रासो भयं तेन विमज्जबुडत्कमलं पद्मं यस्मिन्नेवंभूतमिवोपवनं समीपवर्ति काननं तस्य सरोजलं पानीयं मुहुर्वारंवारमवगाहते । अवगाहनं करोतीत्यर्थः ।
****
तस्मादिति । तस्मात्सरोजलादुत्थायोत्थानं कृत्वा बहिर्निर्गत्येत्यर्थः । तमालवीथीं तापिच्छलेखामुपैत्यागच्छति । तस्यामिति । वीथ्यां शाखावलम्बिनी योर्ध्वभुजलता बाहुवल्ली तस्यां निहितं स्थापितं निमीलिते मुद्रिते लोचने नेत्रे यस्मिन्नेतादृशं वदनमाननं यया सा । चम्पको हेमपुष्पकस्तस्य पुष्पाणि चम्पकानि तेषां दलानि पृथक्कृता अवयवास्तेषां मालिका सक्तया उद्बद्धो नियन्त्रितो यो देहो लक्षणया गलप्रदेशस्तस्याशङ्कामारेकामुत्पादयन्ती जनयन्ती मुहूर्तं क्षममात्रं विश्रम्य विश्रान्तिं गृहीत्वा संगीतकगृहं नाट्यसदनमाविशति प्रविशति । ततस्तस्माद्गृहान्मधुरो मिष्टो यो मुरजरवो मृदङ्गशब्दस्तस्य लयस्तानविशेषस्तेन ललिता मनोहरा या लास्यलीला नृत्यविनोदस्तया मयूरीव शिखण्डिनीवोद्वेज्यमानोद्वेगं प्राप्यमाणा मुक्तधारं पतज्जलं धारागृहमभिपतत्यभिगच्छति । ततोऽपीति । तस्मादपि गृहाद्धना निबिडा या जलधारा तस्याः सीकरो वातास्तवारि तेन पुलकितः संजातरोमाञ्चः कायो यस्याः सा । कादम्बस्य वृक्षविशेषस्य कलिका कोरकः सेव कम्पमाना वेपथुं प्राप्यमाणा शुद्धान्तस्यान्तःपुरस्य याः कमलिन्यस्तासां तीरं प्रतीरमुपसर्पति गच्छति । तस्माच्चेति । तस्माच्छुद्धान्तकमलिनीतीराद्भवनं गृहं तत्रस्था ये कलहंसाः कादम्बास्तेषां रवं शब्दमसहमाना सोढुमसमर्था प्रस्थिता चलिता तत्कालं तदानीमवतारितं दूरीकृतम् । चरणादिति शेषः । नूपुरयुगलं पादकटकद्वन्द्वं यया सैवंभूता । निपुणप्रेक्षामिव विबुद्धबुद्धिमिव । क्षामतां कृशतामभिनन्दति स्तौति । पण्डितं प्रेक्ष्य सुतरां सूक्ष्मा भवतीति भावः । चेत्क्षामता जायते तदा नूपुरयुगलं पादयोरन्तरेणान्तरेव पततीति व्यङ्ग्यम् । वलयेति । वलयस्य कटकस्य रचना निर्माणं तेन ग्लायितं म्लानतां प्रापितं यन्मृणालं तन्तुलं तेन कुपितैः कोपं प्राप्तैरिव । भवन वाप्यो दीर्घिकास्तासां चक्रवाकमिथुनानि द्वन्द्वचरद्वन्द्वानि तैः कूजितेन शब्दितेन सा खेद्यते खेदं प्राप्यते । शय्येति । शय्याविलासेन शयनीयविभ्रमेण मृदितो मर्दितो यः कुसुमसंचयः पुष्पप्रकरस्तेनामर्षितैरिवामर्षं प्राप्तैरिव । अन्तपुरोचितं वनं प्रमदवनं तस्य मधुकरैर्भ्रमरैर्विरुतेन कूजितेनोद्वेज्यते उद्वेगं
-
( कादम्बर्या विरहदशा
टिप्प० - 1 कदम्बकलिकेत्येत पाठः । 2 ' म्लापित' इति पाठः शुद्धः । कादम्बर्या स्ववलयरचनया मृणालानि (चक्रवाक भोज्यानि) ग्लानिं नीतानि, अत एव कुपितास्ते तां खेदयन्तीत्याशयः ।
पाठा० - १ निपतित. २ शाखावलम्ब्यूर्ध्व. ३ मुक्तवारिधार. ४ ततो नवजलधरधारा ५ कदम्ब. ६ युगलम् ७ आम्लापित. ८ मधुकरकुलैः.
उत्तरभागः ।
513
Page #41
--------------------------------------------------------------------------
________________
नोद्वेज्यते । निर्भरोत्कण्ठागीतनिर्जितरवरोषितैरिवाङ्गणसहकारपिकवृन्दैः कलकलेनाकुलीक्रियते । मदनपाण्डुगण्डपरिभूतगर्भपत्रकान्तिभिर्विद्धेवोद्यानकेतकीसूचिभिरुद्भूतवेदना भवति । एवंप्रायैश्च मदनदुश्चेष्टितायासैः परिणाममुपैति दिवसः।
चन्द्रोदये चास्यास्तिमिरमयीवापैति धृतिः, कमलमयमिव दूयते हृदयम्, कुमुदमय इव विजृम्भते मकरकेतनः, चन्द्रकान्तमयमिव प्रक्षरति नयनयुगलम्, उदधिजलमयानीव प्रवर्धन्ते श्वसितानि, चक्रवाकमया इव विघटन्ते मनोरथाः, शीतज्वरातुरेव मणिकुट्टिमोदरसंक्रान्तस्य तुषारकिरणमण्डलस्योपरि वेपथुलुलिततरलाङ्गुलीनिकर करयुगलं प्रसारयन्ती शशिसंतापमनक्षरं कथयति । सीत्कारेषु दशनांशुव्याजेन मन्मथशरजेर्जरितहृदयप्रविष्टानिन्दुकिरणानिवोद्गिरति । वेपथुषु व्यजनीकृतकदलीदलकम्पोपदेशमिव गृह्णाति । विजृम्भिकासु -
*********** प्राप्यते । निर्भरति । निर्भरं यथा स्यात्तथोत्कण्ठया यद्गीतं तेन निर्जितो यो रवः शब्दस्तेन रोषितैरिव रोषं प्राप्तैरिवाङ्गणमजिरं तत्र यः सहकारश्चुतस्तत्रस्थाः पिकाः कोकिलास्तेषां वृन्दैः समूहैः कलकलेन कोलाहलेनाकुलीक्रियते व्याकुलीक्रियते । मदनेति । मदनेन कंदर्पण पाण्डुः शुभ्रो यो गण्डः कपोलात्परप्रदेशस्तेन परिभूता न्यकृता गर्भपत्रकान्तिमध्यदलरुग्यैरेवंविधैरुद्यानस्य केतक्यस्तासां सूचयस्त्रिपत्रकरूपाः । 'त्रिपत्रकः सूचिरभिधीयते' इति वैजयन्तीकारः । अग्राणि वा । तैर्विदेव भिन्नेवोद्भूतवेदना प्रादुर्भूतपीडा भवति जायत एव । एवमिति । एवंप्रायैरेवंप्रकारैर्मदनस्य कंदर्पस्य दुश्चेष्टितानि दुर्विलसितानि तेषामायासैः प्रयासैः परिणाम परिपक्वताम् । अवसानमिति यावत् । दिवसो वासर उपैति गच्छति ।।
चन्द्रोदये चेति । च पुनरर्थे । चन्द्रोदये शशाङ्कोदयेऽस्याः कादम्बर्या धृतिः संतोषः । 'धृतिः स्थैर्यम्' इति भूपालः । अपैति गच्छति । अत एवोत्प्रेक्षते - तिमिरमयीव तिमिरात्मिकेव । तिमिरस्य चन्द्रोदये नाशात्तत्साम्यं धृते । कमलेति । हृदयं मानसं दूयते संकुचितं भवति । अत एवोत्प्रेक्षते - कमलमयमिव पद्मघटितमिव । कमलानामेव चन्द्रोदये संकोचसंभावाद्धृदयस्य तत्तुल्यता । कुमुदेति । मकरकेतनः कंदर्पो विजृम्भते उज्ज्वलो भवति । अत एवोत्प्रेक्षते - कुमुदमय इव कैरवात्मक इव । चन्द्रोदये कैरवाणामेव विजृम्भणात्तत्तुल्यता । चन्द्रकान्तेति । नयनयुगल नेत्रयुग्मं प्रक्षरति । अश्रुपातं करोतीत्यर्थः । अत एवोत्प्रेक्षते - चन्द्रकान्तश्चन्द्रमणिस्तन्मयमिव तद्धटितमिव । चन्द्रोदये चन्द्रोपलस्यैव प्रक्षरणादिति भावः । उदधीति । श्वसितानि श्वासाः प्रवर्धन्ते । वृद्धिं गच्छन्तीत्यर्थः । अत एवोत्प्रेक्षतेउदधिजलं समुद्रपानीयं तन्मयानीव । तत्स्वरूपाणीव । चन्द्रोदय उदधिजलस्यैव प्रवर्धनादिति भावः । चक्रवाकेति । मनोरथा अभिलाषा विघटन्ते वियुज्यन्ते । अत एवोत्प्रेक्षते - चक्रवाका रथाङ्गाह्वयास्तन्मया इव तद्धटिता इव । शीतेति । शीतज्वरेणातुरा पीडितेव । मणिकुट्टिमस्य रत्नबद्धभूमेरुदरं मध्यं तत्र संक्रान्तस्य प्रतिबिम्बितस्य तुषारकिरणश्चन्द्रस्तस्य मण्डलं बिम्ब तस्योपर्युपरिष्टाढेपथुः कम्पस्तेन लुलितः कम्पितस्तरलो मनोहरोऽङ्गुलिनिकरः करशाखासमूहो यस्मिन्नेवंभूतं करयुगलं पाणियुग्मं प्रसारयन्ती विस्तारयन्ती अनक्षरं यथा स्यात्तथा शशिसंतापं चन्द्रसंतापं कथयति । करकम्पनेनैव तनिवेदनादिति भावः । सीत्कारेष्विति । सीत्कारेषु सीत्कृतेषु दशना दन्तास्तेषामंशवः किरणास्तेषां व्याजेन मिषेण मन्मथशरेण कंदर्पबाणेन जर्जरितं शिथिलीकृतं यद्धृदयं स्वान्तं तत्र प्रविष्टान्सक्रमितानिन्दुकिरणानिव चन्द्रकरानिवोद्गिरति वमति । वेपथुष्विति । वेपथुषु कम्पेषु व्यजनीकृतानि तालवृन्तीकृतानि यानि कदलीदलानि रम्भापत्राणि तेभ्यः कम्पस्तस्योपदेशमिव शिक्षामिव गृह्णाति । विजृम्भिकास्विति । विजृम्भिकासु - टिप्प० - 1 येषामित्युचितम् ।
-
-
-
-
--
-
-
-
--
-
पाठा० - १ उत्कर्ष. २ चन्द्रकान्तमणिमयम्. ३ वर्धन्ते. ४ शशिनः संतापम्. ५ निर्जित.
514
कादम्बरी।
कथायाम
Page #42
--------------------------------------------------------------------------
________________
कण्ठागतजीवितनिर्गममार्गमिवोपदिशति । गोत्रस्खलितविलक्षस्मितेषु हृदयनिपतितमदनशरपुष्परज इव वमति ।। बाष्पमोक्षेषु स्थूलाश्रुसंतानवेणिकावाहिनी विलीयत इव । शशिमणिदर्पणेषु विस्फुरितानेकप्रतिबिम्बनिभेन शतधेव विदलती । कुसुमशयनेषु परिमललालसागतालिमालाकुलिता धूमायत इव । अमलकमलसस्तरेषु किजल्करजःपुञ्जपि
रिता ज्वलतीव । स्वेदप्रतीकारेषु विशदकर्पूरक्षोधूलीधवलिता भस्मीभवतीव । न विज्ञायते किं मुग्धतया, किं विलासेन, किमुन्मादेन, संगीतमृदङ्गध्वनितेषु केकाशङ्कया धारागृहमरकतमणिमयूरमुखानि स्थगयति । दिवसावसानेषु विश्लेषभीता मृणालसूचित्रभित्तिविलिखितानि चक्रवाकमिथुनानि संघटयति । चिन्तारतारम्भेषु मणिप्रदीपानवतंसोत्पलैस्ताडयति । उत्कण्ठालेखेषु संकल्पसमागमाभिज्ञानानि लिखति । दूतीसप्रेषणेषु स्वप्नापराधोपालम्भान्सदिशति ।
***********
विजृम्भणेषु कण्ठागतं निगरणप्राप्तं यज्जीवितं तस्य निर्गममार्गमिव निःसरणपन्थानमिवोपदिशति कथयति । गोत्रेति । गोत्रस्खलितानि पूर्वव्यावर्णितानि तेषु यानि विलक्षस्मितानि तेषु हृदयनिपतिताः स्वान्तान्तःप्रविष्टा ये मदनशराः कंदर्पबाणास्तेषां पुष्परज इव कुसुमपराग इव वमत्युद्गिरति । बाष्पमोक्षेष्विति । बाष्पो नेत्राम्बु तस्य मोक्षेषु मोचनेषु स्थूलानि यान्यश्रूणि तेषां संतानं परम्परा तस्य वेणिका प्रवाहस्तां बहतीत्येवंशीला सती विलीयत इव द्रवीभवतीव । शशीति । शशिमणिदर्पणेषु चन्द्राकान्तादर्शेषु विस्फुरितानि चमकितान्यनेकप्रतिबिम्बानि तेषां निभेन मिषेण शतधा शतप्रकारेण विदलतीव खण्डीभवतीव । कुसुमशयनेष्विति । कुसुमशयनेषु पुष्पशयनीयेषु परिमले लालसा लम्पटा या गतालिमाला भ्रमरपङ्क्तिस्तयाकुलिताकुलीकृता सती धूमायत इव धूमवदाचरतीव । अमलेति । अमलानि निर्मलानि यानि कमलानि नलिनानि तेषां सस्तरेषु संस्तारकेषु किञ्जल्कं केसरं तस्य रजःपुञ्जः कणिकानिकरस्तेन पिञ्जरिता पीतरक्तीकृता सती ज्वलतीघोद्भुषतीव । स्वेदेति । स्वेदो धर्मस्तस्य प्रतीकाराः प्रतिक्रियास्तेषु विशदः शुचिर्यः कर्पूरक्षोदो हिमवालुकाचूर्णं तस्य धूली रजस्तया धवलिता शुभ्रीकृता सती भस्मीभवतीव भूतिभावं भजतीव । नेति । न विज्ञायते नावबुध्यते । मयेति शेषः । किं तदित्याद - किमिति । किं मुग्धतयाऽप्रगल्भतया, किंवा विलासेन विभ्रमेण, किंवोन्मादेन चित्तविप्लवेन, संगीतार्थं यानि मृदङ्गध्वनितानि मुरजशब्दितानि तेषु केका मयूरवाण्यस्तासां शङ्कया आरेकया धारागृहे यन्त्रगृहे मरकतमणिर्नीलमणिस्तेन निर्मितानि मयूरमुखानि शिखण्डिवदनानि स्थगयत्याच्छादयति । दिवसेति । दिवसावसानेषु वासप्रान्तेषु । बहुदिवसापेक्ष चैतत् । अन्यथैकदिवसस्यैकमेवावसानं स्यात् । विश्लेषभीता वियोगभीता मृणालसूत्रैस्तन्तुलतन्तुभिश्चित्रभित्तावालेख्योपलक्षितकुड्ये विलिखितानि चित्रितानि यानि चक्रवाकमिथुनानि द्वन्द्वचरद्वन्द्वानि संघटयति संयोजयति । चिन्तेति । चिन्तया संकल्पमात्रेण ये रतारम्भा मैथुनारम्भास्तेषु मणिप्रदीपारत्नगृहमणीनवतंसः शेखरस्तस्योत्पलानि कुवलयानि तैस्ताडयति ताडनां करोति । उत्कण्टेति । उत्कठयोत्कलिकया ये लेखाः पत्राणि तेषु संकल्पेन कल्पनामात्रेण ये समागमा मेलापास्तेषामभिज्ञानानि मनःप्रत्यायकचिह्नानि लिखति लिपीकरोति । दूतीति । दूत्यः संचारिकास्तासां संप्रेषणेषु स्वप्ने स्वप्नावस्थायामपराध आगस्तस्योपालम्भा उपालम्भा इति लोकप्रसिद्धास्तान्सदिशति कथयति ।।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 परागमिव इति वक्तव्यम् । स्मितं नास्ति, मन्ये कंदर्पबाणभूतानां कुसुमानाम् (हृदयप्रविष्टानाम्) रज एवास्तीत्युत्प्रेक्ष्यते । स्मितस्य चैत्यवर्णनात् । 2 परिमललालसया (इच्छया) आगता या अलिमाला, इति स्पष्टोऽर्थ । 3 उत्प्लुष्यत इव ।
पाठा० - १ कण्टनाल. २ निष्पतित. ३ प्रस्तरे; संस्तरेषु, ४ जर्जरिता. ५ उज्ज्वलति. ६ धूलि. ७ संगीतक. ८ संघट्टयति.
कादम्बर्या विरहावस्था
उत्तरभागः।
Page #43
--------------------------------------------------------------------------
________________
अपि च तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः । चक्राह्वशाप इव निशया सहापतति प्रजागरत्रासः । प्रतिरुतानीव वलभीकपोतकूजितैः सहाविर्भवन्ति दुःखानि । मधुकर इवोपवनकुसुमामोदेन सहोपसर्पति मरणाभिलाषः । तथा च जलकणिकेव पद्मिनीपलाशस्थिता कम्पते । प्रतिच्छायेव स्फटिकोपलसलिलमणिदर्पणमणिकुट्टिमतलेषु दृश्यते । नलिनीव शशिकरस्पर्शेन म्लायति । हंसीव सरसमृणालिकाहारव्यतिकरेण जीवति । शरदिव कुमुदकुर्वलयसंपर्कमनोहरगन्धवहा सकुसुमबाणा च विजृम्भते । चन्द्रमूर्तिरिव कमलप्रकरस्खलितपादपल्लवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकरकिरणकृतजागरा दिवसमलीकनिद्रयातिवाहयति । मुररिपुजलशयनलीलेव मन्दोच्छसितशेषा -
***********
अपि चेति युक्त्यन्तरे । तस्याः कादम्बर्याश्चन्दनपरिमल इव मलयजामोद इव दक्षिणानिलेनावाचीमारुतेन सह मोहो मूर्छा समागच्छति । चक्राह्मेति । निशया त्रियामिन्या सह चक्राह्वो रथाङ्गाह्वयस्तस्य शापः पृथग्भवनलक्षणस्तद्वदिव प्रजागरत्रासो जागरणभयमापतत्यागच्छति । प्रतीति । वलभी गृहोपरिभागस्तस्यां कपोताः पारावतास्तेषां कूजितै रटितैः सह प्रतिरुतानीव प्रतिश्रुतानीव दुःखान्यसुखान्याविर्भवन्ति प्रकटीभवन्ति । मधुकर इति । उपवनस्य कुसुमानि पुष्पाणि तेषामामोदो दूरगामी गन्धस्तेन सह मधुकर इव । जात्येकवचनम् । मरणाभिलाषो मृत्युवाञ्छोपसर्पति समीपमायाति । प्रकारान्तरेण तां वर्णयबाह - तथा चेति । पद्मिनी कमलिनी तस्याः पलाशानि पत्राणि तेषु स्थिता जलकणिकाऽम्भोबिन्दुरिव कम्पते चलते । एतेनोभयोः साधर्म्यमाविष्कृतमिति भावः । प्रतीति । स्फटिकोपलश्च सलिलं च मणिदर्पणश्च मणिकुट्टिमतलानि च तेषु प्रतिच्छायेव प्रतिबिम्बमिव दृश्यते । जनैरिति शेषः । नलिनीति । शशिकराश्चन्द्रकिरणास्तेषां स्पर्शः संयोगविशेषस्तेन नलिनीव म्लायति म्लानिं प्राप्नोति । नलिन्याः सूर्यविकासित्वेन, अस्याच विरहव्याकुलितचित्तत्वेन शशिकरस्पर्शादेव म्लानिरिति भावः । हंसीवेति । सरसा रसोपयुक्ता या मृणालिन्यः कमलिन्यस्तासां हारा मुक्ताप्रालम्बास्तेषां व्यतिकरण संबन्धेन हंसीव वरटेव जीवति प्राणिति । हंसीपक्षे मृणालिकाया आहारो भोजनं तेन प्राणवृत्तिं करोतीत्यर्थः । शरदिवेति । कुमुदं श्वेतकमलं सूर्यविकासिं, कुवलयं चन्द्रविकासि, एतेषां संपर्कः संबन्धस्तस्माद्यो मनोहरगन्धस्तं वहतीति वहाँ । सुकुसुमबाणा चेति । सह कुसुमेन पुष्पेण वर्तमाना बाणा वृक्षविशेषा यस्याः यस्यां वा । एवंविधा सती शरदिव घनात्यय इव सा विजृम्भते । इतस्ततः प्रसरतीत्यर्थः । चन्द्रमूर्तिरिति । कमलानां नलिनानां प्रकरः समूहस्तस्मिन्स्खलिताः स्खलनां प्राप्ताः पादा अङ्ग्रयः किरणा वा त एव पल्लवा यस्याः सैवंविधा चन्द्रमूर्तिरिव संचरन्ती व्रजन्ती निशां नयति । रात्रिं गमयतीत्यर्थः । कुमुदिनीति । रजनिकरश्चन्द्रस्तस्य किरणैरंशुभिः कृतो विहितो जागरो जागरणं यस्याः सैवविधा कुमुदिनीव कैरविणीवालीकनिद्रया दिवसमतिवाहयति । गमयतीत्यर्थः । अत्रालीकनिद्रत्वं नेत्रकुमुदिन्योर्निद्राभावेन संकोचमात्रापेक्षया मन्तव्यम् । मुररिपुरिति । मुररिपुः कृष्णस्तस्य जलशयनलीलेव मन्दं मन्दमुच्छसितमेव शेषो यस्याः सा कादम्बरी किमप्यनिर्वचनीयस्वरूपं चिन्तयति ध्यायति । जलशयनलीलापक्षे मन्दं मन्दमुच्छासित उच्छासं प्राप्तः । संजातोच्छास इति यावत् ।
- - - - - - - - - - - - --- टिप्प० - 1 पारवतकृजितैः सह यथा तेषां प्रतिरुतान्याविर्भवन्ति तथा तस्या दुःखानि प्रकटीभवन्तीत्याशयः । 2 कातिशयात् सा प्रतिच्छायेव दृश्यते । अथवा विरहतपवशादेतेषु पदार्थेषु सा निपतति, अत एव प्रतिच्छायेव । 3 शरतपक्षे कुमुदादिसंपर्केण मनोहरो गन्धवहो यस्याम् । 4 कादम्बरी तु सकुसुमबाणा कुसुमबाणेन कामेन सहिता । 5 कुमुदिन्याः किरणैर्जागरः विकासो भवतीति ज्ञेयम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दर्पणकुट्टिम; दर्पणतलकुट्टिम. २ कुवलयकमल. ३ प्रजागार.
516
कादम्बरी।
कथायाम
Page #44
--------------------------------------------------------------------------
________________
निमिलितलोचना किमपि चिन्तयति । मलयनिम्नगेव सरसहरिचन्दनकिसलयलाञ्छितेषु शिलातलेष्वभिपतति । कुन्दकलिकेव तुषारसिक्तपल्लववर्तिनी वनानिलेनायास्यते । भुजंगीवासह्यसंतापालिङ्गितचन्दना शिखिंकुलकोलाहलेन ताम्यति । हरिणीव केसरिकाननं परिहरति । कुसुमघटितशिलीमुखमनोहरान्मदनचापादिव प्रमदवनात्त्रस्यति । जानकीव पीतरक्तेभ्यो रजनिचरेभ्य इव चम्पकाशोकेभ्यो बिभेति । उषेव स्वप्नसमागमेनापि कृतार्थतामेति । ग्रीष्मलक्ष्मीरिवानुदिनमतिक्षामा श्यामा भवति ।
सर्वथा तस्याः कंदर्पवेदनयाङ्गानि, दिवसैर्जीवितसंघारणवस्तूनि, वलयरचनया गृहकमलिनीमृणालानि, उपदेशैः सखीजनवचनानि, शय्यापरिकल्पनेनोपवनकुसुमानि, अनवरत -
***********
शेषः शेषनागो यस्यां सा तथेत्यर्थः । मलयेति । मलयनिम्नगेव दक्षिणाचलसरिदिव सरसो निबिडरसो यो हरिचन्दनश्चन्दनद्रुमस्तस्य किसलयानि पल्लवास्तैलाञ्छितेषु चिह्नितेषु शिलातलेष्वभिपतति । शेत इत्यर्थः । कुन्देति । कुन्दः पुष्पविशेषस्तस्य कलिकेव कोरक इव तुषारेण हिमेन 'सिक्तो यः पल्लवः किसलयस्तस्मिन्वर्तत इत्येवंशीला । विरहव्याकुलितत्वेन हिमसिक्तपल्लवोपरि कृतशयनेत्यर्थः । वनानिलेन वनवायुनाऽऽयास्यत आयासं प्राप्यते । कुन्दकलिकापक्षे तुषारसिक्तपल्लववर्तिनीति कण्ठ्यम् । भुजंगीति । प्रबलविरहस्य धर्मस्य वाऽसह्यः सोढुमशक्यो यः संतापस्तप्तिस्तेनालिङ्गितं चन्दनं चन्दनद्रुमो वा यया सैवंविधा सती भुजङ्गीव सर्पिणीव शिखी मयूरस्तस्य कुलं समूहस्तस्य कोलाहलः कलकलस्तेन ताम्यति खेदं प्राप्नोति । हरिणीति । केसरो बकुलो विद्यते यस्मिन्नेवंविधं केसरिणोपलक्षितं वा यत्काननं वनं हरिणीवैणीव परिहरति त्यजति । कुसुमेति । कुसुमेषु पुष्पेषु घटिता लग्ना ये शिलीमुखा भ्रमराः, पक्षे कुसुमान्येव घटिता रचिताः शिलीमुखा वा, तैर्मनोहराद्रुचिरान्मदनचापादिव कंदर्पधनुष इव प्रमदवनादन्तःपुरोचितवनात्त्रस्यति त्रासं प्राप्नोति । जानकीति । पीताश्च रक्ताश्च पीतरक्तास्तेभ्यश्चम्पकाशोकेभ्यः पीतं रक्तं रुधिरं यैस्तेभ्यो रजनिचरेभ्य इव निशाचरेभ्य इव जानकीव सीतेव बिभेति भयं प्राप्नोति । उषेवेति । स्वप्ने निद्रावस्थायां समागमो मेलापकस्तेनापि कृतार्थतां कृतकृत्यतामेति गच्छति । केव । उषेव । यथोषा बाणसुता स्वप्नदशायां प्रद्युम्नसमागमे कृतार्था जाता तथेयमपीत्यर्थः । ग्रीष्मेति । ग्रीष्मलक्ष्मीरिव निदाघश्रीरिवानुदिनं प्रतिदिनमतिक्षामातिकृशा श्यामा कृष्णा भवति जायते । पक्षेऽतिक्षामा श्यामा रात्रिर्यस्यामिति समासः । 'रजनीव मतिः श्यामा' इत्यभिधानचिन्तामणिः ।
सर्वथेति । सर्वप्रकारेण तस्याः कादम्बर्याःकंदर्पवेदनया कामव्यथयाङ्गानि हस्तपादादीनि । दिवसैरिति बहुवचनं बहुत्वोपलक्षकम् । बहुभिर्वासरैजीवितस्य प्राणितस्य संधारणवस्तूनि प्राणाधारभूताः पदार्थाः निःशेषमत्यन्तं क्षीणानि स्तोकानि जातानीत्यर्थः । तदेव दर्शयन्नाह . वलयेति । दाघचरोपशमार्थं वलयानां कटकानां रचना निर्माण तया गृहकमलिन्याः सदननलिन्या मृणालानि बिसानि । उपदेशैरिति । उपदेशैरुपदेशः शिक्षा तस्य प्रदानैः सखीजनस्यालीजनस्य वचनानि । शय्येति । शय्यायाः शयनीयस्य परिकल्पनेन विरचनेनोप - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 बहुव्रीही कृते 'अतिक्षामश्यामा इति स्यादिति न ज्ञातं वराकेण । अत एव अतिक्षामश्यामेत्येव साधु । कादम्बरी तु-अतिक्षामा चासौ श्यामा चेति । 'ग्रीष्मनिशालक्ष्मीरिवानुदिनमतिक्षामा भवति इति पाठे तु उभयत्र अतिक्षामत्वं (कृशत्वम्, लघुत्वं च) वर्तत एव ।
पाठा० - १ चन्दनशाखा. २ शिखिशकुन्त. ३ अपि. ४ ग्रीष्मनिशा. ५ अतिक्षामा भवति. ६ साधारम्.
कादम्बर्या विरहदशा
उत्तरभागः।
517
Page #45
--------------------------------------------------------------------------
________________
मोक्षण मदनायुधानि निःशेष क्षीणानि । किं बहुना, संप्रति तस्यास्त्वन्नामा सर्वसखीजनः, त्वत्संबद्धानि सर्वरहस्यानि, त्वत्समागमोपायान्वेषिणः सर्वसमवायाः, त्वद्वार्तोपेलम्भनंपराः सर्वप्रश्नाः, त्वद्वृत्तान्तमुखरः परिजनः, त्वदालापनिमिताः सर्वविनोदाः, त्वदाकारमयश्चित्रकलाभ्यासः, त्वदुपालम्भगर्भा मागधीमङ्गलगीतयः, त्वदर्शनपुनरुक्ताः स्वप्नाः, त्वत्परिहासप्राया मदनज्वरदाहविप्रलापाः, त्वन्नामग्रहणैकोपायगम्यप्रबोधा मोहमहावेगाः इत्यावेदयन्तं च केयूरकम् भवतु । संप्रति न शक्नोम्यतः परं श्रोतुम् इत्यामीलनदत्तसंज्ञेव कादम्बरीव्यथाश्रवणवेदनासंभवानुकम्पयेव चन्द्रापीडमाक्रमन्ती मूर्छा न्यवारयत्, न तु पुनरवस्थानिवेदनपरिसमाप्तिः ।
तथामूर्छानिमीलितश्च तामेवानुध्यायन्निव ससंभ्रमप्रतिपन्नशरीरेण केयूरकेण संभाविततालवृन्तया च पत्रलेखयानुभाव्यार्थसज्जया च नियत्या संज्ञा लम्भितश्चन्द्रापीडः स्वकृतपीडा -
***********
वनकुसुमानि । अनवरतं निरन्तरं मोक्षेण मोचनेन मदनायुधानि कंदर्पशस्त्राणि । किं बहुनेति । किं बहुवक्तव्येनेत्यर्थः । संप्रतीति । संप्रतीदानीं तस्याः कादम्बर्याः । तवैव नाम विद्यते यस्य स त्वन्नामा । एवंविधः सर्वसखीजनो वयस्याजनः । त्वदिति । त्वय्येव संबद्धानि लग्नानि सर्वरहस्यानि सर्वगुह्यानि । त्वदितरसमागमो मेलापस्तस्योपायः कारणं तमन्वेषयन्तीत्येवंशीला अन्वेषिणः सर्वसमवायाः समग्रजनसमूहाः । तव वार्तं कुशलं तस्योपलम्भनमुपलब्धिस्तस्मिन्परास्तत्पराः सर्वप्रश्नाः सर्वाण्यनुयोजनानि । त्वदिति । तव वृत्तान्तः प्रवृत्तिस्तत्र मुखरो वाचाल एवंविधः परिजनः परिच्छदः । त्वदिति । तव आलापः संभाषस्तेन निर्मिता रचिताः सर्वविनोदाः समग्रक्रीडाविलासाः । त्वदिति । तवाकार आकृतिस्तेन निष्पन्नस्त्वदाकारमयश्चित्रकलाया आलेख्यविज्ञानस्याभ्यासः । पुनः पुनरिवारम् । त्वदिति । तवोपालम्भो गर्भे मध्ये यासां ता मागधीनां मङ्गलपाठिकानां मङ्गलगीतयः कल्याणार्थगानानि । त्वदिति । त्वदर्शनेन त्वदवलोकनेन पुनरुक्ताः पुनभाषिताः स्वप्नाः । तव परिहासप्राया उपहाससदृशा मदनज्वरदाहाविप्रलापा विरुद्धोक्तयः । 'विप्रलापो विरुद्धोक्तिः' इत्यमरः । त्वन्नामेति । तव नाम्नो ग्रहणमेवैकोऽद्वितीयो य उपायः प्रपञ्चस्तेन गम्याः प्रबोधा बोधनानि येषामेवंभूता मोहमहावेगा मौढ्यमहारयाः इति पूर्वोक्तप्रकारेणावेदयन्तं कथयन्तम् । केयूरकमिति । नेत्रयोरामीलनान्मुद्रणाद् दत्तसंज्ञेव दत्ता संज्ञा संकेतो यया सा विहितचेष्टेव । कयेव । कादम्बर्या व्यथाश्रवणमाकर्णनं तस्माद्बदनायाः संभवस्तस्मिन्ननुकम्पा दया तयेव चन्द्रापीडमाक्रमन्ती मूर्छा न्यवारयन्यषेधयत् । इतीति किम् । यत्त्वया प्रोक्तं तद्भवत्वस्तु । संप्रतीदानीमतः परं श्रोतुमाकर्णयितुं न शक्नोमि न समर्थो भवामि । न तु पुनरवस्थाया निवेदनं तस्य वेदनायाः परिसमाप्तिः पर्यन्तः ।
तथेति । तेन प्रकारेण मूर्छानिमीलितो मौढ्येन मुद्रितश्च तामेव कादम्बरीमेवानुध्यायन्स्मरनिव सह संभ्रमेण त्वरया प्रतिपन्नं विधृतं स्वीकृतं शरीरं यस्यैवंभूतेन केयूरकेण, संभावितं संगृहीतं तालवृन्तं व्यजनं ययैवंभूतया पत्रलेखयानुभाव्यो योऽर्थस्तत्र सज्जया समर्थया च नियत्याऽदृष्टविशेषेण संज्ञा चेतना लम्भितः -
टिप्प० . 1 सखीजनोपि त्वनामसहितः । 2 इतरस्य का कथा ? त्वत्समागमोपायस्य अन्वेषिणः समवायाः समूहाः । वस्तुतस्तु व्यापाराः । 3 त्वदर्शनन पुनरुक्तं येषु । अर्थात् पूर्वं दृष्टस्य तव स्वप्नसंदर्शनेन पुनरुक्तिः (आवृत्तिः) भवतीत्याशयः । 4 त्वत्रामग्रहणरूपेण एकमात्रोपायेन गम्यः प्राप्यः प्रबोधो मोहापगमो येषु एवंविधा महान्तो मूवेिगाः । 5 अनुभावयितुम् (अनुभवविषयीकारयितुम्) योग्यः ।
पाटा० - १ सर्वः सर्वतः. २ सर्वे. ३ अपालम्भ; उपालम्भ. ४ तत्पराः. ५ भवति. ६ आमीलनादत्त. ७ आक्रामन्ती. ८ निवेदनवेदन; वेदन. ९ आध्यायन्. १० अनुभाव्यार्थम्.
518
कादम्बरी।।
कथायाम्
Page #46
--------------------------------------------------------------------------
________________
पराधेन भीतमिव लज्जितमिव विलक्षमिव निभृतस्थितं केयूरकमन्तर्बाष्पोपरुध्यमानकण्ठः कथमपि स्खलिताक्षर प्रत्युवाच - ‘केयूरक !, येन प्रकारेणैवमेकान्तनिष्ठुरहृदयमात्मन्यनुत्पनरोगमेव मां संभाव्य देव्या कादम्बर्या दूरीकृतपुनर्मदागमनसंभावनया न त्वमागमनायादिष्टः, न संदिष्टं वा किंचिन्महाश्वेतया समुपहृतानुबन्धया, मदलेखया वा त्वन्मुखेन नोपालब्धोऽस्मि, तथा मयि पत्रलेखया सर्वमाख्यातम्, तदभिजाततया महानुभावत्वादुदारतया समानशीलतया दक्षिणतया चैकान्तपेशलतया च स्वभावस्यात्मानमात्मना न कलयति देवी कादम्बरी । चन्द्रमूर्ते लोकेनैव निश्चेतनस्य चन्द्रकान्ताख्यस्य पाषाणखण्डस्याभावोपगमनमेवायत्तम्, न पुनस्तत्कराकर्षणम् । नितरां पक्षपातिनोऽपि च मधुकरस्याभिगमनमेवाधीनम्, मकरन्दलाभे तु कलिकाश्रयिणी जृम्भैव प्रभवति । दिवससंतापक्लान्तेन चोन्मुखता कुमुदाकरेण करणीया, विकासयति पुनस्तं ज्योत्स्नाभिरामा रजन्येव । निर्भरमन्तःसरसतायां सत्या -
***********
प्रापितश्चन्द्रापीडः स्वयं कृता या पीडा तस्या अपराध आगस्तेन भीतमिव त्रस्तमिव, लज्जितमिव त्रपितमिव, विलक्षमिव वीक्षापन्नमिव, निभृतस्थितं निश्चलस्थितं केयूरकमन्तर्बाष्पेणोपरुध्यमानः कण्ठो यस्यैवंविधश्चन्द्रापीडः कथमपि महता कष्टेन स्खलिताक्षरं यथा स्यात्तथा प्रत्युवाच प्रोक्तवान् । किमुवाचेत्याह - केयूरक इति । हे केयूरक, येन प्रकारेणैवमेकान्तेन निष्ठुरं कठिनं हृदयं चेतो यस्यैवंविधमात्मनि कादम्बरीविषयेऽनुत्पन्नरागमजनितस्नेह मामेव संभाव्य ज्ञात्वा देव्या कादम्बर्या दूरीकृतः पुनर्द्धितीयवारं यन्मदागमनं तस्य संभावना तया त्वमागमनाय नादिष्टो न कथितः । तथा महावेतया किंचिन्न संदिष्टं न कथितम् । कीदृशया । समुपहृतो दूरीकृतोऽनुबन्धोऽत्याग्रहो यया सैवंविधया । मदलेखया वा त्वन्मुखेन त्वदाननेन नोपालब्धोऽस्मि नोपालम्भं प्रापितोऽस्मि । तथा मयीति । मद्विषयकं सर्वं पत्रलेखयाख्यातं कथितम् । तदिति । तत्पूर्वोक्तमभिजाततया कुलीनतया महाननुभावो माहात्म्यं यस्यातस्या भावस्तत्त्वं तस्मादुदारतया रूपानुगुणत्वेन समानं शीलं स्वभावो यस्यास्तस्या भावस्तत्ता तया दक्षिणतया सरलतया । 'दक्षिणे सरलोदारौ' इत्यमरः । स्वभावस्य प्रकृतेरेकान्तेने निश्चयेन पेशलतया हृद्यतया । अत्रात्मशब्दः स्वरूपवाची तेनात्मानं स्वं रूपं देवी कादम्बर्यात्मना स्वेनैव न कलयति न जानाति । यादृशं भङ्ग्या भणितं वेश्ययावबुध्यते, न तादृशं कुलस्त्रियेति भावः । तदेव दर्शयन्पुनः प्रकारान्तरेणात्मदोषं दूरीकुर्वन्नाह - चन्द्रेति । चन्द्रमूर्तेः शशाङकबिम्बस्यालोकेनैव प्रकाशेनैव निश्चेतनस्य चेतनारहितस्य चन्द्रकान्ताख्यस्य शशिमण्यभिधानस्य पाषाणखण्डस्य दृषच्छकलस्यान्भावस्य द्रवीभावस्योपगमनं प्रापणमेव आयत्तं स्वाधीनम् । न पुनस्तत्कराकर्षणं तत्किरणाक्षेपः । नितरामिति । नितरामत्यर्थं पक्षपातिनोऽपि वांजगामिनोऽपि, पक्षे पक्षपातिनोऽपि पक्षकारिणोऽपि, मधुकरस्य भ्रमरस्याभिगमनमेव संमुखागमनमेवाधीनमायत्तम् । तु पुनरर्थे । मकरन्दलाभे तु मकरन्दप्राप्तौ तु कलिका कोरकस्तामाश्रयतीत्येवंशीला जृम्भैव जृम्भणमेव प्रभवति समर्थीभवति । दिवसेति । दिवसस्य वासरस्य संतापस्तप्तिस्तेन क्लान्तेन पीडितेन कुमुदाकरेण कैरवसमुदायेनोन्मुखता संमुखता करणीया कार्या तं पुनर्विकासयति विकस्वरतां नयति ज्योत्स्ना कौमुदी तयाभिरामा मनोहरा रजन्येव निशैव । निर्भरमिति । निर्भरं यथा स्यात्तथान्तमध्ये सरसस्य भावः सरसता तस्यां सत्यामपि मधुमासो वसन्तस्तस्य लक्ष्मी श्रीस्तस्याः -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 एकान्तपेशलतया अत्यन्तमार्दवेन, अतिधीरतया वा । 2 व्यर्थान्वेषणं व्यर्थायितम् । अत्यन्तमनुकूलस्य, भृशं पक्षपोषकस्य वा, इत्येवार्थः । 3 विकासः ।
पाठा० - १ किमपि. २ अनुरागम्. ३ पुनफ़्रीकृतमदागमन. ४ समुपाहत. ५ तथानया. ६ आत्मना च. ७ आलोकेनापि. ८ जृम्भिका. ९ विकासयति न पुनस्तम्. .
चन्द्रापीडस्य प्रतिवचनम्
उत्तरभागः।
519
Page #47
--------------------------------------------------------------------------
________________
मपि मधुमासलक्ष्मीपरिग्रहाद्विना पल्लवानुरागदर्शनस्य कृते किं करोतु पादपः ? तत्र देव्याः कादम्बर्या एवाज्ञापराधिनी, ययाऽधरस्पन्दितमात्रप्रतीक्षे पुरःस्थायिनि दासजने निष्करुणतयात्मानमव्यापारयन्त्या सुखप्रेतिपन्थिनी दुःखदानकनिपुणा परहृदयपीडानपेक्षिणी लज्जापेक्षिता, न जीवितसदेहदायिनी देव्याः समाचष्ट । अथवा देव्याः परिजनस्यापि कोऽयमेवंविधो व्यामोहः, यदनिच्छन्त्यपि बलादसौ न व्यापारिता । कीदृशी चरणतलप्रतिबद्धस्य दासजनस्योपरि लज्जा, कीदृशं वा गौरवम्, को वानुरोधः, अविश्वस्तचित्तता वा केयमीदृशी, यदेवमात्मनः शिरीषपुष्पकोमलस्येयमतिदारुणा पीडाऽङ्गीकृता, न कृतार्थितो मे मनोरथः । अथवा क्रमागतमन्तर्धानं वामलोचनानाम्, विशेषतोऽपरित्यक्तनिःशेषबालभावानामनतिप्रबुद्धमुग्धमनसिशयानां कन्यकानाम्, यल्लंज्जा न पारिता नामास्मिञ्जने स्वयं परित्यक्तुं देव्या ।
***********
परिग्रहः स्वीकारस्तस्माद्विना पल्लवस्य किसलयस्यानुरागदर्शनं तस्य कृते तदर्थं पादपो वृक्षः किं करोतु । किं कुर्यादित्यर्थः । तत्रेति । तस्मिन्प्रदेशे देव्याः कादम्बर्या आज्ञैव निदेश एवापराधिन्यपराधवती, ययाज्ञया केवलमधरस्पन्दितमधरस्पन्दितमानं तस्मिन्प्रतीक्षा विलम्बो यस्य स तस्मिन् । ओष्ठस्फुरणानन्तरमेव कार्यकारिणीत्यर्थः । पुरःस्थायिन्यग्रे दासजने सेवकजने निष्करुणतया निर्दयतयात्मानं स्वमव्यापारयन्त्याऽनियोजयन्त्या सुखस्य सौख्यस्य प्रतिपन्थिनी वैरिणी, दुःखस्यासुखस्य दानं वितरणं तत्रेकाऽद्वितीया निपुणाभिज्ञा, परहृदयस्यान्यचित्तस्य पीडा वेदना तामनपेक्षतेऽसमीहत इत्येवंशीला लज्जा त्रपाऽपेक्षितेहितेयं जीवितसदेहदायिनी प्राणितसदेहकारिणीति देव्याः कादम्बर्या न समाचष्ट नाख्यातवती । अथवेति प्रकारान्तरे । देव्याः कादम्बर्या अस्य परिजनस्यापि परिच्छदस्यापि कोऽयमनिर्वचनीयस्वरूप एवंविध एतादृशो व्यामोहो मूढता यदसौ कादम्बर्यनिच्छन्त्यप्यनभिलषन्त्यपि बलाद्धठान्न व्यापारिता न प्रेरिता । कीदृशीति । चरणतले प्रतिवद्धस्य लग्नस्य दासजनस्य सेवकलोकस्योपर्युपरिष्टात्कीदृशी लज्जा त्रपा । वाथवा गौरवं गुरुत्वं कीदृशम् । को वानुरोधः प्रतिबन्धः । केयमीदृश्यविश्वस्तचित्तताऽविश्रम्भमनस्कता यस्माद्धेतोरेवममुना प्रकारेणात्मनः स्वस्य शिरीषपुष्पवत्कोमलस्य सुकुमारस्येयमतिदारुणात्युग्रा पीडाङ्गीकृता स्वीकृता । मे मम मनोरथोऽभिलाषो न कृतार्थितो न सफलीकृतः । अथवेति युक्त्यन्तरे । वामलोचनानां मनस्विनीनामन्तर्धानं तिरोधानं क्रमागतं परिपाट्या समागतमेव । विशेषतो विशेषादेवापरित्यक्तो निःशेषो बालभावो याभिस्तासाम् । अनतीति । नातिप्रबुद्ध यन्मुग्धं मनस्तस्मिञ्शयानां स्थितानां कन्यकानां कुमारीणाम् । नामेति कोमलामन्त्रणे । यदस्मिञ्जने चन्द्रापीडलक्षणे स्वयमात्मना देव्या कादम्बर्या लज्जा त्रपा परित्यक्तुं विमोक्तुं न पारिता न शक्ता, -
-
-
-
-
टिप्प० -1 'चन्द्रमूर्तेरालोकेन इत्यारभ्य 'किं करोतु पादपः एतत्पर्यन्तं सदृशेन अप्रस्तुतेन वाच्यार्थेन सदृशस्य प्रस्तुतस्य कादम्बरीचन्द्रापीडयोर्व्यवहारस्य गम्यत्वादप्रस्तुतप्रशंसा (सामान्यात् सामान्यस्य गम्यतारूपा, पञ्चमी) । केषांचिन्मते प्रतिवस्तूपमा । 2 'देव्याः समवस्था' इत्युचितः पाठः । देव्याः कादम्बर्याः आज्ञाया एवाऽपराधो यया हि मादृशे दासजने संमुखस्थितेऽपि (अहं तु आज्ञानुकूल एवासम्, पुनः किं कारणमासीद्विरहसंतापानुभवस्येतिभावः) आत्मानम् (अर्थात्स्वम् आज्ञाम्) अव्यापारयन्त्या अप्रदिशन्त्या लज्जाया अपेक्षा कृता, देव्याः कादम्बर्याः समवस्थायाः परिस्थितेः (विरहविकलतायाः) अपेक्षा न कृता, या हि लज्जा देव्या जीवितसदेहदायिनीति स्पष्टस्तस्यार्थः । 3 आत्ममनोभावस्य गोपनमिति यावत् । 4 अनतिप्रबुद्धः (न अतिवृद्धिं गतः) मनसिशयः कामो यासा तासामित्यर्थः ।
पाठा० - १ प्रतीक्ष्ये. २ परिपन्थिनी. ३ समवस्था. ४ अथवास्य परिजनस्यापि देव्या अपि; अथवा जनस्यास्योपरि देव्या अपि. ५ अनेच्छन्त्यापि बलादसौ न व्यापारितः. ६ प्रतिवद्धदासजनस्य. ७ अनभिबुद्ध. ८ लज्जा न पारितम्.
520
कादम्बरी।
MIN
कथायाम्
Page #48
--------------------------------------------------------------------------
________________
मदलेखा तु द्वितीयं हृदयमस्याः । तया किमेवमहार्यसंयमधनैर्मुनिभिरप्यरक्षितर्हृदयापहारेणानिग्राह्यचौरेण शुचिभिरप्यपरिहार्यस्पर्शेनाबहिष्कार्यचाण्डालेन भस्मीकृतापर्यवसानप्राणिसहस्रेणानिर्वाप्यश्मशानाग्निना सर्वदोषाश्रयेणाशरीरव्याधिना रूपापहारिणा अकाण्डव्याधेन मर्मभेदिनालीकधनुर्धरण सद्यःप्राणापहारक्षमेणाकालमृत्युनाऽनिरूपितस्थानास्थानप्रवर्तिना परापकारकृतार्थेन हृदयवासिनाऽपरप्रत्ययेन स्वयोनिना कामेन दुरात्मनायाऽऽस्यमानं देवीशरीरमुपेक्षितम् । किमिति तत्रस्थस्यैव मे कर्णे नावेदितम् ? अधुना श्रुत्वापि दिवसक्रमगम्येऽध्वनि किं करोमि ? मलयानिलाहतलताकुसुमपातस्याप्यसहं देवीशरीरम् । वज्रसारकठिनहृदयैरस्मद्विधैरपि दुर्विषहाः स्मरेषवः । न ज्ञायते निमेषमात्रेणैव किं वा 1 भवतीति । प्रायेण च देव्या -
********
I
तर्ह्यस्या देव्या मदलेखा तु द्वितीयं हृदयम् । तया मदलेखया किमेवं पूर्वोक्तप्रकारेण दुरात्मना कामेनायास्यमानं पीड्यमानं देवीशरीरमुपेक्षितमुपेक्षाविषयीकृतम् । इतः कामं विशेषयन्नाह - अहार्येति । न हार्यं हर्तुं योग्यं संयमधनं व्रतधनं येषामेवंविधैर्मुनिभिरपि वाचंयमैरप्यरक्षितो हृदयापहारः प्राणापहरणं यस्यात्स तेन । अनीति । न निग्रहीतुं योग्योऽनिग्राह्य एवंविधश्चौरस्तस्करस्तेन । शुचिभिरिति । शुचिभिरपि पवित्रैरप्यपरिहार्यः परिहर्तुमशक्यः स्पर्शो यस्य स तेन । अबहिरिति । अबहिष्कार्याण्याभ्यन्तरकृत्यानि तेषु चाण्डालेन मातङ्गेन । भस्मीति । भस्मीकृतमपर्यवसानमनन्तं प्राणिसहस्रं येन स तेन । अनिति । अर्निर्वाप्यमविध्यातं यच्छ्मशानं पितृवनं तस्याग्निरिवाग्निस्तेन । सर्वेति । सर्वदोषाणां समग्रदूषणानामाश्रयेणाधारभूतेन । अशरीरेति । न विद्यते शरीरं यस्मिन्नेवंभूतो व्यौधिरामयस्तेन । रूपेति । रूपं सौन्दर्यमर्पहरतीत्येवंशीलेन रूपापहारिणा । काण्डेति । काण्डेर्न बाणेन विध्यतीति काण्डव्याधस्तेन । मर्मेति । मर्मभेदिनाऽवेध्य स्थलघातकेन । अलीकेति । अलीको मिथ्या धनुर्धरो धनुष्मांस्तेन । सद्य इति । सद्यस्तत्कालं यः प्राणापहारोऽनुग्रहणं तत्र क्षमेण समर्थेन । अकालेति । अकालेनाप्रस्तावेन मृत्युना मरणेन । अनिरूपितेति । अनिरूपितेऽदर्शिते कृतार्थेन कृतकृत्येन । हृदयेति । हृदये चित्ते वसतीत्येवंशीलेन । परेति । परस्य योऽपकारोऽप्रकृतिस्तेन कृतार्थेन कृतकृत्येन । हृदयेति । हृदये चित्ते वसतीत्येवंशीलेन । अपरेति । अर्परस्मिञ्शत्रावपि प्रत्ययो विश्वासो यस्य स तेन । स्वयोनिनात्मयोनिना । किमितीति । तत्रस्थस्यैव हेमकूटस्थस्यैव मे मम कर्णे श्रोत्रे । जात्येकवचनम् । किमिति केन हेतुना नावेदितं न कथितम् । अधुनेति । सांप्रतं श्रुत्वाप्याकर्ण्यापि दिवसानां वासराणां क्रमः परिपाटी न गम्ये गन्तुं योग्येऽध्वनि मार्गेऽहं किं करोमि । न किमपि कर्तुं समर्थः इत्यर्थः । मलयेति । मलयानिलेन मलयवायुनाहतं ताडितं यल्लताकुसुमं तस्य यः पातः पतनं तस्याप्यसहं सोढुमसमर्थं देव्याः कादम्बर्याः शरीरं देहम् । लतापुष्पपातेनापि ग्लानिं प्राप्नोतीत्यर्थः । वज्रेति । वज्रं हीरकस्तस्य सारो मध्यं तद्वत्कठिनं हृदयं चेतो येषामेवंविधैरपि स्मरेषवः कंदर्पबाणा दुर्विषहा दुःखेन सोढुं शक्या इति न ज्ञायते नावबुध्यते । इतीति किम् । निमेषमात्रेणैव निमीलनमात्रेणैव किं भवति किं जायते । प्रायेणेति । प्रायेण बाहुल्येन देव्यापि कादम्बर्याप्ययमर्थो दुःखलक्षणोऽनुभवनीय
टिप्प० - 1 अबहिष्कार्यश्चासौ चाण्डालश्च । अन्यश्चाण्डालः समीपादितो बहिष्कर्तुं शक्यः कामस्तु न तथेति स्पष्टोर्थः । 2 निर्वापणविशेषणमग्नेरेवोचितं न श्मशानस्येति न निर्वाप्यो यः श्मशानाग्निस्तेनेत्येवार्थः । 3 अशरीरोपि विध्यति इति । तथा च यस्य शरीरं नास्ति तथापि वेधनकारिणति सुन्दरोऽर्थः । 4 कामो न सौन्दर्यमपहरति । अत एव सौन्दर्येण (परकीयेण) अपहरति धैर्यादपनयतीति रूपापहारीत्यर्थः । अथवा अरूपश्चासौ अपहारी चेत्यर्थः । 5 अकाण्डे विध्यतीत्येवोचितोऽर्थः । 6 अकाले मृत्युस्तेन । 7 नास्ति परेण प्रत्ययो यस्य, स्वसंवेद्य इत्यर्थः ।
पाठा० - १ असंरक्षित. २ प्राणहृदय. ३ स्पर्शनचाण्डालेन. ४ अकाण्ड. ५ कृतान्तेन. ६ हृदयैरपि. ७ निमेषेणैव किं भवतीति.
चन्द्रापीडस्य प्रतिवचनम्
उत्तरभागः ।
521
Page #49
--------------------------------------------------------------------------
________________
प्यनुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्यसनिनो दुर्घटघटनापण्डितस्य यत्किंचनकारिणो निष्कारणकुपितस्य हतविधेः सर्वतो विसंस्थुलं समारम्भं पश्यामि, तथा जानामि नैतावता स्थास्यतीति । अन्यथा क्व निष्प्रयोजनाश्वमुखानुसरणेनामानुषभूमिगमनम्, क्व च तंत्र तृषितस्याच्छोददर्शनम्, क्व तत्र तीरे विश्रान्तस्यामानुषगीतध्वनेराकर्णनम्, क्व तज्जिज्ञासागतस्य महाश्वेतावलोकनम्, क्व तत्र तरलिकया सह तवाभिगमनेन मद्गमनप्रस्तावः, क्य महाश्वेतया सह हेमकूटगमनम्, क्व तत्र देवीवदनदर्शनम्, क्व रागोत्पत्तिरस्मिञ्जने देव्याः, क्व वाऽपरिपूर्णमनोरथस्य मे पितुरलङ्घनीयाऽऽगमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेनाकार्यकारिणास्मत्कर्मबलनियोगदक्षेण दग्धवेधसा । तथापि देवीं संभावयितुं प्रयतामहे ।
इत्यभिदधत्येव चन्द्रापीडे 'नितरामयमनेनैव कादम्बरीवृत्तान्तेन संतापितः, तत्किमपरमहमेनमात्मतेजसा संतापयामि इत्युत्पन्नदय इव भगवास्तिग्मदीधितिरुत्तप्तकनकद्रवस्फुलिङ्गपिङ्गलद्युति दिग्विकीर्णधूर्जटिजटामण्डलानुकारि संजहार करसहसम् । अस्तानुसारेण च रवे -
*********** एवानुभवविषयीकरणीय एव । यथा चेति । दुःखस्यैकमद्वितीयं दानं तत्र व्यसनमासक्तिर्विद्यते यस्य स तस्य । दुर्घटेति । दुःखेन घटितुं योग्या दुर्घटा एवंविधा या घटना पदार्थानामन्योन्य संबन्धस्तत्र पण्डितस्य विबुधस्य । यत्किंचन यदेव तदेव करोतीत्येवंशीलस्य यत्किंचनकारिणः । निष्कारणं निर्निमित्तं कुपितस्य कोपं प्राप्तस्यास्य हत विधेर्दुष्टविधातुर्यथा सर्वतः सर्वत्र विसंस्थुलं विसदृशं समारम्भ निर्माण पश्याम्यवलोकयामि । तथेति । तेन प्रकारेणेति जानाम्याकलयामि । इतीति किम् । नेति । एतावतैतावत्कालं न स्थास्यति नावस्थानं करिष्यति । अन्यथेत्युक्तविपर्यये । निष्प्रयोजनेन निष्कारणेनाश्चमुखाः किंनरास्तेषामनुसरणेनानुगमनेनामानुषभूमिगमनं मनुष्यरहितक्षितौ यानम् । क्व क्वेति महदन्तरे । तत्रामानुषभूमौ तृषितस्य पिपासित स्याच्छोददर्शनं क्व । तत्रेति । तत्राच्छोदनाम्नस्तीरे विश्रान्तस्य गृहीतविश्रामस्यामानुषाः किंनरास्तेषां गीतध्वने यशब्दस्याकर्णनं श्रवणं क्व । तस्य ज्ञातुमिच्छा तज्जिज्ञासा तयागतस्य प्राप्तस्य महाश्वेताया अवलोकनं निरीक्षणं क्व । तत्र महाश्वेतावलोकनस्थले तरलिकया सह तव केयूरकस्याभिगमनेनागमनेन मद्गमनप्रस्तावो मदीययानावसरः क्व । महाश्वेतया सह साधु हेमकूटगमनं क्व । तत्र हेमकूटे देवीवदनदर्शनं कादम्बरीमुखावलोकनं क्व । अस्मिन् जने देव्याः कादम्बर्या रागोत्पत्तिः क्व । अपरिपूर्णमनोरथस्यापरिपूर्णाभिलाषस्य मे मम पितुर्जनकस्यालङ्घनीयानतिक्रमणीयागमनाज्ञागमननियोगः क्व । तदिति । तत्तस्माद्धेतोः सुदूरमत्युच्चैरारोप्यारोहणं कारयित्वा अनेनाकार्यकारिणाऽकृत्यकारिणास्माकं यत्कर्मबलं तस्य नियोगो व्यापारणं तत्र दक्षेण विबुधेन दग्धवेधसा ज्वलितधात्रा । खलु निश्चयेन वयं पातिता अधःस्थल प्रापिताः । तथापीति । तथाप्येवं सत्यपि देवीं संभावयितुमाश्चासयितुं प्रयतामहे प्रयत्नं कुर्महे ।
इत्यभिदधत्येवेति कथयत्येव चन्द्रापीडे नितरामतिशयेनायं चन्द्रापीडोऽनेन पूर्वोक्तेनैव कादम्बरीवृत्तान्तेन कुमारिकोदन्तेन संतापितः संताप प्रापितः । तत्किमेनं चन्द्रापीडमात्मतेजसा स्वकीयवर्चसा परं संतापयामि । इत्युत्पन्नदय इवेति संजातकृप इव भगवास्तिग्मदीधितिः सूर्यः करसहसं संजहारापससार । करसहसं विशेषयन्नाह - उत्तप्तेति । उत्तप्तमुष्णीकृतं यत्कनकं सुवर्णं तस्य द्रवो रसस्तस्य स्फुलिङ्गः कणस्तद्वत्पिङ्गला कपिला युतिः कान्तिर्यस्मिंस्तत्तथा । दिग्विकीर्णा विक्षिप्ता या धूर्जटिजटा ईश्वरसटास्तासां मण्डलं तदनुकारि तत्सादृश्यकरणशीलम् ।
अस्तेति । रवेः सूर्यस्यास्तानुसारेणास्तसमयानुसरणेन च वासरोऽपि दिवसोऽपि - टिप्प० - 1 अपसारयामासेत्युचितम् । पाठा० - १ विसंस्थुलं. २ नैवायमेतावता. ३ अश्वमुखमिथुन. ४ तत्तीरे. ५ अनुराग. ६ पर. ७ पिङ्गलगलद्युति. ८ मण्डलाकारी.
-
-
-
-
--
-
-
522
कादम्बरी।
कथायाम्
Page #50
--------------------------------------------------------------------------
________________
I
र्वासरोऽपि यथोच्छ्रिततरुशिखरावलम्बिनो रक्तातपच्छेदानाकर्षन्त्रपससार । क्रमेण च संजातकरुणानुबन्धयेव संध्ययाप्युपरि जलार्द्रपट इव प्रसार्यमाणे स्वरागपटले, निशागमेनाप्येवम् 'अस्य शून्यताविक्लवस्य मा भूद्दर्शनम्' इत्याप्तेनेव सर्वतो नीलीपरिलम्बमानायामिव भ्राम्यमाणायां तिमिरलेखायाम्, कमलेष्वपि दुःसहत्वाच्छोषकारिणः संतापस्य तल्पकल्पनाभीतेष्विव संकुचत्सु, कुमुदेष्वपि शुचिस्वभावतयादर्द्विषु शयनसंपादनायेवाहमहमिकयोद्दलत्सु, चक्रवाकेष्वपि सहचरीविरहविधुरेषु कादम्बरीसमीपगमनोपदेशदानायेव कलकरुणमुच्चैर्मुहुर्मुहुर्व्याहरत्सु, चन्द्रमस्यपि भगवति सॅकलभुवनैकातपत्रे सुधारजतकलशे पूर्वदिग्वधूवदनचन्दनतिलके गगनतललक्ष्मीलावण्यमहाहदे सकललोकाह्लादकारिणि सुधालिप्तैः करैरिव स्प्रष्टुम्, उच्छ्वासहेतुना तं ज्योत्स्नाजलेन च सेक्तुम्, उदयगिरिशिखरमारूढे, प्रौढे प्रदोषसमये चन्द्रापीडस्तस्मिन्नेव वल्लभोद्याने, चन्द्रातपस्पर्शदर्शितविशदजललवोद्भेदहारिणि चन्द्रमणिशिला
यथोच्छ्रितं अत्युच्चं यथा स्यात्तथा तरूणां वृक्षाणां शिखराण्यग्राणि तेष्ववलम्बिनो गृहीतावलम्बनो (ना) रक्तो य आतपस्तस्य छेदाः खण्डास्तानाकर्षन्त्राकृष्टिं कृर्वन्नपससारापसृतवान् । क्रमेण चेति । क्रमेण च परिपाट्या च संजातः समुत्पन्नः करुणायाः कृपाया अनुबन्धः संबन्धो यस्यामेवंविधयेव संध्ययाप्युपर्युपरिष्टाज्जलेनार्द्रः स्विन्नो यः पटस्तस्मिन्निव स्वरागपटले व्योमरागसमूहे प्रसार्यमाणे विस्तार्यमाणे । निशेति । एवं निशागमेनापि शून्यता विमनस्कता तया विक्लवस्य विह्वलस्यास्य राज्ञो मा भूद्दर्शनमवलोकनमित्याप्तेनेव शिष्टेनेव सर्वतः सर्वत्र नीली शैवलं तद्वत्सामस्त्येन परिलम्बमानायां प्रसृतायामिव तिमिरलेखायां तमिसवीथ्यां भ्राम्यमाणायामितस्ततो विक्षिप्यमाणायां सत्याम् । कमलेष्वपीति । शोषकारिणः शोषकर्तुः संतापस्य क्लेशस्य दुःसहत्वाद्दुःखेन सोढुं शक्यत्वाद्धेतोर्या तल्पकल्पना शयनीयकल्पना तया भीतेष्विव भयं प्राप्तेष्विव कमलेष्वपि संकुचत्सु संकोचं प्राप्यमाणेषु सत्सु । कुमुदेष्वपीति । कुमुदेष्वपि कैरवेष्वपि शुचिस्वभावतया निर्मलप्रकृतितया । आर्द्राश्चर्द्राश्च आर्द्रार्द्रास्तेष्वत्यन्तं जलसमुन्नेषु । अहं पूर्वमहं पूर्वमित्यहमहमिका तया शयनसंपादनायेव तल्पकल्पनायेवोद्दलत्सून्मिषत्सु सत्सु । चक्रवाकेष्वपि सहचरेष्वपि सहचारिण्यश्चक्रवाक्यस्तासां विरहो वियोगस्तेन विधुरेषु पीडितेषु सत्सु । कादम्बर्याः समीपमभ्यर्णं गमनं यानं तस्योपदेशस्तस्य दानायेव कलं करुणं यथा स्यात्तथोच्चैरुच्चस्वरेण मुहुर्मुहुर्वारंवारं व्याहरत्सु ब्रुवत्सु सत्सु । चन्द्रमस्यपीति । भगवति माहात्म्यवति सकलभुवनस्य समस्तलोकस्यैकमद्वितीयमातपत्रं छत्रं तस्मिन्सुधाया रजतकलशे रौप्यकुम्भे । पूर्वदिगेव वधूः स्त्री तस्या वदनं मुखं तस्मिंश्चन्दनतिलके मलयजपुण्ड्रे । गगनतलमाकाशतलं तस्य लक्ष्मीः शोभा तस्या लावण्यं चातुर्यं तस्य महाहदे । सकललोकस्य समस्तभुवनस्याह्लादं प्रमोदं करोतीत्येवंशीलः स तथा तस्मिन् । सुधालिप्तैरमृतस्निग्धैः करैर्हस्तैः स्प्रष्टुं स्पर्शं कर्तुमिव । तथोच्छ्रासहेतुनादैरकारणेन तं चन्द्रापीडं ज्योत्स्ना कौमुदी सैव जलं पानीयं तेन च सेक्तुं सिञ्चनं कर्तुमिव । उदयगिरिरुदयाचलस्तस्य शिखरं सानुमारूढ आरोहि सति । प्रौढे महति प्रदोषसमये यामिनीमुखलक्षणे चन्द्रापीडस्तस्मिन्नेव पूर्वोक्त एव वल्लभोद्याने वल्लभाभिधाने वने । चन्द्रातपेति । चन्द्रातपस्य चन्द्रालोकस्य यः स्पर्शः संबन्धस्तेन दर्शितः प्रकटीकृतो विशदं निर्मलं यज्जलं तस्य लवोंऽशस्तस्योद्भेदः प्राकट्यं तेन हारिणि मनोहर एवंविधे चन्द्रमणेश्चन्द्रकान्तरत्नस्य शिलातलेऽङ्गानि -
टिप्प० - 1 वस्तुतस्तु 'नीलीपरिलम्बनायामिव' इति पाठः । नीली नीलवर्णयुक्ता या परिलम्बना तिरस्करिणी तस्यामिव तिमिरलेखायां भ्राम्यमाणायाम् । 2 आर्द्राणीति क्लीबतैवोचिता, कुमुदानां नपुंसकलिङ्गत्वात् । 3 उच्छ्वासहेतुना जीवनकारणेन ।
पाठा० - १ क्रमेणैव. २ प्राप्तेनेव ३ मुहुः ४ समस्त. ५ ज्योत्स्नाजलेनेव.
(केयूरकेण सह संलापः
उत्तरभागः ।
523
Page #51
--------------------------------------------------------------------------
________________
तले विमुच्याङ्गानि चरणसंवाहनोपसृतं केयूरकमवादीत् - 'केयूरक, किमाकलयसि, यावद्वयं परापतामस्तावव्याणान्धारयिष्यति देवी कादम्बरी ? पारयिष्यति वा तां विनोदयितुं मदलेखा ? आगमिष्यति वा पुनस्तत्समाश्वासनाय महाश्वेता ? मत्परिचयोद्वेजिता प्रतिपत्स्यते वा शरीरस्थितये तयोरैभ्यर्थनाम् ? द्रक्ष्यामि वा पुनस्तस्याः स्मेरसृक्कोपान्तमालोलतारकमुत्त्रस्तहरिणशावकायतेक्षणं मुखम् ?' इति ।
स तु व्यज्ञपयत् - 'देव, धैर्यमैवलम्ब्य गमनाय यत्नः क्रियताम् । तिष्ठतु तावदासन्नर्वर्ती सखीजनः परिजनो वा । तस्या हि त्वदालोकनेच्छैव स्वेच्छया निमेषितुमपि न ददाति । समागमाशयैवावष्टब्धं हृदयम् । श्वसितमेव मुखे वँहितम् । रोमाञ्च एव क्षणमपि शरीरं न मुञ्चति । दिवानिशं बाष्प एव लोचनपथस्थायी । प्रजागर एव रात्रावपि दत्त
-
हस्तपादादीनि विमुच्य संस्थाप्य । एतेन गात्रस्यातिशैथिल्यं सूचितम् । चरणस्य संवाहनं मर्दनं तस्मिन्नुपसृतं समीपागतं केयूरकमवादीदब्रवीत् हे केयूरक, किं त्वमाकलयस्याकलनां करोषि । यावत् यावता कालेन वयं परापतामस्तत्र गाच्छामस्तावत्कालं देवी कादम्बरी प्राणानसून्धारयिष्यति प्राणधारणां करिष्यति । अथवा तां कादम्बरीं विनोदयितुं मदलेखा पारयिष्यति समर्था भविष्यति । वेति विकल्पार्थे । महाश्वेता पुनर्द्वितीयवारं तस्याः कादम्बर्याः समाश्वासनायाश्वासनां कर्तुमागमिष्यति यास्यति न वा । मदिति । मया सार्धं यः परिचयः परिचितिस्तेनोद्वेजिता उद्विग्ना तयोर्महाश्वेतामदलेखयोरभ्यर्थनां प्रार्थनां शरीरस्थितये देहधारणाय प्रतिपत्स्यते न वाङ्गीकरिष्यति न वा । अङ्गीकरिष्यतीत्यर्थः । द्रक्ष्यामीति । वेति पूर्ववत् । पुनर्द्वितीयवारं तस्याः कादम्बर्याः मुखमाननं द्रक्ष्यामि दृग्विषयीकरिष्यामि वा । मुखं विशेषयन्नाह स्मेरेति । स्मेरं विनिद्रं सृक्कयोरोष्ठप्रान्तयोरुपान्तं समीपं यस्मिन् । आलोलेति । आलोला चञ्चला तारका कनीनिका यस्मिंस्तथा । उत्त्रस्तेति । उत्त्रस्तश्चकितो यो हरिणशावको मृगशिशुस्तद्वदयते विस्तीर्णे अक्षिणी यस्मिंस्तत्तथा ।
**
सत्विति । स केयूरको व्यज्ञपयद्विज्ञप्तिमकरोत् । किं तदित्याह - देवेति । हे देव हे स्वामिन्, धैर्यं सत्त्वमवलम्ब्यावलम्बनीकृत्य गमनाय यानाय यत्न उद्यमः क्रियतां विधीयताम् । तिष्ठत्विति । तावदादावासन्नवर्ती समीपस्थायी सखीजन आलिवर्गः परिजनो वा परिच्छदो वा तिष्ठतु । अत्रावस्थानं करोत्वित्यर्थः । तस्या हीति । हि निश्चितम् । तस्याः कादम्बर्यास्त्वदालोकनेच्छैव त्वन्निरीक्षणवाञ्छैव स्वेच्छया स्वातन्त्र्येण निमेषितुमपि निमेषं कर्तुमपि न ददाति न दत्ते । सर्वदा निमेषरहितैव तिष्ठतीति भावः । समागमो मेलापकस्तस्याशा वाञ्छा तयैवावष्टब्धं स्तब्धतां प्राप्तं हृदयं चेतः । अन्यथा स्फुटितं स्यादिति भावः । श्वसितमिति । मुख आनने श्वसितमुच्छ्रसितमेव वैहितं प्रवाहरूपतया चलितम् । रोमाञ्चेति । रोमाञ्च एव रोमोद्गम एव क्षणमपि क्षणमात्रमपि शरीरं देहं न मुञ्चति न त्यजति । सर्वदा तस्या रोमाञ्चलक्षणः सात्त्विकभाव एव तिष्ठतीति भावः । दिवेति । दिवानिशमहर्निशं बाष्प एव लोचनपथस्थायी नेत्रमार्गस्थायी । अहोरात्रं रुदनमेव करोतीति भावः । प्रजागर इति । प्रजागरणमेव रात्रावपि निशायामपि दत्तदृष्टिर्न्यस्तदृग्वर्तते । रात्रा -
524
टिप्प० - 1 मूलकारेण जिज्ञासार्थं प्रश्न एव कृतः, एवंस्थले निश्चयकरणमनुचितमेव । 2 न खलु हरिणशिशुर्नयनयोरुपमानम्, अपि तु तन्नयने । अत एव हरिणशावकस्येव आयते अक्षिणी यस्येति विग्रह उचितः । 3 सर्वत्र 'समागमाशयैव' इत्यस्यानुषङ्गः, अत एव समागमाशया मुखे श्वसितमेव अवहितम्, समागमप्रत्याशया सर्वदा मुखे निश्वासो दत्तावधानोस्तीति भावः ।
पाठा० - १ मां कलयसि; मामालपसि. २ संधारयिष्यति. ३ अभ्यर्थना; अभ्यर्थनात्. ४ आयताक्षं. ५ समवलम्ब्य ६ आसन्नसखीजनः ७ विहितम्; अवहितम्.
कादम्बरी |
.
कथायाम्
Page #52
--------------------------------------------------------------------------
________________
दृष्टिः । अरतिरेव नैकाकिन्याः क्षाम्यत्यवस्थानम् । जीवितमेव कण्ठस्थानानापसरति ।
एवं वदन्तं तमादिदेश विश्रान्तये केयूरकम् । आत्मनापि गमनचिन्तां प्राविशत् । यदि तावदकथयित्वानभिपत्य चरणयोरनाघ्रातः शिरस्यगृहीताशीः सहसानुत्संकलित इव तातेनाम्बयोक्तमपक्रम्य गच्छामि, ततो गतस्यापि मम कुतः सुखम्, कुतः श्रेयः, कुतो वोच्चफैलावाप्तिः, कीदृशी वा हृदयनिर्वृतिः । अथवा तिष्ठतु तावदियमुत्तरकालागामिनी चिन्ता । अपक्रम्य गंत एव कथमहम्, यत्तातेन दुस्तराहवार्णवोत्तरणमहासेतुबन्धादवन्ध्यवाञ्छितफलप्रदानकल्पद्रुमादहितविक्रान्तियशोनिष्कान्तिद्वारार्गलदण्डादशेषभुवनभवनोत्तम्भनस्तम्भात्स्वभुजादवारोप्य मय्येव राज्यभार आरोपितः, तदनाख्याय पदमपि निर्याते मय्यवश्यमपरिमितकरितुरगरथगमनसंक्षोभितधरातलैः, आलोलकदलिकाकाननाकुलीकृतभास्वद्गभस्ति -
***********
वपि निद्रा न गच्छतीति भावः । अरतिरिति । एकाकिन्या अद्वितीयाया अवस्थानमरतिरेवाधृतिरेव न शाम्यति न सहते । अरतिरेवैकाकिनी न मुञ्चतीति भावः । जीवितमेवेति । कण्ठस्थानान्निगरणस्थलाज्जीवितमेव प्राणितमेव नापसरति न दूरीभवति । प्राणाः कण्ठगता एव वर्तन्त इति भावः ।
एवं वदन्तं जल्पन्तं तं केयूरक विश्रान्तये विश्रामायादिदेशादेशं दत्तवान् । आत्मनापि स्वेनापि गमनचिन्ता प्राविशत्प्रवेशं कृतवान् । तच्चिन्ता प्रदर्शयन्नाह - यदीति चेदर्थे । तावदादावकथयित्वानापृच्छ्य चरणयोरनभिपत्यापतित्वा प्रणाममकृत्वा शिरस्युत्तमाङ्गेऽनाघ्रातो न चुम्बितोऽगृहीताशीरनात्ताशीर्वादः सहसैकपदेऽनुत्संकलित इव स्वेच्छाप्रवृत्तपुरुष इव तातेन पित्रा, अम्बया जनन्या उक्तं प्रतिपादितमपक्रम्योलध्य गच्छामि व्रजामि । ततो हेत्वर्थे । तस्माद्गतस्यापि मम कुतः सुखं सौख्यम्, कुतः श्रेयः कल्याणम्, कुतो वोच्चं महद्यत्फलं साध्यं तस्यावाप्तिः प्राप्तिः । कीदृशी हृदयस्य चित्तस्य निर्वृतिः संतुष्टिः । अथवेति पक्षान्तरे । उत्तरकाल आयतिस्तत्रागामिन्यागमनशीला येयं मानसिकी प्रत्यक्षा चिन्तार्तिस्तावत्सांप्रतं तिष्ठत्वास्ताम् । अपक्रम्येति । अपक्रम्य व्यावृत्य गत एव कथमहम्, तातेन पित्रादुःखेन तीर्यत इति दुस्तर एतादृशो य आहवार्णवः संग्रामसमुद्रस्तस्योत्तरण उल्लङ्घने महान्सेतुबन्धःपालिबन्धस्तस्मात् । अवन्ध्यं योग्यं यद्वाञ्छितफलं समीहितसाध्यं तस्य प्रदाने वितरणे कल्पद्रुमः कल्पवृक्षस्तस्मात् । अहितेति । अहितस्य शत्रोर्यद्विक्रान्तियशः पराक्रमाभिख्या तस्य निष्क्रान्तिद्वारं निर्गमप्रतोली तस्मिन्नर्गलादण्डः प्रतिषेधकाष्ठं तस्मात् । अशेषाणि समग्राणि यानि भुवनानि विष्टपानि तान्येव भवनं गृहं तस्योत्तम्भनं धारणं तत्र स्तम्भः स्थूणा तस्मात् । एवंविधात्स्वभुजात्स्वकीयबाहोरवारोप्योत्तार्य मय्येव मद्विषय एव राज्यभार आधिपत्यवीवध आरोपितो न्यस्तः, तत्तस्माद्धेतोरनाख्यायानापृच्छ्य पदमपि क्रममात्रमपि मयि निर्यात निर्गते सत्यवश्यं निश्चितमपरिमिता असंख्या ये करितुरगरथा गजाश्वस्यन्दनास्तेषां गमनं यानं तेन संक्षोभितं क्षोभं प्रापितं धरातलं वसुधातलं यैस्ते तथा तैः । आलोलानि चञ्चलानि यानि कदलिका पताका एव काननानि वनानि तैराकुलीकृता भास्वद्गभस्तयो रविकिरणा यैस्ते तथा तैः । ऊy -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 किं तर्हि मदलेखादयः सख्यस्ता मुञ्चन्ति ? अत एव अरतिस्तामेकाकिनी न त्यजति । सर्वदा तिष्ठतीत्यर्थः । 2 अग्रे आगामित्वात्परोक्षेति वक्तव्यम् । 3 अपक्रम्य स्वेच्छया पलाय्य कथमहं गतः अर्थात् गतः स्याम् गच्छेयम्, यतो हि मदुपरि पित्रा स्वभुजादवतार्य भार आरोपित इत्यग्रेण संबन्धः ।
पाठा०-१ एवंच. २ एनम्. ३ अनिपत्य. ४ उत्संकलित; उच्छृङ्खलित. ५ एव. ६ अम्बया वाक्रम्य; अम्बया वक्तव्यमपक्रम्य. ७ किं श्रेयः. ८ वा फलावाप्तिः, ९ गम्यत एव कथमयम्. १० तातेन. ११ दुस्तरदुःखार्णव. १२ अवध्य. १३ अहितजन. १४ अशेषभवन. १५ समारोपितः. १६ गज.
(केयूरकेण सह संलापः
उत्तरभागः।
525
Page #53
--------------------------------------------------------------------------
________________
भिः, ऊर्ध्वध्रियमाणधवलातपत्रमण्डलच्छायान्तरितवासरव्यतिकरैः, अतिबहलरेणूद्गमाविच्छेदापूरितभुवनकुहरैः, पुरःप्रसृतजवनवाजिभिः, अनुसंतानलग्नवेतण्डप्रायसाधनैः, श्रान्तैरपि बुभुक्षितैरप्यकृतगतिविलम्बैरापयोधेरष्टाभ्यो दिग्भ्यो राजभिरनुधावितव्यम् । तिष्ठन्तु तावत्सेवापरा राजानः । सुखपरिभुक्ताः प्रजा अपि तातस्नेहात्परित्यक्तपुत्रदाराः पृष्ठतो लैंगन्तीति मे चेतसि । अपि च तातस्यापि कोऽपरोऽस्ति, यस्मिन्मदीयं स्नेहं संक्रमय्य मय्यपक्रान्ते, ‘यातु किमनेन गतेनागतेन वा' इत्यविनयकोपितोऽवष्टम्भं कृत्वा स्थास्यति । कस्य चोपरस्य मुखमालोकयन्ती सुखायमानहृदया मन्प्रत्यानयनाय कृतार्तप्रलापा न तातमेवाकुलीकरोत्यम्बा । ताते च पृष्ठतो लग्नेऽष्टादशद्वीपमालिनी मेदिन्येव लग्ना भवतीति । तदा मया क्व गतम् । क्व स्थितम्, क्व विश्रान्तम्, क्व यातम्, क्व भुक्तम्, क्यापसृतम्, क्वात्मा मया गोपायितव्यः, -
***********
ध्रियमाणं यद्धवलातपत्रं श्वेतच्छवं तस्य मण्डलं वृत्तं तस्य छायातपाभावस्तेनान्तरितस्तिरोहितो वासरव्यतिकरो दिवसवृत्तान्तो यैस्ते तथा तैः । अतिबहला अतिनिबिडा ये रेणवो धूलयस्तेषामुद्गमः प्रादुर्भावस्तस्याविच्छेदेन संतानेनापूरितानि भरितानि भुवनकुहराणि त्रिविष्टपच्छिद्राणि यैस्ते तथा तैः । पुरोऽग्रे प्रसृताः प्रसरण प्राप्ता जवनदेशोत्पन्ना वाजिनो हया येषां ते तथा तैः । अनुसंतानमनुसैन्यसमूह लग्नाः संबद्धा ये वेतण्डा गजास्तेषां प्रायो बाहुल्येन साधनं सैन्यं येषां तैः । कृष्णत्वसाधात् । अत एवोत्प्रेक्षते - आ समन्तात्पयोदैरिव मेधैरिव श्रान्तैरपि खिन्नैरपि बुभुक्षितैरपि क्षुधितैरप्यकृतोऽविहितो गतौ गमनविषये विलम्बो मन्दता यैरेवंविधैः पयोधि समुद्रं मर्यादीकृत्याष्टाभ्यः पूर्वादिदिग्भ्यो राजभिनृपरनुधावितव्यं मत्पृष्ठे त्वरितगत्या समेतव्यम् । एतेन राज्ञां स्वामिकार्योद्यतत्वं सूचितम् । तिष्ठन्त्विति । सेवापराः सपर्यायां तत्परा राजानो भूभुजस्तावत्सांप्रतं तिष्ठन्त्वास्ताम् । सुखेति । सुखेन प्रतिबन्धकाभावेन परिभुक्तमुपभोगादिकं यासां ता एवंविधाः प्रजा अपि प्रकृतयोऽपि तातस्नेहात्पितुः प्रीतेः परित्यक्तपुत्रदारा उज्झितसुतयोषितः सत्यः पृष्ठतः पृष्ठं लगन्ति लगिष्यन्ति । भविष्यदर्थे वर्तमाना । इति मे मम चेतसि मनसि । वर्तत इति शेषः । अपिचेति विचारान्तरे । तातस्यापीति । तातस्यापि मत्पितुरपि कोऽपरोऽन्योऽस्ति । यस्मिन्मद्भिने जने मदीयं मद्विषयकं स्नेहं प्रीतिं संक्रमय्य संक्रमणं कृत्वा मय्यपक्रान्ते गते सति, 'यातु व्रजतु । अनेन गतेन, आगतेन वा, किम् इत्यविनयेन पितृनियोगाकरणलक्षणेन कोपितः क्रोधं प्रापितोऽवष्टम्भं स्थैर्यं कृत्वा स्थास्यत्यवस्थानं करिष्यति । कस्य चेति । च पुनरर्थे । अपरस्य मद्भिन्नस्य कस्यचिदनिर्दिष्टनाम्नो मुखं वदनमालोकयन्ती पश्यन्ती सुखं करोतीति सुखायते सुखायत इति सुखायमानं हृदयं चेतो यस्याः सा, तथा मम प्रत्यानयनं पश्चादानयनं तदर्थं कृतो विहित आर्तः प्रलापः पीडितरोदनं यया सैवंविधाम्बा माता न तातमेव न पितरमेवाकुलीकरोति ? भविष्यदर्थे वर्तमाना । व्याकुलीकरिष्यतीत्यर्थः । ताते चेति । ताते पितरि । पृष्ठत इति सार्वविभक्तिकस्तस् । पृष्ठे लग्ने प्राप्ते सत्यष्टादशसंख्याकानि द्वीपान्यन्तरीपाणि मलतिधारयतीत्येवंशीला मालिनी मेदिन्येव वसुधैव लग्ना भवतीति । पृष्ठसंचारिणी भविष्यतीत्यर्थः । तदैतस्मिन्काले मया क्व गतं क्व गम्यम्, क्व स्थितं क्व स्थातव्यम्, क्व विश्रान्तं क्व विश्रमितव्यम्, क्व यातं क्व गन्तव्यम्, क्व भुक्तं क्व भोजनं कर्तव्यम्, क्वापसृतं क्वापसरितव्यम्, मयात्मा क्व गोपायितव्यो रक्षितव्यः ।
- - - - - - - - - -- टिप्प० - 1 यवनदेशः प्रसिद्धो न जवनदेशः अतः जवनाः जव (वेग)शालिनो ये वाजिन इत्येवार्थः ।
पाठा० -१ अष्टाभ्योऽपि. २ अवश्यमनुधावितव्यम्. ३ लगिष्यन्ति. ४ गतेन वा. ५ वापरस्य. ६ मेदिनीव. ७ भवति. ८ प्रस्थितम्. ९ क्व वा खादितं क्व पीतं क्व सुप्त क्यापसृतमित्यनुयुञ्जानेभ्यः कथं क्वात्मा. १० गोपयितव्यः.
526
कादम्बरी।
कथायाम
Page #54
--------------------------------------------------------------------------
________________
समासादितेन चात्र कथं मया वदनं दर्शयितव्यम्, पृष्टेन वा किमुत्तरं दातव्यम् ? अथापि कथंचिदेवनियोगानिःसृतोऽस्मि, तथाप्यनायासनीयं तातमेवं महीयस्यायासे, तातप्रसादाददृष्टदुःखामम्बां वा निजापक्रमणशोकार्णवे पातयता किं कृतं भवत्यपुण्यवता ? अपि च सुबहुदिवसप्रवासोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति, तेनापरसंविधानादर्धपथादेव निवृत्य पुनः प्रेधावितव्यम् ।
अथावेद्य तातस्याम्बायाश्च ताभ्यां च विसर्जितः संविधानेन गच्छामि, तत्रापि किमिति कथयामि - 'मम स्नेहँदुःखिता गन्धर्वराजपुत्री कादम्बरी मामुद्दिश्य मकरकेतुनायास्यमाना दुःखं तिष्ठतीति । 'किं वा बलवान्मे तस्यामनुरागः । ने तया विनाहं प्राणान्संधारयामीति । 'कि तस्या मम च द्वयोरपि जीवितनिबन्धनहेतुभूतया महाश्वेतया तत्परिणयनाय मे संदिष्टमिति 'किं वा तद्दुःखमपारयन्सोढुमयं केयूरकस्तद्भक्त्या मामानेतुमागत इति । 'अपरोऽपि वा कश्चिद्व्यपदेशो न शक्यत एव पुनर्गमनाय कर्तुम् । संप्रत्येव समधिकाद्वर्षत्रयात्प्रसाध्य -
***********
समासादितेन च पुनः प्राप्तेन च मया कथं वदनं दर्शयितव्यमन्येभ्यः प्रकाशयितव्यम् । पृष्टेन वा प्रश्नविषयीकृतेन मया किमुत्तरं प्रतिवचो दातव्यं प्रदेयम् । अथापीति । अथेति विचारणान्तरे । कथंचिदपि महता कष्टेनापि दैवनियोगाद्विधिनिदेशानिःसृतोऽस्मि निर्गतोऽस्मि । तथापि निःसृतेनाप्येवमनायासनीयमखेदनीयं तातं पितरं महीयस्यत्यन्तदीर्घ आयासे प्रयासे, तातप्रसादात्पितुरनुग्रहाददृष्टदुःखामनवलोकितकृच्छ्रामम्बां मातरं वा निजस्य स्वस्यापक्रमणं निर्गमनं तस्माद्यः शोकः शुक्स एवार्णवः समुद्रस्तस्मिन्पातयताक्षेपयताऽपुण्यवता पापिना मया किं कृतं भवति किमाचरितं स्यात् । अपि चेति । अपि च युक्त्यन्तरे । सुबहवश्च ते दिवसाश्च सुबहुदिवसास्तान्यावत्प्रवासो देशान्तरे स्थितिस्तेनोपतप्तो व्याकुलीकृत एतादृशो मे मम स्कन्धावारोऽपि सैन्यनिवेशोऽप्ययापीदानीमपि न परापतति नागच्छति । तेन हेतुनार्धपथादर्धमार्गानिवृत्य व्याघुट्यापरसंविधानादेपरसैन्यग्रहणाद्धेतोः पुनः कालान्तरे मया प्रधावितव्यम् । त्वरितगत्या गन्तव्यमिति भावः ।
अथेति विचारान्तरे । तातस्य पितुः, अम्बायाश्च मातुः, आवेद्य निवेद्य ताभ्यां च मातृपितृभ्यां विसर्जितो गमनाय दत्ताज्ञः संविधानेनोत्तमप्रकारेण गच्छामि व्रजामि । तत्रापीति । तत्राप्यावेदने किं किमिति कथयामीति ब्रवीमि । इति वाच्यमाह - ममेति । मम स्नेहेन मन्त्रीत्या दुःखिता दुःखं प्राप्ता गन्धर्वराजपुत्री देवगायननृपाङ्गजा कादम्बरी मां चन्द्रापीडमुद्दिश्याश्रित्य मकरकेतुना कंदर्पणायास्यमाना खेदं प्राप्यमाणा दुःखं यथा स्यात्तथा तिष्ठति निषीदति । 'किंवा बलवान्' इत्यारभ्य ‘महाश्वेतया तत्परिणयनाय मे संदिष्टम्' इत्यन्तं स्पष्टम् । किं वेति । किंवा इति कथयामीति पूर्वेण संबन्धः । इति किम् । तद्दुःखं कादम्बर्या दुःखं सोढुं तितिक्षितुमपारयन्नशक्नुवन् । अयं प्रत्यक्षः केयूरकस्तस्या गन्धर्वपुत्र्या भक्त्यान्तरस्नेहेन मां चन्द्रापीडमानेतुं तत्र प्रापयितुमागतः समायातः । अपरोऽपीति । अपरोऽप्येतद्भिन्नोऽपि कश्चिदन्यो व्यपदेशो मिषं पुनर्गमनाय कर्तुं न शक्यत एव न पार्यत एव । संप्रत्येति । सांप्रतमेव समधिकात्किंचिदधिकवर्षत्रयात्सव -
-------- - - - - - टिप्प० -1 सकलराजकसैन्यानुधावनस्य कारणं चन्द्रापीडपलायनमुक्तम् । ततश्च मम पुनः प्रवासे सति अपरसंविधानात् अपरस्मानवीनाद् मम गमनरूपघटनाविशेषात् अर्धमार्गादेव परावर्तमानेन मम स्कन्धावारेण पुनः प्रधावितव्यमित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० -१ पातयसि. २ स बहु. ३ धावितव्यम्. ४ स्नेहेन. ५ नानया. ६ किं च. ७ विबन्ध.
यात्रार्थं चन्द्रापीडस्य विचारः
उत्तरभागः।
1527)
Page #55
--------------------------------------------------------------------------
________________
वसुधा प्रत्यागतोऽस्मि । अद्यापि साधनमेव न परापतति । अकथयित्वा च गमनकारणं कथमात्मानं मोचयामि ? कथं वा मुञ्चतु तातोऽम्बा वा ? तत्सुहृत्साध्येऽस्मिन्नर्थेऽनर्थपतितः किं करोम्येकाकी ? वैशम्पायनोऽप्यसनिहितः पार्थे मे । के पृच्छामि ? केन सह निरूपयामि । को मे समुपदिशतु ? को वापरो मे निश्चयाधानं करोतु ? कस्यापरस्य वा विवेकिनी प्रज्ञा ? कस्य वान्यस्य श्रुतं श्रोतव्यम् ? को वापरो वेत्ति वक्तुम् ? कस्य वापरस्य मय्यसाधारणस्नेहः ? केन वापरेण सह समानदुःखो भवामि ? को वापरो मयि दुःखिते दुःखी, सुखिते सुखी ? को वापरो रहस्यावेदनस्थानम् ? कस्यापरस्योपरि कर्तव्यभारमवक्षिप्य निर्वृतात्मा तिष्ठामि ? कस्य वापरस्य मत्कार्ये पर्याकुलता ? को वापरो मया कोपितं तातमम्बां च परिबोध्य मामानेतुं समर्थः ? ' इत्येवं चिन्तयत एवास्य सा क्षपा दुःखदीर्घापि क्षयमगमत् । प्रातरेव च किंवदन्ती शुश्राव, यथा किल ‘दशपुरं यावत्परागतः स्कन्धावारः' इति । तां च -
***********
त्सरत्रितयात् । हेत्वर्थे पञ्चमी । वसुधा पृथ्वी प्रसाध्यात्मसात्कृत्वा प्रत्यागतः पश्चाद्व्यावृत्तोऽस्मि । अद्यापि सांप्रतमपि साधनमेव सैन्यमेव न परापतति न विश्राम गृह्णाति । अकथयित्वेति । गमनकारणं यात्रानिदानमकथयित्वा चाविनिवेद्यात्मानं कथं केन प्रकारेण मोचयामि मोचनविषयीकरोमि । कथमिति । तातोऽम्बा माता वा कथं वा मुञ्चतु त्यजतु । मामिति शेषः । तदिति । तस्मात्कारणात्सुहृत्साध्ये मित्रनिष्पाद्येऽस्मिन्नर्थेऽहमनर्थपतितः कष्टगतः सनेकाक्यद्वितीयः । किं करोमि किं कुर्वे । वैशम्पायनोऽपि शुकनासपुत्रोऽपि मे मम पाघेसंनिहितोऽनिकटवर्ती । अतः कं जनं पृच्छामि प्रश्नविषयीकरोमि । केन पुंसा सह निरूपयाम्यात्मस्वरूपं कथयामि । कः पुमान्मे मम समुपदिशतु कथयतु । को वापरोऽन्यो मे मम निश्चयाधानं निर्णयोत्पत्तिं करोतु सृजतु । कस्य वा अपरस्य जनस्य विवेकिनी विवेकवती प्रज्ञा प्रतिभा । अन्यस्य कस्य वा जनस्य श्रुतं शास्त्रं श्रोतव्यमाकर्णनीयम् । 'श्रुतं शास्त्रावधृतयोः' इत्यमरः । अपरः को वा पुमान्वक्तुं जल्पितुं वेत्ति जानाति । कस्य वापरस्य मय्यसाधारणस्नेहो निरुपमप्रीतिः । अपरेण केन सहाहं समानदुःखो भवामि । सदृशवेदनः स्यामित्यर्थः । अपरः को वा मयि दुःखिते दुःखी दुःखवान्, मयि सुखिते सुखी सुखवान्स्यात् । अपरः को वा रहस्यावेदनस्थानं गुह्यनिवेदनस्थलम् । कस्यापरस्य जनस्योपरि कर्तव्यभारं कृत्यवीवधमवक्षिप्यारोप्य निर्वृतात्मा सुखितात्मा तिष्ठामि निषीदामि । अपरस्य कस्य वा पुंसो मत्कार्ये मत्कृत्ये पर्याकुलता व्याकुलता । अपरः को वा मया कोपितं क्रोधं प्रापितं तातमम्बां च परिबोध्य प्रतिबोध्य प्रतिबोधं दत्त्वा मामानेतुं समर्थः । क्षपेति । एवममुना प्रकारेणास्य चन्द्रापीडस्य चिन्तयत एव ध्यायत एव सा क्षपा रात्रिर्दुःखेन कृत्वा दीर्घाप्यायतापि क्षयं नाशमगमज्जगाम ।
प्रातरिति । प्रातरेव प्रभात एव च । इतीति किंवदन्ती जनश्रुति शुश्राव श्रुतवान् । इतिद्योत्यमाह - यथेति । किलेति सत्ये । दशपुर यावत्स्कन्धावारः सैन्यं परागतः समायातः । तां चेति । तां किंवदन्ती - - - - - - - - - - - टिप्प० - 1 न गृहं परावर्तते । 2 सुष्टु शोभनम् (चतुर्दिग्भवप्रतिबन्धरहितम) यत् हृदयं तेन साध्ये अस्मिन्नर्थे प्रियाप्राप्तिरूपे अर्थे, अनर्थः पतितः व्याघातः समुपस्थित इति केचित् । ततश्च 'अनर्थः पतितः' इत्यपि पाठः । 3 'मा नेतुं समर्थः' इत्येवोचितः पाठः । नेतुं कादम्बर्याः समीपे प्रापयितुमिति तदर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ माम्. २ अनर्थः. ३ किं करोमि कम्. ४ श्रोतव्यं वा. ५ वेत्ता. ६ सुखी वा. ७ अनुकोपित. ८ नेतुम्. ९ निशा. १० किंवदन्तीम्. ११ दशपुरीम्.
528
कादम्बरी।
कथायाम्-)
Page #56
--------------------------------------------------------------------------
________________
श्रुत्वा समुच्छसितचेताश्चकार चेतसि - 'अहो धन्योऽस्मि । अहो विधेर्भगवतोऽनुग्राह्योऽस्मि, यस्य मेऽनुध्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः' इति । प्रहर्षपरवशश्च प्रविशन्तमालोक्य दूरत एव कृतप्रणाम केयूरकमवादीत् - 'केयूरक, करतलवर्तिनी सिद्धिमधुनावधारय । प्राप्तो वैशम्पायनः' इति । स तु तदाकर्ण्य गमनपरिलम्बकृतया चिन्तयान्तःशून्य एव 'भद्रकमापतितम्, महती हृदयनिर्वृतिर्देवस्य जाता' इत्यभिदधदेवोपसृत्योपविश्य पार्थे, वैशम्पायनागमनालापमेवानुबध्य मुहूर्तमिव संज्ञोत्सारितसमस्तपरिजनं चन्द्रापीडं व्यज्ञपयत् - 'देव, सर्वतो विस्फुरन्ती तडिदिव बलाहकोब्राहम्, उपारूढश्यामिका मेघलेखेव सलिलागमनम्, उपदर्शितपाण्डुच्छविः प्राचीव चन्द्रोदयम्, परिमलग्राहिणी मलयानिलागतिरिव वसन्तमासावतारम्, समुच्छसितमकरध्वजा मधुमासलक्ष्मीरिव पल्लवोद्भेदम्, उल्लसितरागा पल्लवोद्गतिरिव कुसुमनिर्गमम्, विकसितकाशकुसुममञ्जरीव शरदारम्भम्, अवस्थैवेयमावेदयति निःसंशयं देवस्य गमनम् । अवश्यं च देवस्य देवीप्राप्त्या भवितव्यम् । केन कदा -
***********
श्रुत्वाकर्ण्य समुच्छसितमुल्लसितं चेतः स्वान्तं यस्यैवंविधश्चेतसि चित्ते चकार कृतवान् । इतीति शेषः । तदेव दर्शयन्नाह - अहो इति । अहो इत्याश्चर्ये । अहं धन्यः कृतपुण्योऽस्मि । अहो इति पूर्ववत् । भगवतो महात्म्यवतो विधेर्विधातुरनुग्राह्योऽनुग्रहविषयीकरणयोग्योस्मि । तन्निदानमाह - यस्येति । यस्य मे मम चन्द्रापीडस्यानुध्यानानन्तरमेवानुस्मरणानन्तरमेव द्वितीयं हृदयं वैशम्पायनो मन्त्रिपुत्रः परागतः समायातः । अमुना प्रकारेण प्रहर्षपरवशः प्रमोदपरतन्त्रः । च पुनरर्थे । प्रविशन्तं प्रवेशं कुर्वन्तं दूरत एव दविष्टप्रदेशादेव कृतप्रणामं विहितनमस्कार केयूरकमालोक्य निरीक्ष्येत्यवादीदिदमब्रवीत् । इतिवाच्यमाह - केयूरक इति । हे केयूरक, अधुना सांप्रतं करतलवर्तिनी हस्ततलगतां सिद्धिं कार्यनिष्पत्तिमवधारय जानीहि । यतो वैशम्पायनः प्राप्तः समागतः । स त्विति । स केयूरकस्तत्पूर्वोक्तमाकर्ण्य निशम्य गमनस्य यात्रायाः परिलम्बो विलम्बस्तेन कृतयोत्पादितया चिन्तयाान्तःशून्य एव 'भद्रकं कल्याणमापतितं संजातम् । देवस्य भवतो महत्यत्यायता हृदयनिवृतिश्चित्तसंतुष्टिर्जाता ।' इत्यभिदधदेवेति कथयन्नेवोपसृत्योपसरणं कृत्वा पार्थेऽन्तिक उपविश्यास्थाय मुहूर्तमिव मुहूर्तमात्रं वैशम्पायनस्यागमनमर्थादभिमुखयानमालापं संलापमनुबध्यारभ्य संज्ञयोत्सारितो दूरीकृतः समस्तपरिजनः समग्रसेवकजनो येनैवंभूतं चन्द्रापीडं व्यज्ञपयद्विज्ञप्तिविषयीचक्रे । देव इति । हे देव हे स्वामिन्, इयमवस्थैव निःसंशयं निरारेक देवस्य भवतो गमनं यानमावेदयति कथयतीति दूरेणान्वयः । केवेत्यपेक्षायामाह - सर्वत इति । बलाहकस्य मेघस्योबाहमागमनं सर्वतोऽभितो विस्फुरन्ती देदीप्यमाना तडिदिव विद्युदिव । आवेदयतीत्यस्य सर्वत्र संबन्धः । तथा सलिलस्याम्भस आगमनमुपारूढा प्राप्ता श्यामिका ययैवंविधा मेघस्य लेखा पङ्क्तिरिव । तथा चन्द्रस्य शशिन उदयमुद्गमनमुपदर्शिता पाण्ड्वी छविः कान्तिर्ययैवंविधा प्राचीव पूर्वदिगिव । तथा वसन्तमासस्य मधुमासस्यावतारं प्रादुर्भावं परिमलमामाद गलातीत्येवंशीला मलयानिलस्य मलयाचलवायोरागतिरिवागमनमिव । तथा पल्लवस्य किसलयस्योद्भेदमुद्गमनं समुच्छसितो वृद्धिं प्राप्तो मकरध्वजो मदनो यस्यामेतादृशी मधुमासलक्ष्मीरिव वसन्तमासश्रीरिव । तथा कुसुमस्य पुष्पस्य निर्गमं निःसरणमुल्लसित उल्लासं प्राप्तो रागो रक्तता यस्यामेतादृशी पल्लवोद्गतिरिव किसलयोद्भेद इव । तथा शरदारम्भं घनात्ययप्रारम्भ विकलिता विनिद्रिता काशकुसुममञ्जरीव । इयमवस्थैव देवस्य गमनं यानमावेदयतीत्यन्वयस्तु प्रागेवोक्तः । अवश्यं चेति । देवस्य स्वामिनोऽवश्यं निश्चयेन देवीप्राप्त्या भवितव्यम् । अवार्थ उपपत्तिमाह - केनेति । केन पुरुषेण कदा वा कस्मिन्काले ज्योत्स्नारहितश्चन्द्रिकावर्जितश्चन्द्रमाः कुमुदबा -
पाठा० -१ प्राप्तो हि. २ गगन. ३ उन्नादम्. ४ अभ्युच्छ्रित. ५ रागपल्लव. ६ आवेदयति देवस्य.
(वैशम्पायनस्यागमनश्रवणम् ।
। उत्तरभागः।।
529
Page #57
--------------------------------------------------------------------------
________________
वावलोकितो ज्योत्स्नारहितश्चन्द्रमाः, कमलाकरो वा मृणालिकया विना, उद्यानभागो वा लताशून्यः । अपि च न राजत एव सहकारकुसुममञ्जरीपरिग्रहमन्तरेण सर्वजनसुभगोऽपि कुसुममासः, असंभावितदानलेखालक्ष्मीकं वा वदनं यूथाधिपतेः । किंतु यावद्वैशम्पायनः परापतति, यावच्चैतेन सह गमनसंविधान निरूपयति देवः, तावदवश्यं कालक्षेपेण भाव्यम् । यादृशी चौकालक्षमा देव्याः शरीरावस्था तादृशी निवेदितैव मया । सर्वोऽपि प्रत्याशया धार्यते । देव्यास्तु पुनर्देवदर्शनेनाद्ययावनिष्प्रत्याशमेव हृदयं केनाश्वासनेन वर्तताम् । मद्वार्तोपेलम्भादेतदुपपत्स्यते चेतसि - 'यथास्ति कार्यं मे जीवितेन, दुःखान्यपि सहन्ती धारयाम्येतदिति । अतो विज्ञापयामि, चेतसा त्वग्रतो गत एव देवः, शरीरेणाप्यनुपदमुच्चलित एव । किमपरं मयात्र स्थितेन साधनीयम् । तद्देवागमनोत्सवावेदनाय गमनानुज्ञया प्रसादं क्रियमाणमिच्छति मे प्रणयप्रसाददुर्ललितं हृदयमिदानीमेव ।। इति विज्ञापिते केयूरकेणान्तःपरितोषविकसितया विकचनीलोत्पलपुञ्जमालिकयेव दृष्ट्या -
***********
न्धवोऽवलोकितो निरीक्षितः । वाथवा मृणालिकया कमलिन्या विना कमलाकरस्तडागः । वाथवोद्यानभागो वनप्रदेशो लताशून्यो वल्लीरहितः । अपि चेति युक्त्यन्तरे । सहकारस्याग्रस्य कुसुममञ्जरी तस्याः परिग्रहमन्तरेण स्वीकारव्यतिरेकेण सर्वजनसुभगोऽपि समग्रलोकप्रियोऽपि कुसुममासो वसन्तमासो न राजत एव न शोभत एव । असंभाविता(न)संभावनाविषयीकृता दानलेखाया मदवीथ्या लक्ष्मीः श्रीर्यस्मिन्नेवंविधं यूथाधिपतेथूथनाथस्य वदनम् । न राजत इत्यस्य सर्वत्र संबन्धः । किंत्विति । किंतु यावद्यावता कालेन वैशम्पायनो मन्त्रिसुतः परापतत्यागच्छति, यावच्चैतेन सह वैशम्पायनेन साकं गमनसंविधानं यात्राप्रकारं देवो भवानिरूपयति प्रकाशयति, तावदवश्यं निश्चित कालक्षेपेण दिनगमनिकया भाव्यं भवितव्यम् । यादृशीति । यादृशी च देव्याः कादम्बर्याः शरीरावस्था देहदशाऽकालक्षमा समयासहा वर्तते तादृशी मया निवेदितैव विज्ञप्तिविषयीकृतैव । सर्व इति । सर्वोऽपि पदार्थः प्रत्याशया प्रतिवाञ्छया धार्यते ध्रियते । देव्यास्त्विति । तु पुनरर्थे । देव्याः कादम्बर्याः पुनर्द्धितीयवारं देवदर्शनेन भवदवलोकनेन अद्य यावदेतद्दिवसमारभ्य हृदयं चित्तं निष्प्रत्याशमेव निराशमेव वर्तते, तर्हि केनाश्वासनेन वर्तताम् । मदिति । मद्वार्ताया मत्प्रवृत्तेरुपलम्भाप्राप्तेरेतच्चेतसि चित्त उपपत्स्यते प्रादुर्भविष्यति । तदेव दर्शयन्नाह - यथेति । मे मम जीवितेन प्राणितेन कार्यं कृत्यमस्तीति हेतोर्युःखान्यपि कृच्छ्राण्यपि सहन्ती सहमानैतच्छरीरं धारयामि । अत इति । अतःकारणादहं विज्ञापयामि विज्ञप्तिं करोमि । किं तदित्याह - चेतसा त्विति । देवो भवांश्चेतसा स्वान्तेनाग्रतः पुरतो गत एव, तथा शरीरेणापि देहेनाप्यनुपदं पश्चात्त्वरितमेव । 'अनुपदं क्लीबमव्ययम्' इत्यमरः । उच्चलित एव प्रचलित एव । किमिति । मया केयूरकेणात्रस्थितेन भवत्समीपावस्थितेनापि किमपरं पूर्वोक्तादन्यत्साधनीयं करणीयम् । तदिति । तत्तस्माद्धेतोर्देवस्य स्वामिनो गमनं यानं तदेवोत्सवो महस्तस्यावेदनं ज्ञापनं तस्मै गमनस्य प्रयाणस्यानुज्ञादेशस्तया क्रियमाणं विधीयमानं प्रसादमिदानीमेव सांप्रतमेव मे मम प्रणयेन स्नेहेन यः प्रसादः प्रसन्नता तेन दुर्ललितमुच्छृङ्खलं हृदयमिच्छत्यभिलषति ।
केयूरकेणेति विज्ञापिते विज्ञप्तिविषयीकृते सति, अन्तर्मध्ये यः परितोषः संतुष्टिस्तेन विकसितया विनिद्रया दृष्ट्या दृशा । अत एवोत्प्रेक्षतेविकचा विकस्वरा या नीलोत्पलपुञ्जमालिका नीलकुवलयसक्तयेव दर्शितः - - टिप्प० -1 आगमनमित्युचितम् ।
-
-
-
-
-
-
-
-
-
-
--
-
-
-
-
-
-
-
-
-
-
-
-
-
--
-
--
--
पाठा० - १ तेन. २ विधानम्. ३ वा. ४ दर्शनेऽद्य. ५ आवासेन. ६ उपालम्भात्. ७ उत्पस्यते. ८ स्थितेनापि.
530
( कादम्बरी।
कादम्बरी।
कथायाम्
कथायाम्-)
Page #58
--------------------------------------------------------------------------
________________
दर्शितप्रसादश्चन्द्रापीडःप्रत्युवाच - 'किमुच्यते ? कस्यापरस्येदृशोऽस्मदुःखासहिष्णुरनपेक्षितस्वशरीरशक्तिरुत्साहः ? कस्यापरस्येदृशी देशकालज्ञता ? को वापरोऽस्मास्वेवं निर्व्याजभक्तिः ? तत्साधु चिन्तितम् । गम्यतां देव्याः प्राणसंधारणाय, ममागमनप्रत्ययार्थं च पत्रलेखाप्यग्रतस्त्वयैव सह यौतु देवीपादमूलम् । इयमपि प्रसादभूमिरेव देव्याः । इमामप्यालोक्य कियत्यपि धृतिरवश्यमुत्पद्यत इति मे चेतसि । अपि चास्या अपि देव्यामस्त्येव स्नेहो भक्तिश्च' इत्यभिधाय पृष्ठत उपविष्टामेवे तां पत्रलेखामद्राक्षीत् । सा तु किंचिदवनतमुखी 'निजाज्ञाक्षराणि प्रयच्छतु देवः' इति व्यज्ञपयत् । कृतप्रस्थितिनिश्चयायां च तस्यां मेघनादाह्वानाय प्रतीहारीमादिदेश ।
आदेशानन्तरमेव चागतं दूरतः प्रणतमाज्ञाप्रतीक्षं स्वयमेवाहूय सोपग्रहमादिदेश - ‘मेघनाद, यस्यां भूमौ पत्रलेखानयनाय मया त्वं प्रस्थापितस्तां भूमिमेव पत्रलेखामादाय केयूरकेण सहाग्रतो गच्छ । अहमपि वैशम्पायनमालोक्यानुपदमेव ते तुरङ्गमैः परागतः' इत्या -
***********
प्रकाशितः प्रसादः प्रसन्नता येनैवंभूतश्चन्द्रापीडः प्रत्युवाच प्रत्यब्रवीत् । किं तदित्याह - किमिति । किमुच्यते किं कथ्यते । कस्येति । कस्यापरस्यान्यस्येदृश एतादृगस्माकं यदुःखं तस्यासहिष्णुरसहनशीलोऽनपेक्षिताऽवाञ्छिता स्वशरीरस्य निजदेहस्य शक्तिः सामर्थ्य यस्मिन्नेवंविध उत्साहः प्रगल्भता । कस्येति । कस्यानिर्दिष्टनाम्न, ईदृश्यनिर्वचनीया देशः प्रदेशः कालः समयस्तयोर्जता ज्ञातृता । को वेति । को वापरो जनोऽस्मास्वस्मद्विषयेष्वेवं पूर्वोक्तप्रकारेण निर्व्याज निर्दम्भं यथा स्यात्तथा भक्तिर्यस्य स तथोक्तः । तदिति हेत्वर्थे । तस्माद्धेतोः साधु यथा स्यात्तथा चिन्तितमालोचितम् । चिन्तितस्य विशेषणं वा । साधु शुभं चिन्तितम् । चिन्ताविषयीकृतमित्यर्थः । गम्यतामिति । देव्याः कादम्बर्याः प्राणसंधारणायासुधृतये । ममागमनं तत्र यानं तस्य प्रत्ययो विश्वासस्तदर्थं च त्वया गम्यतां व्रज्यताम् । देव्याः कादम्बर्याः पादमूलं चरणसमीपं पत्रलेखापि त्ययैव सहाग्रतः पुरतो यातु व्रजतु । इयमिति । इयमपि पत्रलेखापि देव्याः कादम्बर्याः प्रसादभूमिरेवानुग्रहस्थानमेव । इमामिति । इमां पत्रलेखामप्यालोक्य निरीक्ष्य कियत्यपि कियन्मात्रा नतु समग्रा धृतिः संतुष्टिरवश्यं निश्चयेन । कादम्बर्या भाविनीति शेषः । इति मे मम चेतसि चित्त उत्पद्यत उद्भाव्यते । बुद्ध्येति शेषः । अपि चेति । अपि चेति प्रकारान्तरे । अस्याः पत्रलेखाया अपि देव्या कादम्बर्यां स्नेह आभ्यन्तप्रीतिभक्तिश्चाराध्यत्वेन ज्ञानमस्त्येव । एवकारोऽयोगव्यवच्छेदार्थः । इति पूर्वोक्तमभिधाय कथयित्वा पृष्ठतः पृष्ठे । सार्वविभक्तिकस्तस् । उपविष्टां स्थितामेव पत्रलेखामद्राक्षीद्व्यलोकयत् । सा त्विति । सा पत्रलेखा । तु पुनरर्थे । विलोकनानन्तरमित्यर्थः । किंचित्स्वल्पमवनतं ननं मुखमाननं यस्या एवंविधा सती निजाया आत्मीयाया आज्ञाया निदेशस्याक्षराणि वचनानि देवो भवान्प्रयच्छतु ददातु । त्वं व्रजेति स्वमुखेन कथयेत्यर्थः । इति व्यज्ञपयद्विज्ञप्तिमकार्षीत् । कृतेति । कृतो विहितः प्रस्थितेर्गमनस्य निश्चयो यस्या एवंविधायां च तस्यां पत्रलेखायां सत्यां मेघनादस्यात्मसेवकस्याह्वानमाहूतिस्तस्मै प्रतीहारी द्वारपालिकामादिदेशादिष्टवान् ।
आदेशानन्तरमेव नियोगाव्यवहितमेवागतं च दूरतः प्रणतं प्रविष्टप्रदेशात्रतमाज्ञां यावत्प्रतीक्षा विलम्बो यस्यैवंभूतं स्वयमेवात्मनैवाहूयाह्वान कृत्वा सोपग्रह सादरमादिदेशादिष्टवान् । हे मेघनाद, यस्यां भूमौ पत्रलेखाया आनयनायानयनकृते मया त्वं पूर्व स्थापितो न्यस्तस्ता भूमि यावत्पत्रलेखामादाय गृहीत्वा केयूरकेण सह सार्धमग्रतो गच्छ व्रज । अहमपि वैशम्पायनमालोक्य निरीक्ष्य ते तवानुपदमेवानुचरणन्यासमेव तुरङ्गमै -
पाटा० - १ चन्द्रप्रसारः. २ मदागमन. ३ प्रयातु. ४ उत्पस्यते. ५ समुपविष्टम्. ६ एवं नेति पत्रलेखामप्राक्षीत्. ७ आगतं च. ८ स्थापितः. ९ भूमिं यावत्पत्र.
पत्रलेखया सह केयरकस्याग्रतो विसर्जनम
उत्तरभागः।
Page #59
--------------------------------------------------------------------------
________________
दिश्य, 'यदाज्ञापयति देवः' इति कृतनमस्कृतीत्वरितगमनसंविधानाय निष्क्रान्ते मेघनादे 'देव, किमतःपरं विलम्बेन' इत्यभिधाय, मेघनादनिर्गमानन्तरं गमनप्रणामोत्थितं केयूरक सस्नेहमाहूय, सबाष्पया दृष्ट्या पुनःपुनरालोक्य, परिष्वज्य च सपुलकाभ्यां दोाम्, आत्मकर्णादपनीयानेकवर्णरुचिरं सदेशमिव कर्णाभरणमस्य कर्णे कृत्वा कण्ठागेतबाष्पगद्गदिकागृह्यमाणाक्षरमवादीत् - 'केयूरक, त्वया तु मे देवीसंदेशो नानीत एव । तत्किं तव हस्ते तदनुरूपं संदिशाम्यपूर्वम् ? विज्ञापयितव्या देवी । तत्रापि किमलीकलज्जाजलभारोबहनेन त्वामायासयामि । यात्येव पत्रलेखा देवीपादमूलम् । इयं विज्ञापयिष्यति' इत्यभिदधदेवातर्कितोपनतात्मविरहपीडाम्, अमङ्गलशङ्कया कृतयत्नामपि बाष्पवेगमपारयन्तीं संधारयितुम्, उत्प्लुताबद्धलक्षशून्यदृष्टिसंचारणां चरणपाताभिमुखी पत्रलेखा प्रणयेनाभिमुखो भूत्वा बद्धाञ्जलिरभाषत - 'पत्रलेखे, साञ्जलिबन्धेन शिरसा प्रणम्य मदीयेन विज्ञाप्या -
***********
जिभिः । करणे तृतीया । परागतः समागत इति । यदाज्ञापयत्याज्ञां ददाति देव इत्यादिश्य कथयित्वा कृता नमस्कृतिः प्रणामो येनैवंभूते त्वरितं शीघ्रं यद्गमनं यानं तस्य संविधानं करणं तस्मै निष्कान्ते बहिर्निर्गते मेघनादे, हे देव, अतःपरं विलम्बेन किमित्यभिधायोक्त्वा मेघनादनिर्गमादनन्तरमव्यवहितं गमनाय यात्रायै यः प्रणामः प्रणतिस्तस्मा उत्थितं केयूरक सस्नेहं सप्रीति यथा स्यात्तथाहूयाह्वानं कृत्वा सबाष्पया सरोदनजलया दृष्ट्या दृशा पुनःपुनरिवारमालोक्य निरीक्ष्य सपुलकाभ्यां सरोमाञ्चाभ्यां दोर्थ्यां भुजाभ्यां परिष्वज्य चालिङ्ग्य चात्मकर्णात्स्वकीयश्रवणादपनीय दूरीकृत्यानेकवर्णे रक्तपीतादिभी रुचिरं मनोहरम् । अत एवोत्प्रेक्षते - विविधवगैरक्षरै रुचिरं सदेशमिव वाचिकमिव । एवंविधं कर्णाभरणं श्रवणभूषणमस्य केयूरकस्य कर्णे श्रोत्रे कृत्वा कण्ठागतो यो बाष्पो रोदनं तस्माद्या गद्गदिका गद्गदेत्यव्यक्तध्वनिस्तया गृह्यमाणान्युच्चार्यमाणान्यक्षराणि यथा स्यात्तथावादीदवोचत् । किं तदित्याह - केयूरक इति । हे केयूरक, त्वया भवता । तु पुनरर्थे । मे मम देव्याः कादम्बर्याः सदेश उदन्तो नानीत एव न प्रापित एव । तत्तस्माद्धेतोस्तव हस्ते तस्याः कादम्बर्या अनुरूपं योग्यमपूर्वं नवीनं किं संदिशामि प्रतिवाचिकं यच्छामि । देवी कादम्बरी त्वया विज्ञापयितव्या विज्ञप्तिविषयीकार्या । तत्राप्यपूर्वविज्ञापनेऽलीका या लज्जा त्रपा तस्या जालं समूहस्तस्य भारो वीवधस्तस्योद्घहनेन त्वामायासयामि परिश्रममुत्पादयामि । पत्रलेखा देवीपादमूलं कादम्बरीचरणसमीपं यात्येव व्रजत्येव । अत इयमेव विज्ञापयिष्यति विज्ञप्तिं करिष्यति । इत्यभिदधदेवेति कथयन्नेव प्रणयेन स्नेहेनाभिमुखो भूत्वा संमुखीभूय बद्धाञ्जलिः, पत्रलेखामभाषताब्रवीदित्यन्वयः । पत्रलेखां विशेषयन्नाह - अतर्कितेति । अतर्किताऽचिन्तितोपनता प्राप्तात्मनः स्वस्य विरहपीडा वियोगव्यथा यस्याः सा ताम् । पुनः किं कुर्वन्तीम् । अमङ्गलशङ्कयाऽशुभारेकया कृतयत्नामपि विहितोद्यमामपि बाष्पवेगं नेत्राम्बुप्रवाहं संधारयितुं संस्थापयितुमपारयन्तीमशक्नुवन्तीम् । उत्प्लुताबद्धलक्षाऽविषयीकृतविषयात एव शून्या या दृष्टि क् तस्याः संचारणं यस्याः सा ताम् । चरणपातोऽभिवादनं तं प्रत्यभिमुखीं संमुखीम् । किमुवाचेत्याह - पत्रलेखे इति । हे पत्रलेखे, मदीयेन मामकीनेन साञ्जलिबन्धेनाञ्जलिबन्धेन सहवर्तमानेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य देवी -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अनुत्फुल्लाबद्धलक्ष्य०' इति पाठः । अनुत्फुल्लम् अविकस्वरम् (अविशदप्रकटनपरत्वादितिभावः), तथा अबद्धलक्ष्यं विषयमलक्ष्यीकृत्य प्रवृत्तम् (विरहदुःखस्यात्यन्तमुत्पीडनात्), अत एव शून्यं निर्विषयं दृष्टिसंचारणं यस्यास्तामिति तदर्थः ।
-
-
-
-
-
-
-
-
-
-
पाठा० - १ यथा. २ निर्गमन. ३ गद्गदिकाक्षरम्. ४ प्रतिसंदिशानि. ५ उत्फुल्ल.
(532
कादम्बरी।
। कथायाम्
Page #60
--------------------------------------------------------------------------
________________
देवी कादम्बरी, येन सर्वखलानां धुरि लेखनीयेन तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभावस्य दर्शितप्रसादातिशयां देवीं प्रणामेनाप्यसंभाव्य गच्छता प्रज्ञाजडतया, ज्ञानं मौढ्येन, धीरता तरलत्वेन, स्नेहलता रौक्ष्येण, गौरवं लघुतया, प्रियंवदता पारुष्येण, मृदुहृदयतानैष्ठुर्येण, स्थैर्य चञ्चलतया, दयालुता निस्त्रिंशत्वेन, आर्जवं मायाजालेन, सत्यवादितालीककाकुसंपादनेन, दृढभक्तितावज्ञानेन, पेशलता कौटिल्येन, लज्जा धार्थेन, औदार्यं क्षुद्रतया, दाक्षिण्यममहानुभावतया, प्रश्रयोऽभिमानेन, कृतज्ञता कृतघ्नतया, शीलं पौरोभाग्यतया, सर्वगुणा एवं दोषैः परिवृताः । स कमिवापरं गुणमवलम्ब्य पुनः परिग्रहाय विज्ञापयतु । केन चाङ्गीकरोतु देवी । किमुपदर्शितालीकात्मार्पणेन न प्रतारितं देव्या हृदयमिति, किं प्रकृतिपेशलं हृदयमपहृत्य नापक्रान्तोऽस्मीति, किमियं प्राणसदेहकारिणि निष्करुणेन शरीरावस्था नोपेक्षितेति, किमहमस्या न कारणमित्येतत्सर्वदोषाश्रयेणाप्यनुवृत्त्या चरणावाराधि -
***********
कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकार्या । किं तदित्याह - येनेति । स्वभावस्य प्रकृतेर्वत्सलत्वाद्धितकारित्वाप्रथमदर्शनेऽप्याद्यावलोकनेऽपि तथा तेन प्रकारेण दर्शितः प्रकाशितः प्रसादातिशयः प्रसन्नताधिक्यं ययैवंविधां देवीं कादम्बरी प्रणामेनापि नमस्कृत्याप्यसंभाव्यासंभावनाविषयीकृत्य गच्छता व्रजता येन सर्वखलानां समग्रदुर्जनानां धुर्यादौ लेखनीयेन गणनीयेन मया सर्वगुणा ऐश्वर्यादयो दोषैर्वैगुण्यैः परिवृताः । स्वस्वरूपमापादिता इत्यर्थः । तदेव दर्शयन्नाह - प्रज्ञेति । प्रज्ञा प्रतिभा जडतया मूर्खतया, ज्ञानं मौढ्येन मूढतया, धीरता धैर्यं तरलत्वेन तरलतया, स्नेहलता रौक्ष्येण रूक्षतया, गौरवं गुरुता लघुतया लघुत्वेन, प्रियंवदता मिष्टभाषित्वं पारुष्येण काठिन्येन, मृदुहृदयता सकुमारचित्तता नैष्टुर्येण निष्ठुरत्वेन, स्थैर्य स्थिरता चञ्चलतया चाञ्चल्येन, दयालुता कृपालुता निस्त्रिंशत्वेन निष्कृपत्वेन, आर्जवमृजुत्वं मायाजालेन निकृतेर्जालतया, सत्यवादिता अलीकभाषित्वमलीकासत्या या काकुर्वक्रोक्तिस्तस्याः संपादनेन निष्पादनेन, दृढभक्तिता स्थिराराध्यताऽवज्ञानेनावगणनेन, पेशलता हृद्यता कौटिल्येन कुटिलतया, लज्जा त्रपा धायन धृष्टतया, औदार्यमुदारता क्षुद्रतया तुच्छतया, दाक्षिण्यं सरलत्वममहानुभावतयाऽमाहात्म्यतया, प्रश्रयो विनयोऽभिमानेनाहंकृत्या, कृतज्ञता कृतवित्त्वता कृतघ्नतयाऽकृतज्ञतया, शीलमाचारः पौरोभाग्यतया दोषैकदृक्तया । ‘दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः' इत्यमरः । सर्वगुणा एव दोषैः परिवृता इत्यन्वयस्तु प्रागेवोक्तः । स इति । स चन्द्रापीडः कमिव कथमिव कथमपरं पूर्वोक्तगुणेभ्यो भिन्नं गुणमवलम्ब्यावलम्बनीकृत्य पुनर्द्धितीयवारं परिग्रहाय स्वीकाराय विज्ञापयतु विज्ञप्ति कारयतु । केन च गुणेन देवी कादम्बर्यङ्गीकरोतु स्वीकरोतु । मामिति शेषः । किमिति । उपदर्शितं यन्मिथ्यात्मार्पणमलीकं मिथ्यात्मनोऽर्पणं प्रदानं तेन देव्याः कादम्बर्या हृदयं चेतः किं न प्रतारितं न वञ्चितमिति । प्रकृत्या स्वभावेन पेशलं हृद्यं हृदयमपहृत्याहृत्य किं नापक्रान्तोऽस्मि न गतोऽस्मीति । इयं प्राणसदेहकारिणी शरीरावस्था देहदशा निष्करुणेन निष्कृपेण किं नोपेक्षितोपेक्षाविषयीकृता । अहं किमस्या अवस्थाया न कारणं न निदानमित्येतत्सर्वदोषाश्रयेणापि सर्ववैगुण्याधारभूतेनाप्यनुवृत्त्यानुकूल्येन चरणौ पादावाराधितौ सेविताविति वा । तदेवमात्मना सर्वप्रकारेण सर्वगुणहीनस्यापि समग्रगुण -
- - - - - - - - - - - टिप्प० - 1 'परिवर्तिताः' इत्यपि पाठः । प्रज्ञा जडतया परिवर्तिता, ज्ञानं मौढ्येन परिवर्तितम, इत्यादि लिङ्गवचनव्यत्ययेन योजनीयम् । यस्मिन् स्थिता प्रतिभा पर्यवसाने जडतारूपेण परिणतेत्येव सर्वत्र तात्पर्य बोध्यम् । 2 स्नेह लातीति स्नेहलः तद्भावः स्नेहलता, स्निग्धता । 3 देव्याः कादम्बर्या इत्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ येन सर्वाभिलाषणीयेन तथा. २ प्रथमदर्शनेन. ३ असंभाव्यागच्छता सर्वखलानां धुरि लेखनीयेन प्रज्ञा. ४ तारल्येन. ५ धैर्य भीरुतया दयालुता. ६ मायामन्त्रेण. ७ पौरोभाग्येन. ८ एवम्. ९ परिवर्तिताः; परावृत्ताः. १० वा. ११ अस्याः संदिशामि न कारणम्. १२ अन्तर.
(कादम्बर्यर्थं पत्रलेखायै संदेशः
उत्तरभागः।
533
Page #61
--------------------------------------------------------------------------
________________
ताविति वा । तदेवंमात्मना सर्वगुणहीनंस्यापि मे देवीगुणा एवावलम्बनम् । इयमेव ते स्वभावसरसा दूरस्थैि मदनहुतभुजा दह्यमानं रक्षत्येव सरलता, मुहुर्मुहुराह्वयत्येव स्नेहलता, आनयत्वेव स्थिरप्रतिज्ञता, ढौकयत्येव दक्षिणता, अभिपद्यत एव वत्सलता, चरणपतितं न निर्भर्त्सयत्येव मृदुहृदयता, उत्थाप्य संभावयत्येव महानुभावता, आलपत्येव प्रियवादिता, ददात्येव हृदयेऽवकाशमत्युदारता । यच्च तथापि गत्वा निर्लज्जहृदयः पुनर्वदनदर्शनदानसाहसमङ्गीकरोमि, अत्रापि सत्प्रकृतयो देवीप्रसादा एव कारणम् । एते हि विशदत्वादुदारभावात्संगतत्वाच्च क्षणपरिचिता अपि समारोपितजीवितप्रत्याशा न किंचिन्न कारयन्ति । स्मारयन्ति सेव्यताम्, देव्याश्चरणपरिचर्यायै समुत्साहयन्ति, शिक्षयन्ति सेवाचातुर्यम् उपदिशन्त्याराधनोपायान्, चाटुकारो भवेत्यसकृदाज्ञापयन्ति, एवं स्थीयतामिति स्वयमेवोपदर्शयन्ति, मुखावलोकिनामकालोपसर्पणकोपेऽनुनयन्ति, परितोषावसरेऽनुगृह्णन्ति गुणानुवादेन, लज्जापसृतं हटादाकृष्योपसर्पयन्ति, नान्यत्र क्षणमपि ददत्यवस्थातुम् ।
***
रहितस्यापि मे मम देवीगुणा एव कादम्बरीगुणा एवावलम्बनमाश्रयः । इयमिति । इयमेव ते तव स्वभावेन प्रकृत्या सरसी स्निग्धा दूरस्थमपि दविष्ठमपि मदनहुतभुजा कंदर्पाग्निना दह्यमानं ज्वलमानं सरलता ऋजुता रक्षत्येव पालयत्येव । मुहुर्मुहुर्वारंवारं स्नेहलता स्नेहलस्य भावः स्नेहलताह्वयत्येव निमन्त्रयत्येव । स्थिरप्रतिज्ञता दृढसंगरतानयत्येव प्रापयत्येव । दक्षिणता चातुर्यता ढौकयत्येव प्राभृतीकरोत्येव । वत्सला हितकारिताऽभिपद्यत एवाङ्गीकरोत्येव । मृदुहृदयतार्जवचित्तता चरणपतितं पादप्रणतं जनं न निर्भर्त्सयत्येव न तिरस्करोत्येव । महानुभावता साधुस्वभावतोत्थाप्योत्थानं कारयित्वा संभावयत्येव प्रीणयत्येव । प्रियवादिता मिष्टवक्तृताऽऽलपत्येव संभाषयत्येव । अत्युदास्तातिवितरणा हृदये चित्तेऽवकाशमन्तरं ददात्येव प्रयच्छत्येव । यच्चेति । यत्तथा गत्वापि निर्लज्जहृदयो निस्त्रपचेताः पुनर्द्वितीयवारं वदनदर्शनस्य दानं तस्मिन्साहसं धैर्यमङ्गीकरोमि स्वीकरोमि । अत्रापि वदनदर्शनेऽपि सत्प्रकृतयः शोभनस्वभावा देव्या गन्धर्वपुत्र्याः प्रसन्नता लक्ष्येणानुग्रहा एव कारणं निमित्तम् । एते हीति । हीति निश्चितम् । एते प्रसादा विशदत्वान्निर्मलत्वादुदारभावात्सरलत्वेन संगतत्वाच्च मिलितत्वाच्च क्षण समयमात्र परिचिता अपि परिचितविषयीभूता अपि समारोपिताः स्थापिताः जीवितस्य प्राणितस्य प्रत्याशा वाञ्छा यैरेवंविधाः किंचिन्न कारयन्तीति न, अपि तु कारयन्त्येव । तदेवाह - स्मारययन्तीति । सेव्यतां सपर्यायोग्यताभावं स्मारयन्ति स्मरणविषयीकारयन्ति । देव्याः कादम्बर्याश्चरणपरिचर्यायै क्रमसेवायै समुत्साहयन्त्युत्साहं कारयन्ति । सेवाचातुर्यं सपर्यादक्षतां शिक्षयन्ति पाठयन्ति । आराधनोपायान्समाराधनहेतूनुपदिशन्ति कथयन्ति । चाटुकारश्चटुकृत्त्वं भवेत्यसकृद्धारंवारमाज्ञापयन्त्याज्ञां ददति । एवममुना प्रकारेण स्थीयतामास्यतामिति स्वयमेवात्मनैवोपदर्शयन्ति प्रकाशयन्ति । मुखावलोकिनामास्यनिरीक्षकाणामकालेऽप्रस्तावे उपसर्पणमागमनं तज्जनितो यः कोपस्तस्मिन्ननुनयन्ति प्रसादयन्ति । परितोषावसरे संतुष्टिक्षणे गुणानुवादेन गुणकथनेनानुगृह्णन्त्यनुग्रहं कुर्वन्ति । लज्जया त्रपयापसृतं पश्चाद्गतं हठाद्धलादुपसर्पयन्ति समीप आनयन्ति । अन्यत्रान्यस्मिन्स्थले क्षणमप्यवस्थातुमवस्थानं कर्तुं न ददति न -
टिप्पo - 1 ते स्वभावसरसा सरलता दूरस्थमपि मदनहुतभुजा दह्यमानं (माम्) रक्षत्येवेत्यन्वयो बोद्धव्यः । 2 चतुरता, (भाववाचिनः पुनर्भावप्रत्ययो नोचित इति चातुर्यताऽचातुर्यमेव । 3 महाहृदयता । वितरणकथा तु क्षुद्रा । 4 मुखावलोकितमिति पाठे तु मुखावलोकितं मुखावलोको जातो यस्मिन् ( मुखावलोकजनितम्) मम दुर्जनस्येति शेषः । मम मुखदर्शनजनितमकालोपसर्पणप्रभवं कोपम् अनुनयन्ति उपशमयन्ति इत्यर्थः ।
पाटा० - १ एव. २ विहीन. ३ अपि मामू. ४ स्थिरप्रकृतिता; स्थिरप्रज्ञता. ५ अभ्युपपद्यते ६ प्रियंवादिता; प्रियवेदिता. ७ स्मरयतिः स्मरयन्ति ८ चाटुकारा भवन्तु ९ मुखावलो - कितम् १० कोपम्. ११ अनुतपन्ति.
534
कादम्बरी |
कथायाम्
Page #62
--------------------------------------------------------------------------
________________
अपि चैतेऽनुग्राहकत्वादेवापरित्याज्याः, गुरुत्वादेव कृतावष्टम्भाः, विस्तीर्णत्वादेवालङ्घनीयाः, प्रभूतत्वादेवापरिहार्याः । तदेभिरहं विनाप्यागमनाज्ञया सुदूरमपक्रान्तोऽपि बलादेवाकृष्य देवीपादमूलमानीय' इति । यया वानपेक्षितगमनाज्ञया निर्यन्त्रणत्वाद्गतोऽहमिति विज्ञप्तम्, सैव वाणी विज्ञापयति - 'यथा च मे न निष्फलमागमनं भवति, जगद्वा शून्यम्, तथा देव्याऽऽत्मसंधारणायात्मनैव यत्नः कार्यः' इति संदिश्य पुनराह -
'पत्रलेखे, त्वयापि यान्त्याध्वनि न मद्विरहपीडा भावनीया, न शरीरसंस्कारेऽनादरः करणीयः, नाहारवेलातिक्रमणीया, न येनकेनचिदज्ञातेन पथा यातव्यम्, न यत्रतत्रैवानिरूप्यावस्थातव्यम्, उषितव्यं वा । न यस्यकस्यचिदपरिज्ञायमानस्यान्तरं दातव्यम्, सर्वदा शरीरेऽप्रमादिन्या भाव्यम् । किं करोमि । त्वत्तोऽपि मे वल्लभतरा देवीप्राणाः, येनैवमेकाकिनी तेषां संधारणाय विसर्जितासि । अपि च मम जीवितमपि तवैव हस्ते वर्तते । तन्नियतं त्वयात्मा यत्नेन परिरक्षणीयः' इत्युक्त्वा सस्नेहं परिष्वज्य केयूरक पुनस्तदवधानदानाय संविधाय 'महाश्वेताश्रमं यावत्पुनस्त्वयैव सहानया मन्नयनायागन्तव्यम्' इत्यादिश्य व्यसर्जयत् ।
*********** प्रयच्छन्ति । अपि चेति । अपि च प्रकारान्तरेण एते देवीप्रसादा अनुग्राहकत्वादेवानुग्रहकारित्वादेवापरित्याज्या अपरिमोच्याः । गुरुत्वादेव गरीयस्त्वादेव कृतो विहितोऽवष्टम्भ आधारो यैस्ते तथोक्ताः । विस्तीर्णत्वादेव विशालत्वादेवालङ्घनीया अनतिक्रमणीयाः । प्रभूतत्वादेव बाहुल्यादेवापरिहार्या अत्याज्याः । एतेषां द्वितीयोऽर्थः स्वयमूह्यः । तदिति हेत्वर्थे । एभिः प्रसादैरहमागमनस्याज्ञा निदेशस्तां विनापि सुदूर दविष्ठमपक्रान्तोऽपि गतोऽपि बलाद्धठादेवाकृष्याकर्षणं कृत्वा देव्याः कादम्बर्याः पादमूलं चरणसमीपमानीय इति । ययेति । अनपेक्षिताऽनीहिता गमनस्य यात्राया आज्ञा नियोगो ययैवंविधया वाण्या निर्यन्त्रणत्वादहं गत इति विज्ञप्तं कथितम् । सैव वाणी विज्ञापयति विज्ञप्ति करोति । किं तदित्याह - यथेति । तथा मे ममागमनं निष्फलं निष्प्रयोजनं न भवति । जगद्वा शून्यमुद्रसितं न स्यात् । तथा देव्या कादम्बर्यात्मसंधारणायात्मरक्षणायात्मनैव स्वेनैव यत्नः परिश्रमः कार्यः । इति संदिश्य कथयित्वा पुनर्वितीयवारमाह -
हे पत्रलेखे, त्वयापि भवत्यापि यान्त्या व्रजन्त्याध्वनि मार्गे मम विरहो वियोगस्तस्य पीडा व्याधिर्न भावनीया न भावनाविषयीकार्या । न विचारणीयेत्यर्थः । शरीरस्य संस्कारे परिकर्मणि नानादरोऽनुद्यमः करणीयो विधातव्यः । आहारवेला भोजनसमयो नातिक्रमणीया नोल्लङ्घनीया । अज्ञातेनानाकलितेन येनकेनचित्पथा मार्गेण न यातव्यं न गन्तव्यम् । यत्रतत्रैव यस्मिंस्तस्मिन्वा स्थलेऽतिगम्यं नानिरूप्यानवलोक्यावस्थातव्यमासितव्यमुषितव्यं वा वसितव्यं वा । न यस्यकस्यचिदपरिज्ञायमानस्यानुपलक्षितस्यान्तरमवकाशो हार्द वा दातव्यं प्रदेयम् । सर्वदा सर्वप्रकारेण शरीरे तनावप्रमादिन्यानालसिन्या भाव्यं भवितव्यम् । अहं किं करोमि किं कुर्वे । त्वत्तोऽपि भवत्या अपि मे मम देवीप्राणाः कादम्बर्यसवो वल्लभतरा अतिशयेन प्रियाः । येनैवमिति । येन कारणेनैवममुना प्रकारेण तेषां प्राणानां संधारणाय रक्षणाय त्वमेकाकिन्यसहाया विसर्जिता प्रहितासि । अपि च युक्त्यन्तरे । मम जीवितं प्राणितमपि तवैव भवत्या एव हस्ते वर्तते नान्यस्येत्यर्थः । अत्रैवकारोऽन्ययोगव्यवच्छेदार्थः । तत्तस्मानियतं त्वयात्मा प्राणो यत्नेनोद्यमेन परिरक्षणीयो रक्षितव्यः । इत्युक्त्वा कथयित्वा सस्नेह सहा परिष्वज्यालिङ्ग्य केयूरक पुनस्तस्याः पत्रलेखाया अवधानं समाधानं तस्य दानं वितरणं तदर्थं संविधाय कृत्वा महाश्वेताया आश्रमं मुनिस्थानं यावत्, अनया पत्रलेखया त्वयैव भवतैव सह मन्नयनाय मदाकारणायागन्तव्यं समेतव्यमित्यादिश्येत्युक्त्वा व्यसर्जयदप्रैषीत् ।। -
- - - - - - - - - - - - - टिप्प० -1 विवाहद्वाराऽहं सनाथीकर्तव्य इति गूढमाकूतम् । 2 बस्तव्यमिति तात्पर्यम् । 3 अनया सह त्वयैवागन्तव्यमिति तात्पर्यम् । केयूरकस्य प्राधान्य पत्रलेखायाश्चाप्राधान्यमित्याशयः ।
पाठा० - १ च. २ विज्ञप्तः. ३ विसर्जितव्या. ४ तदात्मा. ५ च पुनः. ६ त्वयानयैव सह.
(पत्रलेखाया अभिनन्दनं विसर्जनं च
उत्तरभागः।
1535)
535
Page #63
--------------------------------------------------------------------------
________________
निर्गतायां च केयूरकेण सह पत्रलेखायाम् ‘किं शीघ्रमेते यास्यन्ति न वेति, अन्तरा वा गच्छतां परिलम्ब उत्पत्स्यते न वेति, कियद्भिर्वा दिवसैः परापतिष्यन्ति' इत्यनयैव चिन्तया शून्यहृदयः क्षणमिव स्थित्वा स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्च्य बहुदिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युद्गमनायात्मानं मोचयितुं पितुः पादमूलमयोत् । तत्र चोभयतः ससंभ्रमापसृतप्रतीहारमण्डलवितीर्णविस्तीर्णालोकनमार्गो दूरादेवापसव्यजानुकरतलावलम्बितविमलमणिकुट्टिमोदरसंक्रान्तप्रतिमो द्विगुणायमानायतकुन्तलकलापः पितुः प्रणाममकरोत् ।
अथ तारापीडस्तथा दूरत एव कृतप्रणामं चन्द्रापीडमालोक्य निर्भरस्नेहगर्भेण सलिलभरमन्थरेणेवं जलधरध्वानेनिभेन स्वरेण संधीरम् ‘एोहि' इत्याहूय ससंभ्रमप्रधावितमपि संभावितशुकनासप्रणाममुपसृत्य पार्श्वे भूमावुपविशन्तमाकृष्य हठात्पादपीठे समुपवेश्यापरिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्यास्योपारूढयौवनभराभिरामतराण्यङ्गप्रत्य
***********
केयूरकेण सह पत्रलेखायां निर्गतायां सत्यां किमेते केयूरकप्रभृतयः शीघ्रमाशु यास्यन्ति गमिष्यन्ति न वा । अथवा गच्छतां व्रजतामन्तरा मध्ये परिलम्बो विलम्ब उत्पत्स्यते भविष्यति न वा । कियद्भिः कियन्मात्रैर्दिवसैर्वासरैः परापतिष्यन्त्यागमिष्यन्ति । अनयैव चिन्तयाा शून्य मूढ़ हृदयं यस्यैवंभूतः क्षणमिव क्षणमात्रं स्थित्वा स्कन्धावारस्य सैन्यस्य वार्ता प्रवृत्तिस्तस्याः स्फुटीकरणं प्रकटीकरणं तस्मै वार्ताहरं सदेशहारक विसर्ग्य गमनायादेशं दत्त्वा बहुदिवसैरन्तरितं व्यवधानीकृतं दर्शनमवलोकनं यस्यैवंविधस्य वैशम्पायनस्य प्रत्युद्गमनायाभिमुखयानायात्मानं स्वं मोचयितुमुत्कलीकर्तुं पितुस्तारापीडस्य पादमूलं चरणसमीपमयाद् गतवान् । तत्रेति । उभयत उभयपाधै ससंभ्रमेणापसृतं किंचित्पश्चाद्गतं यत्प्रतीहारमण्डलं द्वारपालसमूहूं तेन वितीर्णो दत्तो विस्तीर्णो विशाल आलोकनमार्गो निरीक्षणपन्था यस्य सः । दूरादेवेति । दूरादेव दविष्ठादेवापसव्यो दक्षिणो जानुर्नलकीलकः करतलं हस्ततलं ताभ्यामवलम्बितमालम्बनीकृतं विमलं निर्मलं यन्मणिकुट्टिमस्य मणिबद्धभूमेरुदरं मध्यं तत्र संक्रान्ता प्रतिबिम्बिता प्रतिमा मूर्तिर्यस्य सः, अत एवोभयत्र दृश्यमानत्वाद् द्विमुणायमानो द्विगुणवदाचरमाण आयतो विस्तीर्णः कुन्तलकलापः केशसमूहो यस्यैवंभूतश्चन्द्रापीडः पितुस्तारापीडस्य प्रणामं नमस्कारमकरोदसृजत । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः ।
अथेति । प्रणामानन्तरं तारापीडस्तथा तेन प्रकारेण दूरत एव दविष्ठादेव कृतप्रणाम विहितनमस्कार चन्द्रापीडमालोक्य निरीक्ष्य निर्भर यथा स्यात्तथा स्नेहो हाद गर्भे मध्ये यस्मिन्नेतादृशेन सलिलभरः पानीयभरस्तेन मन्थरेणेव स्निग्धेनेव जलधरस्य मेघस्य ध्यानो ध्वनिस्तस्य निभेन सदृशेन स्वरेण शब्देन सधीरं यथा स्यात्तथा एह्यह्यागच्छागच्छेत्याहूयाह्वानं कृत्वा ससंभ्रम सादरं सचकितं वा प्रधावितमपि त्वरितगत्या चलितमपि संभावितः संभावनाविषयीकृतः शुकनासस्य प्रणामो नमस्कारो येन स तमुपसृत्योपसरणं कृत्वा पार्श्वे भूमौ पृथिव्यामुपविशन्तं निषीदन्तं हठादाकृष्याकर्षणं कृत्वा पादपीठे पदासने समुपवेश्योपवेशनं कारयित्वाऽपरिसमाप्ताऽपरिपूर्णाऽवलोकनस्य निरीक्षणस्य स्पृहा वाञ्छा यस्यैवंविधेन चक्षुषा नेत्रेण सुचिरं चिरकालं यावत्, आलोक्य निरीक्ष्यास्य चन्द्रापीडस्योपारूढं प्राप्तं यद्यौवनं तारुण्यं तस्य भरः संभारस्तेनाभिरामतराण्यतिमनोहराण्यङ्गप्रत्यङ्गानि हस्ता - टिप्प० - 1 ससंभ्रमम् संभ्रमेण सहितम् अपसृतमित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ विलम्बः. २ अगात्. ३ तत्रैव. ४ एव; नव. ५ ध्वनिना ध्वनिगम्भीरेण. ६ धीरम्. ७ उपसृज्य. ८ अङ्गोपाङ्गानि.
536
कादम्बरी।
कथायाम
Page #64
--------------------------------------------------------------------------
________________
गानि पाणिना स्पृष्ट्वा दर्शयशुकनासमवादीत् - 'शुकनास पश्येयमायुष्मतश्चन्द्रापीडस्योत्सर्पिणी महानीलमणिप्रभेव कनकशिखरिणः, गण्डमण्डलोद्भासिनी मदलेखेव गन्धद्विपस्य, उपहितकान्तिपतिपरभागा लक्ष्मच्छायेव चन्द्रमसः, विकासशोभापेक्षिणी मधुकरावलीव कमलाकरस्य, रूपालेख्योन्मीलनकालाजनवर्तिका, तारुण्यभरजलधरोत्तानश्यामिका, उज्ज्वलत्कन्दर्पदीपकज्जलशिखा, स्फुरव्यतापानलधूमराजी, मकरध्वजोपवनतमालवल्ली, मनोभवदोषारम्भबालतिमिरोद्गतिः, उद्घाहमङ्गलभूसंज्ञा श्मश्रुराजिलेखा समन्तात्समुद्भिना । विवाहमङ्गलयोग्यां दशामारूढोऽयम् । तद्देव्या विलासवत्या सह समेत्याभिजनरूपा निरूप्यतां काचिजंगति राजकन्यका । दृष्टं हि दुर्लभदर्शनं वत्सस्य वदनम् । संप्रति वधूमुखकमलदर्शनेनानन्दयाम आत्मानम्' इत्युक्तवति तारापीडे शुकनासः प्रत्युवाच -
***********
गुलिप्रभृतीनि पाणिना हस्तेन स्पृष्ट्वा स्पर्श कृत्वा शुकनासं मन्त्रिमुख्यं दर्शयन्नवलोकनं कारयन्त्रवादीदब्रवीत् । हे शुकनास, पश्यावलोकय । आयुष्मतो जीवितवतः चन्द्रापीडस्येयं प्रत्यक्षोपलभ्या श्मश्रुराजिः कूर्चश्रेणिस्तस्या लेखा रेखा समन्तात्सर्वतः समुद्भिन्ना प्रकटिता । श्यामत्वसाधादुत्प्रेक्षते - कनकशिखरिणः सुवर्णाचलस्योत्सर्पिण्यर्ध्वगामिनी महानीलमणीनां स्थूलेन्द्रनीलरत्नानां प्रभेव कान्तिरिव । गन्धद्विपस्य गन्धेभस्य गण्डमण्डलं उद्भासितुं शीलं यस्या एवंविधा मदलेखेव दानलेखेव । उपहित आच्छादितः कान्तिपतिना सूर्येण परभागो गुणोत्कर्षो यस्याः सैर्वविधा चन्द्रमसः कुमुदबान्धवस्य लक्ष्मच्छायेव कलङ्कप्रभेव । 'परभागो गुणोत्कर्षः' इत्यमरः । विकासशोभा विकस्वरलक्ष्मीमपेक्षत इत्येवंशीला कमलाकरस्य मधुकरावलीव भ्रमरपङ्क्तिरिव । रूपालेख्यस्य रूपचित्रस्योन्मीलनं प्रकाशनं तत्र कालाजनस्य कृष्णकज्जलस्य वर्तिकेव वर्तिका लेखिनी । तारुण्यभरो यौवनातिशयः स एव जलधरो मेघस्तस्योत्ताना अतिशायिनी श्यामिकेव श्यामिका । उज्ज्वलन्दीप्यन्यः कन्दर्पः कामः स एव प्रदीपः स्नेहप्रियस्तस्य कज्जलमजनं तस्य शिखेव शिखा । स्फुरत्रल्लसन्यः प्रतापः कोशदण्ड तेजः स एकानलो वह्निस्तस्य धूमराजीव धूमराजी । मकरध्वजस्य मनोभवस्योपवनमरण्यं तस्य तमालवल्लीव तमालवल्ली । मनोभवः कंदर्पः स एव दोषारम्भो यामिनीप्रारम्भस्तस्य बालान्यपरिपक्वानि यानि तिमिराण्यन्धकाराणि तेषामुद्गतिरिवोद्गतिः । उदाहस्य पाणिपीडनस्य मङ्गलं शुभक्रिया तस्य भ्रूसंज्ञेव भ्रूसंज्ञा । हे शुकनास, त्वं पश्येत्यन्वयस्तु प्रागेवोक्तः । तत्तस्माद्धेतोर्विवाहमङ्गलयोग्यामुद्धाहक्रियायोग्यदशामारूढोऽयम् । चन्द्रापीड इत्यर्थः । तत्तस्मात्कारणादभिजनरूपा प्रशस्ताकृतिः काचिदनिर्दिष्टनाम्नी जगति पृथिव्यां राजकन्यका राजकुमारिका विलासवत्या देव्या सह समेत्य मिलित्वा निरूप्यतां कथ्यताम् । दृष्टमिति । हीति निश्चयेन । दुर्लभं दुष्प्रापं दर्शनमवलोकनं यस्यैवंविधं वत्सस्य सूनोर्वदनमाननं दृष्टमवलोकितम् । संप्रतीदानीं वध्वा मुखकमलं तस्य दर्शनेन निरीक्षणेनात्मानं स्वमानन्दयामः प्रीणयामः । इति तारापीड उक्तवति कथितवति सति शुकनासः प्रत्युवाच प्रत्यब्रवीत् ।
- - - टिप्प० - 1 'उपहितकान्तिपरभागा' इत्येव पाठः । उपहितो जनितः कान्तः परभाग उत्कर्षो यस्या इति तदर्थः । सूर्यो वराकश्चन्द्रकलङ्कस्य गुणोत्कर्ष कदाऽऽच्छादयति ? 2 विकासस्य लक्ष्मीः शोभा इत्येवोचितम् । 3 'उद्दामश्यामिका' इत्येव रुचिराक्षरम् । उद्दामा उत्कटा । 4 'अतिजनरूपा' इति पाठे जनान् अतिक्रान्तं रूपं यस्या इत्यर्थः । 5 दृश्यताम्, अन्विष्यतामित्यर्थ उचितः ।
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ कान्तिपर. २ उन्नाम; उद्दाम. ३ मनोभवविकार. ४ समन्त्र्य. ५ जगतीराज; जगतीपति. ६ आनन्दय मे.
IIIIIIIIIIIIIIII
चन्द्रापीडस्य परिणयप्रस्तावः
उत्तरभागः।
537
Page #65
--------------------------------------------------------------------------
________________
'साधु चिन्तितं देवेन । अनेन तु सहृदयेन हृदये समारोपिता एव सर्वविद्याः, संभाविता एव सर्वाः कलाः, स्वीकृता एव सर्वप्रजाः, गृहीता ऐव सर्वदिग्वधूनां कराः, स्थापितैव निश्चला कुटुम्बिनीपदे राजलक्ष्मीः, ऊद्वैव चतुरुदधिमेखलाकलापभूषणा भूः । किमतः परमवशिष्यते, येनानेन न परिणीयते' इत्यभिहितवति शुकनासे लज्जावनम्रवदनश्चन्द्रापीडश्चकार चेतसि - 'अहो संवादः, येन मे कादम्बरीसमागमोपायचिन्तासमकालमेवेदृशीतातस्य बुद्धिरुत्पन्ना । तद्यदुच्यते - अन्धकारे प्रविष्टस्यालोकः, वनगहनप्रविष्टस्य देशिकदर्शनम्, महार्णवपतितस्य यानपात्राभ्यागमनम्, नियमाणस्योपर्यमृतवृष्टिरिति, तदेतँदापतितं मयि । सर्वथा वैशम्पायनदर्शनमात्रकान्तरिता वर्तते मे कादम्बरीप्राप्तिः' इत्येवं चिन्तयत्येव चन्द्रापीडे क्षितिपतिरुत्तस्थौ । उत्थाय च तमेव विनयावनंतपूर्वकायं समवलम्ब्यासदेशे सकलमेदिनीभारोतहनगुरुणा दोर्दण्डेन शनैः शनैः संचरशुकनासेनानुगम्यमानो विलासवतीभवनमगमत् । गत्वा च ससंभ्रमकृताभ्युत्थानामिन्दूदयावलोकनविलोलामिव समुद्रवेलां -
***********
किमुवाचेत्याह - साध्विति । साधु शोभनं चिन्तितं विचारितं देवेन स्वामिना । सहृदयेन सज्जनेनानेन तु चन्द्रापीडेन हृदये सर्वविद्याः कलादिकाः समारोपिता एव प्राप्ता एव । सर्वाः कला विज्ञानानि संभाविता एव ज्ञाता एव । सर्वप्रजाः समग्रप्रकृतयः स्वीकृता एव । एवाङ्गीकृता एव । सर्वदिग्वधूनां समग्रककुत्रारीणां कराः पाणयो गृहीता एव ग्रहणविषयीकृता एव । कुटुम्बिनीपदे जायास्थाने राज्यलक्ष्मीनिश्चला स्थिरा स्थापितैव न्यस्तैव । चतुरुदधयश्चतुःसमुद्रास्त एव मेखलाकलापो भूषणं यस्यामेवंविधा भूः पृथ्वी ऊदैव परिणीतैव । अतोऽपरमन्यत्किमवशिष्यत उर्वरितं भवति, येनानेन न परिणीयते न पाणिग्रहणं क्रियते । इत्यभिहितवतीत्युक्तवति शुकनासे लज्जया त्रपया अवनम्रं नतं वदनं यस्यैवंविधश्चन्द्रापीडश्चेतसि चित्ते चकाराकरोत् । अहो संवादो विसंवादाभावः । येन कारणेन मे मम कादम्बर्याः समागमोपायचिन्तासमकालमेव तातस्य पितुरीदृशी बुद्धिरुत्पन्ना । तद्यदुच्यते प्रतिपाद्यते जनैस्तदेतन्मय्यापतितमागतम् । तत्किमित्याह - अन्धकार इति । अन्धकारे तिमिरे प्रविष्टस्य निविष्टस्यालोकः प्रकाशः । वनस्यारण्यस्य गहनं गह्वरं तत्र प्रविष्टस्य देशिकदर्शनं स्वदेशोत्पन्नजनावलोकनम् । महार्णवः समुद्रस्तस्मिन्पतितस्य यानपात्रस्य पोतस्याभ्यागमनं प्राप्तिः । प्रियमाणस्य मरणं व्रजत उपर्यमृतवृष्टिः सुधासेक इति सर्वथा सर्वप्रकारेण वैशम्पायनस्य दर्शनमात्रकमवलोकनमात्रकं तेनान्तरिता व्यवहिता मे मम कादम्बरी प्राप्तिर्वर्तते इत्येवं चिन्तयत्येव विचारयत्येव चन्द्रापीडे क्षितिपतिस्तारापीड उत्तस्थावुत्थितवान् । उत्थाय चोत्थानं कृत्वा । तमेवेति । सकला समग्रा या मेदिनी वसुधा तस्या भारो वीवधस्तस्योदहनेन धारणेन गुरुणा गरिष्ठेन दोर्दण्डेन भुजदण्डेन विनयेनावनतो नम्रीभूतः पूर्वकायो देहादिभागो यस्यैवंभूतं तमेव चन्द्रापीडमेवासदेशे स्कन्धप्रदेशे समवलम्ब्यालम्बनीकृत्य शनैः शनैर्मन्दं मन्दं संचरन्ब्रजशुकनासेनानुगम्यमानोऽनुयायमानो विलासवतीभवनं पट्टाराज्ञीसदनमगमज्जगाम । गत्वा चेति । गत्वा च गमनं कृत्वा च ससंभ्रम संभ्रमेण सहकृतं विहितमभ्युत्थानमुत्थानं ययैवंविधाम् । अत एवोत्प्रेक्षते - इन्दूदयस्य चन्द्रोदयस्यावलोकनं निरीक्षणं तेन विलोला चञ्चलां समुद्रस्य जलधेलामिवाम्भसो वृद्धिमिव विला -
- टिप्प० - 1 'आदेशकदर्शनम् इति पाठे मार्गप्रदर्शकस्य दर्शनमित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ सर्वाः प्रजाः. २ एव दिग्व. ३ बदनेन. ४ तदुच्यते. ५ अन्धकार. ६ अभ्यागमः. ७ प्रियमाणस्येवानने चोपरि. ८ एव. १ अवनम्र..
538
कादम्बरी ।
कथायाम्
Page #66
--------------------------------------------------------------------------
________________
विलासवतीमूर्ध्वस्थित एवावादीत् - 'देवि, पश्यैषा त्वमपि वधूमुखावलोकनसुखस्य कृते न ताम्यसीत्युपालभमाने देवीम्, वत्सस्य यौवनारम्भसूत्रपातरेखा, आवयोस्तारुण्यदुर्विलसितनिवर्तनाज्ञा, विजृम्भमाणा श्मश्रुरांगशोभा विवाहमङ्गलसंपादनायादिशति । त्वमपरं किमादिशसीति प्रष्टव्या । तदादिशतु देवी कथ्यमानेऽपि किमपरम् । अद्याप्यपहरसि वदनमन्यतो व्रीडया । पृष्टा वा कर्तव्यं नाज्ञापयसि । वरमातासि संवृत्ता । जानामि चन्द्रापीडस्योपर्यप्रीतिरेषा, यदेवमेतत्कार्येष्वनादरोऽवधीरणा च' इत्येवंविधैर्नर्मप्रायैरालापैः सुखायमानचेताश्चिरमिव स्थित्वा शरीरस्थितिसंपादनाय निरंगमत् ।
चन्द्रापीडोऽपि शुकनासमुखेनैव वैशम्पायनप्रत्युद्गमनायात्मानं मोचयित्वा जननीभवन एव निर्वर्तितशरीरस्थितिर्वेशम्पायनप्रत्युद्गमनसंविधानविनोदेनैव तं दिवसमनयत् । अवतीर्णायां च तस्यां यामिन्यां सुहृद्दर्शनौत्सुक्येन शयनगतोऽपि जाग्रदेव समधिकमिव यामद्वयं -
***********
सवतीमूर्ध्वस्थित एव शुकनासोऽवादीदब्रवीत् । किमवादीदित्याह - देवीति । हे देवि हे स्वामिनि, पश्य विलोकय । एषा विलासवती त्वमपि भवत्यपि वधूमुखस्यावलोकनसुखं निरीक्षणसौख्यं तस्य कृते न ताम्यसि न खेदं करोषि । इति देवी विलासवतीमुपालभमानेवोपालम्भं ददानेव वत्सस्य चन्द्रापीडस्य यौवनारम्भस्य सूत्रपातरेखेव रेखा । नवीनप्रारम्भे शिल्पिभिः सूत्रपातरेखा क्रियत इति सर्वसंमतम् । आवयोः शुकनासराज्ञोस्तारुण्यस्य यौवनस्य दुर्विलसितानि दुश्चेष्टितानि तेभ्यो निवर्तनस्य दूरीभवनस्याज्ञेव आज्ञा । अत्र सर्वत्र रूपकम् । एवंविधा विजृम्भमाणा विस्तारं प्राप्यमाणा श्मश्रुरागशोभा कूर्चरागच्छविर्विवाहलक्षणं यन्मङ्गलं शुभक्रिया तस्य संपादनाय करणायादिशति कथयति । त्वं विलासवत्यपरमन्यत्किमादिशसि कथयसीति प्रष्टव्या पृच्छाविषयीकार्या । तत्तस्माद्धेतोः कथ्यमानेऽऽप्युच्यमानेऽपि किमप्यपरमन्यदेवी किमादिशतु किं कथयतु । अद्यापि वीडया लज्जयान्यतो वदनं मुखमपहरसि तिर्यग्मुखं स्थापयसि । पृष्टा वा पृच्छाविषयीकृता वा कर्तव्यं कृत्यं नाज्ञापयसि नाज्ञां ददासि । त्वं वरमाता संवृत्ता जातासि । अहं जानाम्याकलयाम्येषा चन्द्रापीडस्योपर्यप्रीतिररुचिः, यदेवमेतत्कार्येषु पूर्वोक्तकृत्येष्वनादरोऽनुत्साहोऽवधीरणावज्ञा च । एवंविधैरेतादृशैर्नर्मप्रायैर्वर्करसदृशैः । 'बर्करः पशुनर्मणोः' इति हैमानेकार्थः । आलापैः संभाषणैः सुखायमानं सुखकृच्चेतो यस्यैवंविधश्चिरमिव चिरसदृशं स्थित्वा शरीरस्थितेतेहस्थितेः संपादनं करणं तस्मै निरगमनिर्ययौ ।।
चन्द्रापीडोऽपि शुकनासमुखेनैव, न तु स्वमुखेन, वैशम्पायनस्य प्रत्युद्गमनमभिमुखयानं तस्मा आत्मानं स्वं मोचयित्वा मोक्षणं कारयित्वा जननीभवन एव मातृगृह एव निर्वतिता निष्पादिता शरीरस्थितिदेहधारणात्मिका येन स वैशम्पायनप्रत्युद्गमनस्य संविधानं करणं तदेव विनोदः क्रीडा तेनैव तं दिवसमनयत्प्रापयत् । अवतीर्णायामागतायां तस्यां यामिन्यां रात्रौ सुहृदो मित्रस्य । 'सुहृदुईदौ मित्रामित्रयोः इति निपातः । तस्य दर्शनमवलोकनं तत्रौत्सुक्यमुत्सुकत्वं तेन शयनगतोऽपि शय्याप्राप्तोऽपि जाग्रदेव जागरूक एव समधिकमिवंसमधिकसदृशं यामद्वयं प्रहरयुग्म स्थित्वावस्थानं कृत्वा चन्द्रपादैः शशिकिरणैर्द्विगुणीकृतो द्विगुणतां नीतो मन्मथस्य कन्दर्पस्योत्साहः प्रगल्भता यस्यैवंविधश्चन्द्रापीडो गमनस्य संज्ञा ज्ञापनं तदर्थं यः शङ्खनादो जलजध्वनि - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 आवयोः तव (राज्याः) मम चेत्यर्थः । 2 परिहासबहुलैरित्येवार्थः समुचितः । परिहासस्त्वत्र - चन्द्रापीडस्योपरि तवाऽप्रीतिरित्युक्त्वा उभयोः प्रणयकलहोत्पादनरूपः । 3 अगमयदित्यर्थ उचितः । 4 किञ्चिदधिकं यामद्वयमित्याशयः ।
पाटा० - १ देव. २ त्वमपि च. ३ उत्ताम्यसि. ४ एव. ५ विलसितेच्छाविनिवर्त. ६ राजि. ७ निरगात्.
(चन्द्रापीडस्यौत्सुक्यम् ।
। उत्तरभागः।।
(539)
539
Page #67
--------------------------------------------------------------------------
________________
स्थित्वा परिवर्तयद्भिरिव स्वकान्त्या नीलिमानमम्बरतलस्य, अपहरद्भिरिव हरितता तरुगहनानाम्, अधस्तादपि छिद्रयित्वेव प्रविशद्भिः, निर्वासयद्भिरिव तरुतलच्छायाम्, दरीकुहरकुञ्जोदरेष्वपि निलीनं तिमिरमक्षान्त्येव प्रविश्योत्पाटयद्भिः, विवरप्रवेशव्याजेन च रसातलमिव प्रवेष्टुमारब्धैः, अन्यथा पुनर्धवलयद्भिरिव धवलतां सौधानाम्, उद्भूलयद्भिरिव कर्पूररेणुना दिङ्मुखानि, लिम्पद्भिरिव सान्द्रचन्दनद्रवेण यामिनीम्, उन्नामयद्भिरिव मेदिनीम्, उपनयद्भिरिव द्याम्, संक्षिपद्भिरिव तारकाग्रहनक्षत्रमण्डलानि, विस्तारयद्भिरिव सरित्पुलिनानि, पृथक्पृथक्कमलवनान्युत्पीड्येवं धारयद्भिः, उद्दलितदलविकासानेकीकुर्वद्भिरिव कुमुदाकरान्, अपि च पर्यस्तैरिव शिखरिशिखरेषु, आवर्जितैरिव प्रासादमूर्धसु, तरद्भिरिव जलतरङ्गेषु, पिण्डीभूय वहद्भिरिव रथ्यामुखेषु, प्रसारितैरिव सैकतस्थलेषु, हंससाथैः सहैकीभूतैरिव, संविभक्तैरिव चन्द्राश्रयप्रसुप्तकामिनीकपोललावण्येन, क्षालितैरिव चन्द्रकान्त -
***********
स्तस्मा आदिदेशानुज्ञां दत्तवान् । इतश्चन्द्रपादान्विशेषयन्नाह - परिवर्तयद्भिरित्यादि । स्वकान्त्या स्वकीयदीधित्याम्बरतलस्याकाशतलस्य नीलिमानं नीलतां परिवर्तयद्भिरिव परावर्तं कुर्वद्धिरिव, नीलिमानं गृहीत्वा चेतिमानं ददद्धिरिवेत्यर्थः । तरुगहनानां तरुगह्वराणां हरिततां पीतनीलतामपहरद्भिरिव गृह्णद्भिरिव । दूरीकुर्वद्भिरिवेत्यर्थः । अधस्तादप्यधोभागमपि प्रविशद्धिः प्रवेशं कुर्वद्भिः । अत एवोत्प्रेक्षते - छिद्रयित्वेव छिद्राणि कृत्वेव तरुतलानां छायातपाभावस्तां निर्वासयद्भिरिव बहिःकुर्वद्भिरिव । निर्विषयीकुर्वद्भिरिवेत्यर्थः । दरी गुहा कुहराणि सुषिराणि कुञ्जोदराणि वृक्षैर्वृतान्तरस्थानमध्यभागास्तेष्वपि प्रविश्य निलीनं गुप्ततया स्थितं तिमिरं तमोऽक्षान्त्येव क्रुधेवोत्पाटयद्भिरिवोत्पाटनं कुर्वद्भिरिव । विवराणि सुषिराणि तेषु प्रवेशोऽन्तर्गमनं तस्य व्याजो मिषं तेन च रसातलं पृथ्वीतलं प्रवेष्टुं प्रवेशं कर्तुमारब्धैः कृतप्रारम्भैः । अन्यथान्यप्रकारेण सौधानां गृहाणां धवलतां शुभ्रता पुनर्वितीयवारं धवलयद्भिरिव धवलीकुर्वद्भिरिव । कर्पूरेणुना हिमवालुकाक्षोदेन दिङ्मुखानि दिशां वदनान्युद्धूलयद्भिरिवोद्धर्तयद्धिरिव । सान्द्रः स्निग्धो यश्चन्दनद्रवो मलयजरसस्तेन यामिनी त्रियामां लिम्पद्धिरिव लिम्पनं कुर्वद्भिरिव । मेदिनीं वसुधामुनामयद्भिरिवोच्चैः कुर्वद्भिरिव । द्यां दिवमुपनयद्भिरिव । तारकास्ताराः, ग्रहाः शुक्रादयः, नक्षत्राण्यश्चिन्यादीनि, तेषां मण्डलानि बिम्बानि संक्षिपद्भिरिव संक्षेपं कुर्वद्भिरिव । सरित्पुलिनानि नदीजलोज्झितप्रदेशास्तानि विस्तारयद्भिरिव विस्तारं प्रापयद्भिरिव । पृथक्पृथगन्यदन्यत्कमलवनानि पङ्कजारण्यान्युत्पीड्य संमर्य धारयद्भिरिव । कुमुदाकरान्कैरवसमूहानुद्दलितो दूरीकृतो दलानां पत्राणां विकासो येषां तानेकीकुर्वद्भिरिवापृथग्भावं कुर्वद्भिरिव । अपि च शिखरिणां पर्वतानां शिखरेषु पर्यस्तैरिव पतितैरिव । प्रसादा देवभूपानां गृहास्तेषां मूर्धान उपरितनप्रदेशास्तेष्वावर्जितैरिव विस्तारितैरिव । 'हादिर्धनिनां वासः प्रासादो देवभूभुजाम्' इत्यमरः । जलतरङ्गेष्वम्भःकल्लोलेषु तरद्भिरिव । पिण्डीभूय पिण्डतां प्राप्य वहद्भिरिव प्रवहद्भिरिव रथ्यामुखेषु । सैकतस्थलेषु पुलिनस्थलेषु प्रसारितैरिव प्रसरणं प्राप्तैरिव । हंसानां सितच्छदानां साथैः संघातैः सहकीभूतैरिवैकभावतां गतैरिव । चन्द्राश्रये शिरोगृहे प्रसुप्ता या कामिनी कंदर्पवती स्त्री तस्याः कपोलो गल्लात्परप्रदेशस्तस्य लावण्यं मुक्ताफलस्य छायेव तरलत्वं तेन संविभक्तैरिव संविभागीकृतैरिव । 'कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम्' इत्यमरः । चन्द्र -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1धूल्या विच्छुरयद्भिः । 2 चन्द्रिकायां जम्भमाणायां तारकादीनि न्यूनप्रकाशतया संक्षिप्तानि भवन्तीत्याशयः । 3 चन्द्रकिरणैः श्वेतेषु कुमुदाकरेषु मिथः पृथग्भावो न प्रतीयत इत्याशयः ।
-
-
-
-
पाठा० - १ दरीगहन. २ एव धारयद्धिरिव. ३ शेखरेषु.
(540
कादम्बरी।
कथायाम्
Page #68
--------------------------------------------------------------------------
________________
च्युतजलधारासहसैः । तथा च गर्भगृहेष्वप्यविहतप्रवेशैः, दन्तवलभीभ्योऽपि लब्धपरभागः, पद्मिनीपत्रखण्डेष्वप्यखण्डितधवलिमभिः, आरामेष्वपि दिवसबुद्धिमुत्पादयद्भिः, परस्परोद्भिनक्रमेणोद्गिरद्भिरिव, आवर्जयद्भिरिव, विक्षिपद्भिरिव, विस्तारद्भिरिव, वर्षद्भिरिव सर्वतो ज्योत्स्नाप्रवाहम्, कादम्बरीसमागमत्वरादानाय स्मरसर्वास्त्रमोक्षमिव कुर्वद्भिश्चन्द्रपादैर्द्धिगुणीकृतमन्मथोत्साहो गमनसंज्ञाशङ्खनादायादिदेश ।
अथ गगनतललब्धविस्तारः, विजृम्भमाण इव दिक्कुञ्जेषु, आवर्तमान इवा_लिहनगरीप्राकारमण्डलाभ्यन्तरे, समारोहन्निवोत्तुङ्गगोपुराट्टालकशिखराणि, चलन्निव हान्तरालेषु, विकसन्निव चतुष्कचत्वरेषु, प्रसरनिव राजमार्गेषु, परिभ्रमन्निव भवनसंकटेषु, प्रविशनिवोद्याननगवनगह्वरेषु, संमूर्च्छन्निव प्रासादकुक्षिषु, तत्क्षणप्रतिबोधितानां गृहसरोजिनीसारसानामनुवर्त्यमान इव तारतरदीर्पण रणितेन, विच्छिद्यमान इव मुहुर्मुहुः स्वभावगद्गदेन -
***********
कान्तेभ्यश्च्युताः पतिता या जलधारास्तासां सहसैः क्षालितैरिव धौतैरिव । तथा च गर्भगृहेष्वपवर्गेष्वप्यविहतोऽप्रतिषिद्धः प्रवेशो येषां तैः । दन्तवलभीभ्योऽपि रदनच्छदाधारेभ्योऽपि लब्धः प्राप्तः परभागो गुणोत्कर्षो यैः । पग्रिन्या नलिन्याः पत्रखण्डेष्वपि दलसमूहेष्वप्यखण्डिताऽत्रुटिता धवलिमा चेतता येषां तैः । किं कुर्वद्भिः । आरामेष्वपि कृत्रिमवनेष्वपि दिवसबुद्धिं वासरधियमुत्पादयद्भिर्निष्पादयद्भिः । परस्परमन्योन्यमुत्प्राबल्येन भिन्नो विद्धोऽयमनेन भिन्नोऽनेनायमित्यादिक्रमेणोद्गिरद्भिरिव क्षरद्भिरिव, आवर्जयद्भिरिव मुञ्चद्भिरिव, विक्षिपद्भिरिवेतस्ततो विक्षेपं कुर्वद्भिरिव, विस्तारयद्भिरिव प्रसारयद्भिरिव, वर्षद्भिरिव वृष्टिं कुर्वद्भिरिव सर्वतः समन्ततो ज्योत्स्नाभरप्रवाहम्, कादम्बर्याः समागमो मेलापस्तस्य त्वरादानाय स्मरस्य कंदर्पस्य सर्वास्त्राणि तेषां मोक्षं कुर्वद्भिरिव सृजद्भिरिव ।। __ अथेति । शङ्खनादादेशानन्तरं शङ्खध्वनिर्जलजनिनाद उदतिष्ठदुत्थितो बभूव । इतः शङ्खनिनादं विशेषयनाह - गगनतलेति । गगनतले व्योमतले लब्धः प्राप्तो विस्तारो येन सः । दिक्कुञ्जेषु ककुम्निकुञ्जेषु विजृम्भमाण इव कोशं प्राप्यमाण इव । अभ्रलिहो व्योमव्यापी यो नगर्याः प्राकारमण्डलो वप्रपरिधिस्तस्याभ्यन्तरे मध्य आवर्तमान इव भ्रममाण इव । उत्तुङ्गान्यत्युच्चानि यानि गोपुराणां प्रतोलीनामट्टालकानि तदुपरिवर्तिसदनानि तेषां शिखराणि श्रृङ्गाणि तानि समारोहन्निव समारोहणं कुर्वनिव । हाणि भवनानि तेषामन्तरालेषु विचालेषु चलनिव गच्छन्निव । चतुष्काणि संजवनानि चत्वराङ्गनानि चतुर्मार्गाणि वा तेषु विकसन्निव विकास प्राप्नुवन्निव । राजमार्गेषु श्रीपथेषु प्रसरनिव विस्तरनिव । भवनसंकटेषु गृहसंकीर्णस्थानेषु परिभ्रमन्निव भ्रमणं कुर्वन्निव । उद्यानस्य वनस्य नगाः पर्वतास्तेषां वनान्यरण्यानि तेषां गह्वराणि गहनान्युद्यानानि च नगाश्च गह्वराणि च । इतरेतरद्वन्द्वो वा । तेषु प्रविशन्निव प्रवेशं कुर्वन्निव । प्रसादानां देवभूपसद्मनां कुक्षिष्वभ्यन्तरप्रदेशेषु संमूर्छनिव समर्थीभवन्निव । तत्क्षणं तत्कालं प्रतिबोधितानां जागरितानां गृहसरोजिन्यः सदननलिन्यस्तासां सारसा लक्ष्मणास्तेषामतिशयेन तारोऽत्युच्चध्वनिस्तारतरस्तेन दीर्घेणायतेन रणितेन - -- -- - - - - - - - - - - -- - - - - -- - - - - - - - - - - - - - - - - - -- टिप्प० - 1 गर्भगृहाः अभ्यन्तरगृहाः । 2 गजदन्तनिर्मिता उपरिगृहाः । 'नमवलीका बलभीर्युवानः' इति माघः । 3 इमनिच्प्रत्ययान्तस्य सर्वत्र स्त्रीत्वं प्रयुक्त इति तु क्षेत्रियो व्याधिः । पुंस्त्वमुचितम् । 4 परस्परम् उद्भित्रम् (उद्भेदो विकासः) तस्य क्रमेण ।
पाटा० -१ प्रवर्तयतिरिव वर्षद्धिरिव. २ गमन. ३ अभ्यन्तरेषु. ४ बलयन, बलन्. ५ नगगहरेषु.
अपररात्रे यात्राशङ्खध्वनिः
उत्तरभागः।
- 541)
Page #69
--------------------------------------------------------------------------
________________
भवनहंसानां कलरवेण, निर्धार्यमाण इव च श्रोत्रप्रवेशिना गमनवेलाप्रणामसंभ्रान्तस्य वाराङ्गनाजनस्य चलवलयनूपुर'रसनाकलंकलेन, तारदीर्घतरः शङ्खध्वनिरुदतिष्ठत् ।
अनन्तरं चोत्थाप्यमानैश्चोत्थितैश्चाकृष्यमाणैश्चाकृष्टैश्चारोप्यमाणपर्याणैश्च पर्याणितैश्च नीयमानैश्चानीयमानैश्च विलेभ्यमानैश्चाच्छिद्यमानैश्चागच्छद्भिश्चागतैश्च पूज्यमानैश्च पूजितैश्च पङ्क्तिस्थितैश्च वाह्यमानैश्च तिष्ठद्भिश्च प्रतिपालयद्भिश्च पर्याप्तराजद्वाराङ्गणैरप्रभूतचत्वरैर्निस्तुषितसकलरथ्यान्तरतयान्तर्बहिश्च संकटायमाननगरीविस्तारैस्तुरङ्गमसहसैस्तत्क्षणं कुन्तवनमयमिवान्तरिक्षम्, खुररवमयीव मेदिनी, हेषारवमयानीव श्रोत्रविवराणि, फेनपिण्डस्तबकमयमिव युवराजभवनद्वाराङ्गणम्, खलीनरवमय्य इव दशदिशः, अश्वालंकाररत्नप्रभामया इवाभवशशाङ्करश्मयः । अचिराच्च गृहीतसमायोगोऽगणात्तमिन्द्रायुधमारुह्य पुरस्ताच्चलिते -
*********** शब्दितेनानुवर्त्यमान इवानुगम्यमान इव । स्वभावेन प्रकृत्या गद्गदेन गद्गदरूपेण भवनहंसानां गृहसितच्छदानां कलरवेण मनोज्ञशब्देन मुहुर्मुहुर्वारंवारं विच्छिद्यमान इव विच्छेदं प्राप्यमाण इव । श्रोत्रप्रवेशिनां कर्णचारिणां गमनवेला यात्रावसरस्तस्यां प्रणामो नमस्कारस्तत्र संभान्तस्य सादरस्य वाराङ्गनाजनस्य वेश्याजनस्य चलानि चञ्चलानि वलयानि कटकानि, नुपुराणि पादकटकानि, रसनाः काञ्च्यः, तासां कलकलेन कोलाहलेन निर्धार्यमाण इव निश्चीयमान इव । तारोऽत्युच्चध्वनिस्तेन दीर्घतरोऽत्यायतः ।।
अनन्तरं चेति । ध्वनेरुत्थानानन्तरमुत्थाप्यमानैश्चोत्थानं क्रियमाणैः, उत्थितैीभूतैः, आकृष्यमाणैराकर्षणं क्रियमाणैः, आकृष्टैराकर्षितैश्च, आरोप्यमाणं ध्रियमाणं पर्याणं पल्ययनं येषु तैः पर्याणितैघृतपल्ययनैश्च, नीयमानैः प्राप्यमाणैः, आनीयमानैरानयनं क्रियमाणैश्च, विलभ्यमानैर्विलम्भनं क्रियमाणैः, आच्छिंद्यमानैश्च, आगच्छद्भिरागमनं कुर्वद्भिः, आगतैः समायातैश्च, पूज्यमानैरभ्यर्च्यमानैः पूजितैरर्चितैश्च, पङ्क्तिस्थितैश्च पङ्क्त्या श्रेण्या स्थितैः, वाह्यमानैर्भारोदहनं कार्यमाणैर्वहद्भिश्च, तिष्ठद्भिरवस्थानं कुर्वद्भिः, प्रतिपालयद्भिः प्रतिपालना कुर्वद्भिश्च, पर्याप्तं परिपूर्णं राजद्वाराङ्गणं नृपातोल्या अजिरं यैः । 'गृहावग्रहणी देहल्यङ्गणं चत्वराजिरे' इत्यमरः । अप्रभूतमसमर्थं चत्वरं बहुमार्गं येषां तैः । निस्तुषितानि निःशेष भृतानि सकलरथ्यान्तराणि समग्रवीथीविवराणि यैस्तेषां भावस्तत्ता तयान्तर्मध्ये बहिश्च संकटायमानः संकीर्णायमानो नगर्या अवन्त्या विस्तारो यैरेवंविधैस्तुरङ्गमसहसैस्तत्क्षणं तत्कालं कुन्तवनमयमिव भल्लकान निर्मितमिवान्तरिक्षमाकाशम् । खुराः शफास्तेषां रवः शब्दस्तन्मयीव मेदिनी पृथ्वी, हेषा हेषाः तासां रवस्तन्मयानीव क्षोत्रविवराणि कर्णच्छिद्राणि । 'हेषा हेषा तुरङ्गाणाम् इति हैमः । फेनपिण्डः कफपुञ्जस्तस्य स्तबकैगुच्छैनिर्मितमिव युवराजभवनद्वाराङ्गणम् । खलीनानां कविकानां रवाः शब्दास्तन्मय्य इव दशदिशो दशककुंभः । अथालंकारस्य तुरंगमालंकृते रत्नानि मणयस्तेषां प्रभास्त्विषस्तासां प्राचुर्यात्तन्मया इव शशाङ्करश्मयश्चन्द्रकिरणा अभवन् । अचिरात्स्तोककालं यावत् गृहीत आत्तः समायोगः संबन्धो येनैतादृशं यदङ्गणमजिरं तस्मात्तमिन्द्रायुधं पूर्वव्यावर्णितस्वरूपमारुह्यारोहणं कृत्वा पुरस्तादग्रतश्चलितेन प्रस्थितेनालोकहेतोः प्रकाशनिमित्तम् ।
टिप्प० - 1 निर्वार्यमाण इति पाठः । निःशेषेण वार्यमाण इति तदर्थः । 2 उत्थानं कार्यमाणैः इत्युचितम् । 3 विलोभ्यमानैरिति पाठे, केनापि विलोभनद्रव्येण लोभमुत्पाद्य आनीयमानैरित्यर्थः । 4 अन्यहस्तात् आकृष्य नीयमानैरित्यर्थः । 5 घोटकोपरि भल्लानामुल्लसितत्वात्कुन्तवनप्रचुरमिवेत्यर्थः । 6 प्राचुर्ये मयट् । 7 प्रकाशस्य कारणात् चन्द्रमण्डलसदृशेन, छत्रस्य प्रकाशशालित्वात् ।
पाठा० - १ भवनकलहंसानाम्. २ इव श्रोत्र. ३ चलचपल. ४ क्वणत्कलकलेन; गुणत्कलकलेन. ५ विलस्यमानैः. ६ अपङ्क्तिस्थितैश्च. ७ अप्रतिपातयद्भिश्च; निष्पतद्भिश्च. ८ अपर्याप्त. ९ निस्तुच्छित. १० अङ्गणगतम्.
542
कादम्बरी।
कथायाम्
Page #70
--------------------------------------------------------------------------
________________
नालोकहेतोर्द्वितीयचन्द्रमण्डलेनेव हंसधाम्ना मगलातपत्रेणावेद्यमाननिर्गमो यथादर्शनमितस्ततः तुरङ्गमगतैरेव प्रणम्यमानो राजपुत्रसहसैः, प्रसुप्तपुरजनतयाऽसंबाधेनापि राजवर्त्मना बहुत्वात्तुरङ्गमबलस्य कृच्छ्रलब्धसंचारः कथंकथमपि निर्जगाम नगर्याः । निर्गतस्य चादूरत एव निर्भरत्वाज्ज्योत्स्नापूरस्याच्छंतया च दुर्विभाव्यपानीयामुपैरि कलकूजितानुमीयमानोत्त्रस्तहंससार्थोर्त्यैतनव्यतिकराङ्गुलिनानीयमानामिव सर्वतो जडेतरतरङ्गानिलस्पर्शमात्रोपलक्ष्यसलिलसंनिधिमुत्तीर्य शिप्रम्, अतिप्रहतत्वादसंकटत्वाच्च वर्धयतेव गमनोत्साहमतिविस्तीर्णेनापि पुरोविस्तारितेनेव चन्द्रपादैर्दशपुरगामिना मार्गेण प्रावर्तत गन्तुम् ।
अथोह्यमानैरिव रयवाहिना सकलदिङ्मुखप्रसृतेन ज्योत्स्नाजलस्रोतसा वैशम्पायनालोकनत्वरितस्य चन्द्रापीडर्मनस इव तुल्यं वहतो जङ्घानिलेनेन्द्रायुधस्याकृष्यमाणैरिव वाजिभि -
अत एवोव्प्रेक्षते-द्वितियचन्द्रमण्डलेनेव द्वितीयशशाङ्कबिम्बेनेव हंसवद्धाम कान्तिर्यस्यैवंभूतेन मङ्गलातपत्रेण शुभसूचकच्छत्रेणावेद्यमानो ज्ञायमानो निर्गमो यस्यैवंविधश्चन्द्रापीडो यथा दर्शनं स्यात्तथेतस्ततस्तुरङ्गमगतैरश्वारूढैरेव राजपुत्रसहसैर्नृपसुतसहसैः प्रणम्यमानो नमस्क्रियमाणः, प् यः पुरजनस्तस्य भावस्तत्ता तयाऽसंबाधेनाप्यसंकटेनापि राजवर्त्मना राजमार्गेण तुरङ्गमबलस्याश्वसाधनस्य बहुत्वात्कथंकथमपि कृच्छ्रेण क लब्धः प्राप्तः संचारः संचरणं येनैवंभूतो नगर्या अवन्त्या निर्जगाम निर्ययौ । निर्गत्य च निर्गमनं कृत्वा चादूरत एवादविष्ठ एव ज्योत्स्नायाश्चन्द्रिकायाः पूरस्य प्रवाहस्य निर्भरत्वाद्बहुलत्वादच्छतया स्वच्छतया च दुर्विभाव्यं दुःखेन ज्ञातुं शक्यं पानीयं जलं यस्याः सा ताम्, उपर्युपरिष्टात्कलकूजितेन मनोहरध्वनितेनानुमीयमानोऽनुमानविषयीक्रियमाण उत्त्रस्तश्चकितो यो हंससार्थः सितच्छदसमुदायस्तस्योत्पतनं व्यतिकरो वृत्तान्तस्तेन । पङ्क्तिसाम्यादुत्प्रेक्षते - अङ्गुलिना करशाखया नीयमानामिव प्राप्यमाणामिव । सर्वतः सर्वत्र जडतरोऽतिशीतलो यस्तरङ्गः कल्लोलस्तस्यानिलः पवनस्तस्य स्पर्शमात्रेण संयोगमात्रेणोपलक्ष्यो ज्ञातुं शक्यः सलिलसंनिधिः पानीयसमीपं यस्याः साध शिप्रां नदीमुत्तीर्योत्तरणं कृत्वा । अतिप्रहतत्वादतिक्षुण्णत्वादसंकटत्वादसंबाधत्वाच्च, गमनस्य यात्राया उत्साहमुद्योगं वर्धयता वृद्धिं प्रापयतेव, अतिविस्तीर्णेनाप्यतिविस्तृतेनापि पुरोऽग्रे चन्द्रपादैः शशिकिरणैर्विस्तारितेनेव विस्तीर्णीकृतेन, एवंविधेन दशपुरगामिना दशपुरानुयायिना मार्गेणाध्वना गन्तुं प्रावर्तत प्रवृत्तोऽभूत् ।
अथ रयवाहिना रयसौ वेगेन वहति स तथा तेन सकलदिङ्मुखप्रसृतेन सकलदिङ्मुखानि समग्रककुबाननानि तेषु प्रसृतेन विस्तृतेन ज्योत्स्नैव जलं पानीयं तस्य स्रोतः प्रवाहस्तेनोह्यमानैरिव वहनं प्राप्यमाणैरिव वैशम्पायनस्यालोकनं निरीक्षणं तत्र त्वरितस्योत्सुकस्य चन्द्रापीडमन इवेन्द्रायुधस्य तुल्यं सदृशं वहतश्चलतोऽस्य जङ्घानिलेनाकृष्यमाणैरिवाकृष्टैरिव वाजिभिरश्चैः । योऽत्युत्कृष्टगामी भवति स मन्दचारिणमा
टिप्प० - 1 'उपरि कलकूजितानुमीयमानोत्त्रस्तहंससार्थोत्पलव्यतिकरां पुलिनायमानामिव' इति पाठः । उपरि कलकूजितेन अनुमीयमानः उत्त्रस्तः उच्चैस्त्रासं गतः (सैन्याश्चानां खुररवादिति भावः) हंससार्थः ( हंससमूहः ) यस्मिन् ईदृशः उत्पलव्यतिकरः उत्पलसंचयो यस्यां तथाभूताम्, अत एव पुलिनायमानामिव जलपरित्यक्तसैकतायितामिव स्थितां (शिप्राम्) । अयं भावः- शिप्राया उत्पलसंचये श्वेतवर्णा हंससमूहास्तथा मिश्रिता यथा कलकूजितेन तेषामनुमानं भवति (उन्मीलितालंकारः, सादृश्याद्वयोर्भेदस्थगनेपि यदि कुतोपि हेतोर्भेदस्फूर्तिः) । ज्योत्स्नापूरस्य च स्वच्छतया जलं पृथग् न विभाव्यते अत एव सा शिप्रा पुलिनायमाना दृश्यत इत्यर्थः । 2 रयः अकारान्तः, अतो रयेणेत्येव स्यात् । 3 चन्द्रापीडमनसस्तुल्यं वहता इन्द्रायुधस्य जङ्घारवेण आकृष्यमाणैरित्यन्वयः । पाटा० - १ समागतैः. २ अच्छतया. ३ अप्युपरि ४ उत्पन्नव्यतिकरपुलिनायमानामिव; उत्पलव्यतिकरां पुलिनायमानामिव. ५ जलतरङ्ग ६ अतिप्रभूतत्वात्. ७ गमनोत्साहविस्तीर्णेन. ८ पुनः. ९ मानसस्यैव; मानसोऽस्य.
चन्द्रापीडस्य यात्रासमारोहः
उत्तरभागः ।
543
Page #71
--------------------------------------------------------------------------
________________
स्तावत्येवापररात्रवेलया योजनत्रितयमेवालङ्घयत् । अथाध्वश्रमापहरणायेव प्रवृत्ते वातुमाह्लादकारिणि निर्भरज्योत्स्नाजलावगाहादा न॒स्पर्शेऽवश्यायशीकरवर्षिणि रेजोलुलितविविधवनपल्लवानिलवीजिते विनिद्रकुमुदिनीपरिमलनलग्नपरिमले परिमलाहितजडिम्नि रंजनीविरामपिशुने मातरिश्चनि, क्रमेण चापरदिग्वधूवदनचुम्बिनि तदा कल्पकाले च दुर्विषहशर्वरीविरहचिन्तयेवासन्नदिनकरोदयविषादेनेवाप्रदोषादुत्तानितमुखैः कुमुदराशिभिः पीयमानस्य धाम्नः परिक्षयेणेव सर्वाम्बरसरःपयःपायिपयोदविभ्रमावरजःसंघातोपघातेनेव पाण्डुतां गतवति चन्द्रबिम्बे, प्रत्यग्रगगनलक्ष्मीवियोगसंतापोझिाते धवलोत्तरीयांशुक इव शशाङ्कलग्ने गलति चन्द्रिकालोके, अपरजलधिपातिना ज्योत्स्नाजलप्रवाहेणेव सहसा फेनबुझुदावलिष्विव नश्य -
***********
त्येव तावत्या एवापररात्रवेलयापररात्र उच्चन्द्रस्तस्या वेलावसरस्तया योजनत्रितयमेव द्वादशक्रोशानेवालङ्घयदुल्लचितवान् । अथेति । योजनत्रितयोल्लङ्घनानन्तरमध्वश्रमो मार्गक्लमस्तस्यापहरणायेव दूरीकरणायेव मातरिश्वनि वायौ वातुमितस्ततश्चलितुं प्रवृत्ते सति । इतो वायु विशेषयन्नाह - आह्लादेति । आह्लादः प्रमोदस्तं करोतीत्येवंशीलः स तथा तस्मिन् । निर्भरं यो ज्योत्स्नाजलस्यावगाहोऽवगाहनं तेना ...ऽतिशयेनाः क्लिनः स्पर्शो यस्य स तथा तस्मिन् । 'आर्द्रः क्लिन्नेऽभिधेयवत्' इति विश्वः । अवश्यायस्तुहिनं तस्य शीकरा वातास्तकणास्तान्वर्षतीत्येवंशीलः स तथा तस्मिन् । रजोलुलिता धूलीमिश्रिता विविधा अनेकप्रकारा ये वनपल्लवा अरण्यकिसलयानि तेषामनिलो वायुस्तेन वीजिते प्रेरिते । विनिद्रा विमुद्रा या कुमुदिनी कैरविणी तस्याः परिमलनं विमर्दनं तेन लग्नः परिमलो यस्य स तथा तस्मिन् । परिमलेनाहिता स्थापिता जडिमा यस्मिन्स तस्मिन् । रजन्या विरामोऽवसानं तस्य पिशुने सूचके । क्रमेण चेति । क्रमेण परिपाट्या तदा तस्मिन्कल्पकाले प्रभाते सति च पाण्डुतां शुक्लतां चन्द्रबिम्बे शशिमण्डले गतवति प्राप्तवति सति । कथंभूते । अपरदिगेव पश्चिमदिगेव वधूः वनिता तस्या वदनं मुखं चुम्बतीत्येवंशीलः स तस्मिन् । पाण्डुतानिदानं प्रदर्शयत्राह - दुर्विषहेति । दुर्विषहा दुःखेन सोढुं शक्या या शर्वरी रात्रिस्तस्या विरहो वियोगस्तस्य चिन्तयेवार्येव, आसनः समीपवर्ती यो दिनकरोदयः सूर्योद्गमस्तस्माद्यो विषादः खेदस्तेनेव, आप्रदोषात्प्रदोषाभावादुत्तानितमुखैरू/कृताननैरेतादृशैः कुमुदराशिभिः कैरवश्रेणिभिः पीयमानस्यास्वाद्यमानस्य धाम्न आलोकस्य परिक्षयेणेव विनाशेनेव । सर्वं यदम्बरमेव सरस्तटाकं तस्य पयःपायिनो ये फ्योदा मेघास्तेषां विभ्रमो यस्मिन्नेतादृशो योऽश्वरजःसंघातस्तेन य उपघातस्तेनेव । पुनश्चन्द्र विशेषयन्नाह - प्रत्यग्रेति । प्रत्यग्रा नवीना या गगनलक्ष्मी?मश्रीस्तस्या वियोगसंतापो विरहज्चरस्तेनोज्झिते विमुक्ते । धवलोत्तरीयांशुकस्येदं विशेषणम् । शशाङ्कलग्ने चन्द्रसंबद्धे चन्द्रिकालोके चन्द्रकलिकाप्रकाशे गलति क्षरति सति । अङ्गलग्नशुक्लत्वसाम्यादुत्प्रेक्षते - धवल शुक्ल यदुत्तरीयांशुकमुपरिवस्त्रं तदिवेत्युप्रेक्षा । अपरेति । अपरजलधिपातिना पश्चिमसमुद्रावगाहिना ज्योत्स्नाजलप्रवाहेणेव सहसा तारकापङ्क्तिषु नक्षत्रश्रेणिषु नश्यन्तीषु विलयं गच्छन्तीषु सत्सु । वर्तुलत्ववेतत्वसादृश्यादुत्प्रेक्षते - फेनबुद्धदावलिष्विव कफयुक्तस्थासकश्रेणिष्विव ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०.1 'तदाकल्पकेनेव' इति पाठः । तस्याः (अपरदिग्वध्वाः) आकल्प एव आकल्पकः विषरचना, प्रसाधनम्) तेनेव, चन्द्रेण अपरदिग्वध्वा वदनचुम्बन कृतम् अत एव तत्रस्थचन्दनाद्यङ्गरागेणेवेत्याशयः । काले इति पाठे तु 'कल्यकाले प्रत्यूषकाले इति स्यात् । 'प्रत्यूषोहर्मुखं कल्यः' इत्यमरः । 2 आप्रदोषात् प्रदोषमभिव्याप्य । 3 चन्द्रस्य पाण्डुतागमने तदाकल्पकेनेव इत्यादीनि पञ्च कारणान्युपेक्षितानि । संतप्ते अङ्गे वस्त्रधारणमशक्यम्, अत एवोज्झिते अंशुके इव चन्द्रालोके (प्रकाशे) गलति निपतति सति ।
पाठा० -१ इव. २ रयलुलिताः. ३ परिमिलन. ४ लग्नपरिमलाहित. ५ रजनि. ६ तदाकल्पकेनेव. ७ कुमुदशशिभिः. ८ आपीयमानस्य. ९ संघातेनेव. १० उपगतवति. ११ न स्पृशन्तीषु.
(544
कादम्बरी ।
यययययययययययय कथायाम
Page #72
--------------------------------------------------------------------------
________________
न्तीषु तारकापङ्क्तिषु, गलदवश्यायक्षालनादिव शनैःशनैर्दलितमुक्तागौरज्योत्स्नानुभावमुत्सृजन्तीष्वाशासु, पुनर्विभाव्यमानसहजश्यामकान्तिषु सलिलादिवोन्मज्जत्सु तरुलताविटपेषु, समुल्लसति पूर्वदिग्वधूकर्णपूररक्ताशोकपल्लवेऽम्बरसरस्तामरसे दिवसमुखकरिकुम्भसिन्दूररेणौतरणिरथरक्तध्वजांशुके संध्यारागे, संध्यातपरचितान्तेष्वालग्नदावानलेष्विव वयःसंघातै नितांशिवमुत्सृज्यमानेषु निवासपादपेषु, सशेषनिद्रालसैश्चिरप्रसारणाविशदजङ्घाङ्ग्रिभिर्हठाकृष्टदीर्घपदसंश्राचारिभिगकदम्बकैरुन्मुच्यमानासूषरशय्यासु, इच्छावखण्डितोत्खातपल्वलोपान्तरूंढमुस्ताग्रन्थिष्वरण्यगह्वराभिमुखेषु वराहयूथेषु, निशावसानप्रचारनिर्गतैर्गोधनैरितस्ततो धवलायमानासु ग्रामसीमान्तारण्यस्थलीषु, आलोक्यमानजनपदविनिर्गमेषु प्रसूयमानेष्विव ग्रामेषु, यथार्ककिरणावलोकोद्गमं चोनाम्यमान इव पूर्वदिग्भागे, समुत्सार्यमाणास्विवाशासु,
***********
गलदिति । गलन्क्षरन्योऽवश्यायो हिमं तेन क्षालनादिव धावनादिव शनैर्मन्दं मन्दं दलितमुक्तावद्गौरा या, ज्योत्स्ना चन्द्रकलिका तस्या अनुभावी माहात्म्यं तमुत्सृजन्तीषु त्यजन्तीष्वाशासु दिक्षु । 'ज्योत्स्नावितानम्' इति पाठो दृश्यते । तत्र ज्योत्स्नालक्षणं वितानमुल्लोच इत्यर्थो ज्ञेयः । पुनरिति । पुनर्विभाव्यमाना पुनर्जायमाना सहजा स्वभावजा श्यामा कान्तिर्येषामेवंभूतेषु तरुलताविटपेषून्मज्जत्सूपर्यागच्छत्सु । अत उत्प्रेक्षते - सलिलादिव जलादिव । पुनः कस्मिन्सति । संध्यारागे समुल्लसत्युल्लासं प्राप्ते सति । संध्यारागं विशेषयन्नाह - पूर्वेति । पूर्वदिक्शक्रदिक्सैव वधूः स्त्रीस्तस्याः कर्णपूराय रक्ताशोकपल्लवेऽरुणककेल्लिकिसलये, अम्बर एव सरस्तटाकस्तस्मिंस्तामरसे महोत्पले, दिवसमुखमेव करिकुम्भस्तत्र सिन्दूररेणौ नागजक्षोदे । तरणेः सूर्यस्य रथः स्यन्दनस्तस्य रक्तध्वजांशुकेऽरुणवैजयन्तीवस्त्रे । वयःसंघातैः पक्षिसमूहैर्जनिताशिवमुत्पन्नाशुभं यथा स्यात्तथा निवासपादपेष्ववस्थानवृक्षेषत्सृज्यमानेषु त्यज्यमानेषु सत्सु । कीदृशेषु । संध्यातपेन रचिता व्याप्ता अन्ता येषां तेषु । अत एव रक्तपीतत्वसाम्यादुत्प्रेक्षते - आलग्नदावानलेष्विवासंबद्धवनवह्निष्विव । सह शेषेण वर्तते या सा सशेषा सावशेषा एवंविधा निद्रा प्रमीला तया अलसैर्मन्दैश्चिरप्रसारणेनाविशदा अस्फुटा जवाझयो येषां तैः । हठेनाकृष्टो यो दीर्घपदस्तेन संचारिभिः संचरणशीलैरेवंविधैर्मृगकदम्बकैर्हरिणसमूहैरूषरशय्यासु कठिनशयनीयासून्मुच्यमानासु त्यज्यमानासु सत्सु । इच्छेति । इच्छया स्वातन्त्र्येणावखण्डिता द्वैधीकृता उत्खाता मूलत उत्पाटिताः पल्वलोत्खातं सरस्तस्योपान्ते समीपे रूढानां मुस्तानां ग्रन्थयो यैरेवंविधेषु वराहयूथेषु क्रोडसंघातेष्वरण्यगह्वराभिमुखेष्वटवीगह्वरसंमुखेषु सत्सु । निशाया अवसानं प्रान्तस्तस्मिन्प्रचारार्थं गोचरार्थं निर्गतरितस्ततो गोधनैर्गोयूथैर्धवलायमानासु श्वेतायमानासु ग्रामसीमोपशल्यं तस्यान्ते या अरण्यस्थल्यस्तासु सत्सु । 'ग्रामान्त उपशल्यं स्यात्सीमसीमे स्त्रियामुभे' इत्यमरः । आलोक्येति । आलोक्यमानो निरीक्ष्यमाणो जनानां पदविनिर्गमो येष्वेवंविधेषु ग्रामेषु सत्सु । पदविनिर्गमसाम्यादुप्रेक्षतेप्रसूयमानेष्विव प्रसूतिं कुर्वाणेष्विव । प्रसूतावपि प्रथमं पदविनिर्गम एव भवतीति भावः । अर्ककिरणानां सूर्यरश्मीनामवलोकः प्रकाशस्तस्योद्गममनतिक्रम्य करोतीति यथार्ककिरणावलोकोद्गममित्यव्ययीभावः । तेन चोनाम्यमान उच्चैः क्रियमाणे पूर्वदिग्भागे शक्रदिक्प्रदेशे सति । आशासु दिशासु समुत्सार्यमाणासु दूरीक्रि -
- - - - - - - - - - - टिप्प० -1 'जनितारवम्' इति पाठः । पक्षिणः कोलाहलं कृत्वा उड्डीयन्ते । 2 'सन्ध्यातपपरिगतेषु इत्येव सत्पाठः । 3 कः प्रलाप इति न ज्ञायते । अवलोकस्य स्थाने आलोकेति पाठः । अर्ककिरणानामालोकोद्गमम् अनतिक्रम्य (सूर्यप्रकाशेन सहेति भावः) पूर्वदिग्भागे उन्नाम्यमाने इव । अर्कप्रकाशो यथा यथा भवति तथा तथा प्रतीयते यत् केनचित् पूर्वदिग्भागः उत्क्षिप्य ध्रियमाण इवास्तीति ।
-
-
-
-
-
-
•
-
-
-
-
-
-
पाठा० -१ अवश्यायसलिल. २ गलित; शीलित. ३ गौरम. ४ ज्योत्स्नानुभवम्. ५ परिगतेषु. ६ आरावम्. ७ हटादाकृष्ट; दूराकृष्ट. ८ प्ररूढ.
(मार्गे प्रातःकालः
उत्तरभागः।
545
Page #73
--------------------------------------------------------------------------
________________
अपसर्पत्स्विवारण्येषु, विस्तार्यमाणास्विव ग्रामसीमासु, उत्तानीभवत्स्विव सलिलाशयेषु, अवच्छिद्यमानेष्विव शिखरिषु, उद्भियमाणायामिव मेदिन्याम्, अदृश्यतामिव यान्तीषु कुमुदिनीषु, तिरोधानकारिणीं नीलतिरस्करिणीमिव करैरुत्सार्य तिमिरमालां विरहविधुरां कमलिनीमिवालोकयितुमुदयगिरिशिखरमारूढे भगवति सप्तलोकैकचक्षुषि सप्तवाहे, विहायस्तलमुद्रास्य दिगन्तराण्युद्धासयन्तीषु सकलजगद्दीपिकासु दिवसकरदीधितिषु, दृष्टिप्रसरक्षमायां वेलायां सहसैवाग्रतोऽर्धगव्यूतिमात्र इव रात्रिप्रयाणकायातम् अन्तःक्षोभभीतेन रसातलेनेवोद्गीर्यमाणम्, असोढसंघातभरया मेदिन्येव विक्षिप्यमाणम्, अपर्याप्तप्रमाणाभिर्दिग्भिरिव संह्रियमाणम्, अपरिमाणरजोनिरोधाशङ्कितेन गीर्वाणवर्त्मनेवावकीर्यमाणम्, अर्कावलोकेनेव सह विस्तीर्यमाणम्, आयासितायततरदृष्टिभिरप्यदृष्टपर्यन्तम्, अनुजीविभूभृच्छतसहस्त्रकल्पिता -
***********
यमाणास्विव । तज्ज्ञापकनक्षत्राणां तिरोधानादिति भावः । ग्रामसीमासूपशल्येषु विस्तार्यमाणासु । अरण्येषु वनेष्वपसर्पत्स्विवापसरणीक्रियमाणेष्विव । सलिलाशयेषु जलाश्रयेषुत्तानीभवत्स्विवोझैभवत्स्विव । शिखरिष्वद्रिष्ववच्छिद्यमानेष्विव खण्डशः क्रियमाणेष्विव । मेदिन्यां वसुधायामुध्रियमाणायामिवोत्पाद्यमानायामिव । कुमुदिनीषु कैरविणीष्वदृश्यतामचाक्षुषतां यान्तीष्विव गच्छन्तीष्विव । करैः किरणैस्तिमिरमालामन्धकारश्रेणीमुत्सार्य दूरीकृत्य । कृष्णसाादुटप्रेक्षते - तिरोधानकारिणीमन्तर्धाजनिकां नीलतिरस्करिणीमिव नीलजवनिकामिव । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । विरहविधुरां वियोगविह्वलां कमलिनी पद्मिनीमालोकयितुं विलोकयितुमिवोदयगिरेः पूर्वादः शिखरं सानुमारूढे प्राप्ते भगवति माहात्म्यवति सप्तलोकस्यैकचक्षुरिव चक्षुस्तस्मिन्सप्तवाहास्तुरंगा यस्य स तस्मिन् । सहसकिरण इत्यर्थः । विहायस्तलं व्योम्नस्तलमुद्धास्य प्रकाश्य दिगन्तराणि दिशां विचालान्युद्धासयन्तीषु प्रकाशयन्तीषु सकलजगतां सकलविश्वानां दीपिकासु प्रकाशिकासु दिवसकरस्य सूर्यस्य दीधितिषु कान्तिषु सत्सु । दृष्टिप्रसरे क्षमायां समर्थायां वेलायामवसरे सहसैवैकपद एव । अग्रेति । अग्रतः पुरोऽर्धगव्यूतिमात्रेऽर्धकोशमात्र इव स्कन्धावारं सैन्यमद्राक्षीद्व्यलोकयत् । 'वरूथिनी चमूचक्र स्कन्धावारोऽस्य तु स्थितिः' इति हैमः । इतः स्कन्धावारं विशेषयन्नाह - रात्रीति । रात्रिप्रयाणकेन निशागमनेन आयातमागतम् । अन्तर्मध्ये यः क्षोभस्वासस्तेन भीतं चकितमेवंविधेन रसातलेन वडवामुखेनोद्गीर्यमाणमिवोद्गम्यमानमिव । असोढोऽक्षमितः संघातस्य समुदायस्य भरो ययैवंविधया मेदिन्या वसुधया विक्षिप्यमाणमिवेतस्ततः क्रियमाणमिव । यदि वासोढसंघातभरया मेदिन्येव संक्षिप्यमाणं समासीक्रियमाणम् । अपर्याप्तप्रमाणाभिप्राप्तेयत्ताभिर्दिग्भिः ककुब्भिः संहियमाणमिव संगृह्यमाणमिव । अपरिमाणमसंख्यं यद्रजस्तेन निरोधोऽवकाशरोधस्तेनाशङ्कितेनारेकितेन गीर्वाणवर्त्मनेवाकाशेनेवावकीर्यमाणं विक्षिप्यमाणम् । अर्कावलोकेनेव सूर्यावलोकेनेव सह विस्तीर्यमाणं विस्तारं प्राप्यमाणम् । आयासिता आयासं प्रापिता आयततरा दीर्घतरा या दृष्टयस्ताभिरप्यदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत्तथा । अनुजीविनां सपर्याकारिणां -
- - - - - - टिप्प० - 1 इयत्तया गृह्यमाणेष्विव । 2 रसातलेन स्कन्धावारः पूर्वं स्वान्तभृतः, परम् बलानामन्तः क्षोभेन भीतत्वात्स स्कन्धावारस्तेन उद्गीर्णः (उद्वान्तः) इत्याशयः ।
--
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ चावसर्पत्सु; अपसार्यमाणेषु. २ उपयान्तीषु. ३ सप्तलोकचक्षुषि. ४ पर्याप्त. ५ संभ्रियमाणम्. ६ अर्क किरणावलोकेन; अर्ककिरणालोकेन. ७ विस्तीर्णम्. ८ अतिजीव; अनिर्जीव. ९ कलित.
546
कादम्बरी।
कथायाम्
Page #74
--------------------------------------------------------------------------
________________
वष्टम्भं संचारिणं द्वितीयमिव मेदिनीसंनिवेशम्, अजलवाहिनीप्रवेशगम्भीरं प्राणिमयमपरपारमष्टममिव महासमुद्रम्, उद्रिक्तरजःसंतेतिदूरतया चापरिस्फुटविभाव्यसर्ववृत्तान्तमपीतस्ततो वलितधवलकदलिकोद्भासितानेककरिघटासहससंकुलम् अविरलबलाकावलीविभाजिताम्भोदसंघातं मूर्तिमन्तमिव मेघसमयारम्भम्, आवासभूमिग्रहणसंभ्रमाभिप्रधावितासंख्यकरितुरगनरपरम्परोर्मिसंबाधतया मन्दमन्दरास्फालनलुलितकल्लोलजालाकुलस्य महाजलधेर्लीलया निविशमानं स्कन्धावारमद्राक्षीत् ।
दृष्ट्वा चाकरोच्चेतसि - 'अहो भद्रकं भवति, यद्यचिन्तितागमन एव प्रविश्य वैशम्पायनं पश्यामि' इति । एवं चिन्तयित्वा छत्रचामरादिभिः स्वचिद्वैः सह निवारिताशेषराजपुत्रलोको जवविशेषग्राहिभिस्त्रिचतुरैस्तुरङ्गमैरनुगम्यमानो मूर्धानमावृत्योत्तरीयेण, रयविशेषग्राहिणेन्द्रायुधेन नानाव्यापारव्यग्रसकललोकमचिन्तित एव स्कन्धावारमाससाद । प्रविशंश्च -
***********
भूभृतां राज्ञां पर्वतानां च यच्छतसहसं लक्षं तेन कल्पितोऽवष्टम्भ आश्रयो यस्य तत्तथा । संचारिणं संचरणशीलं द्वितीयमपरं मेदिन्या वसुधायाः संनिवेशमिव रचनाविशेषमिव । न विद्यते जलं यस्यामेवंविधा वाहिनी सेना तस्याः प्रवेशेनागमनेन गम्भीरं गभीरं प्राणिमयं प्राणिभिर्निष्पन्नम् । न विद्यते परः पारो यस्य तत्तथा । अत एवोत्प्रेक्षते - अष्टमं महासमुद्रमिव महाजलधिमिव । उद्रेकाद्रजःसंततेर्दूरस्य भावो दूरता तया चापरिस्फुटोऽप्रकटो विभाव्यो ज्ञेयः सर्ववृत्तान्तोऽखिलोदन्तो यस्मिंस्तत्तथा । एवंविधमपीतस्ततो वलिता वायुना पश्चादलिता या धवलकदलिकाः श्वेतवैजयन्त्यः । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । ताभिरुद्भासिताः शोभिता एतादृशा अनेके ये करिणो हस्तिनस्तेषां घटाः समुदायास्तासां सहसं तेन संकुलं संकीर्णम् । श्वेतकदलिकासाम्यादुप्रेक्षते - अविरला निबिडा या बलाकावली बिसकण्ठिकाश्रेणिस्तया विभाजितः शोभितोऽम्भोदसंघातो जलदसमूहो यस्मिन्नेवंभूतं मूर्तिमन्तं मेघसमयारम्भमिव जलदकालप्रारम्भमिव । आवासार्थं यद्भूमिग्रहणं तत्र संभ्रमेणाभिप्रधावितास्त्वरितगत्या चलिता असंख्याः संख्यातुमयोग्या ये करितुरगनरा हस्त्यश्वमनुष्यास्तेषां परस्परं मिथ ऊर्मिवत्कल्लोलकवत्संबाध आघातो यस्मिंस्तस्य भावस्तत्ता तया मन्दं शनैर्यन्मन्दरस्य मेरोरास्फालनमासमन्ताद् भ्रमणं तेन लुलितमेकीभूतं कल्लोलजालं तरंगपटलं तेनाकुलस्य व्याकुलीभूतस्य महाजलधेर्महासमुद्रस्य लीलया क्रीडया निविशमानं स्थाप्यमानं सैन्यमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः ।
दृष्वा च विलोक्य च चेतसि चित्तेऽकरोत् । अहो इत्याश्चर्ये । भद्रक क्षेमं भवति जायते, यद्यचिन्तितमतर्कितमागमनं यस्यैवंभूतोऽहं प्रविश्य प्रवेशं कृत्वा वैशम्पायनं पश्याम्यवलोकयामि । एवममुना प्रकारेण चिन्तयित्वा मनसि कृत्वा छत्रचामरादिभिरातपवारणवालव्यजनप्रमुखैः स्वचिद्वै राजलक्ष्मभिः सह सार्धं निवारितः प्रतिषिद्धोऽशेषराजपुत्रलोको येनैवभूतो जवविशेषग्राहिभिर्गतिविशेषगामिभिस्त्रयश्च चत्वारश्च त्रिचतुरास्तैस्तुरङ्गमैरश्चैरनुगम्यमानोऽनुयायमान उत्तरीयेणोपरिवस्त्रेण मूर्धानमुत्तमाङ्गमावृत्याच्छाद्य रयविशेषग्राहिणा जवविशेषगामिनेन्द्रायुधेनाधेन नानाव्यापारेण व्यवहारेण व्यग्रो व्याकुलः सकललोको यस्मिनेवंभूतं स्कन्धावारं सैन्यनिवेशमचिन्तित एवाससाद प्राप्तवान् । प्रविशंश्च प्रवेशं कुर्वंच प्रत्यावासक प्रत्यावासं वहन्नेव व्रजन्नेव कस्मि -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'उद्रिक्तरजःसंततिपूरतया' इत्येव पाठः । उदिक्तः (अतिशयितः) रजःसंततीनां (धूलिनिवहानाम्) पूरः प्रवाहो यस्मिन् तत्तया, इति तदर्थः । 2 मन्दरास्फालनेऽपि 'मन्दम्' इति कथनं मन्दतैव । 'अमन्दम् (अतिमात्रम्) इत्युचितम् ।
पाठा० - १ जल. २ अपरम्; अपरमपारम्. ३ संततेः पूरतया; संततिपूरतया. ४ बलबलाक. ५ अभिधावित. ६ अमन्द.
(स्कन्धावारदर्शनम् ।
उत्तरभागः।
547
Page #75
--------------------------------------------------------------------------
________________
प्रत्यावासकं वहन्नेव ‘कस्मिन्प्रदेशे वैशम्पायनावासः' इति पप्रच्छ । ततस्तत्संनिहिताभिः स्त्रीभिरितरत्वादप्रत्यभिज्ञाय यथारब्धकर्मव्यग्राभिरेवोद्वाष्पशून्यवदनाभिः 'भद्र, किं पृच्छसि । कुतोऽत्र वैशम्पायनः' इत्यावेद्यमाने 'आः पापाः, किमेवमसंबद्धं प्रेलपथ' इति शून्यहृदय एव ताः प्रतारयन्, अन्तर्भिन्नहृदयत्वान्नापराः पृच्छन्नेवोत्त्रैस्त इव हरिणावकः, यूथपरिभ्रंशविलोल इव करिर्केलभः धेनुविरहादुत्कर्ण इव तर्णकः, ने किंचिद्वदन्, नै किंचिदाकर्णयन्, न किंचिन्निरूपयन्, न क्वचित्तिष्ठन्, न कंचिदाह्वयन्, क्वागतोऽस्मि, किमर्थमागतोऽस्मि, क्व चलितोऽस्मि, क्व गच्छामि, किं पश्यामि, किमारब्धं मया, किं वा करोमि, इति सर्वमेवचेतयमानोऽन्ध इव, बधिर इव, मूक इव, जड इव, आविष्ट इव, कटकमध्यदेशं यावत्तादृशेनैव वेगेनावहत् ।
अथेन्द्रायुधप्रत्यभिज्ञानाद्वार्तयैवानुप्रधावितराजपुत्रदर्शनाच्च देवश्चन्द्रापीड इति समन्तात्ससंभ्रमप्रधावितानामचेतितोत्तरीयस्खलनानामुद्वाष्पशून्यदृष्टीनां दूरादेव लज्जया प्रणामक्रियया च सममेवावनमतां राजन्यसहस्राणां मुखान्यवलोक्य ‘क्व वैशम्पायनः' इत्यपृच्छत् ।
न्प्रदेशे वैशम्पायनावास इति पप्रच्छेति पृष्टवान् । ततस्तदनन्तरं यथारब्धं यत्कर्म क्रिया तेन व्यग्राभिरेवोद्वाष्पेण शून्यं वदनं यासां ताभिस्तस्य वैशम्पायनावासस्य संनिहिताभिः समीपवर्तिनीभिः स्त्रीभिरितरत्वाद्भिन्नत्वादप्रत्यभिज्ञायानुपलक्ष्य हे भद्र शुभवन्, किं पृच्छसि किं प्रश्नं करोषि । अत्र वैशम्पायनः कुतः । इत्यावेद्यमान इति ज्ञाप्यमाने आः पापाः पापिष्ठाः, किमसंबद्धमसमञ्जसं प्रलपथेति शून्यहृदय एव विमनस्कचित्त एव ताः स्त्रियः प्रतारयन्वञ्चयन्नन्तर्मध्ये भिन्नं हृदयं यस्य तस्य भावस्तत्त्वं तस्मादपरा अन्या न पृच्छन्न पृच्छां कुर्वन्नेवोत्त्रस्तश्चकित हरिणशावक इव मृगबाल इव । यूथात्स्वजातिसमुदायाद्यः परिभ्रंशो भिन्नीभावस्तेन विलोलश्चञ्चलः करिकलभ इव हस्तिनस्त्रिंशदब्दकरिपोत इव । ‘कलभस्त्रिंशदब्दकः' इति हैमः । धेनुविरहात्सुरभिवियोगादुत्कर्ण उच्चश्रवणस्तर्णक इव वत्सक इव । न किंचिद्वदन्नब्रुवन्, न किंचिदाकर्णयञ्शृण्वन्, न किंचिन्निरूपयन् न कथयन्, न क्वचित्तिष्ठन्गतिनिवृत्तिं कुर्वन्, न कंचिदाह्वयन्नाह्वानं कुर्वन्, क्वागतोऽस्म्यायातोऽस्मि, किमर्थं किंप्रयोजनमागतोऽस्मि, क्व कुत्र चलितोऽस्मि, क्व गच्छामि व्रजामि, किं पश्यामि किमवलोकयामि, किं मयारब्धं ! प्रारब्धम्, किं वा करोमि सृजामीति पूर्वोक्तं सर्वमेवाचेतयमानोऽज्ञायमानः, अन्ध इव गताक्ष इव, बधिर इवाकर्ण इव, मूक इवावागिव, जड इव चेतनारहित इव, आविष्ट इव भूतग्रस्त इव, कटकमध्यदेशं यावत्, तादृशेनैव वेगेन जवेनावहद्बभ्राम ।
अथेति । सैन्यान्तःप्रवेशानन्तरमिन्द्रायुधस्य प्रत्यभिज्ञानाच्चिह्नाद्वार्तयैव किंवदन्त्यैवानुप्रधाविताः पृष्ठे त्वरितगत्या चलिता एवंविधा राजपुत्रा नृपसूनवस्तेषां दर्शनाच्चावलोकनाच्च देवश्चन्द्रापीड इति कृत्वा समन्ताद्युगपत्ससंभ्रमेणादरेण प्रधावितानां त्वरितगत्या चलितानाम्, अचेतितमज्ञातमुत्तरीयस्खलनमुपरिवस्त्रपतनं यैस्तेषाम्, उद्वाष्पेण रोदनेन शून्या रिक्ता दृष्टयो येषाम्, तैर्दूरादेव दविष्ठादेव लज्जया त्रपया प्रणामक्रियया नमस्क्रियया च सममेव युगपदेवावनमतां प्रमाणं कुर्वतां राजन्यसहस्राणां क्षत्रियसहस्राणां मुखान्याननान्य
टिप्प० - 1 उद्बाष्पम् (उद्गताश्रु) अत एव हर्षशून्यं वदनं यासां ताभिरित्यर्थ उचितः । 2 तिरस्कुर्वन्, अपसारयन् ।
पाटा० - १ तत्संनिहित. २ प्रलपयन्ति; प्रलपत ३ एवमेव. ४ कलभकः. ५ न किंचित्पश्यन्न. ६ न किंचिदालपत्र. ७ का दिग्गन्तव्या मया किम् ८ अचिन्तय. ९ राजपुत्रलोकदर्शनात्.
548
कादम्बरी |
कथायाम्
Page #76
--------------------------------------------------------------------------
________________
ततश्च ते सर्वे सममेव ‘अस्मिंस्तरुतलेऽवतरतु तावद्देवः । ततो यथावस्थितं विज्ञपयामः' इति न्यवेदयन् ।
चन्द्रापीडस्य तेन तेषां स्फुटाख्यानादपि कष्टतरेण वचसान्तःशल्यगर्भं स्फुटितमिव हृदयमासीत् । केवलं तत्कालप्रणयिनी मूर्च्छा सा धारणमकरोत् । तुरगादवतारितं च कुथोपविष्टं च पितुः समवयोभिरनतिक्रमणीयैर्मूर्धाभिषिक्तपार्थिवैर्धृतमात्मानं न वेदिर्तवान् । उपलब्धसंज्ञोऽपि च वैशम्पायनस्यार्देर्शनात् - 'किमेतत् । क्वाहं वर्ते । किं वा मयैतच्चरितम्' इति भ्रमारूढ इव मुह्यद्भिरिवेन्द्रियैः सर्वमेवनुत्प्रेक्षमाणः केवलं स्कन्धावारागमनेनैव तस्याभावादन्यदसंभावयन्, दुर्विषहपीडाभिँहतेनेव चेतसा 'किमारटामि, किं हृदयमवष्टभ्य तूष्णीमासे, किमात्मानमार्हत्य हृदयाव्यार्वियोजयामि, किमेकाकी कांचिद्दिशं गृहीत्वा प्रव्रजामि' इति कर्तव्यमेव नाध्यगच्छत् । अन्तर्द्रवन्निव दह्यमान इव स्फुटन्निव सहस्रधा दुःखेन चकार चेतसि - 'अहो मे रम्योऽप्यरमणीयः संवृत्तो जीवलोकः । वसन्त्यपि -
वलोक्य निरीक्ष्य क्व वैशम्पायन इत्यपृच्छदिति प्रश्नमकार्षीत् । ततः पृच्छानन्तरं ते च सर्वे जनाः सममेव युगपदेव विचार्य विमर्थ्यास्मिंस्तरुतले वृक्षाधोऽवतरतूत्तरतु तावद्देवो भवान् । तत उत्तरणानन्तरं यथावस्थितं यथाभूतं विज्ञपयामो निवेदयाम इति न्यवेदयन्कथयामासुः ।
चन्द्रापीडस्य तेषां जनानां स्फुटं प्रकटमाख्यानं कथनं तस्मादपि तेन कष्टतरेणातिकृच्छ्रेण वचसा वाक्येनान्तः शल्यं गर्भे यस्यैतादृशं हृदयं स्फुटितमिव विघटितमिवासीदभवत् । तत्काले तदात्वे प्रणयः स्नेहो विद्यते यस्या एवंविधा सा मूर्च्छा केवलं धारणमकरोत् । तुरगादश्चादवतारितमुत्तारितं च कुथोपविष्टं परिस्तोमोपविष्टम् । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । पितुः समं सदृशं वयोवस्था येषां तैरनतिक्रमणीयैरनुल्लङ्घनीयैर्मूर्धाभिषिक्तपार्थिवैः कृतराज्याभिषेकनृपैर्धृतमात्मानं स्वं न वेदितवान्न ज्ञातवान् । उपलब्धा प्राप्त ज्ञा चेतना येनैवंभूतोऽपि वैशम्पायनस्यादर्शनादनवलोकनात् ( आत्मतत्त्वं स्वस्वरूपं तस्य दर्शनान्निरीक्षणात् ) किमेतत्, क्वाहं वर्ते, कुत्र स्थलेऽहमस्मि, किं वा मयैतच्चरितमेतच्चेष्टितमिति भ्रमारूढ इव संशयापन्न इव मुह्यद्भिरिव मोहं प्राप्नुवद्भिरिवेन्द्रियैः करणैः सर्वमेव समग्रमेवानुत्प्रेक्षमाणोऽनालोकमानः केवलं स्कैन्धावारागमनेनैव केवलं सैन्यस्यैवागमनेन तस्य वैशम्पायनस्याभावादन्यत्तद्भिन्नमसंभावयन्नसंभावनाविषयीकुर्वन्दुर्विषहा दुःसहा या पीडा तयाभिहतेनेव ताडितेनेव चेतसा मनसा किमारटामि पूत्करोमि, किं हृदयं चेतोऽवष्टभ्यावष्टम्भनं कृत्वा तूष्णीमासे मौनेन तिष्ठामि, किमात्मानं स्वमाहत्याहननं कृत्वा हृदयाव्प्राणैरसुभिर्वियोजयामि विभिन्नो भवामि । किमहमेकाक्यसहायः कांचिद्दिशं ककुभं गृहीत्वा समादाय प्रव्रजामि गच्छामीति कर्तव्यमेव कृत्यमेव नाध्यगच्छन्न प्राप्तवान् । अन्तर्मध्ये द्रवन्निव द्रवीभवन्निव, दह्यमान इव प्रज्वाल्यमान इव, सहसधा सहसप्रकारेण दुःखेन स्फुटन्निव द्विधाभवन्निव, चेतसि चित्ते चकार कृतवान् । अहो इत्याश्चर्ये । रम्योऽपि रुचिरोऽपि जीवलोको जीवाधारक्षेत्रमरमणीयोऽ
-
टिप्पo - 1 उपरितो भ्रमेण पतितः स्यात् । 2 'केवलस्कन्धावार' इत्येव पाटः । वैशम्पायनशून्यस्य केवलस्य स्कन्धावारस्याऽऽगमनेन वैशम्पायनस्याभावात् विनाशात् अन्यत् किंचिदप्यसंभावयन् ( मरणमेव तर्कयन्त्रित्यर्थः )
पाठा० - १ ततः सर्वे; ततस्ते सर्वे. २ चेतितवान्. ३ आत्मनश्च दर्शनात्. ४ अनुठयेक्ष्यमाणः. ५ केवल. ६ स्कन्धावारानुगमननिवासादसावन्यत्. ७ हतेन चेतसा. ८ आहत्य हटात्; आहन्मि हृदयात्. ९ इतिकर्तव्यताम् १० नाधिगच्छत्; अत्यगच्छत्. ११ वसन्ती.
वैशम्पायनार्थं प्रश्नः
उत्तरभागः ।
549
Page #77
--------------------------------------------------------------------------
________________
शून्यीभूता पृथिवी । सचक्षुषोऽप्यन्धाः ककुभो जाताः । सुनिष्पन्नमपि हतं जन्म । सुरक्षितमपि मुषितं जीवितफलम् । के परं पश्यामि । कमालपामि । कस्मै विश्रम्भं कथयामि । केन सह सुखमासे । किमद्यापि मे जीवितेन कादम्बर्यापि च । वैशम्पायनस्य कृते व कं पृच्छामि । कमभ्यर्थये । को मे ददातु पुनस्तादृशं मित्ररत्नम् । कथं मया तातस्य शुकनासस्य चात्मा वैशम्पायनेन विना दर्शयितव्यः । किमभिधाय च तनयशोकविह्वलाम्बा मनोरमा वा संस्थापयितव्या । किं भूमिः काचिदसिद्धा तां साधयितुं पश्चास्थितः । उत नरपतिः कश्चिदसंघटितस्तत्संघटनाय पश्चात्परिलम्बितः । आहोस्वित्काचिद्विद्याऽगृहीता तां ग्रहीतुं मयोत्संकलितः' इत्येतानि चान्यानि चान्तरात्मना चिरमधोमुख एव विकल्प्य हृदयास्फुटनादिलक्ष्यमिवापराधिनमिव महापातकिनमिवात्मानं मन्यमानो वदनमदर्शयशनैः शनैः कृच्छ्रादिव तानप्राक्षीत् - 'मय्यागते किं कश्चिदेवंविधोऽन्तरे सङ्ग्राम उत्पन्नः, व्याधिर्वा कश्चिदाशुकार्यसाध्यरूपः समुपजातः, येनैतदतर्कितमेव महावज्रपतनमुपनतम्' इति । ते त्वेवं पृष्टाः सर्वे सममेव करद्वयापिहितश्रुतयो व्यज्ञपयन् - 'देव, शान्तं पापम् ।
***********
मनोहरः संवृत्तो निष्पन्नः । वसन्त्यपि लोकसमाकुलापि पृथिवी वसुधा शून्यीभूतोद्वसीभूता । सचक्षुषोऽपि सनेत्रस्यापि ककुभो दिशोऽन्धा गतचक्षुषो जाताः । सुष्ठु निष्पन्नमपि संजातमपि जन्म हतं व्यापादितम् । निरर्थक जातमित्यर्थः । सुष्टु यथा स्यात्तथा रक्षितमपि गोपितमपि जीवितस्य फलं साध्यं मुषितं लुण्टितम् । कं परं पश्यामि कमन्यमवलोकयामि । कमालपामि के व्याहरामि । कस्मै विसम्भमाशयं कथयामि निवेदयामि । केन सह सुखं यथा स्यात्तथा समुपविशामि । अहमिति शेषः । किमद्याप्ययप्रभृति मे मम जीवितेन प्राणितेन कादम्बर्यापि च । वैशम्पायनस्य कृतेऽहं क्व कं पृच्छामि के प्रश्नं करोमि । कं पुरुषमभ्यर्थये प्रार्थये । कः पुरुषः पुनस्तादृशं मित्ररत्नं सुहृन्मणिं मे ददातु प्रयच्छतु । मया चन्द्रापीडेन तातस्य पितुः शुकनासस्य मन्त्रिमुख्यस्य च वैशम्पायनेन विना कथमात्मा दर्शयितव्यो दर्शनीयः । तनयशोकविह्वला सुतशोचनविधुराम्बा माता मनोरमा वा मन्त्रिपत्नी वा किमभिधाय किं कथयित्वा संस्थापयितव्या संस्थाप्या । किं भूमिः काचिदनिर्दिष्टनाम्न्यसिद्धाऽसाधिता तां साधयितुमात्मसात्कर्तुं पश्चात्पृष्ठे स्थितः । उतेति पक्षान्तरे । कश्चिन्नरपतिर्भूधनोऽसंघटितोऽमिलितस्तस्य संघटनाय मेलापककृते पश्चात्पृष्ठे परिलम्बितो विलम्बितः । आहोस्विदिति वितर्के । काचिद्विद्या मन्त्रतन्त्रादिरूपाऽगृहीता न स्वीकृता तां ग्रहीतुं स्वीकर्तुं मया सहोत्संकलितो दूरीभूतः । इत्येतानि पूर्वोक्तान्यन्यानि चान्तरा मध्य आत्मना मनसा चिरं बहुकालमधोमुख एव नीचैर्मुख एव विकल्प्य विकल्पनां कृत्वा हृदयस्य वक्षसोऽस्फुटनादद्वैधीभावाद्विलक्ष्यमिवावीक्षापन्नमिवापराधिनमिव सागसमिव महापातकिनमिव महापापकारिणमिवात्मानं स्वं मन्यमानो ज्ञायमानो वदनं मुखमदर्शयन्नप्रकाशयशनैः शनैर्मन्दं मन्दं कृच्छ्रादिव कष्टादिव ताञ्जनानप्राक्षीदपृच्छत् । मय्यागतेऽत्रायाते कश्चिदेवंविधोऽन्तरे विचाले सङ्ग्रामः समितिः किमुत्पन्नः संजातः । अथवा कश्चिदनिर्दिष्टनामा स व्याधिरामय आशु शीघ्रमादन्तं करोतीत्येवंशीलः स तथा भेषजादिभिः साधयितुं निवारयितुमशक्यमसाध्यं रूपं स्वरूपं यस्य स तथा समुपजातः समुत्पनः । येन कारणेनैतदतर्कितमेवाविचारितमेव महावज्रपतनं पविपतनमुपनतं प्राप्तमिति ।
ते तु जना एवममुना प्रकारेण पृष्टाः कृतप्रश्नाः सममेव युगपत्सर्वे करद्वयेन हस्तद्वयेनापिहिता आच्छादिताः श्रुतयः श्रोत्राणि यैरेवंभूता व्यज्ञपयन्विज्ञप्तिं चक्रुः । देवेति । हे देव, पापममङ्गलं शान्तं विलयं गतम् ।
पाठा० - १ कं पश्यामि. २ वा. ३ क्व गच्छामि कम्. ४ वा. ५ मनोरमाम्बा. ६ कच्चिद्विया काचिदगृहीतां. ७ अगृहीता. ८ विलक्ष. ९ शनैः. १० महाव्याधिः. ११ अपिहित.
550
। कादम्बरी।
कथायाम
Page #78
--------------------------------------------------------------------------
________________
देवशरीरमिव साग्रं वर्षशतं ध्रियते वैशम्पायनः । इत्येतदाकर्ण्य चोज्जीवित इवानन्दबाष्पनिर्भरः संभाव्य तान्सर्वानेव कण्ठग्रहेणावादीत् - 'जीवतो वैशम्पायनस्यान्यत्र क्षणमप्यवस्थानमसंभावयता मयैवं पृष्टा भवन्तस्तज्जीवतीत्येतानि तु तावत्कणे कृतान्यक्षराणि । अधुना कि वृत्तमस्य येनासौ नागतः, क्व वा स्थितः, केन वा प्रसङ्गेन, कथं वा तमेकाकिनमुत्सृज्यायाता भवन्तः, कथं वा भवद्भिर्बलादपि नानीतोऽसावित्येतदवगन्तुमुत्ताम्यति मे हृदयम्' इति ।
ते चैवं पृष्टा व्यज्ञपयन् - "देव, श्रूयतां यथावृत्तम् । पृष्ठतः स्कन्धावारमनुपालयद्भिः शनैः शनैवैशम्पायनेन सह भवद्भिरागन्तव्यमित्यादिश्य गतवति देवे तस्मिन्दिवसे सुगृहीतत्वाद्धासेन्धनादिकस्योपकरणजातस्य न दत्तमेव प्रयाणं स्कन्धावारेण । अन्यस्मिन्नहन्याहतायां प्रयाणभेर्यां सज्जीक्रियमाणे साधने प्रातरेवास्मान्वैशम्पायनोऽभ्यधात् - 'अतिपुण्यं ह्यच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिन्स्नात्वा प्रणम्य चास्यैव तीरभाजि सिद्धायतने भगवन्तं भवानीप्रभु महेश्वरं शशाङ्कशकलशेखरं व्रजामः । दिव्यजनसेविता केन कदा पुनः -
***********
वैशम्पायनः साग्रं वर्षशतं पञ्चविंशत्यधिकहायनशतं ध्रियते । आयुः कर्मणेति शेषः । किमिव । देवशरीरमिव । इत्येत्पूर्वोक्तमाकर्ण्य श्रुत्वा चोज्जीवित इवोत्याणित इवानन्दस्य हर्षस्य बाष्पो नेत्राम्बु तस्य निर्भरो यस्मिन्नेवंभूतस्तान्सर्वानेव कण्ठग्रहेण गलालिङ्गितेन संभाव्य संतुष्टान्कृत्वावादीदब्रवीत् । किमवादीदित्याशयेनाह - जीवत इति । जीवतः प्राणान्धरतो वैशम्पायनस्यान्यत्रान्यस्मिन्प्रदेशे क्षणमप्यवस्थानमसंभावयताऽसंभावनां कुर्वता मया चन्द्रापीडेनैवं पूर्वोक्तप्रकारेण भवन्तो जनाः पृष्टाः प्रश्नितास्तज्जीवतीत्येतानि त्वक्षराणि वर्णांस्तावदादौ कर्णे श्रोत्रे कृतानि । अधुना सांप्रतमस्य वैशम्पायनस्य किं वृत्तं जातम्, येन हेतुनासौ वैशम्पायनो नागतो नायातः । क्व वेति । कुत्र वा स्थितोऽवस्थानं कृतवान्, केन वा प्रसङ्गेन संबन्धेन स्थितः, कथं वा केन प्रकारेण तं वैशम्पायनमेकाकिनमुत्सृज्य त्यक्त्वा भवन्त आयाता आगताः । कथं वा भवद्भिर्युष्माभिर्बलादपि हठात्कारेणासौ मन्त्रिसुतो नानीतः । इत्येतदवगन्तुं ज्ञातुं मे मम हृदयमुत्ताम्यति । उत्पीडयतीत्यर्थः । ते चैवममुना प्रकारेण पृष्टाः प्रश्नविषयीकृताः सन्त इति व्यज्ञपयनिति विज्ञप्तिं चक्रुः । एतद्दर्शयन्नाह - हे देव हे स्वामिन्, यथावृत्तं यथाभूतं श्रूयतामाकर्ण्यताम् । पृष्ठतः पश्चाद्भागे स्कन्धावारं सैन्यं शनैः शनैर्मन्दं मन्दमनुपालयद्भिरनुरक्षद्भिशम्पायनेन सह भवद्भिर्युष्माभिरागन्तव्यमित्यादिश्य कथयित्वा देवे चन्द्रापीडे गतवति चलिते सति तस्मिन्दिवसे देवप्रयाणकदिने घासो यवसमिन्धनमिम । आदिशब्दादस्त्यवादीनां भक्ष्यम् । एतत्प्रभृत्युपकरणजातस्य सामग्रीसमूहस्य सुगृहीतत्वात्सुलभत्वात्स्कन्धावारेण न दत्तमेव न कृतमेव प्रयाणं चलनम् । अन्यस्मिनहनि तद्व्यतिरिक्तदिने प्रयाणभेर्यां गमनदुन्दुभावाहतायां ताडितायामचादिके साधने सज्जीक्रियमाणे सति आरोहणार्थमारोप्यमाणपर्याणादिके सति, प्रातरेव प्रत्युष एवास्मान्वैशम्पायन इत्यभ्यधादित्यूचिवान् । इतियोत्यमाह - अतीति । अतिपुण्यमतिपवित्रं ह्यच्छोदाख्यमच्छोदाभिधानं सरस्तटाकं पुराणे श्रूयत आकर्ण्यते । तस्माद्धेतोरस्मिन्सरसि स्नात्वा स्नानं कृत्वास्यैव सरसस्तीरभाजि तटभाजि सिद्धायतने चैत्ये शशाङ्कस्य चन्द्रस्य शकलं खण्डं तदेव शिखरो मुकुटो यस्यैवंभूतं भगवन्तं माहात्म्यवन्तं भवान्याः पार्वत्याः प्रभुं स्वामिनम् । क्वचित् ‘भवाभवप्रभुम्' इति पाठोऽपि दृश्यते । तेन तत्र नित्यानित्यस्वामिनमित्यर्थः । महेश्वरं -
पाठा० - १ साग्र. २ तु. ३ प्रसङ्गेन स्थितः. ४ ते पृष्टाः. ५ आगतवति. ६ तस्मिंस्तु दिवसे. ७ वास. ८ तदच्छोदसरः. ९ वा.
स्कन्धावारलोकेभ्यो वैशम्पायनवृत्तान्तश्रवणम्
उत्तरभागः।
551
Page #79
--------------------------------------------------------------------------
________________
स्वप्नेऽपि भूमिरियमालोकिता' इत्यभिधाय चरणाभ्यामेवाच्छोदसरस्तीरमयासीत् । तत्र चातिरम्यतयैव सर्वतो दत्तदृष्टिः संचरन्, अमरकामिनीश्रोत्रशिखरारोहणप्रणयोचितैस्तरङ्गानिलाहतिविलोलवृत्तिभिः किसलयैरविरलकुसुममकरन्दलोभपुञ्जितानां च मत्तमधुलिहां मञ्जना सिञ्जितरवेण दूरादाह्वयन्तमिव, मरकतमणिश्यामया प्रभयानुलिम्पन्तमिव समं दशदिग्भागान्, अदत्तदिवसकरकिरणप्रवेशतया दिवाप्यन्तर्निशीथिनीमिव बिभ्राणम्, चिरपरिचितैरपि मेघोद्गमाशङ्कया मुहुर्मुहुरुन्मुक्तमधुरकेकारवैर्वनशिखण्डिभिरुत्कंधरैरवलोक्यमानम्, पदमिव जलदकालस्य, प्रतिपक्षमिव सर्वसंतापानाम्, निजावासमिव जडिम्नः, निर्गममार्गमिव सुरभिमासस्य, आश्रयमिव मकरध्वजस्य, उत्कण्ठाविनोदस्थानमिव रतेः, आस्पदमिव सर्वरमणीयानाम्, अनवरतेवलितसुरभिशीतलाच्छोदसरस्तरङ्गमारुताभिवीजिताभ्यन्तरशिलातलमन्यतम तटलतामण्डपमद्राक्षीत् ।
दृष्ट्वा च तमतिचिरान्तरितदर्शनं भ्रातरमिव तनयमिव सुहृदमिव चानन्यदृष्टिविस्मृत -
***********
रुद्रं प्रणम्य नमस्कृत्य च व्रजामो गच्छामः । दिव्यजनसेविता केनास्मत्पक्षपातिना स्वप्नेऽपि स्वापदशायामपि कदा कस्मिन्काले पुनः 'पुनर्विशेषयोः' इयं भूमिरियं वसुधाऽऽलोकितावलोकितेत्यभिधायेत्युक्त्वा चरणाभ्यामेव पादचारेणेत्यर्थः । अच्छोदसरस्तीरमयासीदाययौ । तत्र च तस्मिन्नच्छोदसरस्यतिरम्यतयातिमनोहरतयैव सर्वतो दत्ता न्यस्ता दृष्टिदृग्येनैवंभूतो वैशम्पायनः संचरन्गच्छन्नन्यतमं यत्तट तीरं तत्र लतामण्डपमद्राक्षीट्यलोकयदिति दूरेणान्वयः । इतो लतामण्डपं विशेषयन्नाह - अमरेति । अमराणां देवानां कामिन्यः स्त्रियस्तासां श्रोत्रशिखराणि कर्णाग्राणि तेष्वारोहणे यः प्रणयः स्नेहस्तवोचितैर्योग्यैस्तरंगाणां कल्लोलानामनिलो वायुस्तस्याहत्या आहननेन विलोला चञ्चला वृत्तिर्येषां तैरेवंभूतैः किसलयैः पल्लवैरविरलो निबिडो यः कुसुमानां पुष्पाणां मकरन्दो मरन्दस्तस्य लोभस्तृष्णा तेन पुजितानामेकीभूतानां च मत्तमधुलिहां क्षीबभ्रमराणां मञ्जुना रुचिरेण सिञ्जितं ध्वनितं तस्य रवेण शब्देन करणभूतेन दूरादाह्वयन्तमिवाहूतिं कुर्वन्तमिव । मरकतेति । मरकतमणिरश्मगर्भरत्नं तद्वच्छ्यामया श्यामलया प्रभया कान्त्या सममेकपदे दशदिग्भागान्दशककुभां प्रदेशाननुलिम्प(य)न्तमिवानुलिम्पनं कुर्वन्तमिव । न दत्तो दिवसकरस्य सूर्यस्य किरणप्रवेशः करप्रवेशो येन तस्य भावस्तत्ता तया दिवापि दिवसेऽप्यन्तर्मध्ये निशीथिनीमिव रात्रिमिव बिभ्राणं धारयन्तम् । 'निशा निशीथिनी रात्रिः' इति हैमः । चिरपरिचितैरिति । चिरपरिचितैरपि चिरपरिशीलितैरपि मेघस्योद्गम उदयस्तस्याशकारेका तया मुहुर्मुहुरिवारमुन्मुक्तो मधुरो मिष्टः केकारवो यैरेवभूतैर्वनशिखण्डिभिररण्यमयूरैरुत्कंधरैरुग्रीवैरवलोक्यमानं निरीक्ष्यमाणम्, जलदकालस्य प्रावृट्समयस्य पदमिव स्थानमिव, सर्वसंतापानां समग्रतापानां प्रतिपक्षमिव शत्रुमिव, जडिम्नः शैत्यस्य निजावासमिव स्वाश्रयमिव, सुरभिमासस्य वसन्तमासस्य निर्गममार्गमिव निर्गमनपन्थानमिव, मकरध्वजस्य कंदर्पस्याश्रयमिव निवासमिव, रतेः कंदर्पस्त्रिय उत्कण्ठाविनोदस्थानमिवोत्कलिकाविलासपदमिव, सर्वरमणीयानां समग्रमनोहराणामास्पदमिव गृहमिव, अनवरतं निरन्तरं वलिताः पश्चादायाता ये सुरभयः सुगन्धाः शीतलाः शिशिरा अच्छोदसरसस्तरंगाः कल्लोलास्तेषां मारुतेन वायुनाभिवीजितमभ्यन्तरशिलातलं यस्य स तमन्यतमं तटलतामण्डपमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः ।
दृष्ट्वा चेति । अतिचिरकालेनान्तरितं व्यवहितं दर्शनमवलोकनं यस्यैवंभूतं तं लतामण्डपं दृष्ट्वा विलोक्य च भ्रातरमिव सहोदरमिव, तनयमिव सुतमिव, सुहृदमिव मिनमिव, न विद्यतेऽन्यस्मिन्दृष्टियस्यैवंभूतो विस्मृतो -
पाठा० - १ निशीथम्. २ चलित.
(552
कादम्बरी । MM
MMML
कथायाम्
Page #80
--------------------------------------------------------------------------
________________
निमेषेण चक्षुषा विलोकयन्, स्तम्भित ईव, मूर्च्छयोन्मुच्यमान इवेन्द्रियैः, झंगित्युन्मुक्ताङ्गः, समुपविश्य भूमौ किमप्यन्तरात्मना स्मरन्निव, अनुध्यायन्निव निर्विकारवदैनो गलितलोचनपयोधारासंतानस्तूष्णीमधोमुखस्तस्थौ । तथावस्थितं तमवलोक्यास्माकमुदपादि चेतसि चिन्ता - येन केनचिदपहियन्त एव रसिकहृदयाः परिणामधीरमतयोऽपि, किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानाः । तस्मान्नियतमियमस्येमामतिमनोहरां भूमिमालोक्य भावयतो हृदयविकृतिरीदृशी जातेति । नचिराच्च तमेवमवदाम वयम् - 'दृष्टा दर्शनीयानामवधिरेषा । तदुत्तिष्ठ । संप्रति निर्वर्तयामः स्नानविधिम् । अतिमहती वेला । सज्जीभूतं साधनम् । प्रयाणाभिमुखः सकलः स्कन्धावारस्त्वां प्रतिपालयन्नास्ते । किमद्यापि विलम्बितेन' इति । स त्वेवमुक्तोऽप्यस्माभिरश्रुतास्मदीयालाप इव, जड इव, मूक इव, अशिक्षित
1
विस्मरणं प्राप्तो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा विलोकयन्पश्यन्तम्भित इव स्तब्धतां नीत इव, मूर्च्छया मोहेनेन्द्रियैः करणैरुन्मुच्यमान इवोत्प्राबल्येन त्यज्यमान इव, झगिति शीघ्रमुन्मुक्तान्यङ्गानि येन सः । अतिशैथिल्यादिति भावः । भूमौ पृथिव्यां समुपविश्योपवेशनं कृत्वान्तरात्मना मनसा किमप्यनिर्वचनीयं स्मरन्निव स्मृतिगोचरीकुर्वन्निव, अनुध्यायन्निवानुचिन्तयन्निव निर्विकारं निर्विकृतिकं वदनमाननं यस्य सः । गलिता सस्ता लोचनाभ्यां या पयोधाराश्रुधारा तस्याः संतानं यस्मिन्नेवंभूतस्तूष्णीं मौनेनाधोमुखो नीचैर्मुखस्तस्थौ स्थितवान् । तथावस्थितं तदवस्थाप्राप्तं च तं वैशम्पायनमवलोक्य निरीक्ष्यास्माकं चेतसि चित्ते चिन्तार्तिरुदपाद्युत्पन्ना । परिणामेऽवसाने धीरा स्थिरा मतिर्बुद्धिर्येषां ते तथा एवंविधा अपि रसिकहृदयाः कामिजना येनकेनचित्प्रकारेणापहियन्त एव वशीक्रियन्त एव । किं पुनः कुतूहलास्पदे कौतुकस्थाने प्रथम आद्ये वयस्यवस्थायां वर्तमानाः स्थिताः । जना इति शेषः । तस्मादिति हेत्वर्थे । नियतं निश्चितमिमामतिमनोहरामतिरमणीयां भूमि वसुधामालोक्य निरीक्ष्यास्य वैशम्पायनस्येति । भावयतश्चिन्तयत ईदृशी हृदयविकृतिश्चित्तविप्लुतिर्जातोत्पन्ना । नचिराच्चाचिरकालेन तं वैशम्पायनमेवं वयमवदाम जल्पाम । दर्शनीयानां विलोकनीयानामेषा भूरवधिः सीमा दृष्टावलोकिता । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु 1 संप्रतीदानीं स्नानविधिमाप्लवनविधिं निर्वर्तयामो निष्पादयामः । अतिमहत्यतिगरीयसी वेला बारा जीतेति शेषः । साधनं सैन्यं सज्जीभूतं सज्जं जातम् । सकलः समग्रः स्कन्धावारः सैन्यलोकः प्रयाणाभिमुखो गमनाभिमुखस्त्वां वैशम्पायनं प्रतिपालयन्निरीक्षन्नास्ते तिष्ठति । अद्यापि सांप्रतमपि किं विलम्बितेन । किं कालक्षेपणेनेत्यर्थः । स तु वैशम्पायन एवं पूर्वोक्तप्रकारेणास्माभिरुक्तोऽपि कथितोऽश्रुतोऽनाकर्णितोऽस्मदीय आलापो येन स इव, जड इवाचेतन इव, मूक इव एड एव, अशिक्षित इवापाठित एव, (न) वक्तुं -
टिप्प० - 1 विच्छिन्नस्य मध्यभागस्य अन्तमात्रावशेषेण 'मूर्च्छया' इत्यनेन सह 'उन्मुच्यमान इव' इत्यस्य संबन्धो निरुचितो भासतेऽत्र । 'लिखित इव, सुचिरमूर्ध्व एव स्थित्वा अपारयन्त्रङ्गानि धारयितुम् (आवेशवशादङ्गानि धारयितुमशक्नुवन्), आक्रम्यमाण इव मूर्च्छया' इति मध्ये पाठः । एतदग्रे 'उन्मुच्यमान इवेन्द्रियैः' इति पाठः । 2 'जाता' इति मूल एव पाठः । न परिशेषस्यावश्यकता ।
पाठा० - १ इव लिखित इव सुचिरमूर्ध्व एव स्थित्वापारयन्निवाङ्गानि धारयितुमाक्रम्यमाण इव मूर्च्छया; इवोत्कीर्ण इव पुस्तमय इव सुचिरम्. २ झगिति ३ हृदयो ४ अवस्थितं च. ५. अचिरात्. ६ बेला जाता. ७ अस्मदालापः.
(वैशम्पायनवृत्तान्तः
उत्तरभागः ।
553
Page #81
--------------------------------------------------------------------------
________________
इव, वक्तुं न किंचिदपि प्रत्युत्तरमदात् । तमेव केवलमनिमेषपक्ष्मणा निश्चलस्तब्धतारकेण संतताश्रुसोतसा लिखितेनेव चक्षुषा लतामण्डपमालोकितवान् ।।
पुनःपुनश्चास्माभिरागमनायानुरुध्यमानस्तद्ग्रथितदृष्टिरेवास्मान्परिच्छेदनिष्ठुरमाह स्म - ‘मया तु न यातव्यमस्मात्प्रदेशात् । गच्छन्तु भवन्तः स्कन्धावारमादाय । न युक्तं भवतां चन्द्रापीडभुजबलपरिरक्षितं गते तस्मिन्महासाधनं गृहीत्वास्यां भूमौ क्षणमप्यवस्थानं कर्तुम् इत्युक्तवन्तं च तमकस्मानाम किंचिदस्य दैवादेव वैराग्यकारणमुत्पन्नमित्याशङ्कय सानुनयमागमनाय पुनःपुनः प्रतिबोध्य तादृशासंबद्धानुष्ठानेन जातपीडा निष्ठुरमप्यभिहितवन्तो वयम् - ‘एवं न युक्तमस्माकं स्थातुम् । भवतः पुनर्देवस्य तारापीडस्यानन्तरादार्यशुकनासाल्लब्धजन्मनो देव्या विलासवत्याकलालितस्य देवेन चन्द्रापीडेन सहैकत्र संवृद्धस्य तथा विद्यागृहे महता यत्नेनैव शिक्षितस्य युक्तमिदम् ?, यज्येष्ठे भ्रातरि सुहृदि वत्सले भर्तरि जगन्नाथे य गुणवति च भवति सर्वमर्पयित्वा गते तत्परित्यागेनात्रावस्थानम् । कस्यापरस्येदृशो युक्तायुक्तपरिच्छेदः ? तिष्ठतु तावदस्माकं तवोपरि स्नेहो भक्तिर्वा । अस्मिंस्तु शून्या -
*********** जल्पितुं किमपि प्रत्युत्तरं प्रतिवचोऽदाद्ददौ । तमेव लतामण्डपमेव केवलमेकमनिमेष निमीलनरहितं पक्ष्म यस्मिंस्तत्तेन, निश्चला स्थिराऽत एव स्तब्धा तारका कनीनिका यस्मिंस्तत्तेन, संततं निरन्तरमश्रुसोतो नेत्राम्बुप्रवाहो यस्मिंस्तत्तेन, लिखेतेनेव चित्रितेनेव चक्षुषा नेत्रेण लतामण्डपमालोकितवानिरीक्षितवान् ।
पुनः पुनश्चास्माभिरागमनायाऽत्रानयनकृतेऽनुरुध्यमानोऽनुरोध क्रियमाणः । तस्मिल्लतामण्डपे ग्रथिता लग्ना दृष्टिर्यस्यैवंभूत एवास्मान्परिछेदनिष्ठुरं निश्चयपरुषमाह स्म कथयामास । मया त्वस्मा प्रदेशान यातव्यं न गन्तव्यम् । भवन्तो यूयं स्कन्धावारं सैन्यमादाय गृहीत्वा गच्छन्तु व्रजन्तु । तस्मिंश्चन्द्रापीडे गते सति चन्द्रापीडस्य राज्ञो भुजबलेन बाहुवीर्येण परिरक्षितं महासाधनं महासैन्यं गृहीत्वादायास्यां भूमौ क्षणमप्यवस्थान कर्तुं भवतां युष्माकं न युक्तं न न्याय्यम् । इति पूर्वोक्तप्रकारेणोक्तवन्तं कथितवन्तं च तं वैशम्पायनम् । नामेति कोमलामन्त्रणे । अकस्मानिष्कारणतोऽस्य वैशम्पायनस्य दैवादेव विधेरेव वैराग्यकारणं विरक्ततानिदानं किंचिदुत्पन्नं संजातम् । इत्याशङ्कयेत्यारेक्य सानुनयं सविनयं पुनःपुनरागमनायाऽत्रानयनकृते प्रतिबोध्य प्रतिबोधं दत्त्वा तादृशं तथाविधं यदसंबद्धानुष्ठानमनुचिताचरणं तेन जातपीडा उत्पन्नबाधा वयं निष्ठुरमपि परुषमप्यभिहितवन्तः कथितवन्तः । एवमस्माकं स्थातुं न युक्तं न युक्तिमत् । तारापीडस्य राज्ञोऽनन्तरादव्यवहितात् । तत्सदृशादित्यर्थः । आर्यशुकनासालब्धं प्राप्तं जन्मोत्पत्तिर्येन स तस्य देव्या विलासवत्या अङ्कः क्रोडस्तेन लालितस्य पालितस्य, देवेन चन्द्रापीडेन सहैकत्रैकस्मिन्स्थले संवृद्धस्य वृद्धि प्राप्तस्य, तथा विद्यागृहे विद्याभ्यसनसद्मनि महता यत्नेनैव गरीयसा प्रयासेनैव शिक्षितस्य शिक्षा ग्राहितस्य भवतस्तव न्याय्यमिदं युक्तम् ? यद्यस्मात्कारणाज्येष्ठे वृद्धे भ्रातरि सहोदरे सुहृदि मित्रे वत्सले हितकारके भर्तरि पोषके जगन्नाथे विश्वनायके गुणवति च भवति वैशम्पायने सर्वं समग्रमर्पयित्वा वितीर्य गते सति तत्परित्यागेन तद्राहित्येनात्राच्छोदसरस्यवस्थानम् कस्यापरस्य त्वद्भिन्नस्येदृशो युक्तायुक्तयोाय्यान्याय्ययोः परिच्छेदो (निर्मीयते) । अस्माकं तवोपरि स्नेहः प्रीतिभक्तिर्वा आराध्यत्वेन ज्ञानं तावत्तिष्ठत्वास्ताम् । अस्मिंस्तु शून्यारण्ये जनरहिताटव्यामेकाकिनमसहायं भवन्तमु -
------- टिप्प० - 1 काकुः । अस्माकं तु अत्रावस्थानं न युक्तम्, भवतस्तु इदम् (अवस्थानम्) युक्तम् ? अपि तु न युक्तमित्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ अनुबुध्यमानः; अनुबध्यमानः. २ तम्.
554
कादम्बरी।
कथायाम्
Page #82
--------------------------------------------------------------------------
________________
रण्ये भवन्तमेकाकिनमुत्सृज्य गताः सन्तो देवेन चन्द्रशीतलप्रकृतिना चन्द्रापीडेनैव किं वक्तव्या वयम् ? किमन्यो देवश्चन्द्रापीडः, अन्यो वा भवान् ? तदुन्मुच्यतामयं संमोहः । गमनाय धीराधीयताम् ।
इत्यभिहितोऽस्माभिरीषदिव विलक्षहासेन वंचनेनास्मानवादीत् - किमहमेतावदपि न वेद्मि, यद्गमनाय मां भवन्तः प्रबोधयन्ति । अपि च चन्द्रापीडेन विना क्षणमप्यहमन्यत्र न पारयामि स्थातुम् । एषैव मे गरीयसी परिबोधना । तथापि किं करोमि । अनेनैव क्षणेन सर्वत्र विगलितं मे प्रभुत्वम् । तथाहि-स्मरन्निव किमपि मनो नान्यत्र प्रवर्तते, पश्यन्तीव किमपि न दृष्टिरन्यतो वलति, आसक्तमिव क्वापि हृदयं किमपि न जानाति, निगडिताविवेपदमपि दातुं न चरणावुत्सहेते । कीलितेव चौस्मिन्नेव स्थाने तनुः । तदात्मना त्वहमसमर्थो यातुम् । अथ बलाद्भवन्तो मां निनीषवः, तत्रापि चलितस्यास्मात्प्रदेशादात्मनो जीवितधारणं न संभावयामि । अत्र तु पुनस्तिष्ठतो यदेतदन्तर्हृदये किमयनवसीयमानं विपरिवर्तते मे, येनैव विधृतोऽस्मि, तेनैवावश्यं धार्यन्ते प्राणा इति चेतसि मे । तदलं निर्बन्धेन । गच्छन्तु भवन्तः । भवतु यावज्जीवमातृप्तेश्चन्द्रापीडदर्शनसुखम् । अल्पपुण्यस्य तु तन्मे -
***********
त्सृज्य त्यक्त्वा गताः सन्तो वयं चन्द्रवच्छीतलप्रकृतिना शिशिरस्वभावेन देवेन चन्द्रापीडेनैव किं वक्तव्याः किं कथनीयाः ? किमन्यस्त्वदितरो देवश्चन्द्रापीडोऽन्यो वा चन्द्रापीडाझिनो भवांस्त्वम् ? तदिति हेत्वर्थे । अयं संमोहोऽज्ञानमुन्मुच्यतां त्यज्यताम् । गमनाय धीवुद्धिराधीयता स्वीक्रियताम् । ' इति पूर्वोक्तप्रकारेणास्माभिरभिहितः कथित ईषदिव मनागिव विलक्ष वीक्षापत्रं हासो हास्यं यस्मिन्नेवंविधेन वचनेनास्मानवादीदब्रवीत् । अहमेतावदप्येतावन्मात्रमपि किं न वेद्मि न जानामि, यद्यस्मात्कारणाद्भवन्तो मां गमनाय प्रबोधयन्ति प्रबोधं कुर्वन्ति । अपि चेति प्रकारान्तरे । चन्द्रापीडेन विनान्यत्रान्यस्मिन्प्रदेशेऽहं क्षणमपि स्थातं न पारयामि न समर्थो भवामि । एषैव पूर्वोक्तैव मे मम गरीयसी गरिष्ठा परिबोधना प्रतिबोधः । तथापीति । अहं किं करोमि किं कुर्वे । अनेनैव क्षणेन समयेन मे मम प्रभुत्वं सामर्थ्यं सर्वत्र सर्वस्मिन्स्थले विगलितं विनष्टम्"। तदेव दर्शयन्नाह - तथाहीति । मनोऽन्यत्र किमपि न प्रवर्तते । अत उत्प्रेक्षते - स्मरन्निव स्मृतिं कुर्वन्निव । दृष्टिदृक्किमप्यन्यतो न वलति न पश्चानिवर्तते । अत उत्प्रेक्षते - पश्यन्तीव विलोकयन्तीव । हृदयं चेतः क्वापि कुत्रापि किमपि न जानाति नावकलयति । अत उत्प्रेक्षते आसक्तमिवालग्नमिव । चरणौ पादौ पदमपि दातुं नोत्सहेते नोत्साहं कुर्वाते । अत उत्प्रेक्षते - निगडिताविव नियन्त्रिताविव । अस्मिन्नवस्थाने मे तनुः शरीरं कीलितेव कील्या नियन्त्रितेव । तत्तस्मात्कारणादात्मना तु स्वेन त्वहं यातुमितो गन्तुमसमर्थोऽक्षमः । अथेति प्रकारान्तरे । भवन्तो यूयं बलाद्धठान्मां वैशम्पायनं निनीषवो नेतुमिच्छवः । तत्रापि तस्मिन्नपि प्रदेशेऽस्मात्प्रदेशाच्चलितस्य गन्तुं प्रवृत्तस्यात्मनः स्वस्य जीवितधारणं न संभावयामि । नावकलयामि । अत्र त्विति । अस्मिन्स्थले पुनस्तिष्ठतो मे यदेतदन्तर्हृदये चेतसि किमप्यनिर्दिष्टनामकमनवसीयमानमज्ञायमानं विपरिवर्तते विपरिभ्रमति । येनैवाहं विधृतोऽस्मि । इति मे मम चेतस्यस्ति । इति द्योत्यमाह - तेनैवेति । तेनैव हृदयान्तर्वर्तिना प्राणा असवोऽवश्यं निश्चयेन धार्यन्ते ध्रियन्ते । तत्तस्माद्धेतोर्निर्बन्धेनात्याग्रहेणालं कृतम् । भवन्तो यूयं गच्छन्तु व्रजन्तु, चन्द्रापीडस्य दर्शनमवलोकनं तदेव तस्माता सुखं यावज्जीवं -
- - - - - टिप्प० - 1 विलक्षहासेन सलज्जस्मितेन । 2 'स्मरदिव' इति पाठः । मनसो नपुंसकत्वात् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ वदनेन. २ इवान्यत्र. ३ अस्मित्रेव. ४ अवसीयमानम्; अवस्थीयमानम्. ५ चेतसि. ६ अनुभवन्तु. ७ चन्द्रापीडमुखदर्शन.
(वैशम्पायनवृत्तान्तः
उत्तरभागः।
555
Page #83
--------------------------------------------------------------------------
________________
प्राप्तमपि करतलादेवैवमाच्छिय दैवेन नीतम्' इत्यभिदधानश्च कौतुकात् ‘किमेतत्, येनैवं भाषसे । नायासि देवस्य चन्द्रापीडस्य समीपम्' इत्यस्माभिः पुनःपुनः पृष्टोऽप्यभ्यधात्-'लज्जेऽहमेवं वक्तुम् । तथापि शपामि वयस्यचन्द्रापीडस्यैव जीवितेन, यदि किंचिदपि जानामि, यत्केन कारणेन न शक्नोम्यतो गन्तुमिति । अपि च भवतामपि प्रत्यक्ष एवायं वृत्तान्तः । तद् व्रजन्तु भवन्तः' इत्युक्त्वा तूष्णीमभूत् ।
मुहूर्तादिव चोत्थाय तेषु तेषु रम्यतरेषु तरुतलेषु लैतागहनेषु सरस्तीरेषु तस्मिंश्च देवायतने किमपि नष्टमिवान्विष्यन्ननन्यदृष्टिर्बभ्राम । भ्रान्त्वा च चिरमिव खिन्नान्तरात्मा सनिर्वेदमूर्ध्वं निःश्वस्य तैस्मिल्लतागहने पुनरुपविश्य तस्थौ । वयमपि कृतवीरुत्संनिधानास्तत्प्रेतिबोधनप्रत्याशया स्थिता एव । गतवति समधिक इव यामद्वये शरीरस्थितिकरणायास्माभिरभ्यर्थितः प्रत्युवाच - 'वयस्यचन्द्रापीडस्य खल्वमी स्वजीवितादपि वल्लभतराः प्राणाः । तद्यदि बलादपि परित्यज्य मां गच्छन्ति, तथाप्येषां संधारणे मया यत्नः कार्यः । किं पुनरगच्छतामेव । चन्द्रापीडदर्शनेनैव चाहमर्थी । न मृत्युना । तदभ्यर्थनैवात्र निष्फला' इत्य -
***********
यावत्प्राणधारणं तावदातृप्तेर्भवतु संपद्यताम् । अल्पपुण्यस्य तु मे मम तद्दर्शनसुखं प्राप्तमपि लब्धमपि करतलादेव हस्ततलादेव । एवं पूर्वोक्तन्यायेनाच्छिद्याक्षिप्य दैवेन विधिना नीतं गृहीतमित्यभिदधान इति ब्रुवाणश्च, कौतुकात्कुतूहलेनैतत्किं वर्तते, येन हेतुना त्वमेवं भाषस एवं वदसि । देवस्य चन्द्रापीडस्य समीपमभ्यर्णं नायासि नागच्छसि । इत्यस्माभिः पुनः पुनरिवारं पृष्टोऽप्यनुयुक्तोऽप्यभ्यधादवोचत् । अहमेवं वक्तुं कथयितुं लज्जे त्रपामि । तथापि लज्जावत्त्वेऽपि वयस्यचन्द्रापीडस्यैव जीवितेन प्राणितेन शपामि शपथं करोमि, यद्यहं किमपि जानाम्यवकलयामि । केन कारणेनातो गन्तुं यन्न शक्नोमि न समर्थो भवामीति । अपि च युक्त्यन्तरे । भवतामपि युष्माकमप्ययं वृत्तान्त उदन्तः प्रत्यक्ष एवानुभवसिद्ध एव । तत्तस्माद्धेतोभवन्तो व्रजन्तु गच्छन्तु । इत्युक्त्वा तूष्णीमभूत् । मौनेन स्थितवानित्यर्थः । ।
मुहूर्तादिवोत्थाय चोत्थानं कृत्वा च तेषु तेषु रम्यतरेष्वतिमनोहरेषु तरुतलेषु वृक्षतलेषु लतागहनेषु वल्लीगह्वरेषु सरस्तीरेषु तटाकतटेषु तस्मिंश्च देवायतने चैत्ये किमपि किंचिदपि नष्टमिव गतमिवान्विष्यशोधयन् न अन्यस्मिन्दृष्टिर्यस्यैवंभूतो बभ्राम भ्रमणं चकार । चिरमिव चिरकालसदृशं भ्रान्त्वा च भ्रमणं कृत्वा खिन्नः खेदं प्राप्तोऽन्तरात्मा मनो यस्य स सनिर्वेद सस्वावमाननमूर्ध्वमुपरिष्टानिःश्वस्य निःश्वास मुक्त्वा तस्मिन्पूर्वोक्ते लतागहने पुनर्द्धितीयवारमुपविश्योपवेशनं कृत्वा तस्थौ स्थितवान् । कृतं विहितं वीरुधां वल्लीनां संनिधानं सामीप्यं यैरेवंविधा वयमपि तस्य वैशम्पायनस्य प्रतिबोधनं तस्य प्रत्याशा वाञ्छा तया स्थिता एव । समधिके किंचिदधिके यामद्वये प्रहरद्वितये गतवति व्यतीते सति शरीरस्थितिकरणाय देहधारणाकृतेऽस्माभिरभ्यर्थितः प्रार्थितः प्रत्युवाच प्रत्यब्रवीत् । वयस्यस्य मित्रस्य चन्द्रापीडस्य खलु निश्चयेनामी प्राणाः स्वजीवितादपि स्वकीयजीवितव्यादपि वल्लभतराः । अतिशयेन प्रिया इत्यर्थः । तत्तस्माद्धेतोर्बलादपि हठादपि यदि मां परित्यज्य मुक्त्वा गच्छन्ति व्रजन्ति, तथाप्येषां प्राणानां संधारणे रक्षणे मया यत्नः प्रयासः कार्यः । अगच्छतामव्रजतामेवैषा किं पुनर्भण्यते । चन्द्रापीडदर्शनेनैव चन्द्रापीडावलोकनेनैवाहमर्थी प्रयोजनवान् । न मृत्युना न कालधर्मेण । तस्मा -
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 'ऊर्ध्वं च निःश्वस्य इत्येवोचितः पाठः ।
पाठा० - १ शक्नोमि. २ अभवत्. ३ लतागृहेषु. ४ ऊर्ध्वं च. ५ अन्यतरस्मिन्; अन्यतमस्मिन्. ६ प्रतिबोधना. ७ प्रयत्नः.
556
- कादम्बरी।
Y कथायाम्-)
Page #84
--------------------------------------------------------------------------
________________
भिधायोत्थाय स्नात्वा कन्दमूलफलैर्वनवासोचितां शरीरस्थितिमकरोत् । निर्वर्तितशरीरस्थितौ तस्मिन्वयमपि कृतवन्तः । अनेनैव च क्रमेण विस्मितान्तरात्मानो रात्रौ च दिवा च किमेतदिति तर्दृत्तान्तमेवानुभावयन्तो दिनत्रयं स्थित्वा निष्प्रत्याशास्तदागमनानयनयोः सुकृतशम्बलसंविधानं तत्परिकरं तत्र स्थापयित्वा चागता वयम् । यच्चाग्रतो न प्रेषितः संवादकस्तदेकं तावदन्तरा गच्छतो देवस्यासौ न परापतत्येव । अपरमपि चिरात्प्रविष्टमात्रस्यैव देवस्य मापुनरागमनक्लेशोऽभूतू' इति ।
चन्द्रापीडस्य तु तं स्वप्नेप्यनुत्प्रेक्षणीयं वैशम्पायनवृत्तान्तमाकर्ण्य युगपदुद्वेगविस्मयाभ्यामाक्रान्तहृदयस्योदपादि चेतसि - 'किं पुनरीदृशस्य सर्वपरित्यागकारिणो वनवासैकशरणस्य वैराग्यस्य कारणं भवेत् । स्वयं च न पश्यामि किंचित्स्खलितम् । तातप्रसादात्तु मामिव तमपि चरणतलुलितचूडामणयोऽर्चयन्त्येव राजानः । ममेव तस्यापि चेछोधिकेषु सर्वोपभोगेषु न किंचिदपि हीयते । ममेव तस्याप्याज्ञा न विहन्यत एव । अहमिव सोऽपि प्रसा -
***********
खेतोरत्र निष्फलैवाभ्यर्थना प्रार्थना । इत्यभिधायेत्युक्त्वोत्थायोत्थानं कृत्वा स्नात्वा च कन्दमूलफलैः कृत्वा वनवासस्योचिता योग्यां शरीरस्थितिं देहसाधनमकरोदकल्पयत् । निर्वर्तिता निष्पादिता शरीरस्थितिर्येनैवंविधे तस्मिन्वैशम्पायने सत्यपि वयमपि कृतवन्तो निष्पादितवन्तः । शरीरस्थितिमिति शेषः । अनेनैव क्रमेण परिपाट्या विस्मितो विस्मयं प्राप्नोऽन्तरात्मा येषामेवंभता वयं रात्रौ च किमेतदिति तद्वृत्तान्तं तदुदन्तमनुभावयन्तोऽनुचिन्तयन्तो दिनत्रयं स्थित्वावस्थानं कृत्वा तस्य वैशम्पायनस्यागमनमानयनं च तयोर्निष्प्रत्याशा निराशाः सन्तः सुकृतमेव शम्बलं पाथेयं तस्य संविधानं करणं तस्य देवेन च परिकरं परिच्छदं तत्र तस्मिन्प्रदेशे स्थापयित्वा च वयमागता आयाताः । यच्चेति । यदग्रतः संवादकः सदेशहारको न प्रेषितो न प्रहितः । तत्र नियामकद्वयम् । तदेव दर्शनयन्नाह - तदेकमिति । एकं तावद्देवस्य गच्छतोऽन्तरा मध्येऽसौ न परापतत्येव न मिलितुं शक्नोत्येव । अपरमप्यन्यदपि नियामकम् । चिराद्धहुकालेन प्रविष्टमात्रस्यागतमात्रस्य देवस्य पुनर्वितीयवारमागमनक्लेशो माभूत् । माङयोगे लुङ् । ___चन्द्रापीडस्य तु स्वप्नेऽपि स्वप्नदशायामप्यनुत्प्रेक्षणीयमवितर्कणीयं वैशम्पायनवृत्तान्तं मन्त्रिसुतोदन्तमाकर्ण्य श्रुत्वा युगपत्समकालमुद्धगोऽरतिर्विस्मय आश्चर्यं च ताभ्यामाक्रान्तं व्याप्तं हृदयं चेतो यस्यैवंभूतस्य चन्द्रापीडस्येति चेतस्युदपाद्युत्पन्नम् । ईदृशस्यानिर्वचनीयस्य सर्ववस्तुनः परित्यागं करोतीत्येवंशीलस्य वनवास एवैकमद्वितीयं शरणं यस्यैवंभूतस्य वैराग्यस्य कारणं निदानं किं पुनर्भवेत् । स्वीयमात्मीयं च स्खलितं वैगुण्यं किंचिन्मनाङ् न पश्यामि नावलोकयामि । तातप्रसादात्पितुरनुग्रहात् तु मामिव चन्द्रापीडमिव तमपि वैशम्पायनमपि चरणतलेऽमितले लुलिता लुठिताश्चूडामणयः शिरोमणयो येषामेतादृशो राजानो भूभुजोऽर्चयन्त्येव पूजयन्त्येव । ममेव चन्द्रापीडस्येव तस्यापि वैशम्पायनस्यापीच्छाधिकेषु समीहाभ्यधिकेषु सर्वेषपभोगेष्वङ्गनादिषु न किंचिदपि मनागपि हीयते । न्यूनं न भवतीत्यर्थः । हीयत इति कर्तरिप्रयोगः । ममेव तस्यापि वैशम्पायनस्याप्याज्ञा निदेशोऽन्यैर्न विहन्यत एव न खण्ड्यत एव । अहमिव चन्द्रापीड इव सोऽपि वैशम्पाय - टिप्प० - 1 'सुकृतबलसंविधानम्' इति पाठः । सुष्ठुकृतं बलस्य (सैन्यादेः) संविधानं यस्मिन् तथोक्तं तत्परिकरम् (वैशम्पायनस्य परिकर परिजनादिकम्) तत्रैव स्थापयित्वा इति तदर्थः । 2 'संवाद' इत्येव पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ निवर्तित. २ अनेन चैव. ३ आत्मनो. ४ तम्. ५ बल. ६ सदेशकः; संवादः. ७ एवम्. ८ प्रविष्टकायमात्रस्य. ९ स्मय. १० चिन्ता. ११ लुठित. १२ वाञ्छाधिकेषु. १३ अहमपि. १४ प्रसादात्करोति.
वैशम्पायनस्यावस्थाश्रवणम्
उत्तरभागः।
भागः।।
R
Y
557)
Page #85
--------------------------------------------------------------------------
________________
दाकरोत्येव । मत्त इव तस्मादपि बिभेत्येवापराधिजनः । मयीव तस्मिन्नपि सर्वाः संपदः । तमप्यालोक्य मामिवोत्पद्यते स्पृहा लोकस्य । अथागच्छंस्तातेनाम्बया वोऽऽर्यशुकनासेन मनोरमया च तनयस्नेहोचितेन सौहार्देन न संभावितः विनयाधिक्येच्छुना तातेन शुकनासेन वा किंचित्पीडाकरमभिहितम् ? ताडितो वा ? तत्रापि नैवासावेवैं स्नेहतः पिशुनस्वभावो वा, गुरुजनाभक्तो वा, गुणोपादानविमुखो वा, तरलचित्तो वा, यत्किंचनकारी यः कश्चिदिवक्षुद्रप्रकृतिरौढ्यपुत्रतागर्वितो दुःशिक्षितो दुर्विनीतो वा, पुत्रैकतादुर्ललितो वा, यो जन्मनः प्रभृति सर्वप्रकारोपकारिणो गुरुजनस्योपरि खेदमेवं कुर्यादनुबन्धाद्विरमेद्वा । प्रशमस्यापीदृशस्य नैष कालः । अद्याप्यसौ विद्वज्जनोचिते गार्हस्थ्य एव न निवेशितः, देवपितृमनुष्याणामानृण्यमेव नोपगतः, अगत्वा चानृण्यमृणत्रयेण बद्धः क्व गतः ? न तेन पुत्रपौत्रसंतत्या वंशः प्रतिष्ठां नीतः । नानन्तदक्षिणैर्महाक्रतुभिरिष्टम् । न सत्रकूपप्रपाप्रासादतटाकामाभिः
***
नोऽपि प्रसादान्वस्त्रादिप्रदानरूपान्करोत्येव सृजत्येव । मत्त इव मदिव तस्मादपि वैशम्पायनादप्यपराधिजनो बिभेत्येव भीतिं प्रा मदिव तस्मिन्नपि वैशम्पायनेऽपि सर्वाः समग्राः संपदो विभूतयः । तमपि वैशम्पायनमप्यालोक्य निरीक्ष्य मामिव चन्द्रापीडमिव लोकस्य जनस्यापि स्पृहावाञ्छोत्पद्यते जायते । आगच्छन्नसौ तातेनाम्बया वार्यशुकनासेन मनोरमया वा तनयः पुत्रस्तस्मिन्स्नेहः प्रतीस्तस्योचितेन योग्येन सौहार्देन प्रीत्या न संभावितो नालोचितः ? विनयः प्रश्रयस्तस्याधिक्यमधिकता तदिच्छतीत्येवंशीलेन तातेन शुकनासेन वा किंचिन्मनाक्पीडाकरं पीडाजनकमभिहितं कथितम् । ताडितो वा प्रहतो वा । तत्रापि ताडनादिष्वप्यसौ वैशम्पायनो मद्विषये स्नेहतः स्नेहान्नैव पिशुनस्वभावः खलप्रकृतिः । गुरुजनानां पित्रादीनां वाऽभक्तोऽनाराधकः । गुणानामुपादानं ग्रहणं तत्र विमुखः पराङ्मुखो वा । तरलं चित्तं यस्य स तथा चञ्चलहृदयो वा । यत्किंचन यत्तत्करोतीत्येवंशीलः स तथा यः कश्चिदिव क्षुद्रप्रकृतिस्तुच्छस्वभाव आढ्यपुत्रतया वा, गर्वितः स्मयं प्राप्तो दुःशिक्षितो दुरध्यापितो दुर्विनीतो वा प्रश्रयरहितः पुत्रस्यैकतैक्यं तया दुर्ललितो दुश्चेष्टितो वा । यो जन्मनः प्रभृत्युत्पत्तिमारभ्य सर्वप्रकारेणोपकारिण उपकृतिविधायिनो गुरुजनस्य मातृप्रभृतिलोकस्योपर्येवं खेदं कुर्याद्विदध्यात् । अनुबन्धात्संबन्धाद्वा विरमेन्निवर्तेत । ईदृशस्यैतादृशस्य प्रशमस्यापि नैष कालो नायं समयः । अत्र सर्वत्र वाशब्दो विकल्पार्थः । अद्याप्यद्य यावत्, स वैशम्पायनो विद्वज्जनोचिते पण्डितलोकयोग्ये गार्हस्थ्ये गृहस्थाश्रम एव न निवेशितो न स्थापितः । देवाश्च पितरश्च मनुष्याश्च तेषामानृण्यमनृणभावमेव नोपगतो न प्राप्तः । सुतोत्पादकत्वाभावादिति भावः । आनृण्यमगत्वाऽप्राप्य च ऋणत्रयेण पूर्वोक्तेन बद्धो नियन्त्रितः क्व गतः क्व प्राप्तः । तेन वैशम्पायनेन पुत्रपौत्रसंतत्या वंशोऽन्वयो न प्रतिष्ठां नीतो न प्रौढिमारोपितः । अनन्ता अपरिमिता दक्षिणा यज्ञसमाप्तेरनन्तरं दानं येष्वेवंविधैर्महाक्रतुभिर्महायज्ञैर्नेष्टं न यज्ञाः कृताः । सत्रेति । सत्राणि दानशालाः, कूपा अवटाः, प्रपाः पानीयशालाः, प्रासादा देवभूपानां सद्मानि तटक सरांसि आरामाः कृत्रिमवनानि, एतप्रभृतिभिः कीर्तनैर्नामभिर्मेदिनी वसुधा
558
कादम्बरी ।
-
टिप्प० - 1 'नैवासावेवं वञ्चन-पिशुनस्वभावो वा' इत्यपि पाठः । असौ (वैशम्पायनः ) एवं वञ्चनः प्रतारकः पिशुनः खलः स्वभावो यस्य तथाभूतो नास्तीत्यन्वयः । 2 अनु पश्चाद् बन्धः आनुगत्यं तस्मात् । 3 'आपूर्तेः कीर्तनैः' इति पाठः । आसमन्तात् विश्वजनानां तृप्तिसाधनैः कर्मभिः, कीर्तनैः कीर्तनीयैः कार्यैः ।
पाटा० - १ अप्यागच्छन्. २ च. ३ एवमस्नेहलः; एव वञ्चना; एव मम स्नेहस्य ४ राजपुत्रता. ५ अपूर्वैः कीर्तनैः.
-
कथायाम्
Page #86
--------------------------------------------------------------------------
________________
नैरलंकृता मेदिनी । नाकल्पस्थायि दिशोयायि यशो विप्रकीर्णम् । न गुरवोऽनुवृत्त्या सुखं स्थापिताः । न स्निग्धबन्धूनामुपकृतम् । न प्रणयिनो निर्विशेषविभवतां नीताः । न साधवः परिवर्धिताः । नानुजीविनः संविभक्ताः । ने दृष्टाः श्रुता वाऽङ्गनाः । न जातेन जीवलोकसुखान्यनुभूतानि । न तेन पुरुषार्थसाधनानां धर्मार्थकामानामेकोऽपि हि प्राप्तः । किमेतत्तेन कृतम् ?' इत्याक्षिप्तचेताश्चिन्तयचिरमिव तस्मिन्नेव तरुतले स्थित्वा शून्यहृदयोऽपि यथाक्रियमाणप्रसादसमानसंभावनासंभावितं विसैसर्ज सकलमेव राजकम् । उत्थाय तत्क्षणकृतमुत्तम्भिततुङ्गतरतोरणाबद्धचन्दनमालमुभयपाधै स्थापितोत्पल्लवमुखपूर्णहेमकलशम्, द्वारात्प्रभृति सिक्तमृष्टभूविभागम्, अन्तर्बहिश्च प्रकीर्णसुरभिकुसुमप्रकरम्, इतस्ततः संचरता कर्मान्तिकलोकेन गृहीतविविधभृङ्गारम्, मणिचामरतालवृन्तरत्नपादुकाद्युपकरणपाणिभिरिवनिताभिचाकीर्णम्, वितानतलवर्तिना मदामोदाधिवासितदिगाननेन राजहस्तिना गन्धमादनेन सनाथीक -
***********
नालंकृता न विभूषिता । आकल्पस्थाय्यायुगान्तस्थायि दिशोयायि दिग्गमनशीलं च यशः श्लोको न विप्रकीर्णं न विस्तारितम् । गुरवो हिताहितोपदेष्टारोऽनुवृत्त्यानुकूल्येन सुखं यथा स्यात्तथा न स्थापिता नैकत्र स्थिति कारिताः । स्निग्धाः स्नेहवन्तो ये बन्धवो भ्रातरस्तेषां नोपकृतमुपकृतिर्न कृता । प्रणयिनः सुहृदो निर्विशेषविभवतामशेषैर्यतां न नीता न प्रापिताः । साधवः सज्जना न परिवर्धिता न वृद्धिं प्रापिताः । अनुजीविनः सेवका न संविभक्ता न संविभागीकृताः । न कामुकतया दृष्टा वीक्षिताः श्रुता आकर्णिता वाङ्गनाः स्त्रियः । जातेनोत्पन्नेन सता जीवलोकसुखानि सांसारिकसौख्यानि नानुभूतानि । न भुक्तानीत्यर्थः । तेन वैशम्पायनेन पुरुषार्थसाधनानां पुरुषार्थकरणानां धर्मार्थकामानां मध्य एकोऽप्यन्यतरोऽपि न प्राप्तः । तेन वैशम्पायनेनैतत्किं कृतं किं विहितम् । इति पूर्वोक्तप्रकारेणाक्षिप्तचेता व्याकुलहृदयश्चिरमिव बहुकालसदृशं चिन्तयन्ध्यायंस्तस्मिन्नेव पूर्वोक्त एव तरुतले वृक्षतले स्थित्वा शून्यं हृदयं चेतो यस्यैवंभूतोऽपि यथायोग्यं क्रियमाणा विधीयमाना प्रसादो वस्त्रादिप्रदानम्, समानमत्यादरः, तयोः संभावना चिन्तना तया संभावितं संस्कृतं सकलमेव समग्रमेव राजकं राजसमूह विससर्ज गृहगमनाय निदेशं दत्तवान् । उत्थायोत्थानं कृत्वा तत्क्षणं तत्कालं कृतं विहितमुत्तम्भितं नियन्त्रितं तुङ्गतरमुच्चस्तरं यत्तोरणं तत्राबद्धा चन्दनमाला यस्मिन् । उभयेति । उभयपार्शयोमिदक्षिणयोः स्थापितो विन्यस्त उदूर्ध्वं पल्लवो मुखे यस्यैवंभूतः पूर्णहमकलशो यस्मिन् । द्वाराप्रभृति प्रतोल्या आरभ्य सिक्तः सिञ्चितो मृष्टः शोधितो भूमिभागो यस्मिन् । अन्तर्बहिश्च प्रकीर्णोऽवध्वस्तः सुरभिकुसुमानां सुगन्धपुष्पाणां प्रकरः समूहो यस्मिन् इतस्ततः संचरता भ्रमता कर्मान्तिकलोकेन सेवकजनेन गृहीतो विविधोऽनेकविधो भृङ्गारः कनकालुका यस्मिन् । मणीति । मणिखचिता एताः चामराणि वालव्यजनानि, तालवृन्तानि व्यजनानि, रत्नानां मणीनां पादुका ‘पावडी' इति प्रसिद्धा आदौ यस्मिन्नेतादृशमुपकरणमुपस्करः पाणौ हस्ते यासामेवंविधाभिरिवनिताभिर्वेश्याभिराकीर्णं भृतम् । वितानेति । वितानमुल्लोचस्तस्य तलमधोभागस्तत्र वर्तिना मदस्य दानस्य य आमोदः परिमलस्तेन अधिवासितं सुरभीकृतं दिशै आननं येनैवभूतेन राजहस्तिना नृपकरिणा गन्धमादनेन सनाथीकृतं सहितमेकपाधं यस्मिन् । अपरपार्थेऽपि तदितरपार्थेऽपि कल्पितं विरचितमिन्द्रायुधस्यावस्यावस्थानमुपवेशनस्थलं यस्मिन् । उपवाहयितुं - - - - - - टिप्प० - 1 सम्यक् स्वधनांशदानेन परितोषिताः । 2 एतस्मात्पूर्वं 'नाभ्यागताः कृता निस्तृषः' इति पाठोप्यावश्यकः । अभ्यागताः याचका मनोरथपूरणेन निस्तृषो निर्लालसा न कृता इत्यर्थः । 3 दिशामिति बहुवचनं युक्तम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ विशेष. २ न दृष्टश्रुताभ्यागता. कृताः निस्तृषः न; नाभ्यागताः कृता निस्तृषः. न. ३ काममोक्षाणाम्. ४ चिरमेव. ५ विसw. ६ संमृष्ट. ७ दिङ्मण्डलेन.
(चन्द्रापीडस्य चेतसि चिन्ता
उत्तरभागः।
559
Page #87
--------------------------------------------------------------------------
________________
तैकपार्श्वम्, अपरपार्थेऽपि कल्पितेन्द्रायुधावस्थानम्, उपवाह्यकरेणुकाक्रान्तबाह्याङ्गणम्, अशेषद्वारावहितबहुवेत्तृलोकम्, महत्त्वाद्गम्भीरतयानेकसत्त्वशरणतया च महाजलनिधिमनुकुर्वाणम् - तथा हि सवेलावनमिव येमावस्थितानेककरिघटापरिकरण, अन्तःप्रविष्टमहाशैलमिव गन्धमादनेन, सकल्लोलमिव संचरत्संभ्रान्तकान्तिकलोकोर्मिपरम्पराभिः, सावर्तमिव प्राहरिकजनमण्डलावस्थानैः, सलक्ष्मीकमिव वराङ्गनाभिः, सरत्नमिव महापुरुषैः, सहसमालमिव सितपताकाभिः, सफेनपटलमिव कुसुमप्रकरैः, हरिमिवानन्तभोगपरिकरं कायमानमविशत् ।
प्रविश्य चागृहीतप्रतिकर्मतया मलिनवेशाभिरुद्विग्नदीनमुखीभिरितस्ततो वैराङ्गनाभिर्यामिकलोकेन कन्तिकैश्च प्रणम्यमानस्तूष्णीमिवालोककारकेणे मदामोदेनावेदिते निसृष्ट -
***********
योग्या उपवाह्या याः करेणुका हस्तिन्यस्ताभिराक्रान्तं व्याप्तं बाह्याङ्गणं यस्मिन् । अशेषेति । अशेषाणि समग्राणि यानि द्वाराणि तेष्ववहितः स्थापितो बहुवेतृलोको यस्मिन् । महत्त्वादायतत्वाद्गम्भीरतयाऽलब्धमध्यतयानेके ये सत्त्वाः प्राणिनस्तेषां शरणतयाश्रयतया च महाजलनिधि महासमुद्रमनुकुर्वाणं विडम्बमानम् । तत्सादृश्यादिति भावः । तदेव दर्शयन्नाह - तथा हीति । सह वेलावनेन वर्तमानमिव । केन । यामावस्थिताश्चतुष्किकास्थिता या अनेककरिघटास्तासां परिकरेणोपस्करेण । उच्चैस्त्वसाम्यात्करिघटानां वनसाम्यम्; परिकरस्य श्वेतत्वसाम्याद्वेलायाः सादृश्यम् । अन्तःप्रविष्टो मध्यगतो महाशैलो महान्पर्वतो यस्मिन्नेवभूतमिव । केन । गन्धमादनेन । गन्धमादननाम्ना गजेनेत्यर्थः । उच्चत्वकृष्णत्वसाम्याद्गन्धमादनस्य पर्वतोपमानम् । सह कल्लोलेन तरङ्गेण वर्तमानमिव । काभिः । संचरन्त इतस्ततो भ्रमन्तः संभ्रान्ताश्चकिता ये कर्मान्तिकलोकाः सेवकजनास्त एवोर्मिपरम्पराः ताभिः । सहावर्तेन पयसां भ्रमेण वर्तमानमिव । कैः । प्राहरिका ये जनास्तेषां मण्डलेनावस्थानैरुपवेशनैः । सह लक्ष्म्या वर्तमानमिव । काभिः । वराङ्गनाभिर्वरयोषिद्भिः एतेन तासां लक्ष्मीतुल्यता सूचिता । सह रत्नेन मणिना वर्तमानमिव । कैः । महापुरुषैः सत्पुरुषैः । एतेन महापुरुषाणां रत्नसादृश्यमाविष्कृतम् । सह हंसमालया सितच्छदपङ्क्त्या वर्तमानमिव । काभिः । सितपताकाभिः श्वेतवैजयन्तीभिः । तासां हंसपङ्कितसादृश्यादिति भावः । सह फेनपटलेन वर्तमानमिव । कैः । कुसुमानां पुष्पाणां प्रकरैः समूहैः । हरिमिवं कृष्णमिव । अनन्तः । संख्यातुमयोग्यो यो भोगस्तस्य परिकरः परिवारो यस्मिन् । हरिपक्षेऽनन्तस्य शेषनागस्य भोगः शरीरं तदेव परिकरो यस्येत्यर्थः । एवंविधं कार्यमानमविशत् । प्रवेशं चकारेत्यर्थः ।
प्रविश्य च प्रवेशं कृत्वा चागृहीतमनात्तं प्रतिकर्माङ्गसंस्कृतं याभिस्तासां भावस्तत्ता तया मलिनः श्यामो वेषो नेपथ्यं यासां ताभिः । उद्विग्नमुद्धेगं प्राप्तमत एव दीनं स्वल्पतया दृश्यमानं मुखं यासामेवंविधाभिः । इतस्ततः संचरद्भिरिति शेषः । वराङ्गनाभिर्वरयोषिद्भिर्यामिकलोकेन चतुष्किकास्थितजनेन कर्मान्तिकैश्च दासादिभिश्च प्रणम्यमानो नमस्क्रियमाणस्तूष्णीमिव जोषमिवालोककारकेण जनोत्सारकवेत्रिणा मदो दानं तस्यामोदेन परिमलेन चावेदिते ज्ञापिते गन्धमादने गजविशेषे निसृष्टा दत्ता शून्योपयोगरहिता दृष्टिदृग्येनैवंभूतः - - - - - - - - - - - - - - - - - - --
- - - - -
- - - - - - - - - - टिप्प० - 1 अयं लेखकदोषः स्याद् यत् 'वेत्रिलोक' इति स्थाने 'वेत्तृ' इति दृश्यते । अस्तु. वेत्री राजप्रासादे वेत्रदण्डधारी । 2 'सहरिमिवानन्तभोगपरिकरैः' इत्येव पाठो योग्यः । पूर्व महाजलनिधिसाम्यस्य प्रकान्तत्वात् 'हरिमिव' इत्युक्तौ स्वातन्त्र्येण हरेः साम्ये सिद्धे पूर्वप्रकान्तस्य तस्य स्पष्टमसंगतिः । अनन्तैः भोग्यवस्तूनां परिकरैः समारम्भैः सहरिमिव (हरिणा शयानेन नारायणेन सहितमिव) । पक्षेऽर्थष्टीकायाम् । 3 पटमण्डपम् । 4 राज्ञां समीपे 'आलोकय' इति आलोकं दर्शनं जनयति स आलोककारकः तेनेव हस्तिनो मदामोदेन आवेद्यमाने सूच्यमाने ।
पाठा०-१ अवस्थित. २ यामकस्थित. ३ वाराङ्गनाभिः. ४ च.
(560
कादम्बरी।
कथायाम्
Page #88
--------------------------------------------------------------------------
________________
शून्यदृष्टिर्गन्धमादने शनैःशनैर्वासभवनमयासीत् । तत्र चापनीतसमायोगो विमुच्यापि शयनीये तरुतालवृन्तानिलेन संवीयमानोऽङ्गसंवाहकारिभिश्च शनैःशनैरपनीयमानागमनखेदः सकलरजनीप्रजागरखिन्नोऽपि चाप्राप्तनिद्रासुखो दुःखासिकया पुनरपि दुःखान्तरहेतुं चिन्तामेवाविशत् - 'यदि तावदप्रतिमुक्तस्तातेनाम्बया वा, महति शोकार्णवे निक्षिप्य तौ, तनयविरहशोकविक्लवं तातं शुकनासमम्बां च मनोरमामनावास्यास्मादेव प्रदेशाद् गच्छामि, तदा मयापि वैशम्पायनस्यानुकृतं भवति । निवृत्त्य पुनर्गमने चामुक्तिपक्षमाशङ्कते मे हृदयम् । तत्किं करोमि ? अथवाऽस्थान एवाप्रतिमुक्तिशङ्का मे, प्रियसुहृदात्मानं मां च परित्यजताप्यपरेण प्रकारेण गमनमुत्पादयता कादम्बरीसमीपगमनोपायचिन्तापर्याकुलमतेरुपकृतमेव । तदधुना वैशम्पायनप्रत्यानयनाय यान्तं न तातो नाम्बापि नार्यशुकनासोऽपि निवारयितुं शक्नोति माम् । गतश्च वैशम्पायनसहितस्तेनैव पार्थेन पुरस्ताद्गमिष्यामि । इति निश्चित्य तत्कालकृतं -
***********
शनैःशनैर्मन्दं मन्दं वासभवनं वासगृहमयासीदगमत् । तत्रेति । तस्मिन्वासभवनेऽपनीतो दूरीकृतः समायोगः संबन्धः । अन्येषामिति शेषः । येनैवभूतोऽङ्गानि हस्तपादादीनि विमुच्य । तत्प्रयोजकप्रयत्नाभावादिति भावः । शयनीये शय्यायां तरूणां वृक्षाणां तालवृन्तानि व्यजनानि तेषामनिलेन वायुना संवीज्यमान उद्भूयमानोऽङ्गस्य शरीरस्य संवाहः संमर्दस्तत्कारिभिस्तत्करणशीलैश्च । शनैःशनैर्मन्दमन्दमपनीयमानो दूरीक्रियमाण आगमनखेदो यस्यैवंभूतः । सकला समग्रा या रजनी तस्यां प्रजागरो जागरणं तेन खिन्नोऽपि खेद प्राप्तोऽपि दुःखेन कृच्छ्रेणासिकावस्थानं तयाऽप्राप्तं निद्रासुखं येनैवविधः पुनरपि द्वितीयवारमप्येकस्माद्दुःखादन्यानि दुःखानि दुःखान्तराणि तेषां हेतुं निदानभूतां चिन्ता मानसीव्यथामविशत्प्रविष्टोऽभूत् । यदिति । तावदादौ तातेन तारापीडेनाम्बया विलासवत्या वाऽप्रतिमुक्तोऽविसृष्टस्तौ मातृपितरौ महति गरिष्ठे शोकार्णवे शुक्समुद्रे निक्षिप्य पातयित्वा । तनयेति । तनयस्य वैशम्पायनस्य विरहो वियोगस्तस्माद्यः शोकस्तेन विक्लवं विधुर तातं शुकनासमम्बां च मनोरमामनावास्याश्वासनामकृत्वास्मादेव प्रदेशात्स्थानाद्यदि गच्छामि व्रजामि, तदा मयापि चन्द्रापीडेनापि वैशम्पायनस्यानुकृतं भवति सादृश्यं कृतं स्यात् । निवृत्त्य व्याधुट्य पुनर्गमने च मे मम हृदयं चेतोऽमुक्तिपक्षमाशङ्कत आरेकते । तदिति हेत्वर्थे । अहं किं करोमि किं कुर्वे । अथवेति पक्षान्तरे । मे ममाप्रतिमुक्तिशङ्का ततो मोचनं स्यान वेति सदेहः अस्थान एवानवसर एव । अयुक्तैवेत्यर्थः । यतः प्रियसुहृदा वल्लभमित्रेण वैशम्पायनेनात्मानं स्वं मां च चन्द्रापीड परित्यजता त्याग कुर्वताप्यपरेणान्येन प्रकारेण विधानेन गमनं यात्रामुत्पादयतोत्पत्तिं कुर्वता कादम्बर्या गन्धर्वसुतायाः समीपेऽभ्यर्णे गमनं यानं तस्योपायचिन्तया पर्याकुला व्याकुला मतिर्यस्यैवंभूतस्य ममोपकृतमेव । उपकारः कृत इत्यर्थः । एतन्मिषेण तत्र गमनं सुखेन भविष्यतीत्यर्थः । तत्तस्माद्धेतोर्वेशम्पायनस्य प्रत्यानयनं पश्चादानयनं तस्मै यान्तं व्रजन्तं न तातस्तारापीडो नाम्बापि विलासवत्यपि नार्यशुकनासोऽपि मां चन्द्रापीडं निवारयितुं प्रतिषेधयितुं शक्नोति समर्थो भवति । गतश्चेति । तत्र प्राप्तश्च वैशम्पायनसहितस्तेनैव पूर्वपरिशीलितेन पार्थेन वामदक्षिणयोरन्यतरेण पुरस्तादग्रे गमिष्यामि व्रजिष्यामि इति निश्चित्य निश्चयं कृत्वा तत्कालकृतं तदात्वविहितं वैश -
-
-
-
-
-
-
-
-
- - - - - - - - - - - - - - - टिप्प० - 1 गात्रात् अपनीतः समायोगः परिच्छदो येन । 2 अननुमत इति यावत् । 3 पितृभ्यामविसर्जनपक्षम् ।
पाठा० - १ तनु. २ वीज्यमानो. ३ निःक्षिप्य. ४ अस्थानप्रतिमुक्ति. ५ गमनमप्युत्पादयता. ६ अग्रतो.
पटमण्डपे दैनिककार्यकरणम्
उत्तरभागः।
561
Page #89
--------------------------------------------------------------------------
________________
वैशम्पायनवियोगदुःखं परिणामसुखमौषधमिव बहु मन्यमानो मुहूर्तमिव स्थित्वा विश्रान्तः सुखितैरगैरापूरिते तृतीयार्धयामशो शरीरस्थितिकरणायोदतिष्ठत् । उत्थाय च यत्रैव कादम्बरी तत्रैव वैशम्पायन इति स्वधैर्यावष्टम्भेनैव संस्तभ्य हृदयं शून्यान्तरात्मा पुनरेव संवर्गिताशेषराजलोकः शरीरस्थितिमकरोत् ।
कृताहारश्चान्तर्चलतो मदनानलस्य वैशम्पायनविरहशोकाग्नेश्च बहिरपि संतापदानाय साहायकमिव कर्तुमुपरिस्थितश्चातिकष्टमष्टास्वपि दिक्षु युगपत्प्रसारितकरः करोम्ययत्नेनैव संतापमित्याकलय्येव गगनतलमध्यमारूढे सवितरि, आतपव्याजेन रजतद्रवमिवोत्तप्तमुद्गरति रश्मिजाले, निर्भिद्य विशन्तीष्विव शरीरमातपकणिकासु, पुज्यमानप्राणिसंघातासु तलप्रवेशात्संकटायमानासु पादपच्छायासु, बहिरालोकयितुं चाप्यपारयन्तीषु दृष्टिषु, ज्वलत्स्विव दिङ्मुखेषु, दुःस्पर्शासु भूमिषु, निःसंचारेषु पथिषु, संकटप्रपाकुटीरोदरोदपीतिपुञ्जितेष्वध्वन्येषु, नाडिंधमश्वासातुरेषु स्वनीडावस्थायिषु पत्ररथेषु, पल्वलान्तर्जलप्रवेशितेषु महिष -
***********
म्पायनस्य वियोगदुःखं विरहकृच्छ्रमौषधमिव, अर्थात्कटुकभैषज्यमिव, परिणामे प्रान्ते सुखं सौख्यकृद्धहु यथा स्यात्तथा मन्यमानो जानानो मुहूर्तमिव घटिकाद्वयसदृशमिव स्थित्वा विश्रान्तो विश्रामं गतः सुखितैः सुखं प्राप्तैरङ्गैस्तृतीयोऽर्थो यस्मिनैवंविधो यो यामः प्रहरस्तस्य शो जलज आपूरित वादिते सति शरीरस्थितिकरणायोदतिष्ठदुत्थितो बभूव । उत्थाय चोत्थानं कृत्वा यत्रैव यस्मिन्नेव स्थले कादम्बरी तत्रैव तस्मिन्नेव प्रदेशे वैशम्पायन इति स्वधैर्यावष्टम्भेनैव स्वकीयसत्त्वावलम्बनेनैव हृदयं चेतः संस्तभ्य संस्तम्भनं कृत्वा शून्योऽन्तरात्मा चेतो यस्य स तथा पुनरेव द्वितीयवारमेव संवर्गित एकीभूतोऽशेषः समग्रो राजलोको यस्यैवंभूतः शरीरस्थितिं देहपालनामकरोदकल्पयत् ।
कृतो विहित आहारो भोजनं येनैवंविधश्च सन्मदनानलस्य कामवढेरन्तर्मध्ये ज्वलतः प्रज्वलतः सतो वैशम्पायनस्य विरहो वियोगस्तस्माद्यः शोकः शुक् स एवाग्निर्वह्निस्तस्य च बहिरपि ज्वलतः सतः संतापदानाय तप्तिवितरणाय साहायकमिव साहाय्यमिव कर्तुं विधातुमुपरिस्थितश्चातिकष्टमतिकृच्छ्रमष्टास्वपि दिक्षु युगपदेकवारं प्रसारितकरो विस्तारितकिरणोऽयत्नेनैवाप्रयासेनैवाह संतापं करोमीत्याकलय्येवाकलनां कृत्वेव गगनतलमध्यं सवितरि सूर्य आरूढे प्राप्ते सति, आतपव्याजेनालोकमिषेणोत्तप्तमुष्णीकृतं रजतद्रवमिव रूप्यरसमिव रश्मिजाले किरणसमूह उद्गिरत्युद्धमति सति, शरीरं देहं निर्भिय द्विधा कृत्वा विशन्तीष्विव प्रवेशं कुर्वन्तीष्विवातपकणिकासु सत्सु । पुज्यमानः संघातीक्रियमाणः प्राणिसंघातो जीवसमूहो यास्वेवंविधासु पादपच्छायासु तलप्रवेशादधोगमनात् । किरणानामिति शेषः । संकटायमानासु संकीर्यमाणासु सत्सु । बहिरप्यालोकयितुं वीक्षितुं दृष्टिषु नेत्रेष्वपारयन्तीष्वशक्नुवतीषु सत्सु । ज्वलत्स्विव दह्यमानेष्विव दिङ्मुखेष्वाशाननेषु सत्सु । दुर्दुःखेन स्पर्शो यासामेवंविधासु भूमिषु सत्सु, निःसंचारेषु संचरणरहितेषु पथिषु मार्गेषु सत्सु । संकटा अविस्तीर्णा याः प्रपाः पानीयशालास्तासां कुटीराणि तेषामुदरेषु मध्येषूदकस्य पानमुदपीतिस्तदर्थं पुञ्जितेषु संघीभूतेष्वध्वन्येष्वध्वनीनेषु सत्सु । नाडिं धमतीति नाडिंधम एवंविधो यः श्वासो निःश्वासस्तेनातुरेषु पीडितेषु स्वनीडानि स्वकीयकुलायास्तेष्ववस्थायिष्ववस्थानकारिषु पत्ररथेषु पक्षिषु सत्सु । पल्वलान्यखातसरांसि तेषामन्तर्जले प्रवेशितेषु प्रवेशं कारि - - - - - - - - -- टिप्प० - 1 'संवर्जितराजलोकः' इत्येव पाठः । विसर्जितो राजन्यगणो येन सः, शरीरस्थितिकरणे विसर्जनस्यैवौचित्यात् ।
पाठा० - १ निद्राविश्रान्तसुखितैः; स्थित्वा विश्रान्तसुखितैः. २ संवर्जितराजलोकः. ३ पुञ्जमान. ४ दृष्टिषु आलोकेषु, दुरालोकेषु. ५ दिङ्मुखेषु ज्वलत्स्विव. ६ निःसंकट. ७ नाडिंधम.
562
कादम्बरी।
कथायाम्
Page #90
--------------------------------------------------------------------------
________________
वृन्देषु, अरविन्ददलशकलकिंजल्कविच्छुरितमिच्छाविलोडितोत्रुटितबिसकाण्डच्छेददन्तुरं निपानसरःपङ्कमारोहत्सु करियूथेषु, रक्ततामरसकान्तिषु ललनाकपोलोपान्तेषु दलितमुक्ताक्षोदानुकारिणीषु विराजमानासु धर्मजलकणिकावलीषु, स्मर्यमाणायां ज्योत्स्नायाम्, गृह्यमाणेषु तुषारगुणेषु, वाञ्छ्यमाने पयोदकालाभ्यागमे, अभ्यर्थ्यमाने दिवसपरिणामे, प्रदोषदर्शनाकाक्षिषु हृदयेषु, उत्थाय सरस्तीरकल्पितमनवरतापतज्जलासारसेकनिवारितोष्णकरकिरणसंतापम्, एकसंतानावलीधारावर्षवेगवाहिन्या निर्झरिण्येव कुल्यया परिक्षिप्तम्, अन्तरालम्बितजलजम्बूप्रवालाहितान्धकारम्, आमुक्तकुसुमपल्लवलतावृताखिलस्तम्भसंचयम्, आमोदमानसरसस्फुटितारविन्दराशिदत्तप्रकरम्, आकीर्णसरसबिसकाण्डम्, अकाण्डकल्पितप्रावृट्कालमितस्ततो वर्षन्तीभिः शैवलप्रवालमञ्जरीभिः, जलदेवताभिरिव सद्यः स्नाना -
***********
तेषु महिषवृन्देषु रक्ताक्षसमूहेषु सत्सु । अरविन्देति । अरविन्दस्य कुशेशयस्य दलशकलानि पत्रखण्डानि किंजल्कं च केसरं ताभ्यां विच्छुरितं कुर्बुरितमिच्छया विलोडितेन मथनेनोत्रुटितानि यानि बिसकाण्डानि तेषां छेदास्तैर्दन्तुरं मनोहरमेतादृशं निपानसरो 'निवाण' इति लोके प्रसिद्ध यत्सरस्तटाकं तस्य पङ्क कर्दमकरियूथेषु हस्तिवृन्देष्वारोहत्सु प्रविशत्सु सत्सु । रक्तं यत्तामरस कमलं तद्वत्कान्तिर्येषामेवंविधेषु ललनानां कपोलानामुपान्तेषु समीपेषु सत्सु । दलितेति । दलिता प्रदिता या मुक्ता मौक्तिकानि तासां क्षोदश्चूर्णं तदनुकारिणीषु तत्सादृश्यकरणशीलासु धर्मजलस्य प्रस्वेदस्य कणिकानामावलीषु श्रेणिषु विराजमानासु शोभमानासु सत्सु । ज्योत्स्नायां चन्द्रिकायां स्मर्यमाणायां स्मृतिगोचरीक्रियमाणायां सत्याम्, तुषारगुणेषु हिमगुणेषु गृह्यमाणेषु सत्सु । पयोदकालस्य प्रावृट्समयस्याभ्यागम आगमने वाञ्छ्यमान ईप्स्यमाने सति । दिवसस्य वासरस्य परिणामेऽवसानेऽभ्यर्थ्यमाने प्रार्थ्यमाने सति । प्रदोषो यामिनीमुखं तस्याकाङ्क्षिषु वाञ्छकेषु हृदयेषु मनःसुसत्सु, उत्थायोत्थानं कृत्वा जलमण्डपमयासीदिति दूरेणान्वयः । जलमण्डपं विशेषयन्नाह - सर इति । सरसस्तटाकस्य तीरं तट तस्मिन्कल्पितं विहितमनवरतं निरन्तरमापतन्क्षरन्यो जलासारो वेगवदृष्टिस्तेन सेकः सिञ्चनं तेन निवारितो दूरीकृत उष्णकरस्य सूर्यस्य किरणसंतापो येन स तम् । एकसंतानानामेकपरम्पराणामावलीभिर्यो धारावर्षस्तस्य वेग वहतीत्येवंशीलया निर्झरिण्येव नद्येव कुल्यया सारिण्या परिक्षिप्तं वलयितम् । अन्तरेण । अन्तरा मध्य आलम्बितानि जलजम्बूप्रवालानि वेतसकिसलयानि तैराहितः स्थापितोऽन्धकारो यस्मिन् । आमुक्तेति । आमुक्ता मुकुलकुसुमपल्लवा याभिरेवंविधा या लता वल्लयस्ताभिरावृत आच्छादितोऽखिलस्तम्भसंचयः समग्रस्थूणासमूहो यस्मिन् । आमोदेति । आमोदमानानि विदूरगगन्धवन्ति सरसानि रसोपयुक्तानि स्फुटितानि विकसितानि यान्यरविन्दानि कमलानि तेषां राशिः समूहस्तस्य दत्तः प्रकरो निवहो यस्मिन् । आकीर्णेति । आकीर्णानि व्याक्षिप्तानि सरसबिसकाण्डानि मृणालसमूहा यस्मिन् । अकाण्डेऽप्रस्तावे कल्पितः कृतः प्रावृट्कालो वर्षासमयस्तमिव । काभिः । शैवलानि तेषां प्रवालमञ्जयः किसलयवलयस्ताभिः । किं कुर्वन्तीभिः । इतस्ततो वर्षन्तीभिर्यत्र तत्र निपतन्तीभिः । पुनः कीदृशं जलमण्डपम् । बह्वीभिर्वाराङ्गनाभिरियोषिद्भिरुपेतं सहितम् । कथंभूताभिः । सद्यस्तत्कालं यत्स्नानं तेनाः समुनश्चिकु -
- -- - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 ललनाकपोलेषु इति न स्वतन्त्रम्, अपि तु रक्ततामरससदृशेषु ललनाकपोलेषु (अधिकरणेषु) धर्मजलकणिकावलीषु विराजमानासु सतीष्वित्यन्वयः । 2 अन्तरा मध्ये आलम्बितानि लम्बनेन गृहीतानि जलानि यैः तादृशा ये जम्बूनां प्रवालाः पल्लवाः तैः, जम्बूपल्लवानां हारित्याधिक्याच्छ्यामतेत्याशयः । 3 आमुक्ताभिस्तस्मिन्स्थाने न्यस्ताभिः कुसुमपल्लवलताभिरावृत इति सरलोऽर्थः । 4 पाठान्तरेषु नीचैर्विधृतं विशेषणद्वयमपि ग्रन्थस्थं रसिकैरायोज्यमेतन्मध्ये ।
पाठा० - १ त्रुटित. २ स्मर्यमाणायां च. ३ आवाञ्छयमाने. ४ धारावेग. ५ संचयमतनुहरिचन्दनचर्चा मरकतश्यामपद्मिनीपलाशास्तीर्णसमस्तभूतलमामोद. ६ काण्डाकाण्डकल्पित.
(मध्याह्नः
उत्तरभागः।
463
Page #91
--------------------------------------------------------------------------
________________
चिकुरहस्ताभिरुपगृहीतसुरभिकोमलजलाकाभिरनाश्यानचन्दनाङ्गरागहारिणीभिरिवलयमात्राभरणाभिरवतंसितबालशैवलप्रवालाभिमृणालतालवृन्तकर्पूरपटवासहरिचन्दनचन्द्रकान्तमणिदर्पणाद्युपकरणपाणिभिर्बह्वीभिर्वाराङ्गानाभिरुपेतम्, परिभवस्थानमिव निदाघसमयस्य, निदानमिव शीतकालस्य, निवेशमिव वारिवाहानाम्, तिरस्कारमिव रविकिरणानाम्, हृदयमिव सरसः, सहायमिव हिमगिरेः, स्वरूपमिव जडिम्नः, आवासमिव विभावरीणाम्, प्रत्याघातमिव दिवसस्य जलमण्डपमयासीत् ।
तत्र चातिरम्यतया क्षुभितमकरध्वजोत्कलिकासहसविषमं जलासारशिशिरतया संधुक्षितसुहृद्वियोगानलं महासमुद्रमिव गम्भीरं तं दिवसमेकाकी कथंकथमपि स्वधैर्ययानपात्रेणालङ्घयत् । लोहितायमानातपे च सायाह्ने निर्गत्य बहुलगोमयोपलेपहरिते मन्दमन्दमारुता -
***********
रहस्तः केशकलापो यासां ताभिः । आर्द्रत्वसाम्यदुप्रेक्षते - जलदेवताभिरिव जलाधिष्ठात्रीभिरिव - उपेति । उपगृहिताः स्वीकृताः सुरभयः कोमला मृदवो जलाकाः क्लिन्नवासांसि याभिस्तास्ताभिः । 'जला क्लिन्नवाससि' इत्यभिधानचिन्तामणिः । अनेति । अनाश्यानोऽशुष्को यश्चन्दनाङ्गरागचन्दनविलेपनं तेन हारिणीभी रुचिराभिः । हारेति । हारश्च वलये चेति द्वन्द्वः । केवले हारवलये हारवलयमात्रमाभरणमलकारो यासां ताभिः । अवेति । अवतसिताः शेखरीकृता बाला नव्याः शैवलप्रवालाः शैवलकिसलयानि याभिः । मृणालेति । मृणालानि बिसानि, तालवृन्तानि व्यजनानि, कर्पूरो हिमवालुका, पटवासः पिष्टातः, हरिचन्दनं चन्दनम्, चन्द्रकान्तमणयश्चन्द्रमणयः, दर्पणो मुकुरः, एत आदौ येषामेतादृशमुपकरणमुपस्करः पाणौ हस्ते यासां ताभिः । परीति । निदाघसमयस्योष्णकालस्य परिभवस्थानमिव पराभवस्थलमिव । शीतकालस्य शिशिरसमयस्य निदानमिव कारणमिव । वारिवाहानां मेघानां निवेशमिवाश्रममिव । रविकराणां सूर्यकिरणानां तिरस्कारमिव न्यक्कारमिव । हृदयमिति । सरसस्तटाकस्य हृदयमिव मध्यमिव । सहायमिव सखायमिव हिमगिरेस्तुहिनाचलस्य । क्वचित् ‘सहोदरमिव' इति पाठः । तत्र भ्रातरमिवेत्यर्थः । जडिम्नो जडतायाः स्वरूपमिव स्वलक्षणमिव । विभावरीणां रजनीनामावासमिव गृहमिव । दिवर वासरस्य प्रत्याघातमिव प्रहारमिव जलमण्डपमयासीदित्यन्वयस्तु प्रागेवोक्तः ।
तत्र चेति । तस्मिन्स्थलेऽतिरम्यतयातिमनोहरतयकाक्यसहायस्तं दिवसं कथंकथमपि महता कष्टेन स्वकीयं यद्धैर्यं तदेव यानपात्रं वाहनं तेनालङ्घयदुल्लङ्क्त्तिवान् । दिवसं विशेषयन्नाह - क्षुभितेति । क्षुभितं क्षुब्धं यन्मकरध्वजस्य कंदर्पस्योत्कलिकासहसमुत्कण्ठासहसं तेन विषम विकटं जलस्याम्भस आसारो वेगवदृष्टिस्तेन शिशिरतया शीतलतया संधुक्षितः प्रकटीकर्तुमारब्धः सुहृद्वियोगानलो मित्रविरहानलो येन स तम् । महासमुद्रमिव महाजलधिमिव गम्भीरं गभीरम् । विरहाकुलितचेतस्कत्वादप्राप्तप्रान्तमित्यर्थः । लोहितायमानो रक्तायमान आतप आलोको यस्मिन्नेतादृशे च सायाह्ने संध्यायां निर्गत्य गृहादहिरागत्य बहुलं दृढं यद्गोमयं छगणं तेनोपलेप उपलिम्पनं तेन हरिते नीले नीलवणे, मन्दं मन्दं यथा स्यात्तथा मारुतेन वायुनाहतस्ताडितोऽत -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 उपगृहीताः जलार्दिकाः (जलार्द्राः) पद्मपत्रतालवृन्तानि याभिरित्यर्थः । 'तथा जला पवनैर्न निर्ववी' इति माघः । 2 'सुहृद्वियोगौनिलम्' इत्येव पाठः । जलासारेण और्वः (वाडवः) अनल एव संधुक्ष्यते, न साधारणः ।
पाठा० - १ निवेशनम्. २ रविकराणाम्. ३ हिमगिरेः स्वरूपमिव. ४ हृदय. ५ वियोगौनिलम्. ६ कथमपि.
(564)
564
कादम्बरी।
कथायाम्
Page #92
--------------------------------------------------------------------------
________________
हतोत्तरलायमानधवलकुसुमप्रकरशोभिनि वासभवनाङ्गणे क्षणमिवास्थाने समासनपार्थिवैः सह वैशम्पायनालापेनैव 'स्थित्वा द्वितीय एव यामे चलितव्यम् । सज्जीकुरुत साधनम् इत्यादिश्य बलाध्यक्षमृक्षोदय एव विसर्जिताशेषराजलोको वासभवनमध्यवसत् । अथातिचिरान्तरितोज्जयिनीदर्शनोत्सुको विनापि प्रयाणनान्या सकल एव कटकलोकः संवत्य प्रावर्तत गन्तुम् । आत्मनाप्यलब्धनिद्राविनोदोऽवतरत्येव तृतीये यामे तुरगकरिणीप्रायवाहनेनानतिबहुना राजलोकेन सह विरलकटकसमर्देन वर्मनाऽवहत् । अथाध्वनैव सह क्षीणायां यामवत्याम, रसातलादिवोन्मज्जत्सु सर्वभावेषु, उन्मीलन्तीष्विव दृष्टिषु, पुनरिवान्यथा सृज्यमाने जीवलोके, विभज्यमानेषु निम्नोन्नतेषु, विरलायमानेष्विव वनगहनेषु, संकुचत्स्विव तरुलतागुल्मेषु, गगनतलमारोहन्त्याः पदे इव बहुललाक्षारसालोहिते दिवसश्रियः, अवश्यायसेकानवपल्लव इवोद्भिद्यमाने पूर्वाशालतायाः, कमलिनीरागदायिनि दिवसकरबिम्बे विस्पष्टे, प्रभातसमये, कटकलोकेनैव सह परापतितवानुज्जयिनीम् ।
***********
एवोत्तरलायमान उत्कम्पायमानो यो धवलकुसुमप्रकरः श्वेतपुष्पनिकरस्तेन शोभिनि शोभायमाने वासभवनाङ्गणे निवासगृहाजिर आस्थान आस्थानसभायां समासनाः पार्श्ववर्तिनो ये पार्थिवा राजानस्तैः सह वैशम्पायनस्यालापेन किंवदन्त्या क्षणमिव क्षणसदृशं स्थित्वास्थाय द्वितीय एव यामे प्रहरे चलितव्यं प्रस्थातव्यम्, साधनं सैन्यं सज्जीकुरुत सज्जयत । बलाध्यक्ष सेनापतिमित्यादिश्येत्यादेशं दत्त्वा ऋक्षोदय एव नक्षत्रोदय एव विसर्जितो गृहगमनाय दत्ताज्ञः अशेषः समग्रो राजलोको येनैवंभूतो वासभवनमध्यमवसदध्यतिष्ठत् । अथेति प्रकारान्तरे । अतिचिरकालेनान्तरितं तिरोहितं यदुज्जयिन्याः पुष्पकरण्डिकाया दर्शनमवलोकनं तेनोत्सुक उत्कण्ठितः सकल एव समग्र एव कटकलोकः सैन्यजनः संवृत्य सज्जीभूयेत्यर्थः । विनापि प्रयाणनान्या यात्रापटहवादनं विनापि गन्तुं प्रावर्तत प्रवृत्तोऽभूत् । आत्मनापि स्वेनाप्यलब्धोऽप्राप्तो निद्रायाः प्रमीलाया विनोदो विलासो येनैवंभूतः । तृतीये तार्तीयीके यामे प्रहरेऽवतरत्येवावतारं प्राप्नुवत्येव, तुरगा अश्वाः, करिण्यो हस्तिन्यः, ता एव प्रायो बाहुल्येन वाहनं युग्यं यस्यैवंभूतेनानतिबहुना स्वल्पेन राजलोकेनोपजनेन सह विरलस्तुच्छः कटकस्य सैन्यस्य संमर्दः संबाधो यस्मिन्नेतादृशेन वर्मना मार्गेणावहदगमत् । अथेति प्रकारान्तरे । अध्वनैव मार्गेणैव सह यामवत्यां त्रियामायां क्षीणायां सत्या सर्वभावेषु समग्रपदार्थेषु रसातलादिव पातालादिवोन्मज्जत्सूपर्यागच्छत्सु, दृष्टिषु दृशून्मीलन्तीष्विव विकसन्तीष्विव, पुनरिव द्वितीयवारमिव जीवलोकेऽन्यथान्येन प्रकारेण सृज्यमाने निष्पाद्यमाने, निम्नानि चोचतानि च निम्नोत्रतानि तेषु भावेषु विभज्यमानेषु पृथविक्रयमाणेषु सत्सु, वनगहनेष्वरण्यगह्वरेषु विरलायमानेष्विवाऽनिबिडायमानेष्विव सत्सु, तरवो वृक्षाः, लता वल्लयः, गुल्मा गुच्छाः, तेषु, संकुचत्स्विव संकोचं प्राप्नुवत्स्विव, दिवसश्रियो वासरलक्ष्म्या गगनतलं व्योमतलमारोहन्त्या आरोहणं कुर्वन्त्या बहुषु निबिडो यो लाक्षारसो जतुद्रवस्तेनालोहित ईषद्रक्ते पदे इवै चरणन्यासे इव, पूर्वाशालतायाः प्राचीवल्ल्या अवश्यायो हिमं तस्य सेकासिञ्चनानवपल्लवे इव नवीनकिसलये इवोद्भिद्यमान उद्भेदं प्राप्यमाणे कमलिन्या मृणालिन्या रागदायिनि प्रीतिप्रदे दिवसकरबिम्बे सूर्यमण्डले सति विस्पष्टे, प्रभातसमये प्रत्यूषक्षणे कटकलोकेनैव सैन्यजनेनैव सहोज्जयिनी विशाला परापतितवान्प्राप्तवान ।
- - - - - - - - - - - - - - - - - - - टिप्प० -1 रजनीप्रारम्भ एवेत्यर्थः । 2 निम्नोत्रतेषु भागेषु प्रकाशोदयात्स्पष्टदर्शनेन विभज्यमानेषु पृथगुरूपेण दृश्यमानेषु सत्सु । 3 सूर्यविम्बस्य वासरलक्ष्मीपदत्वेन, आशालतापल्लवत्वेन चोत्प्रेक्षा ।
पाठा० -१ सज्जीभूय. २ सयोऽवतरनेव. ३ लाक्षारस. ४ कमलिनीराग.
(चन्द्रापीडस्योज्जयिनीयात्रा
उत्तरभागः।
565
Page #93
--------------------------------------------------------------------------
________________
अथ दूरत एव प्रसृतिद्वन्द्वसंस्थितैश्च पुज्यमानैश्च पुञ्जितैश्चाबद्धमण्डलैचोपविष्टैः वलितैश्च दत्तकतिपयशून्यपदैश्च निवर्त्यमानैश्चागच्छद्भिश्चोन्मुखैश्चाधोमुखैचोद्धाष्पदृष्टिभिश्च विवर्णदीनवदनैश्च महाकष्टशब्दमुखरैश्च दुःखाधिक्याहितमौनश्च मुनिभिरपि मुमुक्षुभिरपि वीतरागैरपि निःस्पृहैरप्युदासीनैरपि दुर्जनैरपि स्नेहपरवशैः पितृभिरिव सुहृद्भिरिव स्निग्धबन्धुभिरिव च नगरीनिर्गतैराया॑पृच्छ्यमानं कथ्यमानं च विचार्यमाणं चानुभाव्यमानं च वैशम्पायनवृत्तान्तमेव समान्ताच्छुश्राव । शृण्वंश्च चकार चेतसि - ‘बाह्यस्य तावज्जनस्येयमीदृशी समवस्था किं पुनर्येनासावकेन लालितः संवर्धितो वा बालचाटवोऽस्यानुभूताः । तदतिकष्टं मे वैशम्पायनेन विना तातस्य शुकनासस्याम्बाया मनोरमाया वा दर्शनम् इत्येवं चिन्तयनासानिहितोद्धाष्पदृष्टिरदृष्टसर्ववृत्तान्त एव विवेशोज्जयिनीम् ।
अवतीर्य च स राजकुलद्वारि प्रविशनेवार्यशुकनासभवनं सह देव्या विलासवत्या गतो -
***********
अथेति । उज्जयिनीगमनानन्तरं दूरत एव दविष्ठादेव प्रसृतः पाणिः प्रसृतिस्तस्य द्वन्द्वेन संस्थितैरूव॑दमैनियोजिताञ्जलिभिरित्यर्थः । पुज्यमानैः संघीक्रियमाणैश्च पुञ्जितैः संघीकृतैश्चाबद्धं कृतं मण्डलं यैरेवंविधैश्चोपविष्टैर्निषण्णैश्च वलितैर्गतैश्च दत्तानि कतिपयानि कियन्ति शून्यपदानि यैरेवंभूतैश्च निवर्त्यमानैः पश्चादागच्छद्भिश्चागच्छद्भिः समागच्छद्भिश्चोन्मुखैरूद्मननैश्च, अधोमुखैींचैर्मुखैश्च, उदूधैं बाष्पो यास्वेवंविधा दृष्टयो येषामेवंविधैश्च, विवर्णानि विच्छायानि दीनानि करुणानि वदनानि मुखानि येषामेतादृशैश्च, महान्तो ये कष्टशब्दा हाहाप्रभृतयस्तैर्मुखरैर्वाचालैश्च, दुःखाधिक्येनाहितं विहितं मौनं यैरेवंविधैश्च मुनिभिरपि मुमुक्षुभिरपि वाचंयमैरपि वीतरागै रागरहितैराप्तैरपि निःस्पृहैर्निरीहैरपि, उदासीनैर्मध्यस्थैरपि, दुर्जनैः खलैरपि, स्नेहपरवशैः प्रीतिपराधीनैः, पितृभिरिव जनकैरिव, सुहृद्भिरिव मित्रैरिव, स्निग्धबन्धुभिरिव हितकृद्भ्रातृभिरिव च नगर्या उज्जयिन्या निर्गतैर्बहिरागतैः पूर्वोक्तजनैरा, पीडयापृच्छ्यमानं पृच्छाविषयीक्रियमाणं कथ्यमानमुच्यमानं च विचार्यमाणं च विचारविषयीक्रियमाणं चानुभाव्यमानं भावनाविषयीक्रियमाणं च वैशंपायनस्य वृत्तान्तमुदन्तमेव समन्तात्सर्वत्र शुश्रावाकर्णयामास । श्रृण्वंश्चेति चेतसि चित्ते चकार । बाह्यस्य बहिःस्थस्य तावज्जनस्य लोकस्येदृशी समवस्था दशा येनासौ वैशम्पायनोऽङ्केन क्रोडेन लालितः पालितः संवर्धितो वृद्धि प्रापितः । अस्य वैशम्पायनस्य बालचाटवः शिशुचाटवः । 'चटु चाटु प्रियप्रायम्' इति हैमः । अनुभूता अनुभवविषयीकृतास्तेषां किं पुनर्भण्यते । तत्तस्माद्धेतोर्मे मम वैशम्पायनेन विना तातस्य शुकनासस्य अम्बाया मनोरमाया वा दर्शनमवलोकनमतिकष्टमतिकृच्छ्रम् । इत्येवं पूर्वोक्तप्रकारेण चिन्तयन्ध्यायन्नासायां गन्धज्ञायां निहिता स्थापितोद्धाष्पा दृष्टियेन । अदृष्टोऽनिरीक्षितः सर्ववृत्तान्तो येनैवंभूत एवोजयिनी विशालां विवेश प्रविष्टवान् ।।
अवतीर्यावरोहणं कृत्वा च स चन्द्रापीडो राजकुलद्वारि नृपकुलप्रतोल्यां प्रविशन्नेव प्रवेशं कुर्वन्नेवार्यशुकना -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'दूरत एव प्रभृति द्वन्द्वस्थितैश्च पुञ्जितैश्च इत्यादिः पाठः । वैशम्पायनवृत्तान्तचर्चाय लोकानां नानविधाऽवस्थितिः । दूरत एव प्रभृति दूरादेव आरभ्य केचिद् द्वन्द्वस्थिताद्वाभ्यां मिलित्वा स्थिताः, केचित् पुजिताः, इत्याद्याशयः । 2 'निवर्तमानैः आगत्य परावर्तमानैः, सहसा अनिष्टवार्ताश्रवणशङ्कयेत्यर्थः ।
पाठा० - १ प्रभृतिद्वन्द्वस्थितैः. २ पुञ्ज्यितैश्च पुज्यमानैश्च. ३ मण्डलैश्चो_श्च. ४ चलितैश्च वलितैश्च. ५ अधिक. ६ निःसङ्गरपि. ७ निस्पृहैः. ८ चाकर्ण्यमानं च. ९ चानुवर्ण्यमानं च. १० यैः. ११ बाल. १२ नासाग्र.
स
566
कादम्बरी।
। कथायाम्-)
Page #94
--------------------------------------------------------------------------
________________
राजेति शुश्राव । श्रुत्वा च निवर्त्य तत्रैव जगाम । गच्छंश्च समीपवर्ती 'हा वत्स वैशम्पायन, अद्यापि मदकलालनोचितो बाल एवासि । कथं त्वमेकाकी व्यालशतसहसभीषणे निर्मानुषे तस्मिञ्शून्यारण्ये स्थितः । केने तत्रापि सर्वसत्त्वव्याघातकारिणी शरीररक्षा कृता । केन वैषम्यप्रतिपन्थिनी शरीरस्थितिः संपादिता । केन निद्रासुखदायि शयनीयमुपकल्पितम् । कस्त्वयि बुभुक्षिते तृषिते सुषुप्सति वा दुःखितो ममोत्सङ्गमुत्सृज्य । समानसुखदुःखावधूरपि न पुत्रक, त्वयोपात्ता । आगतमात्रस्यैव ते पितरमनुज्ञाप्यात्यर्थं वधूमुखमालोकयिष्यामीति यन्मया चिन्तितं केवलं तन्मे मन्दपुण्याया न संपन्नम् । अपरं तवापि दर्शन दुर्लभं भूतम् । वत्स, यत्र तेऽवस्थातुमभिरुचितं नयस्व तत्रैव मामपि पितरं विज्ञप्य । त्वामपश्यन्ती न जीवामि । तात, त्वयाहं शैशवेऽपि नावमानिता, कुतस्तवेयमेकपद एवेदृशी निष्ठुरता जाता । आ जन्मनः प्रभृति न दृष्टमेव यस्य कुपितमाननम्, तस्य ते कुतोऽयमेवं -
***********
सभवनं विलासवत्या सह राजा तारापीडो गत इति शुश्रावाकर्णयामास । श्रुत्वाकर्ण्य च निर्वर्त्य व्यावृत्य तत्रैवार्यशुकनासभवन एव जगाम गतवान् । गच्छन्द्रजश्च समीपवर्ती निकटस्थो विलासवत्या देव्या स्वयं संस्थाप्यमानां निर्वायमाणामपि मनोरमामेतान्यन्यानि च वचनानि विप्रलपन्ती ब्रुवन्तीमश्रौषीदिति दूरेणान्वयः । इतियोत्यमाह - हा वत्सेति । हा इति खेदे । हे वत्स वैशम्पायन, अद्यापि सांप्रतमपि मदके क्रोडे लालनं तत्रोचितो योग्यो बाल एवासि । कथं त्वमेकाक्यसहायो व्यालानां सर्पाणां शतसहसं लक्षं तेन भीषणे भैरवे निर्मानुषे मनुष्यवर्जिते तस्मिन्पूर्वोक्ते शून्यारण्ये ग्रामादिरहितकान्तारे स्थितः । केन तत्रापि शून्यारण्येऽपि सर्वसत्त्वानां समग्रप्राणिनां व्याघातं प्रतिबन्धं करोतीत्येवंशीला शरीररक्षा कृता विहिता । केन विषमस्य भावो वैषम्यं तस्य प्रतिपन्थिनी शत्रुभूता शरीरस्थितिः संपादिता निष्पादिता । केन निद्रायाः सुखं सौख्यं ददातीत्येवंशीलं यच्छयनीयं शयनस्थलमुपकल्पितम् । त्वयि वैशम्पायने बुभुक्षिते क्षुधिते, तृषिते पिपासिते, सुषुप्सति वा स्वापं कर्तुमिच्छति.वा । मम मनोरमाया उत्सङ्गमङ्कमुत्सृज्य त्यक्त्वा को दुःखितो दुःखवान् । समाने सदृशे सुखदुःखे यस्या एवंविधा वधूरपि,
हे सूनो, त्वया नोपात्ता नाङ्गीकृता । आगतमात्रस्यैव समागतमात्रस्यैव ते तव पितरं शुकनासमनुज्ञाप्यानुज्ञां गृहीत्वात्यर्थं भृशं वधूमुखं पत्नीवदनमालोकयिष्यामीति यन्मया चिन्तितं विचारितं केवलं तन्मे मम मन्दपुण्यायाः स्वल्पसुकृताया न संपन्नं न जातम् । अपर तवापि च भवतोऽपि दर्शनमवलोकन दुर्लभं दुष्प्रापं भूतं जातम् । यदि वत्स, यत्र तेऽवस्थातुमवस्थानं कर्तुमभिरुचितं रुचिविषयीभूतम्, तर्हि पितरं जनक विज्ञप्य विज्ञप्तिं कृत्वा तत्रैव सरस्तीर एव मामपि मनोरमां नयस्व प्रापय । अन्यथा त्वामपश्यन्त्यनवलोकयन्ती न जीवामि न प्राणिमि । 'तातः पितरि पुत्रेऽपि इत्युक्तत्वात् हे तात हे पुत्र, त्वया भवताहं मनोरमां शैशवेऽपि शिशुत्वेऽपि नावमानिता नावगणिता । तत्र भवत इयमेकपद एव सहसैव कुतो निष्ठुरता कठिनता जाता प्रादुर्भूता । यस्य भवतः कुपितं कोपं प्राप्तमाननं मुखमाजन्मनः प्रभृति जन्म -
-
-
-
-
-
-
-
-
-
-
-
-
-
- - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'निवृत्त्य राजभवनात्परावृत्त्य इत्येव पाठो योग्यः । 2 वैषम्यस्य प्रतिपन्थिनी अर्थात् अस्वास्थ्यविघातिनी ते शरीरस्थितिः कृता । 3 'त्वयि बुभुक्षिते तृषिते सुषुप्सति वा को दुःखितः ? ममोत्सङ्गमृत्सृज्य (गतेन) समानसुखदुःखा वधूरपि त्वया नोपात्ता' इत्यन्वय उचितः । 4 'आ' इत्यधिकम् । 'जन्मनः प्रभृति' इत्येव पाठः ।
पाठा० - १ निवर्त्य; निःसृत्य; निवृत्त्य. २ तत्रैव च. ३ केन तेन ते तत्रापि. ४ केन वा. ५ अभ्यर्थ्य. ६ बदनदर्शनम्. ७ दुर्लभीभूतम्. ८ मामपि तत्रैव.
चन्द्रापीडस्योज्जयिनीयात्रा
उत्तरभागः।
567
Page #95
--------------------------------------------------------------------------
________________
विधो मय्यकस्मादेव कोपो यदेवं परित्यज्य स्थितोऽसि ? गतोऽप्यागच्छ । शिरसा प्रसादयामि त्वाम् । कोऽपरोऽस्ति मे ? देशान्तरपरिचयान्मुक्तो नामास्मासु स्नेहः ? क्षणमप्यनन्तरितदर्शनस्य चन्द्रापीडस्योपरि कथं तवेदृशी निःस्नेहता जाता ? तात, न भद्रक त आपतितम् । सर्व एव सुखं स्थापनीयो गुरुजनो दुःखं स्थापितः । न जानाम्येवं कृत्वा किं त्वया प्राप्तव्यम् । एतानि चान्यानि चान्तर्भवनगतां प्रत्यग्रतनयविरहविह्वलां स्वयं देव्या विलासवत्या संस्थाप्यमानामपि मनोरमां विप्रलपन्तीमश्रौषीत् ।
तेन चातिकरुणेन तत्प्रलापविषेण विह्वल इव निद्रागमेनेव धूर्णमानो निश्चेतनतामनीयत । कथंकथमपि सहजसत्त्वावष्टम्भेनैव संस्तम्भितात्मा प्रविश्य पितुरपि लज्जमानो वदनमुपदर्शयितुमधोमुख एव निस्पन्दसर्वाङ्गेण मन्दराद्रिणेव शुकनासेन सह मथनावसानस्तिमितमिव महार्णवं प्रणम्य पितरं दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्ट्वा राजान्तर्बाष्पभरगद्गदेन ध्वनिनाभ्यर्णवर्ष इव जलधरोऽभ्यधात् - 'वत्स चन्द्रापीड, जानामि ते स्क्जीवितादपि समभ्यधिकां भ्रातुरुपरि प्रीतिम् । पीडा च सुखैकहेतोर्वल्लभजनादेवासंभाव्यायासेमु -
***********
दिनादारभ्य न दृष्टमेव न निरीक्षितमेव, तस्य ते तवाकस्मादेव निर्निमित्तादेव मयि विषय एवंविध एतादृशोऽयं कोपः कुतः । यद्यस्माद्धेतोरेवं पूर्वोक्तप्रकारेण परित्यज्य विहाय स्थितोऽसि । त्वं गतोऽपि सन्त्रागच्छैहि । त्वां भवन्तं शिरसा मस्तकेन । पादपतनेनेत्यर्थः । प्रसादयामि प्रसन्नीकरोमि । अपरोऽन्यः को मे ममास्ति । नामेति कोमलामन्त्रणे । एकस्माद्देशादन्यो देशो देशान्तरं तस्य परिचयः संस्तवस्तस्मादस्मासु मनोरमाप्रभृतिषु स्नेहः प्रेम मुक्तस्त्यक्तः । क्षणमपि समयमप्यनन्तरितमव्यवहितं दर्शनं यस्यैवंविधस्य चन्द्रापीडस्योपरीदृशी कथं तव निःस्नेहता निःप्रेमता जाता प्रादुर्भूता । तात पुत्र, ते तव भद्रक कल्याणं नापतितं न जातम् । सर्व एव दुःखं स्थापितो गुरुजनः सुखं स्थापनीयः । एवं कृत्वैवं विधाय किं त्वया प्राप्तव्यं प्रापणीयम्, एवमहं न जानामि नाकलयामि । अन्तर्भवनं मध्यगृहं तत्र गतां प्राप्तां प्रत्यग्रो नवीनो यस्तनयविरहः सुतवियोगस्तेन विह्वलां विधुराम् । मनोरमाया विशेषणे । मनोरमां विप्रलपन्तीमश्रौषीदित्यन्वयस्तु प्रागेवोक्तः ।
तेनेति । तेन पूवोक्तेनातिकरुणेनातिदीनेन तस्य मनोरमायाः प्रलापविषेण विलापरूपगरलेन विह्वल इव विधुर इव निद्रागमेनेव प्रमीलागमेनेव घूर्णमानो निश्चेतनतामनीयताप्राप्यत । कथंकथमपि महता कष्टेन सहजं निसर्गजं यत्सत्त्वं धैर्यं तस्यावष्टम्भेनैवाश्रयणेनैव संस्तम्भित आत्मा येनैवंभूतः प्रविश्य प्रवेशं कृत्वा पितुरपि जनकादपि वदनमाननमुपदर्शयितुमवलोकनं कारयितुं लज्जमानस्वपमानोऽधोमुख एव नीचैर्मुख एव निस्पन्दं निश्चेष्टं सर्वाङ्ग समग्र शरीरं यस्यैवविधेन मन्दराद्रिणेव स्वर्गिगिरिणेव शुकनासेन सह मथनस्यावसानं प्रान्तस्तेन स्तिमितो निश्चलो यो महार्णवः समुद्रस्तं रूपकमेवंभूतं पितरं जनकं प्रणम्य नमस्कृत्य दूरत एवोपाविशनिषण्णो बभूव । उपविष्टं निषण्णं च तं क्षणमिव समयसदृशं दृष्ट्वा विलोक्यान्तर्बाष्पो मध्यनेत्राम्बु तस्य भरस्तेन गद्गदेन ध्वनिना शब्देनाभ्यणे समीपे वर्षो यस्यैवंभूतो जलधरो मेघ इव राजा तारापीडोऽभ्यधादवादीत् । हे वत्स हे चन्द्रापीड, अहं जानाम्याकलयामि ते तव स्वजीवितादपि स्वप्राणितादपि भ्रातुर्वैशम्पायनस्योपरि समभ्यधिकामुत्कृष्टां प्रीतिम् । पीडा च सुखस्यैकोऽद्वितीयो हेतुर्निदानमेवंविधादल्लभजनादेवासंभाव्यायांसमतर्कित - टिप्प० - 1 समुद्रस्तत्सदृशमित्यर्थः । 2 'वल्लभजनादेवाऽसंभाव्या समुत्पद्यते, तयैव हि न किञ्चिन्न क्रियते ? ' इति पाठः । सुखहेतोवल्लभजनात् असंभावनीया या पीडा समुत्पद्यते तयैव किञ्चित्र क्रियते इति न, अपि तु सर्वं क्रियते (जनेन) इति तदर्थः । पाटा० - १ समापतितम्. २ विरहशोकविह्वलम्. ३ स्तिमितमहार्णवम्. ४ गद्गद. ५ संभवति.
-
-
-
568
कादम्बरी।
कथायाम्
Page #96
--------------------------------------------------------------------------
________________
त्पद्यते । तथैव हि न किंचिन्न क्रियते । तज्जन्मनः स्नेहस्य वयसः शीलस्य श्रुतस्य गुरुजनानुशासनस्य विनयाधानस्य च सर्वस्यैवानुचितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य त्वद्दोषमाशङ्कते मे हृदयम् । इत्येवंवादिनो नरपतेर्वचनमाक्षिप्य युगपच्छोकामर्षाभ्यामन्धकारिताननः प्रावृडारम्भ इव तडिल्लतादुष्प्रेक्ष्यो विस्फूर्जितेनेव स्फुरिताधरेण शुकनासोऽब्रवीत् -
'देव, यदि चन्द्रमस्यूष्मा, दहने चातिशीतलत्वम्, अंशुमालिनि वा तमः, तमस्विन्यां वा दिवसः, महोदधौ वा शोषः, क्षितेरधारणं वा शेषे, परार्थानुद्यमो वा साधोः, अप्रियवचननिर्गमो वा स्वजनमुखात्संभाव्यते, ततो युवराजेऽपि दोषः । तत्किमेवमेवानिरूप्य तस्यानात्मजस्य मूढप्रकृतेर्दुर्जातस्य राजापथ्यकारिणो मातृपितृघातिनो मित्रद्रुहः कृतघ्नस्य कर्मचण्डालस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तमत्युदारचरितं चन्द्रापीडमेवं संभावयति देवः । न ह्यतः परमपरं कष्टतमं किंचिदपि पीडाकारणम्, यद्गुणेषु वर्तमानो -
*********** प्रयास यथा स्यात्तथोत्पद्यते संजायते । तथैव तेन प्रकारेणैव । हीति निश्चितम् । किंचिन्न क्रियते । अपि तु सर्वं क्रियत एव । यथैव प्रीतिस्तथैव दुःखमपि वल्लभजनादेवातर्कितं जायत इति भावः । तत्तस्माद्धेतोस्ते तव भ्रातुर्बान्धवस्य सुहृदो मित्रस्य च वृत्तान्तमुदन्तमाकर्ण्य श्रुत्वा त्वद्दोष त्वद्वैगुण्यं मे मम हृदयं चेत आशङ्कत आरेकते । कीदृशं त्वद्दोषम् । जन्मन उत्पत्तेः, स्नेहस्य प्रेम्णः, वयसोऽवस्थायाः, शीलस्य स्वभावस्य, श्रुतस्य ज्ञानस्य, गुरुजनानुशासनस्य गुरुशिक्षायाः, विनयाधानस्य प्रश्रयस्थापनस्य, सर्वस्यैव समग्रस्यैवेममनुचितमयोग्यम् । इत्येवंवादिनो ब्रुवतो नरपते राज्ञो वचनं वाक्यमाक्षिप्य निराकृत्य युगपत्समकालं शोकः शुक्, अमर्ष ईर्ष्या, ताभ्यामन्धकारितमन्धकारवदाचरितमाननं मुखं यस्यैवंभूतो विस्फूर्जितेन दीप्तिमता स्फुरितः कम्पितो योऽधर ओष्ठस्तेन शुकनासोऽब्रवीदवोचत् । स्फुरितसाधादाह - तडिल्लता विद्युल्लता तया दुष्प्रेक्ष्यो दुरालोकनीयः प्रावृडारम्भ इव वर्षाप्रारम्भ इव ।।
किमुवाचेत्याह - देवेति । हे देव, यदि चन्द्रमसि चन्द्र ऊष्मा तापः, दहनेऽग्नावतिशीतलत्वमतिशिशिरत्वम्, अंशुमालिनि सूर्ये वा तमोऽन्धकारम्, तमस्विन्यां त्रियामायां वा दिवसः, महोदधौ समुद्रे वा शोषो जलनाशः, शेषेऽनन्ते क्षितेः पृथिव्या अधारणमवहनम्, साधोः सज्जनाता परस्यान्यस्यार्थः कृत्यं तत्रानुद्यमोऽनुद्योगः, स्वजनमुखादात्मीयलोकवदनादप्रियवचनस्यानिष्टवाक्यस्य निर्गमो निःसरणम् । एतेभ्यो यद्येतानि संभाव्यन्ते संभावनाविषयीक्रियन्ते, ततो युवराजेऽपि चन्द्रापीडेऽपि दोषः संभाव्यते । तत्किमेवमेवानिरूप्याज्ञात्वा नात्मानं जानातीत्यनात्मज्ञस्तस्य, मूढा प्रकृतिः स्वभावो यस्य स तस्य, दुर्जातस्य दुर्भवस्य, राज्ञो नृपस्यापथ्यकारिणो हितविघातिनो मातृपितृघातिनो जननीजनकविध्वंसिनो मित्रद्रुहः सुहृद्धातिनः कृतं हन्तीति कृतघ्नस्तस्य कर्मणैव चण्डालः श्वपचस्तस्य महापातकिनो महापापकारिण एवंभूतस्य वैशम्पायनस्य कृते कृतयुगे योऽवतारोऽवतरणं तस्य योग्यमुचितमात्मनोऽपि भवतोऽपि गुणवन्तमौदार्यादिगुणयुक्तमत्युदारचरितमत्युत्कृष्टचरित्रं चन्द्रापीडं देव एवं संभावयति संभावनां करोति । न हीति । अतोऽदोषेषु दोषोद्भावनतः परमन्यदपरं किंचिदपि वस्तु कष्टतम पीडाकारणं न । तदेव दर्शयन्नाह - यदिति । यद्गुणेषु वर्तमान इतरजनेनापि पाम - टिप्प० - 1 'तडिल्लतादुष्प्रेक्ष्यः प्रावृडारम्भ इव (स्थितः) विस्फूर्जितेनेव वज्रनिर्घोषणेव स्फुरिताधरेण (स्वरेण) शुकनासोऽब्रवीत् । इत्यर्थः । 'स्फूर्जथुर्वज्रनिर्घोष' इत्यमरः । 2 अतः परं न किंचिदपि पीडाकारणं यद् गुणेषु वर्तमानो (जनः) इतरजनेनापि दोषेषु संभाव्यते (दोषसंबद्धत्वेन तय॑ते), गुरुजनेन तु संभाव्येतैव इति स्पष्टम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ तया. २ युगपदाक्षिप्य वचनम्. ३ एव. ४ वा शीतलत्वम्. ५ च. ६ महोदन्वति. ७ सज्जन. ८ अराजपथ्यकारिणः. ९ चाण्डालस्य. १० कष्टतरम्.
(पितुश्चन्द्रापीडोपरि सदेहः ।
उत्तरभागः।
569
Page #97
--------------------------------------------------------------------------
________________
धयः,
दोषेषु संभाव्यत इतरजनेनापि, किं पुनर्गुरुजनेन ? यो गुणी गुणैरेवाराधनीयः । कस्यापरस्यात्मा गुणवाननेन ज्ञापनीयः ? अपि च जन्मनः प्रभृति देवस्य देव्या विलासवत्याश्चाङ्कलालनया यो न गृहीतस्तस्य मरुत इव दुर्ग्रहप्रकृतेश्चन्द्रापीडोऽपि किं करोतु ? स्वयमेवोत्पद्यन्त एवंविधाः शरीरसंभवा महाकृमयः, सर्वदोषाश्रया महाव्याअन्तर्विषा महाव्यालाः, विनाशहेतवो महोत्पाताः, भुजङ्गवृत्तयो महावातिकाः, वक्रचारिणो महाग्रहाः, तमोमयाः प्रदोषाः, मलिनात्मकाः कुलपांसवः, निःस्नेहाः खलाः, निर्लज्जाः कृपणकाः, निःसंज्ञाः पशवोऽपि च, अकाष्ठा दहनाः, निर्गुणा जालिनः, अतीर्था जलाशयाः, निर्गौरवाः खरप्रकृतयः, अशिवमूर्तयो महाविनायकाधिष्ठिताः, सकलङ्काः कृपाणा इव स्नेहेनैव पारुष्यं लभन्ते । मलिनस्वभावाः करिकपोला इव दानेनैव मलिनतरतामापद्यन्ते । निर्वर्तयो मणि -
1
ये
रलोकेनापि दोषेषु संभाव्यते । गुरुजनेनापि पितृलोकेनापि तु तत्संभावने किं पुनर्भण्यते किं पुनः कथ्यते । कर्तव्योपदेशमाह - य इति । यो गुणी गुणवान्स गुणैरेवाराधनीयः सेवनीयः । अनेन गुणिजनेन कस्यापरस्यात्मा स्वयं गुणवाञ्ज्ञापनीयः प्रकाशनीयः । अपि चेति । अपि च युक्त्यन्तरे । जन्मनः प्रभृत्युत्पत्तेरारभ्य देवस्य तारापीडस्य देव्या विलासवत्याश्चाङ्कलालनया क्रोडपरिपालनया यो न गृहीतो न स्वायत्तीकृतस्तस्य वैशम्पायनस्य मरुत इव वायोरिव दुर्ग्रहा प्रकृतिः स्वरूपं यस्यैवंभूतस्य चन्द्रापीडोऽपि किं करोतु । किं कुर्यादित्यर्थः । अथ वैशम्पायनोत्पत्तिवैगुण्यमाविष्कुर्वन्नाह - स्वयमेवेति । एवंविधा एतादृशाः शरीरसंभवा देहोत्पन्ना महाकृमयः क्षुद्रजन्तवः, सर्वदोषाणामाधारभूता महाव्याधयो महारोगाः, अन्तर्मध्ये विषं येषामेवंविधा व्यालाः सर्पाः, विनाशस्य विध्वंसस्य हेतवः कारणानि महोत्पाताः क्षितिकम्पनादिरूपाः, भुजङ्गवत्सर्पवद्वृत्तिर्वर्तनं येषामेवंविधा महावाता एव महावातिकाः स्वार्थे कः । वक्रगामित्वेन भुजङ्गसादृश्यम् । वक्रचारिणः कुटिलगामिनो महाग्रहा राहुप्रभृतयः, तमोमया अन्धकारप्रचुराः प्रदोषा यामिनीमुखानि, मलिनाः कश्मला आत्मानो येषां ते कुलस्यान्चयस्य पांसवो रेणवो दोषजनकाः, निस्नेहाः प्रीतिवर्जिताः खलाः, निर्लज्जा निस्त्रपाः कृपणका निष्कृपाः, निःसंज्ञा हेयोपादेयादिज्ञानविकलाः पशवोऽपि च तिर्यञ्चोऽपि च, अकाष्ठा दहना वह्नयः, निर्गुणा औदार्यादिगुणरहिता जालिनो वागुरिकाः, अतीर्था उत्तरणमार्गविकला जलाशयाः पानीयस्थानानि, निर्गौरवा महत्त्ववर्जिताः खरप्रकृतयः कठिनस्वभावाः, अशिवमूर्तयोऽकल्याणमूर्तयो महाविनायकैर्महाविघ्नैरधिष्ठिताः । इयं विरोधोक्तिः । येऽशिर्वमूर्तयो भवन्ति ते महाविनायकाधिष्ठिता न भवन्तीति महाविरोधः । एते सर्वेऽपि स्वयमेवात्मनैवोत्पद्यन्ते जायन्ते । तथा वैशम्पायनोऽपि, नतु मददृष्टस्य कारणतेत्यर्थः । ये जनाः कृपाणा इव खङ्गा इव सकलङ्काः । जनपक्षे जनापवादाश्रयाः, खङ्गपक्षे सचिह्नाः । स्नेहेनैव प्रेम्णा तैलादिना च पारुष्यं कठिनतां भजन्त आश्रयन्ति । 'स्नेहस्तैलादिकरसद्रव्ये स्यात्सौहृदेऽपि च' इति विश्वः । करिकपोला इव हस्तिगल्लात्परदेशा इव मलिनस्वभावाः कश्मलप्रकृतयः । दानेनैव मदेनैव । पक्षे वितरणेनैव । मलिनतरतामतिकृष्णतामापद्यन्ते प्राप्नुवन्ति । 'दानं गजमदे त्यागे' इति विश्वः । निर्वर्तयो वर्तिरहिता मणि -
टिप्पo - 1 ये निर्गुणाः (गुण ( सूत्र ) रहिताः) ते जालिनः (जालयुक्ताः ) कथं भवेयुः, जाले सूत्राणामपेक्षितत्वात् इति विरोधः । एते तु गुण (विनयादि) रहिताः जालिनः कपटकारिणश्च । 2 शिवमूर्तिभिन्नाः ।
पाठा० - १ अवबोधनीयः २ असंभवाः ३ क्षपणकाः.
***
570
कादम्बरी ।
कथायाम्
Page #98
--------------------------------------------------------------------------
________________
प्रदीपा इव प्रसादेनैव ज्वलन्ति । अङ्गलग्ना भुजङ्गा इव दाक्षिण्यपरिग्रहेणैवेतरे वामाः संजायन्ते । गुणमुक्ताः सायका इव सपक्षाश्रयेण फलेनैव दूरं विक्षिप्यन्ते । सरागाः पल्लवा इव दिवसारूढ्यैवापरज्यन्ते । भूतिपरामृष्टा दर्पणा इवाभिमुखेन सर्वं प्रतीपं गृह्णन्ति । अन्तरस्वच्छवृत्तयः सलिलाशया इव गाढावगाहनेनैव कालुष्यमुपयान्ति । ये च स्निग्धेष्वपि रूक्षाः, ऋजुष्वपि वक्राः, साधुष्वप्यसाधवः, गुणवत्स्वपि दुष्टप्रकृतयः, भर्तर्यप्यभृत्यात्मानः, रागिष्वपि क्रुद्धाः, निरीहादप्यादित्सवः, मित्रेष्वपि द्रोहिणः, विश्वस्तानामपि घातकाः, भीतेष्वपि प्रहारिणः, प्रीतिपरेष्वपि द्वेषिणः, विनीतेष्वप्युद्धताः, दयापरेष्वपि निर्दयाः, स्त्रीष्वपि शूराः भृत्येष्वपि क्रूराः, दीनेष्वपि दारुणाः । येषां च विपरीतानां गुरव एव लघवः, -
***********
प्रदीपा इव रत्नसदृशेन्धना इव प्रसादेनैव प्रसन्नतयैव ज्वलन्ति दीप्यन्ते । 'प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसत्तिषु' इति विश्वः । अङ्गलग्नाः शरीरसंसृष्टा भुजङ्गा इव सर्पा इव । इतरे पामरजना वामाः प्रतिकूलाः संजायन्ते । केन । दाक्षिण्यं लज्जा तेन परिग्रहः स्वीकारस्तेनेव । गुणः प्रत्यञ्चा औदार्यादिश्च । 'गुणः प्रदानरूपादौ मौर्यां सूदे वृकोदरे' इति विश्वः । ताभ्यां मुक्ता रहिताः सायका इव बाणा इव सह पक्षेण पिच्छेन स्वजनवर्गेण च वर्तमानः सहितः सपक्षः । स एवाश्रयो यस्यैवंभूतेन फलेन लोहादिमयेन साध्येन च । दूरं विक्षिप्यन्ते विकीर्यन्ते । ‘पक्षो मासार्धके पार्चे ग्रहे साध्यविरोधयोः । केशादेः परतो वृन्दे बले सखिसहायके' इति विश्वः । रागो रक्तिमा प्रीतिश्च ताभ्यां सहवर्तमानाः सरागाः पल्लवा इव किसलया इव दिवसारूढ्यैव दिनवृद्धैवापरज्यन्ते विरक्तीभवन्ति । 'रागोऽनुरक्ते मात्सर्ये क्लेशादौ लोहितादिषु' इति विश्वः । भूतिभस्म संपच्च ताभ्यां परामृष्टा आलिङ्गिता दर्पणा इवादर्शा इव । आभिमुख्येन संमुखत्वेन हेतुना सर्वं प्रतीपं पराङ्मुखं गृह्णन्ति ग्रहणं कुर्वन्ति । 'भूतिर्मातङ्गश्रृङ्गारे जातौ भस्मनि संपदि' इति विश्वः । 'वाम प्रसव्यं प्रतीपं प्रतिलोममपष्टु च इति हैमः । अन्तरे विचाले स्वच्छा निर्मला वृत्तिर्येषामेवंविधाः सलिलाशया इव पानीयाश्रया इव गाढमत्यर्थमवगाहनेनैवावलोकनेनैवातिपरिचयेनैवं च कालुष्यं कलुषतामुपयान्ति गच्छन्ति । ये च स्निग्धेष्वपि स्नेहलेष्वपि रूक्षा अस्निग्धाः, ऋजुष्वपि सरलेष्वपि वक्रा वामाः, साधुष्वपि सज्जनेष्वप्यसाधवो दुष्टाः, गुणवत्स्वपि गुणोपयुक्तेष्वपि दुष्टप्रकृतयोऽशुभस्वभावाः, भर्तर्यपि स्वामिन्यप्यभृत्यात्मानोऽसेवकाः, रागिष्वपि रक्तेष्वपि क्रुद्धाः कोपवन्तः, निरीहादपि निःस्पृहादप्यादित्सवो ग्रहणेच्छवः मित्रेष्वपि सुहृत्स्वपि द्रोहिणो द्रोहकर्तारः, विश्वस्तानामपि विश्वासप्रतिपनानामपि घातका हिंसकाः, भीतेष्वपि त्रस्तेष्वपि प्रहारिणः प्रहारकारिणः, प्रीतिपरेष्वपि स्नेहपरेष्वपि द्वेषिणो द्वेषवन्तः, विनीतेष्वपि विनयवत्स्वप्युद्धता दुर्विनीताः, दयापरेष्वपि कृपातत्परेष्वपि निर्दया निःकृपाः, स्त्रीष्वपि प्रमदास्वपि शूराः सुभटाः, भृत्येष्वपि सेवकेष्वपि क्रूराश्चण्डाः, दीनेष्वपि दुःखितेष्वपि दारुणा भीषणाः । येषां चेति । येषां विपरीतानां वामवृत्तीनां गुरुव एव -
-
-
-
टिप्प० - 1 मणिरूपाः प्रदीपाः प्रसादेन स्वच्छतया ज्वलन्तीत्यर्थो बोध्यो विवेकिभिः । 2 'अङ्गलग्ना भुजा इव' इत्येव पाठः । अङ्गसंबद्धा भुजा यथा एकस्य दाक्षिण्य (दक्षिणत्व) व्यपदेशेन तदितरे अपरे भुजाः वामा वामभागवर्तिनो जायन्ते, तथैव इतरे पामरजनाः सारल्यस्वीकारेण प्रतीकूला जायन्ते । 3 अन्तः अभ्यन्तरे अस्वच्छा कलुषा सपका च वृत्तिर्येषां ते सलिलाशया इव गाढावगाहनेन अतिप्रणयेन अतिविलोडनेन च कालुष्यं मालिन्यम् आविलत्वं च भजन्त इत्यर्थः ।
पाटा० - १ भुजाः. २ निक्षिप्यन्ते.
शुक०चन्द्रा०प्रशंसा, वैश०तिरस्कारः
उत्तरभागः ।
Page #99
--------------------------------------------------------------------------
________________
नीचा एवोच्चैः, अगम्या एव गम्याः, कुदृष्टिरेव सदर्शनम्, अकार्यमेव कार्यम्, अन्याय एव न्यायः, अस्थितिरेव स्थितिः, अनाचार एवाचारः, अयुक्तमेव युक्तम्, अविद्यैव विद्या, अविनय एव विनयः, दौःशील्यमेव सुशीलता, अधर्म एव धर्मः, अनृतमेव सत्यम् । येषां च क्षुद्राणां प्रज्ञा पराभिसंधानाय न ज्ञानाय श्रुतम्, पराक्रमः प्राणिनामुपघाताय नोपकाराय, उत्साहो धनार्जनाय न यशसे, स्थैर्य व्यसनासङ्गाय न चिरसंगताय, धनपरित्यागः कामाय न धर्माय । किं बहुना सर्वमेव येषां दोषाय न गुणाय ।
तदसावपीदृश एक कोऽप्यपुण्यवानुत्पन्नो यस्यैवं कुर्वतो मित्रमहं चन्द्रापीडस्य कथं तस्य द्रोहमाचरामीति नोत्पन्न चेतसि । एवं कृते चलितवृत्तानां शासिताऽवश्यं तारापीडो देवः पीडितान्तरात्मा मयि कोपं करिष्यतीत्येवमपि नाशङ्कितं मनसा । मातुरहमेवैको जीवितनिबन्धनम्, कथं मया विना वर्तिष्यत इत्येतस्य नृशंसस्य हृदये नापतितम् । पिण्डप्रदोवंशसंतानार्थमहमुत्पादितः पित्रों कथमननुज्ञातस्तेन सर्वपरित्यागं करोमीत्येतदपि यथाजातस्य -
***********
शास्तार एव लघवो लघिष्ठाः, नीचा एवाधोवर्तिन एवोच्चैरुच्चाः, अगम्या एवासेव्या एव गम्याः सेव्याः, कुदृष्टिरेव कुदर्शनमेव सद्दर्शन शोभनतमम्, अकार्यमेवाकृत्यमेव कार्यं कृत्यम्, अन्याय एवानीतिरेव न्यायो नीतिः, अस्थितिरेवामर्यादैव स्थितिमर्यादा, अनाचार एवानाचरणमेवाचार आचरणम्, अयुक्तमेवान्याय्यमेव युक्तं न्याय्यम्, अविद्यैवाज्ञानमेव विद्या ज्ञानम्, अविनय एवाप्रश्रय एव विनयः, दौःशील्यमेव दुःस्वभाव एव सुशीलता सुस्वभावता, अधर्म एवापुण्यमेव धर्मो वृषः, अनृतमेवासत्यमेव सत्यं सूनृतम् । येषां च क्षुद्राणां तुच्छबुद्धीनां श्रुतं ज्ञानं प्रज्ञा प्रतिभा तस्यां पर उत्कृष्ट इत्यभिसंधानाय ज्ञानाय न ज्ञापनाय तत्त्वज्ञानाय, पराक्रमो बलं प्राणिनामुपघाताय विनाशाय नोपकाराय नोपकृतये, उत्साहः प्रगल्भता धनार्जनाय द्रव्यार्जनाय न यशसे न श्लोकाय, स्थैर्य स्थिरता व्यसनानि मद्यादीनि तेषामासङ्गायासक्तये न चिरसंगताय न चिरमैत्रीहेतवे, धनपरित्यागो धनविसर्जनं कामाय मैथुनाय न धर्माय न सुकृताय । किं बहुना किं बहूक्तेन येषां दुरात्मनां सर्वमेव दोषाय वैगुण्याय न गुणाय हिताय ।
तत्तस्माद्धेतोरसावपि वैशम्पायन ईदृश एव पूर्वोक्तसदृश एव कोऽप्यपुण्यवान्पापवानुत्पन्नः संजातः, यस्य वैशम्पायनस्यैवं कुर्वतश्चन्द्रापीडस्याहं मित्रं तस्य चन्द्रापीडस्य कथं द्रोहमाचरामि कुर्वे इति चेतसि नोत्पन्नं नागतम् । एवं कृते सति चलितवृत्तानां भ्रष्टाचाराणां शासिता शिक्षादायकस्तारापीडो देवोऽवश्यं पीडितान्तरात्मा संतापितस्वान्तो मयि विषये कोपं करिष्यति विधास्यतीत्येवमपि मनसा हृदयेन नाशङ्कितं नारेकितम् । मातुर्मनोरमाया जीवितनिबन्धनं प्राणितदानमहमेक एव । कथं तर्हि मया विना मद्व्यतिरेकेण वर्तिष्यते वर्तनं करिष्यतीत्येतस्य वैशंपायनस्य नृशंसस्य निर्दयस्य हृदये चेतसि नापतितं नागतम् । वंशसंतानार्थमन्वयपरम्परायै अहं वैशम्पायनः पिण्डप्रदः पित्रा जनकेनोत्पादितो निष्पादितस्तेन पित्राननुज्ञातोऽदत्ताज्ञः सर्वपरित्यागं (कथम्) करोमि प्रण - - - - - -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 प्रज्ञा श्रुतं चेत्येकस्मिन्वाक्ये न संगृहीतम् । 'न ज्ञानाय एतदुत्तरम् 'श्रुतं मायाजालाय, नोपशमाय । इति पाठः । शास्त्रज्ञानं कपटप्रपञ्चाय न शान्तये, इति तदर्थः । 2 जीवितस्य निबन्धनं कारणमिति भावः ।
पाटा० - १ तेषाम्. २ ज्ञानं पराति. ३ मायाजालाय; मालजालाय. ४ अपुण्य एवानुत्पन्नः नोपशमाय. ५ चलितवृत्तीनाम्. ६ पित्राहम्.
572
कादम्बरी।
कथायाम्
Page #100
--------------------------------------------------------------------------
________________
न बुद्धौ संजातम् । तदेवमसत्पथप्रवृत्तेन नष्टात्मना सुदूरमुभ्रान्तेन दुर्दर्शमदृष्टं तावन्न नाम कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टं तस्याज्ञानतिमिरान्धस्य किं क्रियताम् । अपरमसौ तिर्यङ्महता यत्नेन शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददानात्तिरश्चामपि सफल एव शिक्षणायासो भवति । तेऽपि पोषिताः पोषितरि स्नेहमाबध्नन्ति । तेऽपि कृतं जानन्ति । तेऽपि परिचयमनुवर्तन्ते । तेषामपि सेहजस्नेहो मातापित्रोरुपरि दृश्यत एव । न पुनरस्य नष्टोभयलोकस्य पापकारिणो दुर्जातस्य, यस्य सर्वमेवाधस्ताद्गतम् । अपि चेदृशाचरितेन तेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन तावद्दुरात्मना जातेन केवलं सुखं न स्थापिताः सर्व एव वयम्, अपरमेवं दुःखार्णव निपातिताः । सर्व एव ह्यनाक्षिप्तचेताः प्रवर्तते स्वहिताय परहिताय च । तस्य तु पुनरस्मानेवं दुःखं स्थापयतो न स्वहितं नापि च परहितम् । किमनेनैवमात्मगुहा कृतमिति मतिरेतावन्न बोधपदवीमवतरति । सर्वथा दुःखायैवास्माकं -
***********
यामीत्येतदपि यथाजातस्य मूर्खस्य बुद्धौ ज्ञप्तौ न संजातं नोत्पन्नम् । 'अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः' इत्यमरः । तत्तस्माद्धेतोरेवममुना प्रकारेणासत्पथः कुमार्गस्तत्र प्रवृत्तेन नष्ट आत्मा यस्यैवंभूतेन सुदूरमतिदूरमुभ्रान्तेन प्राप्तभ्रमेण दुर्दैवं तावदादौ । नामेति कोमलामन्त्रणे । कुदृष्टिना कुत्सितज्ञानेन दुर्दुष्टा दशावस्था यस्मिन्नेतादृशमदृष्टं न दृष्टं नावलोकितम् । येन दृष्टमप्यवलोकितमपि न दृष्टं न निरीक्षितम् । 'दशा वर्ताववस्थाया वस्त्रान्ते स्युर्दशा अपि' इति विश्वः । यदि वा 'अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्' इत्यभिधानात्तदुभयमपि भयं न दृष्टमित्यर्थः । अथवाऽदृष्टं तु न दृश्यत एव । तदपि विपश्चिद्भिदृश्यते । अयं तु सुतरां मूर्यो येन तपस्विन्यगम्या भवतीति दृष्टमपि न दृष्टमित्यर्थः । तस्य वैशम्पायनस्याज्ञानमेव तिमिरं तमिसं तेनान्धस्य गताक्षस्य किं क्रियतां किं विधीयताम् । अपरमन्यदसौ तिर्यग्विवेकविकलत्वात्पशुरूपो महता यत्नेन महोद्यमेन शुक इव कीर इव पाठितोऽध्यापितो देवेन तारापीडेन पुष्टश्च पुष्टीकृतश्च । अथवेति पक्षान्तरे । विनोददानात्क्रीडावितरणात्तिरश्चामपि सफल एव सार्थक एव शिक्षणायासः शिक्षाप्रयासो भवति । तेऽपि तिर्यञ्चोऽपि पोषिताः सन्तः पोषितरि पोषके स्नेहं प्रीतिमाबध्नन्ति । कुर्वन्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि कृतं जानन्ति । कृतज्ञा भवन्तीत्यर्थः । तेऽपि तिर्यञ्चोऽपि परिचयं संस्तवमनुवर्तन्तेऽनुगच्छन्ति । तेषामपि तिरश्चामपि मातापित्रोरुपरि सहजस्नेहः स्वाभाविकप्रेमा दृश्यत एव ईक्ष्यत एव । नष्टो गत उभयलोक इहलोकपरलोको यस्यैवंभूतस्य पापकारिणोऽपकर्तु तस्य दुष्टोत्पन्नस्य । कु(सुम)पुत्रस्येत्यर्थः । अस्य वैशम्पायनस्य न पुनः प्रीतिः । मातापित्रोरुपरीत्यर्थः । अस्य वैशम्पायनस्य सर्वमेव विज्ञानादिकमधस्तादधो गतम् । अपि चेति युक्त्यन्तरे । तेनापि वैशम्पायनेनापीष्टाचरितेनेदृक्समाचरितेनाप्यवश्यमेव कस्यांचित्तिर्यग्योनौ पतितव्यं येन वैशम्पायनेन दुरात्मना दुष्टात्मना तावज्जातेनोत्पन्नेन सर्व एवं वयं सुखं न स्थापिताः । अपरमन्यदेवममुना प्रकारेण दुःखार्णवे दुःखसागरे निपातिताः । दुःखातिशयेन बुडिता इति भावः । सर्व एव । जन इति शेषः । अनाक्षिप्तचेताः सुस्थिरान्तःकरणःस्वहिताय आत्महिताय, परहिताय इतरजनहितार्थं च प्रवर्तते यत्नमातनोति । तस्य वैशम्पायनस्य तु पुनः अस्मानेवं दुःखंस्थापयतो दुःखं कुर्वतो न स्वहितं नात्महितम्, नापि च परहितं नाप्यन्यहितम् । अनेनैव वैशम्पायनेनैवात्मद्रुहात्मघातकेन किं कृतं किं विहितमिति मतिरिति बुद्धिरेतावद्धोधपदवीं ज्ञानमार्ग नावतरति -
- - - - - - - - - - - - - - - - - - - - - - - - - - - -- टिप्प० -1 दुःखेन द्रष्टुं शक्यम् अदृष्टं शुभाशुभकर्मजनितं भाग्यं तु येन कुदृष्टिना न दृष्टम्, किन्तु येन दृष्टम् (दर्शनविषयभूतं सदाचारादिकम्) अपि न दृष्टं नालोचितमिति भावः । 2 सर्वे वयं केवलं सुखं न स्थापिता इत्येव न, अपि तु दुःखार्णवे पातिता इति । 3 'मतिरेव तावन्न इत्येव पाठः ।
पाटा० - १ दुर्दर्शनेन; दुर्दर्शम्. २ सहजन्मस्नेहः. ३ दुरात्मजातेन. ४ दुःखम्. ५ अपि त्वेवंविधे. ६ निपतिताः. ७ प्रवर्तमानः. ८ वा प्रवर्तते. ९ न परहितमपि. १० एवमेतावत्; एव तावत्.
वैशम्पायनतिरस्कारः
उत्तरभागः।
573
Page #101
--------------------------------------------------------------------------
________________
तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म ।' इत्युक्त्वा हेमन्तकालोत्पलिनीमिवोद्वाष्पां दृष्टिमुद्बहन, उद्वेपिताधरश्च बहिरलब्धनिर्गमेण स्फुटनिवान्तर्मन्युपूरेण निःश्वसन्नेवावतस्थौ ।
तदवस्थं च तं तारापीडः प्रत्युवाच - ‘एतत्खलु प्रदीपेनाग्नेः प्रकाशनम्, वासरालोकेन भास्वतः समुद्भासनम्, अवश्यायलेशैराह्लादनममृतांशोः, मेघाम्बुबिन्दुभिरापूरणं पयोधेः, व्यजनानिलैरैतिवर्धनं प्रभञ्जनस्य, यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्यापि बहुश्रुतस्यापि विवेकिनोऽपि धीरस्यापि सत्त्ववतोऽप्यवश्यं दुःखातिपातेन विशुद्धमपि वर्षसलिलेन सर इव मानसं कलुषीक्रियते सर्वस्य । कलुषीकृते च मानसे किमिदमिति सर्वमेव दर्शन नश्यति । न चित्तमालोचयति । न बुद्धिर्बुध्यते । न विवेकोऽपि विविनक्ति । येन ब्रवीत्यदः । मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति कश्चिदसावियति लोके, यस्य निर्विकारं यौवनमतिक्रान्तम् ? यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । वयसैव सहारोहत्यभिनवा प्रीतिः । वक्षसैव सह विस्तीर्यते वाञ्छा । बलेनैव सहोपचीयते मदः । दोईये -
***********
नावगच्छति । सर्वथा सर्वप्रकारेणास्माकं दुःखायैव दुःखहेतोरेव तस्य पापकर्मणो दुष्कृतकारिणो ग्रहोपसृष्टस्य ग्रहग्रहिलस्य जन्मोत्पत्तिः । इत्युक्त्वा हेमन्तकालस्य प्रसूनसमयस्योत्पलिनी कमलिनीमिवोद्वाष्पां दृष्टिं दृशमुद्वहन् । हेमन्तकमलिन्यप्युद्वाष्पा स्यादतो दृक्साम्यम् । उद्वेपित उत्कम्पितोऽधर ओष्ठो यस्यैवभूतश्च बहिरलब्धो निर्गमो निर्गमनं यस्यैवभूतेनान्तर्मध्यवर्तिमन्युपूरेण क्रोधसमूहेन स्फुटन्निव द्वैधीभवन्निव निःश्वसन्नेव निःश्वासं मुञ्चन्नेवावतस्थौ स्थितवान् ।
सैवावस्था दशा यस्यैतादृशं च तं शुकनासं तारापीडः प्रत्युवाच प्रत्यब्रवीत् । खल्विति निश्चयेन । एतत्प्रदीपेन गृहमणिनाग्नेर्वह्नः प्रकाशन प्रज्वालनम्, वासरालोकेन दिवसप्रकाशेन भास्वतः सूर्यस्य समुद्रासनमुत्तेजनम्, अमृतांशोश्चन्द्रस्यावश्यायलेशैस्तुहिनकणैराह्लादनं प्रमोदोत्पादनम्, पयोधेः समुद्रस्य मेघाम्बु जीमूतजलं तस्य बिन्दुभिः पृषद्भिरापूरणं भरणम्, प्रभञ्जनस्य वायोय॑जनानिलैस्तालवृन्तपवनैरतिवर्धनमतिवृद्धिप्रापणम्, यद्यस्माद्धेतोरस्मद्विधैरस्मत्सदृशैरार्यस्य भवतः शुकनासस्य परिबोधनं प्रतिबोधदानम् । तथापीति । एवं सत्यपि प्राज्ञस्यापि बहुश्रुतस्याप्यनेकशास्त्रज्ञस्यापि विवेकिनोऽपि पृथगात्मवतोऽपि धीरस्यापि स्थिरप्रकृतेरपि सत्त्ववतोऽपि साहसवतोऽप्यवश्यं निश्चितं दुःखातिपातेन कृच्छ्रातिपातेन विशुद्धमपि निर्मलमपि सर्वस्य मानसं वर्षसलिलेन वृष्टिपानीयेन सर इव तटाक इव कलुषीक्रियते मलिनीक्रियते । कलुषीकृते च मानसे चित्ते किमिदमिति सर्वमेव समग्रमेव दर्शनं सामान्यज्ञानं नश्यति । न चित्तं मन आलोचयति विचारयति । न बुद्धिर्धिषणा बुध्यते । बोधं प्रयातीत्यर्थः । न विवेकोऽपि पृथगात्मभावोऽपि विविनक्ति पृथक्करोति । येन कारणेन । अदोऽव्यक्ते नपुंसकम् । ब्रवीति वक्ति । मत्तस्तारापीडाल्लोकवृत्तं जनचरितमार्य एव पूज्य एव भवान्सुतरामतिशयेन वेत्ति जानाति । किमिति प्रश्ने । कश्चित्कोऽपीयति लोक एतावति भुवनेऽस्ति विद्यते, यस्य निर्विकारं विकृतिरहितं यौवनं तारुण्यमतिक्रान्तं व्यतीतम् ? यौवनावतारे हि तारुण्यप्रादुर्भाव हि शैशवेन बाल्येन सह गुरुजनेषु मातृपितृषु स्नेहः प्रीतिर्गलति क्षरति । वयसा सहावस्थया सहाभिनवा प्रत्यग्रा प्रीतिरारोहत्यारूढा भवति । वक्षसोरसा सह वाञ्छा स्पृहा विस्तीर्यते विस्तीर्णा स्यात् । बलेनैव पराक्रमेणैव सह मदो दर्प उपचीयत उपचयं प्राप्नोति । टिप्प० - 1 मार्ग-पौषमासात्मकः शीतकालः । 2 'अवतस्थे इत्येव पाठः 'अव पूर्वकस्य तिष्ठतेरात्मनेपदित्वात् । पाटा० - १ उदवहत्. २ अवतस्थे. ३ अभिवर्धनम्. ४ ब्रवीमि. ५ अन्यदा तु मत्तः. अस्मदस्मत्तः.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
574
कादम्बरी।
कथायाम्
Page #102
--------------------------------------------------------------------------
________________
1
नैव सह स्थूलतामापद्यते धीः । मध्येनैव सह कार्श्यमुपयाति श्रुतम् । ऊरुयुगलेनैव सहोपचीतेऽविनयः । श्मश्रुभिरेव सहोज्जृम्भते मलिनताहेतुर्मोहः । आकारेणैव सहाविर्भवन्ति हृदयाद्विकाराः । तद्यथा धवलमपि सरागं सर्वथा दीर्घीभवदपि न दीर्घं पश्यति चक्षुः । अनुपहतेऽपि न प्रविशति गुरूपदेशः श्रोत्रे । स्त्रीरागिण्यपि न विद्यान्तरं विन्दति हृदये । न स्थैर्यमस्थिरप्रकृतौ तरलतायाम् । परित्याज्येषु व्यसनेष्वसङ्गेषु विकाराणां च कारणं प्रायः सरसता । सा च सर्वमेव जैलप्रायं कुर्वाणा वर्षातिवृद्ध्यैवोपजायते । अपि च दिवसो दोषागमाय, दोषागमोऽनालोकाय, अनालोकोऽसद्दर्शनार्थम्, असद्दर्शनमविवेकाय, अविवेकोऽसन्मार्गप्रवृत्तये, असन्मार्गप्रवृत्तं च मोहान्धं चेतो भ्राम्यदवश्यमेव स्खलति । स्खलिते चेतसि तल्लग्ना पतत्येव लज्जा । त्रपावरणशून्ये च हृदि प्रविश्य पदं कुर्वन्केन वा -
दोर्द्वयेनैव बाहुयुगलेनैव सह धीर्बुद्धिः स्थूलतां स्थविष्ठतामापद्यते प्राप्नोति । मध्येनैव विलग्नेनैव कार्यं कृशतामुपयाति प्राप्नोति श्रुतं ज्ञानम् । ऊरुयुगलेनैव सक्थियुग्मेनैव सहाविनयो हृदयमुपचीयते पुष्टीभवति । श्मश्रुभिरेव कूर्यैरेव सह मलिनताहेतुर्मोहो मौढ्यमुज्जृम्भते विकास प्राप्नोति । आकारेण सहाकृत्या सह हृदयाद्विकारा विकृतय आविर्भवन्ति प्रकटीभवन्ति । तदेव दर्शनयन्त्राह - तद्यथेति । धवलमपि शुभ्रमपि चक्षुर्नेत्रं सरागमेव सर्वथा दीर्घीभवदपि न पश्यति दीर्घम् । दीर्घदर्शित्वं न भवतीत्यर्थः । अनुपहतेऽप्यप्रतिहतेऽपि श्रोत्रे श्रवणे गुरूपदेशो · गुरूणां हिताहितोपदेष्टृणामुपदेशः सुकृताचरणनिर्देशो न प्रविशति न प्रवेशं करोति । स्त्रीषु रागो विद्यते यस्यैवंभूतेऽपि हृदय एकस्या विद्यायाः सकाशादन्या विद्या विद्यान्तरं न विन्दति न लभते । अस्थिरप्रकृतौ चलस्वभावायां तरलतायां चञ्चलतायां सत्यां न स्थैर्यं न स्थिरता । परित्याज्येषु वर्जनीयेषु व्यसनेषु सप्तसु, विकाराणां चानृतभाषकत्वादिरूपाणां चासङ्गेष्वासक्तिषु कारणं निदानं प्रायो बाहुल्येन सरसता रसिकत्वं स्यात् । सा च संरसता सर्वमेव समग्रमेव जलप्रायं कुर्वाणा विदधाना वर्षातिवृद्ध्यैव । वर्षावर्षणम् । पक्षे वर्षाणां वत्सराणामतिवृद्ध्यैवोपजायत उत्पद्यते । अपि चेति । अपि च प्रकारान्तरेण दिवसा दोषागमाय दोषागमश्चानालोकायानिरीक्षणायाप्रकाशाय च स्यात् । अनालोकश्चासद्दर्शनार्थमसम्यग्ज्ञानार्थं च स्यात् । असद्दर्शनं चाविवेकायापृथगात्मने भवति । अविवेकश्चासन्मार्गप्रवृत्तयेऽसत्पथप्रवृत्तये स्यात् । असन्मार्गप्रवृत्तं च भ्राम्यदितस्ततः परिभ्रमन्मोहेनान्धं चेतोऽवश्यमेव स्खलति निपतति । स्खलिते च स्खलनां प्राप्ते चेतसि चित्ते सति तल्लग्ना चेतः संबद्धा लज्जा त्रपा पतत्येव यात्येव । त्रपैव लज्जैवावरणमाच्छादनं तेन
टिप्प० - 1 'अविनयः' इति यदा पाठः, तदाऽस्य 'धाष्टर्यम्' इत्यर्थः स्यात् । 2 एका विद्या यद्यायाता तर्हि का न्यूनता ? स्त्रीरागिण्यपि हृदये साधारणस्त्री एव अन्तरम् अवकाशं लभते विद्यारूपा स्त्री न लभते इत्यर्थः । 3 अस्थिरस्य जनस्य प्रकृति (स्वभाव) भूतायां चञ्चलतायां स्थैर्यं न भवतीत्यर्थः । 4 सरसा रसिकता सजलता च । सा च सरसता सजलता सर्वं जलप्रायं कुर्वाणा वर्षाणाम् (वृष्टीनाम्) अतिप्रवृद्धतया जायते । एवं सरसता अर्थात् रसिकता सर्वं जडप्रायं कुर्वाणा वर्षाणाम् (उपभोगकालभूतानां वत्सराणाम्) अतिप्रवृद्ध्या भवतीत्यर्थः । 5 दिवसो दोषाया ( रात्रेः ) आगमाय, तथा रसिकमन्यानां दिवसो दोषाणाम् आगमाय । दोषाणां दोषायाश्च आगमः अनालोकाय अज्ञानाय अदर्शनाय च । अनालोकः अदर्शनम् अज्ञानं च, असद्दर्शनार्थम् । असतां मन्दानां दुश्चरितानामिति यावत् दर्शनार्थम् असत्यदर्शनार्थं च । अविवेकः आत्मानात्मविवेकः कार्येषु विवेकाभावश्च । एवमग्रेऽनुसंधेयम् ।
पाठा० - १ अपचीयते विनयः, अपचीयते हृदयम्, उपचीयते हृदयमविनयः २ सर्वदा. ३ आसङ्गः ४ कारणानाम् ५ जनं वशप्रायम्. ६ वर्षति वृद्ध्या. ७ स्खलिते च.
तारापीडस्य शुकनासपरिबोधनम्
-
उत्तरभागः ।
575
Page #103
--------------------------------------------------------------------------
________________
विनिवारितो दुर्निवारः सर्वाविनयहेतुः कुसुमधन्वा ? विलसति च कुसुममार्गणे केन कार्येण छिद्रसहस्राणि न भवन्ति; यैः सत्त्वमेवाधस्ताव्रजति । सत्वे चाधो गते किमाश्रित्य न गलति शीलम् ? किमवलम्बनं विनयस्य ? किं करोत्वनाधारं धैर्यम् । क्व पदमाधत्तां धीः । क्व समाधानमाबध्नात्ववष्टम्भः । केन वावष्टभ्य बलान्निश्चलीकृतं मनः । विप्रतिपद्यमानानि केन नियन्त्रितानीन्द्रियाणि । जगनिन्यानि केन निवारितानि दुश्चरितानि । केन वालोकभतेन तमोभिवृद्धिहेतुरुत्सारितो दोषाभिषङ्गो दृष्टेरुपहन्ता । किं वा दृश्यतामसति बहुदर्शित्वे । बहुदर्शित्वं च तावतः कालस्यैवासंभवात्कुतो भवतु प्रथमे वयसि ? येनान्वयव्यतिरेकाभ्यां निश्चित्य वर्जयति मलिनताम् । अपि च परिणामेऽपि पुण्यवता केषांचिदेव हि केशैः सह धवलिमानमापद्यन्ते चरितानि । तन्मोहविषयमहाहौ मदविकारगन्धमातङ्गे दुर्विलसितैकराज्ये रतिनिद्रावेश्मनि नवरागपल्लवोद्गमलीलान्तविशेषदुश्चरितचक्रवर्तिनि तारु -
***********
शून्ये रिक्ते च हृदि हृदये प्रविश्य प्रवेशं कृत्वा पदं स्थानं कुर्वन्विदधत्केन वा पुरुषेण सर्वस्य समग्रस्याविनयस्याप्रश्रयस्य हेतुः कारणं कुसुमधन्वा कंदर्पो दुर्निवारो दुःखेन निवारयितुं शक्यो विनिवारितो निषिद्धः । कुसुममार्गणे कंदर्प विलसति विलासं कुर्वति सति केन कार्येण हेतुभूतेन छिद्रसहसाणि विवरसहसाणि न भवन्ति न संजायन्ते, यैश्छिद्रसहसैः सत्त्वमेव साहसमेवाधस्तादधो व्रजति । सत्त्वे चाधो गते किमाश्रित्य किमाश्रयणं कृत्वा शीलं वृत्तं न गलति न क्षरति । विनयस्य प्रश्रयस्य किमवलम्बनं किमाधारः । अनाधारमनाश्रयं धैर्यं सत्वं च किं करोतु । किं कुर्यादित्यर्थः । धीर्बुद्धिः क्व कुत्र पदं स्थानमाधत्तां विदधताम् । अवष्टम्भ उद्योगः । 'अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि । आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः' इति विश्वः । अवलम्बनं वा क्व समाधानं सुखमाबध्नातु निबध्नातु । केन वावष्टभ्य वशीकृत्य बलाद्धठान्मनश्चेतो निश्चलीकृतम् । केन विप्रतिपद्यमानान्युन्मार्गप्रवृत्तानीन्द्रियाणि करणानि नियन्त्रितानि वशीकृतानि । केन जगन्निन्द्यानि विश्वगर्हितानि दुश्चरितानि दुश्चेष्टितानि निवारितानि दूरीकृतानि । आलोकभूतेन प्रकाशरूपेण केन वानिर्दिष्टनाम्ना दोषाणा व्यसनादीनां रात्रश्चाभिषङ्गः संबन्ध उत्सारितो दूरीकृतः । कीदृशो दोषाभिषङ्गः । तमोऽज्ञानं तमिसं च तयोरभिवृद्धिस्तस्य हेतुः कारणम् । पुनः कीदृक् । दृष्टेर्दृशो ज्ञानस्य चोपहन्ता उपघातकः । असति बहुदर्शित्वे किं वा दृश्यतां किमवलोक्यताम् । तावतः कालस्यैवेयतः समयस्यैवासंभवादहुदर्शित्वमनेकपदार्थावलोकित्वम् । तच्च प्रथम आये वयस्यवस्थायां कुतो भवतु कुतो जायताम् । येन सति सद्भावोऽन्वयः, असत्यसद्भावो व्यतिरेकः, ताभ्यां निश्चित्य निर्णयं कृत्वा मलिनता वाच्यता वर्जयति दूरीकरोति । अपि चेति । अपि च युक्त्यन्तरे । प्रदर्शने परिणामेऽपि । वार्धकेऽपि । हीति निश्चये । पुण्यवतां सुकृतवतां केषांचिदेव, न तु सर्वेषाम्, केशैः कचैः सह चरितानि चरित्राणि धवलिमान वेतिमानमापद्यन्ते प्राप्नुवन्ति । 'सुकृती पुण्यवान्धन्यः' इति हैमः । सर्वस्य स्खलितं स्यादिति प्रदर्शयन्नाह - तन्मोहेति । तदिति हेत्वर्थे । मोहो मूर्छा, विषयाः शब्दस्पर्शसूपरसगन्धाख्याः, त एव महाहयो महासर्पा यस्मिन् । मदो मुद् मोहसंभेदस्तस्य विकारा विकृतयस्त एव गन्धमातङ्गा गन्धेभा यस्मिन । दर्विलसितं दश्चेष्टितं तदेवैकमद्वितीयं राज्यमाधिपत्यं यस्मिन । रतिः कामाभिलाषः, निद्रा प्रमीला, तयोर्वेश्मनि गृहे नवरागो नवीनानुरागः स एव पल्लवः -
टिप्प० - 1 'गलिते च शीले' इति पाठ आवश्यक एव प्रक्रमस्य भङ्गप्रसङ्गात् । 2 अवष्टम्भः स्थैर्यमित्यर्थः, अन्यत्तु भ्रममात्रम् ।
प्रा० . १ मकानः , गलुन । ग्रलिने चशीले क्रिम ४ बलम ५ अतिपय । मोडनिविष्यमाहौः मोहनियनिषमाडौ, ७ माग ८ लीलाना,
576
कादम्बरी।
कथायाम्
Page #104
--------------------------------------------------------------------------
________________
ण्यावतारे सर्वस्यैव विषमतरविषयमार्गपतितस्य स्खलितमापतति । किमेवमार्येण लालनीयस्य पालनीयस्य शिशुजनस्योपर्यादेशो गरीयान्गृहीतः, यदनुचितमपत्यस्नेहस्याक्रोशगर्भमेवमुक्तम् । स्वप्नायमानानामपि यद्गुरूणां मुखेभ्यो निष्क्रामति शुभमशुभं वा शिशुषु तदवश्यं फलति । गुरखो हि दैवतं बालानाम् । यथैवाशिषो गुरुजनवितीर्णा वरतामापद्यन्ते, तथैवाक्रोशाः शापताम् । तद्वैशम्पायनमुद्दिश्य कोपावेशादेवमतिपरुषमभिदधत्यार्ये महती मे चेतसः पीडा समुत्पन्ना । स्वयमारोपितेषु तरुषु यावदुत्पद्यते स्नेहः, किं पुनरङ्गसंभवेष्वपत्येषु । तदुत्सृज्यतामयममर्षवेगो वैशम्पायनस्योपरि । विरूपकं तु तेन न किंचिदप्याचरितम् । सर्वपरित्यागं कृत्वा स्थित इत्येतदपि कारणमविज्ञाय किमेवं दोषपक्षे निक्षिपामः ।
***********
किसलयं तस्योद्गमलीलाऽन्ते पर्यवसाने येषामेतादृशानि विशेषदुश्चरितानि विशेषदुश्चेष्टितानि तेषां चक्रवर्तिनि सार्वभौम एवंविधे तारुण्यस्य यौवनस्यावतारे प्रादुर्भावे विषमतरः कठिनतरो यो विषयमार्गः कामपन्थास्तत्र पतितस्य सस्तस्य सर्वस्यैव समग्रस्यैव, अर्थाज्जनस्य, स्खलितमापतति । स्खलना स्यादित्यर्थः । तथार्येण पूज्येन भवता शुकनासेन लालनीयस्य लालनां कर्तुं योग्यस्य पालनीयस्य रक्षां कर्तुं योग्यस्यैवंविधस्य शिशुजनस्य बालजनस्योपरि किमेवं किंनिमित्तं गरियान्गरिष्ठ आवेशो गृहीत आत्तः, यद्यस्माद्धेतोरपत्यस्नेहस्य प्रसूतिप्रेम्णोऽनुचितमयोग्यमाक्रोशोऽभिषङ्गः स एव गर्भे मध्ये यस्यैतादृशमेवमुक्तं कथितम् । एतादृशं वाक्यं सर्वथा ना वाच्यमित्याशयेनाह - स्वप्नायेति । स्वप्नायमानानामपि निद्रायमाणानामपि गुरूणां हिताहितप्राप्तिपरिहारोपदेष्ट्रणां मुखेभ्यो वदनेभ्यः शिशुषु बालेषु यच्छुभमशुभं वा निष्कामति निःसरति तदवश्यं निश्चयेन फलति । तच्छब्दवाच्योऽर्थः शिशूनां संजायत इत्यर्थः । तन्नियामकमाह - गुरुव इति । हीति निश्चये । बालानां शिशूनां गुरवो मातृपितरो दैवतं परममिष्टम् । अत्रार्थे दृष्टान्तं प्रतिपादयन्नाह - यथैवेति । यथैव येन प्रकारेणैव गुरुजनैर्वितीर्णा दत्ता आशिषो मङ्गलसमेतान्याशीर्वचनानि वरतां 'वाञ्छितं वृणीष्वे ति प्रसन्नताप्रेरितं तपस्विनां वचो वरस्तस्य भावस्तत्ता तामापद्यन्ते भजन्ते । 'तपोभिरिष्यते यत्तु देवतादेवरी मतः' इति कात्यः । तथैव तेन प्रकारेणैवाक्रोशास्तिरस्काराः शापता ‘तवानिष्टं भूयादिति क्रोधाविष्टतपस्विना वचः शाप' स्तस्य भावस्तत्ता ता प्रतिपद्यन्ते । तत्तस्मात्कारणाद्वैशम्पायनमुद्दिश्याश्रित्य कोपस्य कुध आवेशादभिनिवेशादेवार्ये परुषं कठिनमभिदधति कथयति सति मे मम चेतसो हृदयस्य महती गुर्वी पीडा समुत्पना प्रादुर्भूता । तन्निदानमाविष्कुर्वबाह - स्वयमिति । स्वयमात्मना रोपितेषत्तमेषु तरुषु वृक्षेषु यावत्स्नेह उत्पद्यते प्रादुर्भवति । अङ्गसंभवेषु शरीरसमुत्पनेष्वपत्येषु प्रजासु किं पुनर्भण्यते किं कथ्यते । तत्तस्माद्धेतोर्वैशम्पायनस्योपर्ययं प्रत्यक्षोपलभ्यमानोऽमर्षवेगः क्रोधसंभव उत्सृज्यतां त्यज्यताम् । वैशम्पायनस्य निर्दोषता प्रकटयन्नाह - विरूपकमिति । तु पुनरर्थे । तेन वैशम्पायनेन न किंचिदपि विरूपकं विरुद्धमाचरितं सेवितम् । सर्वपरित्यागस्तु दूषणं न भवतीत्याशयेनाह - सर्वपरित्याग इति । सर्वपरित्यागं कृत्वा स्थित इत्येतदपि कारणं निदानमविज्ञायाज्ञात्वा किमेवमेव दोषपक्षे वैगुण्यकक्षायां वयं निक्षिपामो निक्षेपं कुर्मः । तस्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'एवम्इत्थमित्युचितम् । 2 'तावत्' इत्येव वाक्यस्यालंकारभूतः प्रयुज्यमानो दृश्यते, न 'यावत् । इह च 'यावत्' इति केवलं वाक्यशोभायै । अत एव 'तावत्' इत्येव पाठः ।
पाठा० - १ लालनीयस्य; लालनीयपालनीयस्य. २ वा तदवश्यम्. ३ स्वारोपितेषु; स्वयं रोपितेषु. ४ तावत्. ५ निक्षिप्तः.
चन्द्रापीडस्य यात्रानुमतियाचनम्
उत्तरभागः।
1577)
Page #105
--------------------------------------------------------------------------
________________
कदाचिद्गुणीभवत्येवमयमविनयनिष्पन्नो दोष एव । आनीयतां तावदसौ । बुद्ध्यामहे किमर्थमयमेवंविधस्तस्य वयसोऽनुचितोऽपि संवेग उत्पन्नः । ततो यथायुक्तं विधास्यामः ।'
इत्युक्तवति तारापीडे पुनः शुकनासोऽभ्यधात्- ' अत्युदारतया वत्सलत्वाच्चैवमादिशति देवः । अन्यदतः परं किमिवास्य विरूपकं भवेत्, यद्युवराजमुत्सृज्य क्षणमप्यन्यत्रावस्थानमात्मेच्छया चेष्टितम् ।'
इत्युक्तवति शुकनासे कशयेवान्तस्ताडितो दोषसंभावनयाऽनया पितुरुद्वाष्पदृष्टिरुपविष्ट एवोपसृत्य चन्द्रापीडः शनैः शनैः शुकनासमवादीत् - 'आर्य, यद्यपि निरुक्तितो वेद्मि न मदीयेन दोषेण नागतो वैशम्पायन इति, तथापि तातेन संभावितमेव । कस्य वापरस्य संभावना नोत्पन्ना । मिथ्यापि तत्तथा यथा गृहीतं लोकेन, विशेषतो गुरुणा । प्रसिद्धिर
·
अपि गुणे निक्षेपमाशङ्कयन्नाह - कदाचिदिति । एवं तादृक्कारणमपेक्ष्यायमविनयनिष्पन्त्रोप्रश्रयजनितो दोष एव कदाचिद्गुणीभवति । गुणः स्यादित्यर्थः । अथ कर्तव्यमाह - आनीयतामिति । तावदादावसौ वैशम्पायन आनीयतामानयनविषयीक्रियतामिति । बुद्ध्यामहे जानीमहे । वयमिति शेषः । अयमेवंविध ईदृशस्तस्य वैशम्पायनस्य वयसोऽवस्थाया अनुचितोऽप्ययोग्योऽपि किमर्थं किंप्रयोजनाय संवेगः सर्वपरित्यागलक्षण उत्पन्नः प्रादुर्भूतः । ततस्तत्प्रयोजनं ज्ञात्वैव यथायुक्तं यथोचितं तद्विधास्यामः करिष्यामः ।
इति पूर्वप्रतिपादितप्रकारेण तारापीड उक्तवति सति पुनर्द्वितीयवारं शुकनासोऽभ्यधादब्रवीत् । किमभ्यधादित्याशयेनाह - अतीति । अत्युदारस्य भावोऽत्युदारता तयातिस्फारतया वत्सलत्वाच्च हितकारित्वाच्च देवस्तारापीड एवं पूर्वप्रतिपादितमादिशति कथयति । अनेन विरुद्धं न कृतमिति नृपोक्तं प्रतिक्षिपन्नाह - अतः परमिति । अतः परमन्यद्भवदपि किमिव विरूपकं विरुद्धं भवेत् । एतदेव विशदीकुर्वन्नाह - यदिति । यद्यस्माद्धेतोर्युवराजं चन्द्रापीडमुत्सृज्य त्यक्त्वात्मेच्छया स्वातन्त्र्येण क्षणमन्यत्रान्यस्मिन्स्थलेऽवस्थानमुपवेशनमाचेष्टितमाचरितम् । अतः परं विरुद्धं किं भवेदित्यर्थः ।
इति शुकनास उक्तवति कथितवति सत्यनया पितुर्दोषसंभावनया कशयेव चर्ममय्या रज्ज्वेवान्तर्मध्ये ताडितो व्यथित उदूर्ध्वं बाष्पो नेत्राम्बु यस्यामेवंविधा दृष्टिर्यस्यैवंभूत उपविष्ट एवासीन एवोपसृत्योपसरणं कृत्वा चन्द्रापीडः शनैः शनैर्मन्दं मन्दं शुकनासमवादीदब्रवीत् । किमवादीदित्याशयेनाह - आर्य इति । हे आर्य हे पूज्य, यद्यपि निरुक्तितस्त्वदुक्तित एवाहं वेद्मि जानामि । न मदीयेन मामकीनेन दोषेण वैगुण्येन वैशम्पायनो नागत इति, तथाप्येवं सत्यपि तातेन पित्रा संभावितमेव संभावनाविषयीकृतमेव । मद्वैगुण्यमिति शेषः । अपरस्य कस्य वा संभावना नोत्पन्ना । मिथ्यासंभावने न दोष इत्याशयेनाह - मिथ्यापीति । मिथ्याप्यसत्यमपि तत्तथा सत्यमेव । तत्रार्थे हेतुमाह-यथेति । यथा गृहीतं यथा श्रुतं लोकेन जनेन, विशेषतो गुरुणा पित्रादिना, निर्णीतेरर्वाक्तत्तथैव स्यात् । परमार्थतस्तदसत्यं जनप्रसिद्धौ किं स्यादित्याशयेनाह - प्रसिद्धिरिति । दोषो वैगुण्यम्, गुणा औदार्यादयः, त एवाश्रय आधारो यस्या एवंविधा प्रसिद्धिः प्रवादोऽर्फलवती निःप्रयोजनात्रास्मिल्लोकेऽयशसेऽकीर्तये स्यात् । ननु दोषाश्रयप्रसिद्धेरयशोजनकत्वं प्रसिद्धं परं गुणाश्रय
578
टिप्प० - 1 ‘प्रसिद्धिरत्राऽयशसे यशसे वा दोषगुणाश्रया फलति' इत्येव पाठः । दोषगुणौ आश्रित्य उत्पन्ना प्रसिद्धिः (कश्चित्प्रवादः) अत्र संसारे अयश यशसे वा फलति कल्पते । दोषाश्रया प्रसिद्धिः अयशसे, गुणाश्रया तु यशसे प्रभवतीति सुस्पष्ट आशयः ।
पाटा० - १ गुणो भवति. २ इतः परम् ३ यदद्य ४ निरुक्ततः
-
कादम्बरी ।
कथायाम्
Page #106
--------------------------------------------------------------------------
________________
त्रायशसे यशसे वा दोषगुणाश्रया वाऽफलवती । परत्र फलदायी कुत्रोपयुज्यते परमार्थः ? तदस्या दोषसंभावनायाः प्रायश्चित्तमार्यो दापयतु मे वैशम्पायनानयनाय गमनाभ्यनुज्ञां तातेन । नान्यथा मे दोषशुद्धिर्भवति । किं कारणम् । अनागते तु वैशम्पायने तातस्यानया संभावनया नापगन्तव्यम् । अपंगते च मयि वैशम्पायनेनोगन्तव्यम् । यद्यसावन्येनानेतुमेव पार्येत तदा तातस्याप्यनुल्लङ्घनीयवचनैरेवनिपतिसहसैरानीत एव स्यात् । तदार्यः कारयतु मे गमनानुज्ञया प्रसादम् । न च तुरंगमैर्गच्छतो मे दृष्टायां भूमौ स्वल्पोऽपि गमनपरिक्लेशः । वैशम्पायनमादायागतमेव मामवधारयत्वार्यः । अपि च बाह्यखेदादसह्योऽन्तःखेद एवैतद्वियोगजन्मा । अनुपदमेव स्कन्धावारमादायागच्छतीत्यमुना हेतुना विना तेनागतोऽहम् । अन्यथा जन्मनः प्रभृति कदा मया गतं स्थितं क्रीडितं हसितं पीतमशितं सुप्तं प्रबुद्धमुच्छ्रसितं -
***********
प्रसिद्धेः कथं तज्जनकत्वमिति चेन्न । अयं गुणवान्प्रसिद्धः, परमनेनेत्थं विहितम्, तर्हि महान्पापिष्ठः, इत्यायकीर्तिसद्भावात् । परत्र परलोके फलदायी फलप्रदः परमार्थस्तत्त्वं कुत्रोपयुज्यते कुत्रोपयोगी स्यात् । न कुत्रापीत्यर्थः । दोषसंभावनाया नैर्मल्योपायं प्रदर्शयन्नाह - तदस्या इति । तदिति तत्तस्माद्धेतोरस्याः पूर्वोक्ताया दोषसंभावनाया वैशम्पायनस्यानयनं तस्मै गमनं यानं तस्याभ्यनुज्ञाज्ञा तां प्रायश्चित्तं प्रायः पापं तस्य चित्तं विशोधनम् । 'प्रायः पापं विनिर्दिष्टं चित्तं तस्य विशोधनम्' इति कृष्णभठ्या प्रक्रियाटीकायाम् । तातेनार्यो दापयतु । प्रेरणे द्विकर्तृकता प्रसिद्धैवेत्यदोषः । एतद्व्यतिरेकेण न शुद्धिरित्याशयेनाह - नान्यथेति । मे मम दोषशुद्धिर्नान्यथा नान्यप्रकारेण भवति । तत्र किं निदानमित्याह - किमिति । तत्र किं कारणं किं निमित्तम् । तदेव स्पष्टयन्नाह - अनागत इति । तु पुनरर्थे । अनागतेऽनायाते वैशम्पायने तातस्य पितुरनया संभावनया नापगन्तव्यं न दूरीभवितव्यम् । अपगते च याते च मयि सति वैशम्पायनेनागन्तव्यम् । आयातव्यमित्यर्थः । अन्यः कश्चित्तदानयनं करिष्यतीत्यारेकां दूरीकुर्वन्नाह - यदीति । यद्यसौ वैशम्पायनोऽन्येन मदितरेणानेतुमेव पार्येत शक्येत, तदा तातस्यापि तारापीडस्याप्यनुल्लङ्घनीयमनाक्रमणीयं वचनं वचो यैरवंभूतैरवनिपतिसहसैरानीत एव स्यात् । तत्तस्मादार्यो गमनस्यानुज्ञयाज्ञया प्रसाद प्रसन्नतां कारयतु । तातेनेति शेषः । तव गच्छतो भूयान्क्लेशो भावीत्याशयेनाह - नचेति । दृष्टायां निरीक्षितायां भूमौ तुरंगमैरश्चैर्गच्छतो व्रजतो मे मम स्वल्पोऽपि गमनपरिक्लेशः प्रयाणखेदो न च स्यात् । आर्यो भवान्वैशम्पायनमादाय गृहीत्वागतमेवायातमेव मामवधारयत्वाकलयतु । बाह्यखेदापेक्षयाभ्यन्तरखेदाधिक्यं प्रदर्शयन्नाह - अपि चेति । बाह्यखेदादेतद्वियोगजन्मा वैशम्पायनविरहोत्पनोऽन्तःखेद एवासह्योऽसहनीयः । तर्हि तं मुक्त्वा त्वमेकाकी कथमत्रागत इत्याशकां निरस्यन्नाह - अनुपदमिति । अनुपदमनुचरणन्यास स्कन्धावारं सैन्यमादाय गृहीत्वागच्छत्यायाति । इत्यमुना हेतुना निमित्तेन तेन वैशम्पायनेन विनाहमागत आयातः । अन्यथेति । उक्तवैपरीत्य आजन्मनः, प्रभृति जन्मदिनादारभ्य कदा वैशम्पायनेन विना मया गतं यातम्, स्थितमवस्थितम्, क्रीडितं रमितम्, हसितं हास्यं कृतम्, पीतं पानं कृतम्, अशितं भक्षितम्, सुप्तं शयितम्, -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 दोषसंभावनायाः प्रायश्चित्त(शोधन)भूतां वैशम्पायनानयनाय गमनाभ्यनुज्ञा तातेन (पितृद्धारा) आर्यो मे दापयतु, इति स्पष्टा योजना प्रहेलिका कृताऽत्र । 2 'एभिरवनिपतिसहसैः' इत्युचितः पाठः । 'एभिः' इत्यनेन स्कन्धावारस्थितैरेतैरानेतुं शक्य एवाऽभविष्यदित्यर्थः स्फुटीभवति ।
पाठा० -१ आगत. २ नागन्तव्यम्. ३ एभिरवनिपति. ४ अभ्यनुज्ञया. ५ कष्टायाम् दुष्टायाम्. ६ स्वप्नेऽपि. ७ एवमेतद्वियोगजन्मा; एव मे तद्वियोगजन्मा. ८ अन्यदा.
चन्द्रापीडस्य यात्रानुमतियाचनम्
उत्तरभागः।
579
Page #107
--------------------------------------------------------------------------
________________
वा विना वैशम्पायनेन ? यच्च श्रुत्वा तस्मादेव प्रदेशान्न गतोऽस्मि, तन्मा तेनैव तुल्योऽभूवमिति । तदप्रतिगमनदोषाद्रक्षन्तु मामार्याः ।
इत्यभिहितवति चन्द्रापीडेऽन्तःपीडोपरागरक्ते रक्ततामरसानुकारिणि मुखे सपक्षपातां षट्पदावलीमिव दृष्टिं निवेश्य ‘एवं गमनाय विज्ञापयति युवराजः । किमाज्ञापयति देवः' इति शनैः शनैः शुकनासो राजानमप्राक्षीत् ।
तथा पृष्टश्च शुकनासेन किंचिदिव ध्यात्वा तारापीडः प्रत्यवादीत् - 'आर्य, मया ज्ञातमेतेष्वेव दिवसेषु संपूर्णमण्डलस्येन्दोर्योत्स्नामिव करावलम्बिनीं वत्सस्य वधू द्रक्ष्यामीति, यावदयमपरोऽन्तर्हिताशापथो जलदकाल इव प्रत्यूहकारी वैशम्पायनवृत्तान्तो विलोमप्रकृतिना विधात्राऽन्तरा पातितः । यथा चायुष्मताभिहितमेवैतत् । न तमन्यः शक्नोत्यानेतुम् । न च तेन विनायमत्र स्थातुम् । तदवश्यमेव तावन्निस्तरितव्यो व्यसनार्णवोऽमुना पोतेन । वैश -
*********** प्रबुद्धं जागरितम्, उच्छ्रसितं वसितं वा । यच्चेति । यद्वैशम्पायनवृत्तान्तं श्रुत्वाकर्ण्य तस्मादेव प्रदेशात्तवृत्तान्तश्रवणस्थलादेवाहं न गतोऽस्मि । तदहं मा तेनैव वैशम्पायनेन तुल्यः सदृशोऽभूवं भवेयमिति । गुरोर्निदेशव्यतिरेकेण तदवस्थाने मद्गमने चोभयोः सादृश्यं स्यादिति भावः । तत्तस्माद्धेतोरप्रतिगमनदोषात्तत्पृष्टिप्रधावनाभावदूषणादार्या मां रक्षन्तु ।
इत्यभिहितवतीत्युक्तवति चन्द्रापीडेऽन्तःपीडान्ताधिस्तस्या उपराग उपप्लवस्तेन रक्ते लोहितेऽत एव रक्तं यत्तामरसं कमलं तस्यानुकारिण्यनुकरणशील एवंविधे मुख आनने सह पक्षपातेन वाजपातेन तदङ्गीकारेण वा वर्तते या सा सपक्षपाता तामेतादृशीं षट्पदावलीमिव भ्रमरपङ्क्तिमिव दृष्टिं दृशं निवेश्य संस्थाप्यैव पूर्वोक्तप्रकारेण गमनाय यात्रायै युवराजश्चन्द्रापीडो विज्ञापयति विज्ञप्तिं करोति । देवो भवान्किमाज्ञापयति किमाज्ञां दत्त इति शनैःशनैर्मन्दमन्दं शुकनासो राजानं तारापीडमप्राक्षीदपृच्छत् ।
शुकनासेन तथा तेनैव प्रकारेण पृष्टश्च किंचिदिव क्षणमात्रं ध्यात्वा विमृश्य तारापीडः प्रत्यवादीप्रत्यब्रवीत् । किमब्रवीदित्याशयेनाह - आर्य इति । हे आर्य हे पूज्य, इति मया यावज्ज्ञातमवबुद्धम् । इतियोत्यमाह - एतेष्विति । एतेष्वेव वर्तमानेष्वेव दिवसेषु वासरेषु संपूर्णमण्डलस्यान्यूनबिम्बस्येन्दोश्चन्द्रस्य ज्योत्स्नामिव करावलम्बिनी हस्तावलम्बिनीं वत्सस्य पुत्रस्य । चन्द्रापीडस्येत्यर्थः । वधं स्नुषां द्रक्ष्याम्यवलोकयामि । तावदयमपरो भिन्नोऽन्तर्हितस्तिरोहित आशा वाञ्छा दिक्च तस्याः पथो मार्गो येनैवंभूतो जलदकाल इव मेघसमय इव प्रत्यूहकारी विघ्नकारी विघ्नजनको वैशम्पायनवृत्तान्तो मन्त्रिसुतोदन्तो विलोमप्रकृतिना प्रतिकूलाभिप्रायेण विधात्रा विधिनान्तरा मध्ये पातित आनीतः । विज्ञप्तिसाफल्यं दर्शयन्नाह - यथेति । यथा येन प्रकारेण चायुष्मता भवताभिहितं प्रतिपादितं तदेतदेवमेवेत्थमेव । तदेव दर्शयति - नेति । तं वैशम्पायनोऽन्य आनेतुमानयनं कर्तुं न शक्नोति । तेन वैशम्पायनेन विनायं चन्द्रापीडोऽत्र स्थातुमत्रावस्थानं कर्तुं न च शक्नोति । तत्तस्माद्धेतोरमुना गमनलक्षणेन पोतेन प्रवहणेन तावदादाववश्यमेव व्यसनार्णवः कष्टसमुद्रो निस्तरितव्यो निस्तारं प्रापयितव्यः । तव प्रसूरपि गमनप्रतिबन्धकारिणी भविष्यतीत्यपि नाशङ्कनीयमित्याह - वैशम्पा - - - - - - - - - - -
- - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'रक्षतु मामार्यः' इत्येकवचनमेव ग्रन्थशैलीसमुचितम्, पूर्वमपि 'अवधारयत्वार्यः' इत्यादि प्रोक्तम् । 2 'सपयःपाताम्बुदावलीमिव' इत्यपि पाठो मनोरमः । पयःपातेन (वर्षणेन) सहिताम् मेघावलीमिव, सवदश्रुजलामिति यावत् । 3 करेभ्यः किरणेभ्य आपातिनी ज्योत्स्ना । करे हस्ते आपातिनी (कृतपाणिग्रहणा) वधूः ।
पाटा० - १ यश्च. २ तस्मात्. ३ चन्द्रापीडेऽन्तःपीडोपरागरक्ततामरसानुकारिणि; चन्द्रापीडेऽपि रागरक्ते रक्ततामरसानुकारिणि. ४ षट्पदालीम्; अम्बुदावलीम्. ५ एव. ६ मे दुष्कृतिना.
I
IIIIIIIIIII
(580
कादम्बरी।
कथायाम्
Page #108
--------------------------------------------------------------------------
________________
म्पायनप्रत्यानयनाय चावश्यं देव्यपि विलासवती विसर्जयिष्यत्येवैनमिति निश्चयो मे । तद्यातु । किंत्वतिदूरं वत्सेन गन्तव्यम् । तद्गणकैः सहादरादार्यो दिवस लग्नं च गमनायास्य निरूपयतु, संविधानं च कारयतु' इत्येतदभिधाय शुकनासमुद्बाष्पलोचनश्चिरमिवं चन्द्रापीडमालोक्याहूय च विनयावनम्रमंसदेशे शिरसि बाह्वोश्च पाणिना स्पृशन्नादिशत् - ‘वत्स, गच्छ त्वमेव प्रविश्याभ्यन्तरं मनोरमासहिताया मातुरावेदयात्मगमनवृत्तान्तम् ।' इत्यादिश्य चन्द्रापीडमात्मना शुकनासमादाय स्वभवनमयासीत् ।
-
चन्द्रापीडस्तु तामक्लिष्टवर्णां कादम्बरीसंवरणसजमिव गमनाभ्यनुज्ञां हृदयेनोद्वहन्प्रहृष्टान्तरात्माप्यपहर्षदृष्टिः प्रविश्य कृतनमस्कारो मातुः समीपे समुपविश्यात्मदर्शनद्विगुणीभूतवैशम्पायनविरहशोकविह्वलां मनोरमामाश्वास्यावादीत् - 'अम्ब, समाश्वसिहि । वैशम्पायनानयनाय तातेन मे गमनमादिष्टम् । तत्कतिपयदिवसान्तरितं वैशम्पायनाननदर्शनोत्सवमविकल्पं त्वं मामेव विसर्जय' । सा त्वेवमभिहिता प्रत्युवाच - 'तात, किमात्मगमनवचसा
***********
यनेति । वैशम्पायनं प्रत्यानयनाय चानेतुं विलासवती देव्यप्येनं चन्द्रापीडं विसर्जयिष्यत्येव प्रेषयिष्यत्येवेति मे मम निश्चयो निर्णयोऽस्ति । तद्यातु गच्छतु । किंतु वत्सेन मत्सुतेनातिदूरमतिदविष्ठं गन्तव्यं यातव्यम् । तत्तस्माद्धेतोर्गणकैज्र्ज्योतिर्विद्भिः सहादरादार्यो भवानस्य चन्द्रापीडस्य गमनाय दिवसं दिनं लग्नं च मेषादिकं निरूपयतु विचारयतु । च पुनरर्थे । संविधानं गमनसामग्रीं च कारयतु विधापयतु । इत्येतत्पूर्वोक्तं शुकनासमभिधायोक्त्वा उदूर्ध्वं बाष्पो हर्षाश्रु ययोरेतादृशे लोचने यस्यैवंभूतस्तारापीडश्चिरमिव चन्द्रापीडमालोक्य निरीक्ष्याहूय चाह्वानं कृत्वा च विनयेनावनम्रमवनतं चन्द्रापीडमसदेशे स्कन्धदेशे शिरस्युत्तमाङ्गे बाह्वोर्भुजयोश्च पाणिना हस्तेन स्पृशन्स्पर्शं कुर्वन्नादिशत् । हे वत्स, गच्छ व्रज त्वमेव, मनोरमासहिताया मातुर्विलासवत्या अभ्यन्तरम् । गृहस्येति शेषः । प्रविश्य प्रवेशं कृत्वात्मगमनवृत्तान्तमावेदय ज्ञापय । इति चन्द्रापीडमादिश्येत्याज्ञां दत्त्वात्मना स्वयं शुकनासमादाय गृहीत्वा स्वभवनं स्वगृहमयासीदगच्छत् ।
-
चन्द्रापीडस्त्वक्लिष्टः शोभनो वर्णो रक्तपीतादिरक्षरं वा यस्यामेवंविधां कादम्बर्याः संवरणमङ्गीकरणं तस्य सजमिव मालामिव तां गमनाभ्यनुज्ञां यात्रानिर्देशं हृदयेन चेतसोद्वहन्धारयन्प्रहृष्टः प्रमुदितोऽन्तरात्मा यस्यैवंभूतोऽप्यपगतो हर्षो यस्या एतादृशी दृष्टिर्यस्यैवंविधः प्रविश्य प्रवेशं कृत्वा कृतनमस्कारो विहितप्रणामो मातुर्जनन्याः समीपे यथोचितप्रदेशे समुपविश्योपवेशनं कृत्वात्मनः स्वस्य दर्शनेनावलोकनेन द्विगुणीभूतो द्विगुणतां प्राप्तो वैशम्पायनस्य विरहः शोकस्तेन विह्वलां व्याकुलामेवंभूतां मनोरमामाश्वास्याश्वासनां कृत्वावादीदवोचत् । किमुवाचेत्याह - हे अम्ब हे मातः, समाश्वसिह्याश्वासनां कुरु । यतो वैशम्पायनस्यानयनं तदर्थं तातेन पित्रा मे मम गमनं यानमादिष्टं कथितम् । तत्तस्माद्धेतोः कतिपये च ये दिवसा वासरास्तैरन्तरितं व्यवहितं वैशम्पायनस्याननदर्शनं वक्त्रनिरीक्षणं तत्रोत्सवमुत्सवभूतमविकल्पं कल्पनारहितं मामेव त्वं विसर्जय गमनाज्ञां देहि । सा त्विति । सा मनोरमैवममुना प्रकारेणाभिहिता प्रोक्ता सती प्रत्युवाच प्रत्यब्रवीत् । किमुवाचेत्याह - तात । हे तात हे पुत्र, आत्मगमनवचसा स्वप्रयाणवाक्येन किं मां समाश्वासयसि समाश्वासनां करोषि । मे मम । खल्विति निश्चये । त्वयि भवति तस्मिंश्च वैशम्पायने को विशेषस्तदि -
I
टिप्पo - 1 अभ्यन्तरम् (प्रासादस्य ) प्रविश्य, आत्मवृत्तान्तं मातुरावेदय इत्येव ग्रन्थाशयः । 2 'मामेव' इति निरर्थकप्रायम् । अत एव '०त्सवं मामविकल्पं विसर्जय' इत्येव पाठो मनोरमः ।
पाटा० - १ उद्बाष्पलोचनम् २ इह. ३ उत्सुकं मामविकल्पं विसर्जय त्वम्.
(तारापीडस्याऽऽज्ञापनम्
उत्तरभागः ।
581
Page #109
--------------------------------------------------------------------------
________________
मां समाश्वासयसि । कः खलु मे त्वयि तस्मिंश्च विशेषः । तदेकधा तमेकं न पश्यामि कठिनहृदया । त्वयि पुनर्गते च दयितस्यादर्शने जीवितप्रतिबन्धहेतुभूतं त्वदर्शनं तदपि दूरीभवति । तन्न गन्तव्यम् । वत्स, एकेनापि हि युवयोरावां पुत्रवत्यौ द्वे अपि । नागतो नामासौ निष्ठुरात्मा' इत्युक्तवत्यां मनोरमायां विलासवती धीरमुवाच - 'प्रियसखि, तव मम चैवमेतद्यथा त्वया प्रोक्तम् । अयं पुनर्वैशम्पायनेन विना कं पश्यतु ? तदास्ताम् । किमेतन्निवारयसि । वारितेनाप्यनेन नैव स्थातव्यम् । मन्ये च पित्राप्ययमेतदेवाकलय्य गमनायानुमोदितः । तद्यातु । वरमावाभ्यां कतिपयदिवसाननयोरप्यदर्शनकृतान्क्लेशाननुभूतान पुनरस्य वैशम्पायनानवलोकनदुःखदीनं दिने दिने वदनमीक्षितुम् । तदुत्तिष्ठ । गच्छावो गमनसंविधानाय वत्सस्य चन्द्रापीडस्य । इत्यभिदधत्येव मनोरमा हस्ते गृहीत्वोत्थाय चन्द्रापीडेनानुगम्यमाना निजावासमयासीत् ।
***********
तरत्वलक्षणः । तदेव स्पष्टीकुर्वन्नाह - तदिति । तत्तस्माद्धेतोरेकधैकवारं तमेकं वैशम्पायनं कठिनहृदया न पश्यामि नावलोकयामि । त्वयि भवति पुनर्गते प्रस्थिते च दयितस्य वैशम्पायनस्यादर्शनेऽनिरीक्षणे जीवितस्य जीवनस्य प्रतिबन्धहेतुभूतं गमनविघ्नभूतं त्वदर्शनं त्वदवलोकन तदपि तत्र गतत्वेन दूरीभवति । तन्न गन्तव्यम् । हे वत्स हे पुत्र, एकेनापि हि युवयोश्चन्द्रापीडवैशम्पायनयोरावां विलासवतीमनोरमे पुत्रवत्यौ द्वे अपि । नामेति कोमलामन्त्रणे । असौ वैशम्पायनो निष्ठुरात्मा निर्दयप्रकृति गतो नायातः । इत्युक्तवत्यामिति भाषितवत्यां मनोरमायां वैशम्पायनजनन्यां सत्यां विलासवती चन्द्रापीडसवित्री धीरं यथा स्यात्तथोवाचाब्रवीत् - हे प्रियसखी, तव भवत्या मम विलासवत्या एवमेतत्तथैवेदं यथा येन प्रकारेण त्वया प्रोक्तम् । पुनरयं चन्द्रापीडो वैशम्पायनेन विना पश्यत्ववलोकयतु । तत्तस्माद्धेतोरास्तां तिष्ठतु । किमेतद्गमनं निवारयसि निवारणं करोषि । वारितेनाप्यनेन चन्द्रापीडेन नैव स्थातव्यम् । नैवात्र स्थेयमित्यर्थः । मन्ये इति । अहं मन्ये जानामि । एतदेव पूर्वोक्तमेवाकलय्याकलनां कृत्वायं चन्द्रापीडो गमनाय यात्रायै अनुमोदितोऽभ्यनुज्ञातः । तत्तस्मात्कारणायातु व्रजतु । आवाभ्यां मनोरमाविलासवतीभ्यां कतिपयदिवसान्यावत् । अनयोरपि चन्द्रापीडवैशम्पायनयोरप्यदर्शनकृतानवलोकनजनिताननुभूताननुभवविषयीकृतान्क्लेशान्विषादान्वरं शुभम्, परं वैशम्पायनस्यानवलोकनमनिरीक्षणं तस्माद्यदुःखं कृच्छं तेन दीनं सकरुणमस्य चन्द्रापीडस्य दिने दिने वदनमाननमीक्षितुं न पुनर्वर शुभम् । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु । वत्सस्य चन्द्रापीडस्य गमनसंविधानाय प्रस्थानसामग्यै आवां गच्छावो व्रजाव इत्यभिदधती कथयन्त्येव मनोरमा हस्ते पाणौ गृहीत्वादायोत्थायोत्थानं कृत्वा चन्द्रापीडेनानुगम्यमानानुयायमाना निजावासं स्वभवनमयासीदगात् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 'कठिनहृदयम् इत्युचितः पाठः । तस्मिन् गते, तं कठिनहृदयम् (आक्रोशः, यो हि निःस्नेहतया स्थितः) एकं न पश्यामि । 2 न हि पुत्रस्यार्थे विशेष्यरूपेण दयितप्रयोगः स्वारसिकः । तस्मात् - 'यदपि तस्यादर्शने जीवितप्रतिबन्धभूतम्' इत्येव पाठः । अर्थस्तु टीकातो ज्ञायेतैव । 3 'आवाभ्याम् अनुभूतान् क्लेशान् वरम्' इति पाठो लोकोत्तरबुद्धिगम्यः । अत एव 'वरमावाभ्यां कतिपयदिवसाननयोरप्यदर्शनकृताः क्लेशा अनुभूताः, न पुनरस्य वैशम्पायनाऽनवलोकनदुःखदीनं दिने दिने मुखमीक्षितम् इत्येव पाठः । कतिपयदिवसान् यावत् आवाभ्यामनुभूताः अनयोः अदर्शनकृताः क्लेशा अपि वरम्, वैशम्पायनानवलोकनदुःखेन दीनं दिने दिने अस्य (चन्द्रापीडस्य) मुखम् ईक्षितं न पुनर्वरम्, इति तदर्थः ।
पाठा० - १ कठिनहृदयम्. २ यदपि तस्यादर्शने. ३ वत्सेन. ४ पुत्रेण. ५ ढे पुत्रवत्यौ. ६ त्वयोक्तम्, ७ एवं निवारयसि; एनं वारयसि. ८ कतिपयात्. ९ कृताननुभूतान्; कृताः क्लेशा अनुभूताः, १० वैशम्पायनाननावलोकन. ११ ईक्षितम्. १२ इत्येवं.
582
कादम्बरी।
कथायाम्
Page #110
--------------------------------------------------------------------------
________________
चन्द्रापीडोऽपि मातुः समीपे गमनालापेनैव क्षणमिव स्थित्वा गृहमगात् । तत्र चापनीतसमायोगो गमनायोत्ताम्यता हृदयेन गणकानाहूय रहस्याज्ञापितवान् - 'यथा विना पुरिलम्बेन मे गमनं भवति, तथा भवद्भिरार्यशुकनासाय पृच्छते ताताय वा दिनमावेदनीयम्' इति । एवमादिष्टास्ते व्यज्ञापयन् - 'देव, यथा सर्व एव ग्रहाः स्थिताः, तथास्मन्मतेन देवस्य गमनमेव वर्तमानेन शस्यते । अपरमपि कर्मानुरोधाद्राजेच्छैव कालः । तत्रापि न कार्यमेवाहनिरूपणया । सजा कालस्य कारणम् । यस्यामेव वेलायां चित्तवृत्तिः सैव वेला सर्वकार्येषु इति विज्ञापिते मौहर्तिकैः पुनस्तानब्रवीत् - 'तातेनैवमादिष्टमिति ब्रवीमि । अन्यदात्यन्तिकेषु कार्येषु कार्यपराणां प्रतिक्षणोत्पादिषु च दिवसनिरूपणैव कीदृशी । तत्तथा कथयिष्यत यथा श्व एव मे गमनं भवेत्' इति । 'देवः प्रमाणम्' इत्यभिधाय गतेषु च तेषु शरीरस्थितिकरणायोदतिष्ठत् । निवर्तितशरीरस्थितिं च मौहर्तिकास्ते पुनः प्रविश्य शनैर्यवेदयन् - कृतोऽस्माभिर्देवादेशः । सिद्धश्च तनयविरहविक्लवतयार्यशुकनासस्य । तदतिक्रान्ते श्वस्तनेऽ -
***********
चन्द्रापीडोऽपि मातुर्जनन्याः समीपे गमनालापेनैव यात्रावार्तयैव क्षणमिव स्थित्वा गृहमगादगमत् । तत्र तस्मिन्गृहेऽपनीतो दूरीकृतः समायोगः संबन्धो येनैवंभूतो गमनाय प्रस्थानाय हृदयेन स्वान्तेनोत्ताम्यतोत्तपता गणकाज्योतिर्विद आहूयाकार्य रहस्येकान्त आज्ञापितवानाज्ञां दत्तवान् । किमाज्ञापितवानित्याशयेनाह - यथेति । यथा मे मम परिलम्बेन विना गमनं प्रस्थानं भवति, तथा भवद्भिर्युष्माभिः पृच्छत आर्यशुकनासाय ताताय वा दिनं दिवसमावेदनीयं कथनीयम् । एवमादिष्टाः प्रोक्तास्ते ज्योतिर्विदो व्यज्ञापयन्विज्ञप्तिं चक्रुः । कां विज्ञप्तिं कृतवन्त इत्याशयेनाह - देव इति । हे देव हे स्वामिन्, यथा येन प्रकारेण सर्व एव ग्रहाः सूर्यादयो लग्ने स्थितास्तथा तेन प्रकारेणास्मन्मतेन देवस्य भगवतो गमनमेव प्रस्थानमेव वर्तमानेन कालेन शस्यते श्लाघ्यते । मुहूर्ताभावेऽपि गमनप्रकार प्रदर्शयन्नाह - अपरमपीति । कर्मानुरोधात्कार्याग्रहाद्राज्ञो नृपस्येच्छैव कालो मुहूर्तः । तत्रापीच्छामुहूर्तनिरूपणया शुभाशुभदिनगवेषणया न कार्यं न प्रयोजनम् । तत्र हेतुमाह - राजेति । राजा नृपः कालस्य मुहूर्तस्य कारणम् । यस्यामेव वेलायां समये चित्तवृत्तिर्मनःप्रवृत्तिः सर्वकार्येषु समग्रकृत्यकरणेषु सैव वेलाऽवसरः । मौहूर्तिकैर्गणकैरिति विज्ञापिते विज्ञप्ते सति पुनर्द्धितीयवारं तान्गणकानब्रवीदकथयत् । तातेन पित्रैवं दिवसगवेषणादिकमादिष्टं कथितमिति हेतोरहं ब्रवीमि कथयामि । अन्यदान्यस्मिन्काल आत्यन्तिकेष्ववश्यकरणीयेषु तथा प्रतिक्षणं प्रतिसमयमुत्पादिषत्पत्तिकरणशीलेषु कार्येषु च कार्यपराणां कृत्यतत्पराणां दिवसनिरूपणा दिनगवेषणैव कीदृशी । तत्तस्माद्धेतोस्तथा तेन प्रकारेण यूयमित्यकथयिष्यत न्यवेदयिष्यत । यथा च एवागामिदिन एव मे मम गमनं चलनं भवेदिति । देवः प्रमाणं यथा भवदनुशासनमित्यभिधायेत्युक्त्वा तेषु गणकेषु गतेषु प्रयातेषु सत्सु च शरीरस्थितिकरणाय देहव्यापारकृत उदतिष्ठदुत्थितो बभूव । निवर्तिता संपादिता शरीरस्थितिर्येनैवंभूतं तं पुनस्ते मौहूर्तिकाः प्रविश्य प्रवेशं कृत्वा शनैर्मन्दं मन्दं न्यवेदयन्चिंज्ञपयन् । अस्माभिर्कोतिर्विद्भिर्देवस्य भवत आदेशो निदेशः कृतो विहितः । तनयस्य वैशम्पायनस्य विरहो वियोगस्तेन विक्लवतया विह्वलतयार्यशुकनासस्य च सिद्धो निष्पन्नः । ततस्तस्माद्धेतोरतिक्रान्ते व्यतीते श्चोभवः वस्तनस्तस्मिन्नहन्यागामिदिवसे रात्रौ निशायामितोऽस्मात्प्रदेशाद्देवेन भवता - - - - - - - - - - - - टिप्प० - 1 अपनीतसमायोगः उन्मुक्तपरिच्छदः । 2 'वर्तमाने न शस्यते वर्तमाने काले न शस्यते इति पाठः । 3 'कथयिष्यथ' इत्येव पाठः । 4 'निर्वर्तिता' इति पाठः । 5 व्यज्ञपयन् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ विलम्बन. २ व्यज्ञपयन्. ३ तस्मात्. ४ तत्र न. ५ चित्तनिवृतिः. ६ आत्ययिकेषु. ७ प्रतीक्षण. ८ कवयय; कथयिष्यय. ९ निर्वर्तित. १० ते प्रविश्य. .
(मातुरनुमतियाचनं यात्रासंविधानं च ।
उत्तरभागः।
583
Page #111
--------------------------------------------------------------------------
________________
हनि रात्रावितः प्रस्थातव्यं देवेन' इत्यावेदिते तैः ‘साधु कृतम्' इति मुदितचेतास्तानभिष्टुत्यदृष्टिविषयवर्तिनीमेव कादम्बरी च वैशम्पायनं च मन्यमानः, अप्रविष्टायामेव पत्रलेखायां परापतामीत्यग्रप्रधावितेनावधारयश्चेतसा, चतुःसमुद्रसारभूतानिन्द्रायुधरयानुगामिनस्तुरंगमानगणेयानवगणणिततुरंगमगमनखेदानुत्साहिनो राजपुत्रांश्च निरूपयन्ननन्यकर्मा तं दिवसमेकां च यामिनी कथंकथमप्यस्थात् ।।
अथानुरक्तकमलिनीसमागमाप्राप्तिसंतापादिव समं दिवसेनास्तमुपगतवति तेजसांपतो, तेजःपतिपतनाच्चितानलमिव संध्यारागमपराशया सह विशति पश्चिमे गगनभागे, संध्यानलस्फुलिङ्गनिकर इव स्फुरति तारागणे, दिवसविरामान्मूर्छागमेनेव तमसा निमील्यमानेषु दिङ्मुखेषु, निवासाभिमुखमुखरेषु वियद्वियोगदुःखादिव कृतान्तप्रलापेषु वयःसमूहेषु, जनितप्रकाशं जन्मेवोलोक्य दोषागमं निरालोकं गर्भमिव तमःप्रविष्टे पुनर्जीवलोके, निजालोकाधिकाशितपूर्वदिग्वधूवदने जन्मान्तरागत इवोदयगिरिवर्तिनि नक्षत्रसमागमसुखमनुभवति भगवति भूयोभूयः स्वकान्तिनिर्भरानिष्कलङ्क इव नक्षत्रनाथे, विस्पष्टायां निशीथिन्याम, प्रस्थान -
***********
प्रस्थातव्यं चलितव्यम् । तैर्गणकैरित्यावेदित इति ज्ञापिते साधु कृतं शुभं विहितमिति मुदितचेताः प्रमुदितमनास्ताञ्ज्योतिर्विदोऽभिष्टुत्य स्तुति कृत्वा दृष्टिविषयवर्तिनीमेव प्रत्यक्षगतामेव कादम्बरी वैशम्पायनं च मन्यमानो ज्ञायमानोऽप्रविष्टायामेवाप्राप्तायामेव पत्रलेखायामहं परापतामि गच्छामीत्यग्रप्रधावितेन पुरस्तात्त्वरितगत्या चलितेन चेतसा स्वान्तेनावधारयनिश्चिन्वंश्चतुःसमुद्रेषु चतुरम्भोनिधिषु सारभूतान्हयभूतानिन्द्रायुधस्य रयोवेगस्तस्यानुगामिनोऽनुयायिनोऽगणेयानसंख्येयांस्तुरङ्गमानवानगणितोऽवमानितस्तुरंगमेनाश्चेन गमनं चलनं तस्मात्खेदो यैस्तानुत्साहिन उत्साहवतो राजपुत्रांश्च नृपसुतानिरूपयन्पश्यन् । न विद्यतेऽन्यत्कर्म यस्य सोऽनन्यकर्मा तं दिवसमेकां च यामिनी कथंकथमपि महता कष्टेनास्थात्तस्थौ। ___ अथेति प्रकारान्तरे । अनुरक्ता या कमलिनी नलिनी तस्याः समागमः संयोगस्तस्याप्राप्तिरलब्धिस्तया यः संतापस्तप्तिस्तस्मादिव दिवसेन समं सार्धं तेजसापतौ श्रीसूर्येऽस्तमुपगतवति प्राप्तवति सति । तेजःपतिपतनात्सूर्यपतनात् । रक्तत्वसाम्यादाह - अपराशया पश्चिमया सह पश्चिमे गगनभागे चितानलमिव चितावहिमिव संध्यारागं विशति प्रविशति सति । संध्यानलस्य स्फलिङगा अग्निकणास्तेष तारागणे स्फुरति दीप्यमाने सति । दिवसस्य विरामादवसानान्मूर्छागमेनेव मोहागमेनेव तमसाऽन्धकारेण दिङ्मुखेषु दिशाननेषु निमील्यमानेषु संकोच्यमानेषु । निवासस्याभिमुखाः संमुखाश्च ते मुखरा वाचालाश्च तेषु वियत आकाशस्य वियोगस्तस्य यहुःखं तस्मादिव कृतो विहितोऽन्तःप्रलापो विलापो यैरेवंभूतेषु वयःसमूहेषु पक्षिसंघातेषु । जनितो विहितः प्रकाश आलोको येनैवंभूतं जन्मेवालोक्य विलोक्य दोषागमनं त्रियामागमं निरालोकं निःप्रकाशं गर्भमिव भ्रूणमिव तमःप्रविष्टे पुनर्जीवलोके विष्टपे सति । निजालोकात्स्वप्रकाशाद्विकाशितं प्रकाशितं पूर्वदिगेव वधूस्तस्या वदनं येन स तस्मिजन्मान्तरागत इव भवान्तरागत इवोदयगिरिवर्तिन्युदयाचलस्थिते भूयो भूयो वारंवारं स्वकान्तिनिर्भरौत्स्वदीप्तिसंभारानिष्कलङ्के इव नक्षत्रनाथे चन्द्रे भगवति नक्षत्रसमागमसुखं तारकामेलापकसौख्यमनुभवत्यनुभवविषयीकुर्वति सति । निशीथिन्यां त्रियामायां विस्पष्टायां प्रकटायां - टिप्प० -1 'कृतार्तप्रलापेषु कृतः आर्तप्रलापो यैस्तेषु । 2 कान्त्यतिशयात्र निष्कलकत्वम् । अत एव 'स्वकान्तिनिहरात्' इत्येव पाठः । पाठा० - १ इति ताम्. २ प्रविष्टायाम्. ३ अग्रतः. ४ दिग्गगनभागे. ५ आप्रिलापेषु. ६ समालोक्य. ७ प्रस्थानमङ्गल.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
584
कादम्बरी।
कथायाम्
Page #112
--------------------------------------------------------------------------
________________
मङ्गले प्रणामायोपगतं चन्द्रापीडं पीडयान्तर्विलीयमानेव बाष्पोत्पीडमपारयन्ती निवारयितुमत्यायताभ्यामपि नेत्राभ्यां कृतप्रयत्नाप्यमङ्गलशङ्कया विलासवती तं मैन्युरागावेगगद्गदिकोपरुध्यमानाक्षरमवादीत् -
'तात, युज्यते ह्यङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा, यस्मिन्प्रथममेवाकादपैति । मम पुनर्नेदृशी प्रथमगमनेऽपि ते पीडा समुत्पन्ना, यादृशी तव गमनेनाधुना । दीर्यत इव मे हृदयम् । समुत्पाट्यन्त इव मर्माणि । उत्क्वथ्यत इव शरीरम् । उत्प्लवत इव चेतः । विघटन्त इव संधिबन्धनानि । निर्यान्तीव प्राणाः । न किंचित्समादधाति धीः । सर्वमेव शून्यं पश्यामि । न पारयाम्यात्मानमिव हृदयं धारयितुम् । धृतोऽपि बलादागच्छति मे बाष्पोत्पीडो मुहुर्मुहुः । समाहितापि मङ्गलसंपादनाय ते चलति मतिः । न जानाम्येव किमुत्पश्यामीति । किं निमित्तं चेयमीदृशी मे हृदयपीडेत्येतदपि न वेद्मि । किं बहुभ्यो दिवसेभ्यः कथमप्यागतो मे वत्सो झटित्येव पुनर्गच्छतीति । किं वैश
***********
सत्या प्रस्थानमङ्गले सति गमनश्रेयसि सति, प्रणामाय नमस्कारायोपगतमागतं चन्द्रापीडं पीडया बाधयान्तर्विलीयमानेव विलयं प्राप्यमाणेवात्यायताभ्यामतिविस्तीर्णाभ्यामपि नेत्राभ्याममङ्गलशङ्कयाऽश्रेयसारेकया कृतप्रयत्नापि विहितोद्यमापि बाष्पोत्पीडमथुप्रवाहं निवारयितुं दूरीकर्तुमपारयन्त्यशक्नुवती एवंविधा विलासवती तत्र स्थितत्वाद्वैशम्पायने मन्युः क्रोधो रागश्चन्द्रापीडे स्वाङ्गजत्वात् तयोरावेग आवेशस्तेन या गद्गदिका गद्गदध्वनिस्तयोपरुध्यमानान्युपरोधं प्राप्यमाणान्यक्षराणि यथा स्यात्तथेति क्रियाविशेषणम् । अवादीदब्रवीत् । - किमवादीदित्याशयेनाह - तातेति । हे तात हे पुत्र । हीति निश्चितम् । अङ्कलालितस्य क्रोडपालितस्य गर्भरूपस्य भ्रूणस्वभावस्य प्रथमगमन आद्यप्रयाणे हृदयपीडा गरीयसी युज्यते विलोक्यते, यस्मिन्प्रथममेवाकाक्रोडादपैति गच्छति । मम विलासवत्याः पुनस्ते तव प्रथमगमनेऽपि नेदृश्येतादृशी पीडा समुत्पन्ना संजाता, यादृशी तव गमनेनाधुना सांप्रतं जायते । तदेव प्रदर्शयन्नाह - दीर्यत इति । मे मम हृदयं दीर्यत इव विदीर्णं जायत इव । मर्माणि संधिस्थानानि समुत्पाट्यन्त इवोत्खन्यन्त इव । शरीरं देहमुत्क्वथ्यत इवोत्काल्यत इव । चेतो मन उत्प्लवत इवोत्प्लुत्योत्प्लुत्य गच्छतीव । संधिबन्धनानि विघटन्त इव भियन्त इव । प्राणा निर्यान्तीव निःसरन्तीव । धीर्बुद्धिर्न . किंचित्समादधाति समाधानं करोति । सर्वमेव जगच्छ्न्यं रिक्तं पश्याम्यवलोकयामि । आत्मानमिव हृदयं स्वान्तं धारयितुं न पारयामि न शक्नोमि । धृतोऽपि रक्षितोऽपि बलाद्धठान्मे मम बाष्पोत्पीडोऽश्रुप्रवाहो मुहुर्मुहुरिवारमागच्छत्यायाति । ते तव मङ्गलसंपादनाय श्रेयःकरणाय समाहितापि संस्थापितापि मतिश्चलति भ्रमति । इत्यहं न जानाम्येव नावकलयाम्येव - किमुत्पश्यामि किमवलोकयामि । किंनिमित्त च किंकारणं चेयमीदृश्येतादृशी मे मम हृदयपीडा चित्तार्तिरित्येतदप्यहं न वेद्मि न जानामि । किं बहुभ्यः प्रचुरेभ्यो दिवसेभ्यः कथमपि महता कष्टेन मे मम वत्स आगत आयातो झटित्येव शीघ्रमेव पुनर्गच्छति व्रजतीति हेतोर्महती पीडा जायत इति सर्वत्रानुषङ्गः । किं वैशम्पायनस्य वियोगाद्विरहादुद्विग्नस्योद्वेगं प्राप्तस्यैकाकिनोऽसहायस्य ते तव गमनं प्रस्थानं समुत्प्रेक्ष्य विलोक्येति । वैशम्पायनस्य वृत्तान्ताद्वैशम्पायनोदन्तादात्मनः -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'बलादागच्छति मे बाष्पोत्पीडो मुहुः । मुहुः समाहितापि मङ्गलसंपादनाय०' इति पाठः । मुहुः समाहितापि मतिश्चलति इति तदर्थः । 2 'उत वैशम्पायनवृत्तान्ता-' इति पाठः । 'न पुनः' इत्यस्य न युक्तत्वम् । पाठा० - १ निलीयमान. २ वारयितुम् पातुम्. ३ मन्यद्गमावेग; आवेग. ४ जातमात्रापि तेऽकलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदयपीडा यस्मिन्प्रथमेनाङ्कादर्पिते. ५ यतो दीर्यते. ६ उच्च्यवते. ७ उन्मथ्यत इव मनः निर्यान्तीव. ८ मुहुः. ९ चलति. १० हृदय. ११ बहुभ्यः.
(प्रस्थापनकालिकी मातुरूक्तिः ।
उत्तरभागः।
585
Page #113
--------------------------------------------------------------------------
________________
म्पायनवियोगादुद्विग्नस्य गमनमेकाकिनस्ते समुत्प्रेक्ष्येति । न पुनर्वेशम्पायनवृत्तान्तादात्मन एव दुःखिततयेति । न चैवंविधया पीडया वैशम्पायनानयनाय गच्छतस्ते मे गमनं विनिवारयितुं पारयति वाणी । हृदयं पुनर्नेछत्येव त्वदीयं गमनम् । तदीदृशीं मे पीडां विभाव्य यथा पुरा स्थितं न तथा क्वचिदासंगमावध्यतिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थस्य कृते साञ्जलिबन्धेन शिरसाभ्यर्थये वत्सम्' इत्यादिशन्तीं स्वमातरं सुदूरं प्रसारितावनम्रमूर्तिश्चन्द्रापीडो व्यजिज्ञपत् - 'अम्ब, तदा दिग्विजयप्रसङ्गास्थितम् । अधुना पुनरयमेव कालक्षेपो यावत्तमुद्देशं परापतामि । तत्पुनश्चिरागमकृता ने भावनीया मनागपि हृदये पीडी त्वया' इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्योद्वाष्पवेगान् कथं कथमपि संस्तभ्यात्मानं निर्वर्तितगमनमङ्गला, गलता प्रसवेण सिञ्चन्ती, शिरसि चोपाघ्राय गोद सुचिरमालिङ्गय, गच्छद्भिरिव प्राणैः कृच्छ्रान्मुमोच'त माता । मुक्तश्च मात्रा पितुः प्रणतये वासभवनमगमत् ।
***********
स्वस्यैव दुःखिततया पिडिततया पुनर्न मम हृदयपीडेत्यर्थः । एवंविधयैतादृश्या पीडया वैशम्पायनानयनाय गच्छतो व्रजतस्ते तव गमनं विनिवारयितुं निषेधयितुं न वाणी वाक्पारयति समर्था भवति । हृदयं चेतः पुनस्त्वदीयं तावकीनं गमनं नेच्छत्येव नाभिलषत्येव । तत्तस्माद्धेतोर्मे ममेदृशी पीडां विभाव्य ज्ञात्वा यथा येन प्रकारेण पुरा पूर्वं स्थितं विलम्बितं क्वचित्कस्मिंश्चित्स्थले संगमो मेलापस्तस्यावधिर्मर्यादा आसंगमावधेरासंगमावधि इत्यव्ययीभावः । अतिदीर्घकालमतिचिरकालमायुष्मता भवता न तथा स्थातव्यं स्थेयम् । अस्य च पूर्वोक्तस्यार्थस्य कृतस्य कृते सहाञ्जलिबन्धेन वर्तमानः साञ्जलिबन्धः । 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । तेनैवंभूतेन शिरसोत्तमाङ्गेन वत्सं सुतमभ्यर्थयेऽभियाचे इति पूर्वोक्तमादिशन्ती कथयन्तीं स्वमातरं स्वजननी सुदूरं सुतरां दूरं प्रसारिताऽवनम्रावनामिता मूर्तिर्येनैवंभूतश्चन्द्रापीडो व्यजिज्ञपद्विज्ञप्तिमकार्षीत् । तदेवाह - हे अम्ब इति । हे मातः, तदा तस्मिन्काले दिशां विजय आत्मसात्करणं तस्य प्रसङ्गः संबन्धस्तस्मात्स्थित विलम्बितम् । अधुना सांप्रतं पुनरयमेव कालक्षेपः समयविलम्बो यावद्यावता कालेन तमुद्देशं वैशम्पायनालंकृतप्रदेशं परापतामि गच्छामि । तत्तस्माद्धेतोः पुनश्चिरेण बहुकालेनागमनं तेन कृता विहिता या पीडा सा मनागपि हृदये चेतसि न भावनीया न विचारणीया । चन्द्रापीडेनेति विज्ञप्ता कथिता विलासवत्युद्धाष्पवेगानुदश्रुप्रवाहान्सनिरुध्यावष्टभ्य कथंकथमपि महता कष्टेनात्मानं स्वं संस्तभ्य पतन्तं निवार्य, निर्वर्तित विहितं गमनमङ्गलं प्रयाणश्रेयो ययैवंभूता । किं कुर्वती । गलता क्षरता प्रसवेण स्तनोद्गतदुग्धेन सिञ्चन्ती सेचनं कुर्वन्ती । अनेन स्नेहाधिक्यमाविष्कृतम् । शिरसि चोपाघ्राय सुचिरं बहुकालं गाढं दृढमालिङ्ग्याश्लिष्य माता विलासवती गच्छद्भिनिःसरद्भिः प्राणैरसुभिरिव कृच्छ्रात्कष्टात्तं चन्द्रापीडं मुमोच तत्याज । मुक्तश्च मात्रा जनन्या पितुस्तारापीडस्य प्रणतये नमस्कृतये वासभवनं निवासगृहमगमदगच्छत् ।
- - - टिप्प० -1 'आसङ्गमावध्य दीर्घकालम् इति पाठः । आसङ्गम् आसक्तिम् आवध्य आस्थाय दीर्घकालं न स्थातव्यमिति तदर्थः । 2 'सनिरुध्य बाष्पवेगान् इत्येव पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अन्तः; उत; पुनः पुनः. २ दुःखितयेति. ३ विज्ञाय. ४ आसंगमावध्यदीर्घकालम्. ५ व्यज्ञपयत्. ६ मातः; अहं च मातः. ७ स्थितोऽस्मि. ८ अयमेव मे; इयानेव मे. ९ मनागपि हृदये न भावनीया; मनागपि न हृदये भावनीया. १० अम्बया पीडा; त्वया पीडा. ११ बाष्प. १२ मङ्गलप्रसवेण; मङ्गलाङ्गलताप्रसवेण. १३ गाढं गाढम्. १४ तम्.
586
कादम्बरी।
कथायाम्
Page #114
--------------------------------------------------------------------------
________________
तत्र च ‘देव, गमनाय नमस्करोति युवराजः' इत्यावेदिते द्वाररक्षिणा प्रविश्य क्षोणीतलनिवेशितशिरसा शयनवर्तिनो ननाम दूरस्थित एव पितुः पादौ । अथ तथा प्रणतमालोक्य किंचिदुन्नमितपूर्वकायः, शयनगत एवाहूय तं पिता चक्षुषा पिबन्निव, प्रेम्णा परिष्वज्य गाढमिव सहसोद्गताविरलँबाष्परयपर्याकुलाक्षोऽन्तःक्षोभीवेगक्षिप्ताक्षरमवादीत्- 'वत्स, पित्राहं दोषेषु संभावित इत्येषा मनागपि मनसि वत्सेन दुःखासिका न कार्या । विनयाधानात्प्रभृति सम्यक्परीक्षितोऽस्यस्माभिः । परीक्ष्य च गुणगणैरेवाधिगम्यो राज्यभारस्त्वय्यारोपितो न तनयस्नेहादेव । राज्यं हि नामैतत्पृथ्वीभारेणेवातिदुरूद्वहम्, महिभृत्संबाधतयैवातिसंकटम्, कुटिलनीतिप्रचारेणैवातिदुःसंचारम् चतुःसमुद्रव्याप्त्यैवातिमहत्, महासाधनप्रसाध्यतयैवातिदुःसाध्यम्, अपर्यवसानकार्यतन्त्रजालेनैवातिगहनम्, -
***********
तत्र चेति । तत्र वासभवने । हे देव ऐश्वर्यादिगुणैर्विराजमान्, गमनाय यात्रायै युवा चासौ राजा चेति युवराजश्चन्द्रापीडो नमस्करोति प्रणमति । इति द्वाररक्षिणा द्वारपालेनावेदिते ज्ञापिते सति प्रविश्य प्रवेशं कृत्वा । अन्तर्वासभवनमित्यर्थः । क्षोण्याः पृथिव्यास्तल उपरितनो भागस्तत्र निवेशितं स्थापितं यच्छिर उत्तमाङ्गं तेन करणभूतेन शयनवर्तिनः शय्यागतस्य पितुर्जनकस्य पादौ चरणौ दूरस्थित एव विप्रकृष्टगत एव ननाम प्रणतवान् । अथेति । अथानन्तरं तथा प्रणतं पूर्वोक्तरीत्या नतं युवराजमालोक्य निरीक्ष्य किंचिदीषदुन्नमित ऊर्वीकृतः पूर्वकायः प्रथमशरीरभागो येन स शयनगत एव शय्यास्थित एवाहूयाह्वानं कृत्वा तं युवराज पिता जनकश्चक्षुषा नेत्रेण पिबनिव । आदरेणावलोकनं पानमुच्यत इति भावः । प्रेम्णा प्रीत्या गाढमिव गाढसदृशं परिष्वज्यालिङ्गय सहसा झटित्युद्गत उत्पनो योऽविरलो निबिडो बाष्पोऽश्रु तस्य रयो वेगस्तेन पर्याकुले व्याप्ते अक्षिणी यस्य स तथा । अन्तश्चेतसि यः क्षोभस्तस्यावेगस्त्वरिः (त्वरा) तेन क्षिप्ताक्षरमविस्पष्टाक्षरं यथा स्यात्तथावादीदब्रवीत् । तदाह - वत्सेति । हे वत्स हे पुत्र, पित्रा जनकेनाहं दोषेष्वपराधेषु संभावितो गणित इत्येषा मनागपि किंचिदपि मनसि चित्ते वत्सेन दुःखमास्तेऽस्यामिति दुःखासिका चिन्ता न कार्या । विनयेति । विनयो गुरूणामभ्युत्थानादिस्तस्याधानं शिक्षणं तत्प्रभृति तद्दिनादारभ्य सम्यक्प्रकारेणास्माभिः परिक्षितोऽसि परीक्षाविषयीकृतोऽसि । परीक्ष्य चेति । परीक्षां कृत्वैव च गुणा गाम्भीर्यादयस्तेषां गणाः समूहास्तैरेवाधिगम्यः प्रापणीयो राज्यभारस्त्वय्यारोपितः, न तनयनेहादेव नाङ्गजप्रीतेर्गुणवत्त्वादेव त्वयि राज्यभार आरोपितोऽस्ति । न पुत्रस्नेहादेवेति भावः । अथ राज्यस्वरूपं निरूपयन्नाह - राज्यमिति । नामेति कोमलामन्त्रणे । हीति निश्चये । एतद्राज्यमाधिपत्यं पृथ्वीभारेणैव वसुधावीवधेनैवातिदुरुद्वहं दुःखेनोद्घोढुं शक्यम् । तथा महीभृतां राज्ञां संबाधतया संघट्टतयैवातिसंकटमतिसंबाधम् । तथा कुटिला वक्रा या नीति राजस्थितिस्तस्याः प्रचारेणैव प्रसरणेनैव अतिदुःसंचारं दुःखेन संचरितुं शक्यम् । तथा चत्वारो वेदप्रमिता ये समुद्रा जलधयस्तेषु व्याप्त्यैव व्यापकतयैवातिमहदत्यायतम् । तथा महासाधनं महासैन्यं तेन प्रसाध्यतयैवातिदुःसाध्यमतिदुःखेन साधयितुं शक्यम् । तथाऽपर्यवसानान्यनन्तानि कार्याणि कृत्यानि यत्रैवंभूतं तन्त्रजालं स्वराष्ट्रचिन्तासमूहूं तेनैवातिगहनमिति । 'निबिडं तन्त्रं स्वराष्ट्रचिन्ता स्यात्' इति हैमः । उत्तुङ्ग उच्चो यो वंशोऽन्यस्तत्र प्रतिष्ठिततयैव -
- - - - - - - - - - - - - - - - - टिप्प० - 1 विनयाधानं शिक्षादानं तत्प्रभृति तदारभ्य । 2 महीभृद्भिः पर्वतैः राजभिश्च संबाधतया संकुलतया । 3 उत्तुङ्गा ये वंशाः वेणवः कुलानि च तेषु प्रतिष्ठिततया, इत्युभयार्थस्वारस्यम् ।
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ निवेशितशिराः. २ गाढमप्रौढ. ३ उद्भूत. ४ बाष्पपर्याकुल. ५ क्षोभविक्षिप्त. ६ अहं दोषेऽपि; अनर्हदोषेषु. ७ पृथिवी. ८ समुद्रपर्यन्तभुवनव्याप्त्यैव. ९ दुःसाधनम्.
(पितुः शिक्षा
उत्तरभागः।
1587)
Page #115
--------------------------------------------------------------------------
________________
उत्तुङ्गवंशप्रतिष्ठिततयैवातिदुरारोहम्, अहितसहसोद्धरणेनैवातिदुरुद्धरम् अपि च समवृत्तितयैवातिविषमम्, अनेकतीर्थकल्पनयैव दुरवतारम्, कॅण्टकशोधनेनैव दुर्ग्रहम्, अखिलप्रजापालनव्यवहारेणैव दुःपालम्, नोविक्रान्ते नामहोत्साहे नाप्रियवादिनि नासत्यसंधे नाप्राज्ञे नाविवेकिनि नाकृतज्ञे नानुदारव्यवहृतौ नासंविभागशीले नान्यायवर्तिनि नाधर्मरुचौ नाशास्त्रव्यवहारिणि नाशरण्ये नाब्रह्मण्ये नाकृपालौ नामित्रवत्सले नावश्यात्मनि नानिर्जितेन्द्रिये नासेवके पदमेवादधाति । यः खलु समग्रैर्गुणैराकृष्य बलात्प्रतिबन्धमस्य चञ्च -
-
-
प्रतिष्ठां प्राप्ततयैव दुःखेनारुह्यत इति दुरारोहम् । अहितानां शत्रूणां सहस्रं तस्योद्धरणेनैवोत्खननेनैव दुरुद्धदुःखेनोद्धर्तुं शक्यम् । पुनः प्रकारान्तरेण प्रतिपादयन्नाह - अपि चेति । समाऽविषमा या वृत्तिर्वर्तनं तयैवातिविषमं कठिनम् । तस्याः कर्तुमशक्यत्वादिति भावः । इयं विशेषोक्तिः । अनेकानि यानि तीर्थान्युपायास्तेषां कल्पनं प्रयोगस्तेनैव दुःखेनावतीर्यत इति दुरवतारम् । दुस्तरमित्यर्थः । 'तीर्थं शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति हलायुधः । 'तीर्थं योनौ जलावतारे च' इत्यमरः । अनेकजलावतरणेनैव नद्यादि सूत्तरं भवति । इदं तु दुरुत्तरमिति विशेषोक्तिः । कण्टकाः खलास्तेषां शोधनेन दूरीकरणेन दुर्ग्रहं दुःखेन ग्रहीतुं शक्यम् । अखिलः समग्रा याः प्रजा जनपदवासिनो लोकास्तासां पालनं रक्षणम् । एतदेव व्यवहारो व्यवसायस्तेनैव दुःपालं दुःखेन पालयितुं योग्यं राज्यमेतादृशेषु पुरुषेषु पदं स्थानमादधाति करोतीत्यन्वयः । आङ्पूर्वस्य दधातेः करणार्थत्वादित्यर्थः । ' पदे व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । तानेवाह - नाविक्रान्त इत्यादि । विक्रमणं विक्रान्तिः सा विद्यते यस्मिन् स विक्रान्तस्तद्भिन्नोऽविक्रान्तस्तस्मिन् । पराक्रमरहित इत्यर्थः । महा विद्यते यस्मिन्स महोत्साहस्तद्भिन्नोऽमहोत्साहस्तस्मिन् । निरुद्यम इत्यर्थः । प्रियं वदतीत्येवंशीलः प्रियवादी तद्धिन्नोऽप्रियवादी तस्मिन् । कटुकभाषिणीत्यर्थः । सत्या सन्धा प्रतिज्ञा यस्येति सत्यसंधः । 'संवित्संधास्थाभ्युपायः' इति हैमः । तद्भिन्नोऽसत्यसंधस्तस्मिन् । प्रतिज्ञाभङ्गकारिणीत्यर्थः । प्राज्ञश्चतुरस्तद्भिन्नोऽप्राज्ञस्तस्मिन् । मूर्ख इत्यर्थः । विवेचनं विवेकः स विद्यते यस्मिन्स विवेकी तद्भिन्नोऽविवेकी तस्मिन् । सदसद्व्यत्यस्तकारिणीत्यर्थः । कृतं जानातीति कृतज्ञस्तद्भिन्नोऽकृतज्ञस्तस्मिन् । निर्गुण इत्यर्थः । उदारा स्फारा व्यवहृतिर्व्यवसायो यस्येत्युदारव्यवहृतिस्तद्भिन्नोऽनुदारव्यवहृतिस्तस्मिन् । कुत्सितव्यवहारकारिणीत्यर्थः । सम्यग्विभजनं संविभागस्तस्य शीलं स्वभावों यस्मिन्स संविभागशीलस्तद्भिन्नोऽसंविभागशीलस्तस्मिन् । यथोचितानर्पक इत्यर्थः । अन्यायोऽनीतिस्तत्र वर्तत इत्येवंशीलोऽन्यायवर्ती तस्मिन् । न्यायवर्जित इत्यर्थः । न विद्यते धर्मरुचिर्यस्य सोऽधर्मरुचिस्तस्मिन् । सर्वथा पापकारिणीत्यर्थः । न शास्त्रेण कामन्दक्यादिना व्यवहरतीत्येवंशीलोऽशास्त्रव्यवहारी तस्मिन् । स्वेच्छाव्यवहारिणीत्यर्थः । न शरणाय योग्योऽशरण्यस्तस्मिन् । अत्रायक इत्यर्थः । न ब्रह्मनिष्ठोऽब्रह्मण्यस्तस्मिन् । ब्राह्मणाहितकारिणीत्यर्थः । न विद्यते कृपा दया यस्मिन्सोऽकृपालुस्तस्मिन् । दयावर्जित इत्यर्थः । न विद्यते मित्रेषु वत्सलत्वं स्निग्धत्वं यस्येत्यमित्रवत्सलस्तस्मिन् । वयस्यहितवर्जित इत्यर्थः । न वश्य आत्मा यस्येति सोऽवश्यात्मा तस्मिन् । अनियन्त्रितात्मनीत्यर्थः । अनिर्जितान्यवशीकृतानीन्द्रियाणि येन सोऽनिर्जितेन्द्रियस्तस्मिन् । अनिरुद्धेन्द्रिय इत्यर्थः । न सेवत इत्यसेवकस्तस्मिन् । सपर्यावर्जित इत्यर्थः । कस्मिन्राज्यं पदं दधातीत्याशयेनाह - यः खल्विति । खलु निश्चये । यः पुमान्समग्रैः सकलैर्गुणैः क्षान्त्यादिभि
टिप्पo - 1 नातिमृदुर्नातितीक्ष्णा च । 2 अपि च समवृत्तित्वेऽपि विषमतेति विरोधः । 3 'दुष्पालम्' । इत्यस्याग्रे 'सर्वाशाप्राप्त्यैव' इत्यादिः पाठो यः पाठान्तरेषु धृतोऽवश्यं दृश्यः ।
-
पाठा० - १ दुर्धरम्. २ कटक. ३ व्यापारेण. ४ दुःपालनम्; दुष्पारम्; दुष्पाल्यम्. ५ सर्वाशाप्राप्त्यैव च दुष्प्रापम्, नामहासत्त्वे नास्थिरप्रकृतौ नादातरि नास्थूललक्ष्ये नाशुचौ नाविक्रान्ते नातिक्रान्ते. ६ अप्रज्ञे. ७ नापुरुषान्तरज्ञे. ८ अनियतेन्द्रिये.
588
कादम्बरी ।
कथायाम
Page #116
--------------------------------------------------------------------------
________________
प्रकृतेः कर्तुं समर्थस्तत्रास्ते । गुरवोऽप्यपगतस्खलित भीतयस्तत्रैव समारोपयन्त्येतदालोचितपरावराः । तदनेनैव बोद्धव्यमिदं वत्सेन नास्ति मयि दोष इति ।
अपि च संप्रति कस्मिन्भारमवक्षिप्याणुमपि दोषमाचरसि । त्वयैव सकललोकानुरञ्जने यतितव्यम् । गतः खलु कालोऽस्माकम् । अस्माभिरस्खलितैश्चिरं पदे स्थितम् । न पीडिताः प्रजा लोभेन । नोद्वेजिता गुरवो मानेन । न विमुखिताः सन्तो मदेन । नोत्त्रासिताः प्राणिनः क्रोधेन । न हासित आत्मा हर्षेण । न हतः परलोकः कामेन । न राजधर्मोऽनिरुद्धः । स्वरुच्या वृद्धाः समासेविता न व्यसनानि । सतां चरितान्यनुवर्तितानि नेन्द्रियाणि । धनुरखना - मितं न मनः । वृत्तं रक्षितं न शरीरम् । वाच्याद्भीतं न मरणात् । उपभुक्तानि सुर -
र्बलाद्धठादाकृष्याकर्षणं कृत्वा चञ्चलप्रकृतेरस्थिरस्वभावस्यास्य राज्यस्य प्रतिबन्धं प्रतिरोधं कर्तुं विधातुं समर्थः क्षमः स्यात् । तत्र तस्मिन्पुंसि राज्यमास्ते तिष्ठति । तथा परं चावरं च परावरम् । आलोचितं विमृष्टं परावरं प्रकृष्टाधमस्वरूपं यैरत आलोचितपरावराः । विशेषेणापा स्खलिताभ्रंशाद्भीतिर्येषां ते व्यपगतस्खलितभीतय एवंविधा गुरवः कुलक्रमायातसचिवमुख्यास्तत्रैव तस्मिन्नेव जन एतदाधिपत्यमारोपयन्ति स्थापयन्ति । तत्तस्माद्धेतोरनेनैव राज्यप्रदानलक्षणहेतुना वत्सेन बोद्धव्यं ज्ञातव्यम् । मयि विषये दोषो वैगुण्यं नास्ति । तत्सद्भावे राज्यप्रदानसंभावनैव (न) स्यादिति भाव ) ।
पुनः प्रकारान्तरेण शिक्षापूर्वकं वैगुण्याभावं दूरीकुर्वन्नाह अपि चेति । सांप्रतमधुना कस्मिन्वैशम्पायनादौ राज्यभारमवक्षिप्य न्यस्य स्वयमेकाकित्वेनागमनादणुमपि दोषमाचरसि करोषि । त्वयैव भवतैव सकलानां समग्राणां लोकानां जनपदनिवासिनृणामनुरञ्जने चित्ताह्लादजनने यतितव्यं प्रवर्तितव्यम् । यद्यपि एतद्दोषाचरणे न दोषस्तथापि बृहद्दोषाचरणशङ्कासंकुचितस्वान्ता जनाः कदापि प्रसक्तिभाजो न स्युरिति शिक्षाप्रदानमिति भावः । तातेनैव जनानुरञ्जनं कथं न क्रियत इत्याह- गत इति । खल्विति निश्चये । अस्माकं जनानुरञ्जनलक्षणः कालः समयो गतो व्यतीतः । अस्माभिरस्खलितैः स्खलनवर्जितैश्चिरं बहुकालं पदे राज्ये स्थितम् । लोभेन लिप्सया प्रजाः प्रकृतयो न पीडिता न व्यथिताः । मीनेनाहंकारेण गुरवो हिताहितप्राप्तिपरिहारोपदेष्टारो वा नोद्वेजिता नोद्वेगं प्रापिताः । मदेन मुन्मोहसंभेदेन सन्तः साधवो न विशेषेण मुखिता दण्डिताः । क्रोधेन रोषेण प्राणिनोऽसुमन्तः न उत्त्रासितास्त्रासं प्रापिताः । हर्षेण प्रमोदेनात्मा न हासितो हास्यं नीतः । कामेन मनोभवेन परलोक आगामिभवो न हतो न विनाशितः । न राजधर्मो वधादिरूपोऽनिरुद्धोऽनिषेवितः । स्वरुच्या निजाभिलाषेण वृद्धा ज्यायांसः समासेविताः पर्युपासिताः, न व्यसनानि मद्यपानप्रभृतीनि । सतां साधूनां चरितान्याचरणान्यनुवर्तिनान्यनुगमनविषयीकृतानि, नेन्द्रियाणि करणानि, तदनुगामित्वं न कृतम् । सर्वदा तदाज्ञावैमुख्येन स्थितमिति भावः । धनुः कोदण्डमवनामितं वक्रीकृतम्, न मनो हृदयम् । वृत्तं सदाचरणं रक्षितम्, न शरीरं देहः । शरीरानपेक्षत्वेन तदाचरितमित्यर्थः । वाच्याज्जनापवादाद्भीतं त्रस्तम्, न मरणान्मृत्योः । टिप्पo - 1 राज्यभारयुक्तत्वे दोषाचरणं न संभवति । तत् स्वीकृतराज्यभारस्त्वमपि स्वीयं भारं कस्मिन्नवक्षिप्य दोषमाचरितुं शक्नुयाः ? अत एव न त्वयि अणोरपि दोषस्य संभव इत्याशयः । 2 मानेन गुरवः पीडिता भवन्ति, उत संतुष्टाः ? अत एव 'अवमानेन' इत्येव पाठः । 3 न विमुखिताः न पराङ्मुखीकृता इत्यर्थः । 4 अनिरुद्धः अनिषेवितः ? 'न हतः परलोकः कामेन एतावत्पर्यन्तमेव नञ्प्रक्रमः । एतदग्रे 'राजधर्मोऽनुरुद्धो न स्वरुचिः' इति पाठः । राजधर्मस्यानुरोधः कृतः स्वरुचेर्न इति तदर्थः । अग्रे च 'वृद्धाः समासेविता न व्यसनानि ।'
- पाठा० - १ अस्खलितेन च चिरं पदं स्थितं; मयास्खलितेनैव चिरं पदे स्थितम्; अस्माभिरस्खलितैः पादैः २ उपभुक्तानि च ३ सुरलोकेऽपि दुर्लभानि.
(विसर्जने पितुरुक्तिः
उत्तरभागः ।
-
589
Page #117
--------------------------------------------------------------------------
________________
लोकदुर्लभानि सर्वविषयोपभोगसुखानि । यौवनेच्छ्या पर्याप्तमकार्यपरिहरात् । कार्यानुष्ठानाच्चोपार्जितः पैरोऽपि लोकः । चेतसि मे त्वज्जन्मना चे कृतार्थ एवास्मि । तदयमेव मे मनोरथः, दारपरिग्रहात्प्रतिष्ठिते त्वयि सकलमेव में राज्यभारमारोप्य जन्मनिर्वाहलघुना हृदयेन पूर्वराजेर्षिगतं पन्थानमनुयास्यामीति । अस्य च मेऽर्तर्कितमेवायमग्रतः प्रतिरोधको वैशम्पायनवृत्तान्तः स्थितः । मन्ये च न संपत्तव्यमेवानेन । अन्यथा क्व वैशम्पायनः, क्व चैवंविधमस्य स्वप्नेऽप्यसंभावनीयं समाचेष्टितम् ? तद्गतेनापि तथा कर्तव्यं वत्सेन, यथा न चिरकालमेष मे मनोरथोऽन्तर्हृदय एव विपरिवर्तते' इत्यभिधाय किंचिदुत्तानितेन मुखेनैव संपीडितं हृदयमिव ताम्बूलमर्पयित्वा व्यसर्जयत् । चन्द्रापीडस्तु तया पितुः संभावनया सुदूरमुन्नमितोऽप्यवनम्रतरमूर्तिरुपसृत्य पुनः प्रणा -
-
.
जीवनादपि यशोवल्लभत्वमित्यनेन सूचितम् । सुरलोके त्रिविष्टपे दुर्लभानि दुःप्रापाणि यानि सर्वविषयाणां रूपरसगन्धस्पर्शशब्दरूपाणामुपभोगः प्रतिवारमासेवनं तस्य सुखानि सौख्यान्युपभुक्तान्यास्वादितानि । 'यः सकृद्भुज्यते भोग उपभोगोऽङ्गनादिकः' इति प्राञ्चः । अकार्यपरिहारादकृत्यत्यागाद्यौवनेच्छ्या तारुण्यस्पृहया पर्याप्तं भृतम् । कार्यं दानादिरूपं तस्यानुष्ठानादाचरणात्परोऽपि लोक आगामिभवोऽप्युपार्जितः स्वायत्तीकृतः । सदाचरणेनावश्यं देवायुर्बुद्धमित्यर्थः । त्वज्जन्मना च त्वदुत्पत्त्य च कृतार्थः कृतकृत्य एवाहमस्मीति मे मम चेतसि वर्तते । तत्तस्माद्धेतोरयमेव मे मम मनोरथोऽभिलाषो वर्तते । अयमेवेति क इत्यपेक्षायामाह - दारेति । दारपरिग्रहात्स्त्रीस्वीकाराव्यतिष्ठिते प्रतिष्ठां प्राप्ते त्वयि भवति सकलमेव समग्रमेव मे राज्यभारमाधिपत्यधुरमारोप्य न्यस्य जन्मनो नृभवस्य निर्वाह आयुः क्षयं यावत्परिपालनं तेन लघुना तुच्छेन हृदयेन । केवलं जन्मपालनप्रवृत्तत्वेन तदितरसमग्राशाविमुक्तत्वेन च चेतसो लघुत्वमिति भावः । पूर्वे राजर्षयो गताश्चलिता यस्मिन्नेवंविधं पन्थानं मार्गमनुयास्याम्यनुगच्छामि । इत्यस्य मे मम मनोरथस्यातर्कितमेवाचिन्तितमेवाग्रतः पुरः प्रतिरोधकः प्रतिबन्धकृद्वैशम्पायनस्य शुकनाससुतस्य वृत्तान्त उदन्तः स्थितः । अहमिति मन्ये । अनेन मनोरथेन न संपत्तव्यं न भवितव्यम् । अन्यथेत्युक्तंवैपरीत्ये । क्वेति महदन्तरे निपातः । वैशम्पायनो मनोरमाङ्गजः क्व । अस्य च वैशम्पायनस्य स्वप्नेऽपि निद्रादशायामप्यसंभावनीयमचिन्तनीयमेवंविधं समाचेष्टितं समाचरितं क्व । तदिति हेत्वर्थे । गतेनापि चलितेनापि वत्सेन पुत्रेण भवता तथा कर्तव्यं तथा विधेयं यथैष पूर्वोक्तो मे मम मनोरथोऽन्तर्हृदये हृदयमध्ये न विपरिवर्तते न विलीनो भवति । इत्यभिधायोक्त्वा किंचिदीषदुत्तानितेनोर्श्वीकृतेन मुखेनैवाननेनैव संपीडित चर्चितं हृदयमिव स्वान्तमिव ताम्बूलं नागवल्लीदलमर्पयित्वा वितीर्य व्यसर्जयत्प्राहिणोत् ।
**
तदनन्तरं चन्द्रापीडस्तु तया पूर्वोक्तया पितुस्तारापीडस्य संभावनया विचारणया सुदूरं यथा स्यात्तयोन्नमितोऽप्युच्चैर्भूतोऽप्यवनम्रतरमूर्तिरतिशयेन नमिततनुरुपसृत्योपसरणं कृत्वा पुनः प्रणामेन नमस्कारेणोन्नमि -
टिप्प० 1 'उपभुक्तानि च सुरलोकेपि दुर्लभानि सर्वविषयोपभोगसुखानि यौवने । इच्छया पर्याप्तम् । अकार्यपरिहारात् कार्यानुष्ठानाच्च उपार्जितः पारम्परोपि लोकः, इति चेतसि मे ।' इति पाठः । अर्थः स्पष्टः । इच्छया पर्याप्तम् इच्छापूर्वकं विलसितमित्यर्थः । 2 'त्वज्जन्मना कृतार्थ एवास्मि' इति पृथग् वाक्यम् । 'चेतसि मे' इति पूर्वसंबद्धम् । 3 तुच्छेनापि पूर्वराजर्षिपथानुगमन् ? धन्योसि । जन्मनो निर्वाहः समुचितकार्यसंपादनं तेन लघुना भारशून्येन । 4 ‘संपिण्डितम् ' पिण्डीभावेनाऽऽकुञ्चितमित्येव सम्यक् ।
पाठा० - १ यौवनेनेच्छया. २ पारम्परोऽपि लोकः; परलोकः ३ च तावत्. ४ इमम् ५ सेवितम् ६ अतर्कित. ७ उन्नामिते मुखेनैव ८ संपिण्डितम् ९ अपसृत्य.
590
कादम्बरी |
कथायाम्
Page #118
--------------------------------------------------------------------------
________________
मेनोनमितात्मा निर्ययौ । निर्गत्य च शुकनासभवनमयासीत् । तत्र च तनयचिन्तापरीतमुन्मुक्तमिवेन्द्रियैः शून्यशरीरं शुकनासमवारिताश्रुपातोपहतमुखीं च मनोरमां प्रणम्य, तादृशाभ्यामेव ताभ्यां संभाव्याशिषा समारोपयद्यामिवै स्वदुःखभारमनुमतो निवर्तनाय, तयोर्निवर्तिताननो मुहुर्मुहुराद्वारनिर्गतं गत्वाग्रतो ढौकितमपि कृतापसर्पणमकृतहर्षहेपारवमनुत्कर्णकोशमसुखस्वनममनस्कमनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवारणाशङ्कया वैशम्पायनावलोकनत्वरया कादम्बरीसमागमौत्सुक्येन चाकृतपरलम्बो मनागप्यारुह्य रयेणैव निरगानगर्याः । निर्गत्य च सिप्रातटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं कायमानमप्रविश्य, बहिरेव गतो युवराज इति जनितकलकलेनातर्किततत्कालगमनसंभ्रान्तेन परिजनेन राजपुत्रलोकेन चेतस्ततो धावतानुगम्यमानो गव्यूतित्रितयमिव गत्वा, सुलभपयोयवसे प्रदेशे निवासमकल्पयत् । उत्ताम्यता हृदयेनाऽप्रभातायामेव यामिन्यामुत्थाय पुनरवहत् ।
***********
तात्मो/कृतात्मा निर्ययौ निरगात् । निर्गत्य च शुकनास्य वृद्धसचिवस्य भवनं सदनमयासीदगात् । तत्र चेति । तस्मिन्गृहे तनयस्य सुतस्य चिन्तार्तिस्तया परीतं व्याप्तमिन्द्रियैः करणैरुन्मुक्तमिव त्यक्तमिव । अतएव शून्यशरीरं शून्यदेहं शुकनासमवारितोऽनिषिद्धो योऽश्रुपातस्तेनोपहतं मुखमाननं यस्या एतादृशीं च मनोरमां वैशम्पायनजननी च प्रणम्य नमस्कृत्य तादृशाभ्यां शोकाकुलिताभ्यामेव ताभ्यां शुकनासमनोरमाभ्यामाशिषा आशीःप्रदानेन संभाव्य सत्कृत्य स्वस्य दुःखं सुतविरहजं तस्य भारो वीवधस्तं समारोपयट्यामिव स्थापयद्भ्यामिव ताभ्यां निवर्तनाय गमनायानुमतोऽनुज्ञातस्ततस्तयोर्विषये मुहुर्मुहुरिंवारं निवर्तितमभिमुखीकृतमाद्वारगतमाप्रतोलीगमनपर्यन्तमाननं मुखं येनैवंभूतोऽग्रतो गत्वा, ढौकितमपि कृतं विहितमपसर्पणमपसरणं येनैवंभूतम् । न कृतो न विहितो हर्षहषारवः प्रमोदध्वनिर्येन स तम् । अत्र नञो भावाद
भावः । न विद्यत उत्कर्णकोशो यस्य स तम् । अनू/कृतकर्णयुगमित्यर्थः । असुखोऽसौख्यकारी स्वनः शब्दो यस्य स तम् । न विद्यते मनोऽर्थाद्गमनविषये यस्य स तम् । नाविष्कृतो न प्रकटीकृतो गमनस्योत्साहः प्रगल्भता येन स तम् । दीनं दुःखितमेतादृशमिन्द्रायुधमश्वमालोक्यापि वीक्ष्यापि पुनर्निवारणं पुनर्गमनप्रतिषेधस्तस्य शङ्कयारेकया वैशम्पायनस्यावलोकनं निरीक्षणं तस्य त्वरा त्वरिस्तस्याः (तया) कादम्बर्याः समागमः संगमस्तस्मिन्नोत्सुक्यं रणरणकस्तेन चाकृतः परिलम्बो विलम्बो येनैवंभूतश्चन्द्रापीडो मनागपि योग्यं यानमारुह्यारोहणं कृत्वा रयेणैव वेगेनैव नगर्याः पुरीतो निरगानिर्ययौ । निर्गत्य च निर्गमनं कृत्वा सिप्रा नाम्नी नदीतस्यास्तटे तीरे तस्य चन्द्रापीडस्य यत्प्रस्थानमङ्गलार्थमवस्थानं तदर्थमुपकल्पितं कृतं कायमानं तृणौकस्तदप्रविश्य प्रवेशमकृत्वा, बहिरेव युवराजश्चन्द्रापीडो गत इति जनितकलकलेन समुत्पन्नकोलाहलेनातर्कितमचिन्तितं तत्कालं तदात्वं यद्गमनं यानं तेन संभ्रान्तेन चकितेन परिजनेन परिच्छदेन राजपुत्रलोकेन चेतस्ततो धावता वेगेन गच्छतानुगम्यमानोऽनुयायमानो गव्यूतित्रितयमिव सार्धयोजनमिव गत्वा गमनं विधाय सुलभानि सुप्रापाणि पयोयवसानि जलतृणानि यत्रैवंभूते प्रदेशे निवास वसतिमकल्पयदकरोत् । 'यवसं तृणमर्जुनम् इति कोशः । उत्ताम्यतोयाबल्येन खिद्यता हृदयेन चित्तेनाऽप्रभातायामविभातायामेव यामिन्यां रजन्यामुत्थायोत्थानं कृत्वा पुनरवहदगमत् ।। - - - - - - - - -- टिप्प० -1 'तयोः निवर्तिताननः आद्वारनिर्गतम् इति पाठस्य 'निवर्तितम् अभिमुखीकृतम् आद्वारगतम् आननं येन' इति समासः कथं भवेत् ? 'निवर्तिताननः' इति समासमध्ये 'अद्वारगतम् इति कथं बलानिपतितम् ? तस्मात् - 'मुहुराद्वारनिर्गतः इति पाठः । आद्वारनिर्गतः द्वारानिर्गमनपर्यन्तं मुहुस्तयोः निवर्तितं परावर्तितं वदनं येन ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा०-१ उत्तसित. २ प्रणिपत्य. ३ इव च. ४ हेषारवः. ५ एवम्.
IN591
(विसर्जने पितुरुक्तिः ।
उत्तरभागः।
Page #119
--------------------------------------------------------------------------
________________
वहंश्च तस्मादेव वासरादारभ्यैवमचेतित एव “ परापत्य कृतापक्रान्तेस्त्रपया पृष्ठतोऽनुगम्य बलाद्दत्तकण्ठग्रहः 'क्व परं पलाय्यते' इति वैशम्पायनस्य वैलक्ष्यमपनयामि, एवं तत्समागमसुखमनुभूय निष्कारणप्रसन्नामनघामतर्कितोपनतमदवलोकनोपजातहर्षविशेषां पुरस्ताद्गमनसिद्धये पुनर्महाश्वेतां पश्यामि एवं महाश्वेताश्रमसमीपे पुनःस्थापिताशेषतुरगसैन्यस्तया सहैव हेमकूटं गच्छामि, एवं तत्र मत्प्रत्यभिज्ञानसंभ्रमधावितेनेतस्ततः कादम्बरीपरिजनेन प्रणम्यमानः प्रविश्य मदागमननिवेदनोत्फुल्लनयनेन सखीजनेनापह्रियमाणपूर्णपात्राम्, 'क्वासौ, केन कथितम्, कियद्दूरे वर्तते' इति तठप्रश्नोन्मुखीम्, तत्क्षणोत्पन्नया तापोपशान्त्या त्रपया च युगपदुरसि निहितं पद्मिनीपत्रमपनीयोत्तरीयांशुकाञ्चलं कुचावरणतामुपनयन्तीम्, आभरणतां नीतनि कर्मलिनीमृणालान्यपास्य भूषणेभ्योऽधिकां स्वशरीरशोभामेव सर्वाभरणस्थानेषु धारयन्तीम्, तापोपशमार्पितहारमात्राभरणाम्, अत्युल्बणहरिचन्दनचर्चान्तरि -
**
वहंश्च गच्छंश्च तस्मादेवात्मगमनोपलक्षितादेव वासराद्दिनादारभ्यारम्भं कृत्वैवैतान्यग्रे वक्ष्यमाणान्यन्यानि तदितराणि च चिन्तयन्विमर्शयन्नचेतिता अज्ञाताः क्षुत्क्षुधा, पिपासा तृट् आतपो घर्मः, श्रम आयासः, उज्जागरो जागरः, एतेषां व्यथा पीडा येनैवंभूतो दिवारात्रार्वहर्निशेवावहदगच्छदिति दूरेणान्वयः । एतानि कानीत्यपेक्षायामाह - अचेतित इति । अचेतित एवाज्ञात एव परापत्य गत्वा त्रपया लज्जया कृता विहितापक्रान्तिरपक्रमणं येनैवंभूतस्य वैशम्पायनस्य पृष्ठतोऽनुगम्यानुगमनं कृत्वा बलाद्दत्तो विहितः कण्ठग्रहः कण्ठालिङ्गनं येनैवंभूतोऽहं परं केवलं क्व पलाय्यते कुत्र पलायनं क्रियत इति वैलक्ष्यं वैगुण्यमपनयामि दूरिकरोमि । एवं तस्य वैशम्पायनस्य समागमः संगमस्तस्मासुखं सौख्यमनुभूयास्वाद्य, निष्कारणमनिमित्तं प्रसन्नं विकसितं मनश्चेतो यस्याः सा तामनघां निष्पापामतर्कितमविचारितमुपनतं प्राप्तं यन्मदवलोकनं मद्वीक्षणं तेनोपजात उत्पन्नो हर्षविशेषोऽतिशायिप्रमोदो यस्याः सा तां पुरस्तादग्रे यद्गमनं तस्य सिद्धये । निर्विघ्नगमनायेत्यर्थः । पुनः पूर्वविशेषयोरित्युक्तेः पूर्वं प्रथमं महाश्वेतां पश्याम्यवलोकयामि । एवंप्रकारेण महाश्वेताया आश्रमसमीपे मुनिस्थानाभ्यर्णे पुनः स्थापितं न्यस्तमशेषं समग्रं तुरगसैन्यमश्वानीकं येनैवंभूतोऽहं तया महाश्वेतया सहैव सार्धमेव हेमकूटं हेमकूटाभिधानं नगं गच्छामि व्रजामि । एवंप्रकारेण तत्र नगे सोऽयं चन्द्रापीड इति मम प्रत्यभिज्ञानं तस्माद्यः संभ्रम आदरः । ' संभ्रमस्त्वादरे भये' इति कोशः । तेन प्रधावितेनोच्चैश्चलितेनेतस्ततः कादम्बर्याः परिजनेन परिच्छदेन प्रणम्यमानो नमस्क्रियमाणः प्रविश्य प्रवेशं कृत्वा । इतः कादम्बरीं विशेषयन्नाह - मदेति । ममागमनं तस्य निवेदनं कथनं तेनोत्फुल्ले विकसिते नयने यस्यैवंभूतेन सखीजनेनालिसमुदायेनापह्रियमाणं गृह्यमाणं पूर्णपात्रं पूर्णानकं यस्याः सा ताम् । 'उत्सवेषु सुहृद्भिर्यद्बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत्' इति हैमः । क्वासौ चन्द्रापीडः, केन जनेनेदं चन्द्रापीडसमागमनं कथितम्, कियद्दूरे वर्तत इति यत्तस्य जनस्य प्रश्ना नियोजनानि तत्रोन्मुखीमूर्ध्वाननाम् । तत्क्षणं तत्कालं युगपत्समकालमुत्पन्नया संजातया तापोपशान्त्या तप्त्युपशमेन त्रपया लज्जया चोरसि हृदये निहितं स्थापितं पद्मिनीपत्रं कमलिनीदलमपनीय दूरीकृत्योत्तरीयांशुकं संव्यानवस्त्रं तस्याञ्चलं प्रान्तप्रदेशं कुचयोः स्तनयोरावरणतामाच्छादनतामुपनयन्तीं प्रापयन्तीम् । आभरणतां भूषणतां नीतानि प्रापितानि कमलिन्याः सरोजिन्या मृणालानि बिसान्यपास्य दूरीकृत्य भूषणेभ्य आभरणेभ्योऽधिकामतिशायिनीं स्वस्वकीयं यच्छरीरं देहस्तस्य शोभा तामेव सर्वाभरणस्थानेषु समग्रभूषणस्थलेषु धारयन्तीं बिभ्रतीम् । तापोपशमार्थं तप्तिदूरीकरणार्थं अर्पितो दत्तः केवलं हा हारमात्रमाभरणं भूषणं यस्याः सा ताम् । अत्युल्बणमत्यु -
टिप्प० - 1 'दिवारात्रौ चाऽवहत्' इत्यस्य दिवा दिने रात्रौ चेत्यर्थ उचितः ।
पाठा० - १ परिपलाय्यते. २ नयनसखी. ३ निहित. ४ उपनीतानि. ५ मृणालानि.
592
कादम्बरी ।
कथायाम्
Page #120
--------------------------------------------------------------------------
________________
तलावण्यशोभान्यङ्गानि करपरामर्शप्रयत्नेन दर्शनीयतरतां नयन्तीम्, अङ्गलग्नानि शयनीयकृतकमलकुमुदकुवलयदलकिञल्कशकलानि पुलकोद्गमेनैवोपास्यन्तीम्, कपोलसङ्गिनी च मणिदर्पणे विलोक्यायास्थितां करेण कबरीमंसदेशे निवेशयन्तीम्, आनन्दजन्मना नेत्रपुटावर्जितेन बाष्पसलिलेनैव मकरध्वजानलसंतापाय जलाञ्जलिमिव प्रयच्छन्तीम्, उत्सृष्टशेषेणाश्यानमलयजरसेनैवाङ्गलग्नेन भस्मनेव मदनहुतभुजो निवृत्तिमावेदयन्तीम्, अभ्युत्थानप्रसङ्गेनैव कुसुमशय्यां दूरीकुर्वन्तीम्, कादम्बरीमालोकयन्, दर्शनीयावलोकनफलेन चक्षुषी कृतार्थतां नयामि । एवं मदलेखां साञ्जलिप्रणामेन कण्ठग्रहेण संभाव्य, चरणपतिता पत्रलेखामुत्थाप्य, केयूरक पुनःपुनः परिष्वज्य निर्भरम्, एवं महावेतोपपादितोद्वाहमङ्गलस्त्वरितसखीवृन्दनिवर्तितवैवाहिकस्नानमङ्गलविधिर्भुव इव वर्षाभिषिक्तायाः करग्रहणं देव्या -
***********
त्कटं यद्धरिचन्दनं गोशीर्षचन्दनं तेन चर्चा पूजा तयान्तरिता व्यवहिता लावण्यशोभा येषामेवंविधान्यङ्गानि प्रतीकाः करेण परामर्शो मार्जन तत्र प्रयत्नः प्रयासस्तेन दर्शनीयतरतामतिशयेन विलोकनीयतां नयन्तीं प्रापयन्तीम् । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ इति प्राञ्चः । तथाङ्गलग्नानि शरीरसंबद्धानि यानि शयनीयकृतानि तलिनीकृतानि कमलं पद्मम्, कुमुदं घेतकमलम्, कुवलयमुत्पलम्, एतेषां दलानि पत्राणि किंजल्कं केसरं तस्य शकलानि खण्डानि चैतानि पुलकोद्गमेनैव रोमाञ्चोद्गमेनैवापास्यन्ती निराकुर्वन्तीम् । शरीरस्याङ्कुरितत्वेन तत्पातादिति भावः । 'घेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम्' इति हैमः । कपोलसङ्गिनीं च गल्लात्परप्रदेशलग्नां च कबरी वेणीमयथास्थितामयथास्थायिनी मणिदर्पणे रत्नादर्श विलोक्य निरीक्ष्यांसदेशे स्कन्धप्रदेशे निवेशयन्ती स्थापयन्तीम् । आनन्दाज्जन्मोत्पत्तिर्यस्यैवंभूतेन नेत्रपुटाभ्यामावर्जितेनाहृतेन बाष्पसलिलेनैव नेत्राम्बुनैव मकरध्वज एवानलस्तस्य संतापः संचरस्तस्मै जलाञ्जलिमिव प्रयच्छन्तीं ददतीम् । जलाञ्जलिप्रदानेनैव सर्वथा तदभावः सूचितः उत्सृष्टशेषेण दूरीकृतावशेषेणाश्यानः शुष्को यो मलयजरसश्चन्दनद्रवस्तेन शुक्लत्वसाम्याद् भस्मनेव भूत्येव मदनहुतभुजः कंदर्पवळे निवृत्तिमुपशममावेदयन्ती कथयन्तीम् । निर्वाणवनेरनन्तरं भस्मैवावशिष्यत इति भावः । अभ्युत्थानमुत्थानं तस्य प्रसङ्गेनैव संबन्धेनैव कुसुमशय्यां पुष्पशयनीयं दूरीकुर्वन्ती निराकुर्वन्तीमहमेतादृशीं कादम्बरीमालोकयन्पश्यन्दर्शनीयस्यावलोकनीयस्यावलोकनं निरीक्षणं तदेव फलं साध्यं तेन चक्षुषी नेत्रे कृतार्थतां साफल्यतां नयामि प्रापयामि । एवं पूर्वोक्तप्रकारेण साञ्जलिप्रणामेन पाणिसंयोजनादिकृतनमस्कारेण कण्ठग्रहेण कण्ठश्लेषेण मदलेखां संभाव्य सन्मान्य, पत्रलेखां चरणपतितामुत्थाप्य, केयूरकं च निर्भरं यथा स्यात्तथा पुनः पुनरिवार परिष्वज्यालिङ्गय एवं महाश्वेतयोपपादितं विहितमुद्वाहमङ्गलं पाणिग्रहणकल्याणं यस्य स त्वरितं शीघ्रं सखीवृन्देनालिसमूहेन निर्वर्तितो विहितो वैवाहिक उदाहसंबन्धी स्नानमङ्गलविधिर्यस्यैवंभूतो वर्षाभिषिक्ताया जलदसिञ्चिताया भुव इव पृथिव्या इव देव्याः कादम्बर्याः करग्रहणं निवर्तयामि करोमि । एवं पूर्वोक्तप्रकारे -
- - - - - - - - -- टिप्प० - 1 प्रतीकान् इत्युचितम् । 2 अशयनानि (अतथाभूतान्यपि) शयनानिकृतानि इति शयनीकृतानी तल्पीकृतानि इति पाठः । 3 परं मूलग्रन्थे 'कुर्वतीम् इत्येवास्ति, नान्यथेति बोध्यं विद्यार्थिभिः । 4 सखीपदस्वारस्येन किं न ज्ञायते यत् - 'सखीवृन्देन निर्वर्तितो वैवाहिकसानमङ्गलविधिर्यस्याः तथाभूतायाः कादम्बर्याः' इति पाठानुसारी अर्थ उचितः ? पाठा० - १ शयनीकृत. २ कुवलयकिजल्क; किञ्जल्ककुवलयदल. ३ अपश्यन्तीम्. ४ कपोलसङ्गिनीम्. ५ मणिदर्पणेनालोक्य. ६ उपस्थिताम्. ७ कृतार्थयामि. ८ च संभावयामि. ९ संभाव्य. १० पुनः. ११ विधेः. १२ करग्रहणं निर्वर्तयामि.
-
-
-
-
-
-
-
-
-
मार्गे गच्छतश्चन्द्रापीडस्य भावनाः
उत्तरभागः।
593
Page #121
--------------------------------------------------------------------------
________________
निर्वर्तयामि । एवमतिबहलकुङ्कुमकुसुमधूपानुलेपनामोदोद्दीपितहृदयजन्मनि वासभवने शेयनवर्तिनो मम समीपमुपविश्य क्षैणमपि कृतनर्मालापायां निर्गतायां मदलेखायां त्रपावनम्रमुखीमनिच्छन्तीं किल बलाद्दोर्भ्यामादाय शयनीयम्, शयनी - यादङ्कमङ्काच्च हृदयम्, देवीं कादम्बरीमारोपयामि । एवमुद्भटनीवीग्रन्थिदृढतरार्पितेपाणिद्वयायास्त्रपानिमीलितलोचने चुम्बैन्नवञ्चितात्मा चिराद्भवामि । एवं सुरैरपि दुर्लभं तदधरामृतमातृप्तेर्निपीय सुजीवितमात्मानं करोमि । एवमतिकोमलतयान्तर्विलीय विशन्त्या ड्वाङ्ग गाढालिङ्गनसुखरसभरेण मकरध्वजानलदग्धशेषं निर्वापयामि शरीरम् । एवं परवत्यापि स्वेच्छाप्रवृत्तयेव निष्प्रयत्नयाप्यभियुञ्जानयेवापसर्पन्त्यापि कृतात्मार्पणयेव संगोपितसर्वाङ्गर्याप्युपदर्शितभावयेव देव्या कादम्बर्या सह न किमपि सर्वजनसुलभमपि योगैकगम्यम् स्पर्शविषयमपि हृदयग्राहि, मोहनमपि प्रसादनमिन्द्रियाणाम्, उद्दीपनमपि मदनहुतभुजो निर्वृतिकरम्, उपाहितसर्वाङ्गस्वेदमप्या -
***********
णातिबहलानि निबिडानि कुङ्कुमानि केसराणि, कुसुमानि पुष्पाणि, धूपास्तुरुष्काः, अनुलेपनानि विलेपनानि, एतेषामामोदः परिमलस्तेनोद्दीपितः प्रगुणीकृतो हृदयजन्मा कामो यस्मिन्नेतादृशे वासभवने निवासगृहे शयनीयवर्तिनस्तल्पगतस्य मम समीपमभ्यर्णं क्षणमप्युपविश्यास्थाय कृतो नर्मालापो हास्यालापो ययैवंभूतायां मदलेखायां निर्गतायां बहिर्गतायां सत्यां त्रपया लज्जयावनम्रमवनतं मुखं यस्याः सैवंभूतामनिच्छन्तीमवाञ्छन्तीम् । किलेति सत्ये । बलाद्धठाद्दोर्भ्यां बाहुभ्यामादाय गृहीत्वा शयनीयं शय्याम्, शयनीयादङ्कमुत्सङ्गम्, अङ्काच्च हृदयं स्तनान्तरं देवीं कादम्बरीमारोपयाम्युपरि स्थापयामि । एवमिति । उद्धटा या नीव्र्व्युच्चयस्तस्या ग्रन्थिस्तस्यां दृढतरमतिनिबिडमर्पितं स्थापितं पाणिद्वयं करयुगलं यया सा तथा तस्यास्त्रपया लज्जया निमीलिते मुद्रिते लोचने नेत्रे चुम्बंश्चुम्बनं कुर्वन् । चिराद्बहुकालमवञ्चितात्मा कृतार्थीकृतात्मा भवामि । एवमिति । तदनन्तरं सुरैरपि देवैरपि दुर्लभं दुष्प्रापं तस्या अधरामृतं दन्तवस्त्रपीयूषमातृप्तेः पानेच्छानिवृत्तिपर्यन्तं निपीय पानं कृत्वा सुष्ठु जीवितं प्राणितं यस्यैवंभूतमात्मानं करोमि सृजामि । एवमतिकोमलतयातिमृदुतयान्तर्मध्ये विलीय द्रवीभूयाङ्ग शरीरं विशन्त्येव प्रवेशं कुर्वन्त्येव गाढं निबिडं यदालिङ्गनमुपगूहनं तस्य सुखं सौख्यं तस्य रसस्तस्य भर आधिक्यं तेन मकरध्वज एवानलो वह्निस्तेन दग्धशेषं प्रज्वलनादुर्वरितं शरीरं देहं निर्वापयामि शीतलीकरोमि । एवमिति पूर्वोक्तमिव परवत्यापि पराधीनयापि स्वेच्छाप्रवृत्तयेव यदृच्छासंचारिण्येव, निष्प्रयत्नयापि कृतिरहितयाप्यभियुञ्जानयेवाभिनोदयन्त्येव, अपसर्पन्त्याप्यपसरणं कुर्वन्त्यापि कृतो विहित आत्मनोऽर्पणं ययैवंभूतयेव, संगोपितानि गुप्तानि सर्वाङ्गानि ययैवंभूतयाप्युत्प्राबल्येनोपदर्शितो भावोऽभिप्रायो ययैवंभूतयेव देव्या कार्या तत्किमप्यनिर्वचनीयं सर्वजनानां समग्रनराणां सुलभमपि सुप्रापमपि योगेन चित्तैकाग्ग्रलक्षणेनैकं केवलं गम्यं ज्ञेयम् । 'एके मुख्यान्यकेवलाः ' इति कोशः । स्पर्शस्य विषयमपि हृदयग्राहि स्तनान्तरग्रहणशीलम्, मोहनमपि वैचित्त्यजनकमपि प्रसादनं प्रसन्नकृदिन्द्रियाणां करणानाम्, उद्दीपनमप्यतिप्रकाशकमपि मदनहुतभुजः कामवह्नेर्निर्वृतिकरमुपशमकरम्, उपाहितः स्थापितः सर्वाङ्गेषु स्वेदो घर्मजलं -
टिप्प० - 1 नीवी अधोवस्त्रबन्धनम् । 2 'उपाहितसर्वाङ्गखेदमपि उपाहितो जनितः सर्वेषामङ्गानां खेदः श्रमो यस्मिन् तत् इति पाठः ।
पाटा० - १ भूषानुलेपन. २ शयनीयवर्तिनो मम समीपम्; शयनवतीं मत्समीपे समुपविश्य. ३ क्षणमिव. ४ उद्गाढ. ५ पाणिद्वयाम्. ६ अचुम्बितात्मा. ७ अङ्गमङ्गम्. ८ कृतोपसर्पणया. ९ उद्दर्शित. १० विषम्. ११ निवृत्ति.
594
कादम्बरी ।
कथायाम्
Page #122
--------------------------------------------------------------------------
________________
ह्लादकरम्, उपजनितविषमोच्छ्वासश्रममस्वेदमपि ससीत्कारपुलकजननम्, अनुभूयमानमप्युत्पादितानुभूयमानस्पृहम्, सहसवारानुभूतमप्यपुनरुक्तम्, अतिस्पष्टमप्यनिर्देश्यस्वरूपम्, अचिन्त्यमसमासङ्गमतुलस्पर्शमनुपमरसमनाख्येयप्रीतिकरं परमध्यानसहसाधिगतं निर्वाणमिवापरकारं सुरताख्यं सुखान्तरमनुभूय निमेषमप्यकृतविरहस्तेया सह तेषु तेषु रम्येषूदेशेषु रममाणः स्वभावरम्यमपि रमणीयतरतां यौवनमुपनयामि । एवमुत्पन्नविश्रम्भा देवीमेवाभ्यर्थ्य वैशम्पायनस्यापि मदलेखया सह घटनां कारयामि' इत्येतानि चान्यानि च चिन्तयन्नचेतितक्षुत्पिपासातपश्रमोजागरव्यथो दिवारात्रौ चावहत् ।
एवं च वहतोऽप्यस्य दवीयस्तयाध्वनोऽर्धपथ एव कालसर्पो वर्त्मनः, प्रबलपङ्को ग्रीष्मस्य, निशागमो गभस्तिमतः, स्वर्भानुरमृतदीधितेः, धूमोद्गमो वज्रानलस्फुरितानाम्, मदागमो -
***********
येनैवभूतमप्याह्लादकर प्रमोदजनकम्, उपजनित उत्पादितो विषमो दुःसह उच्छासश्रमस्वेदो येन तत् । तत्रोच्छासः श्वासः, श्रमः खेदः, स्वेदो धर्मजलम्, एतादृशमपि ससीत्कारं ससीत्कृतं यथा स्यात्तथा पुलकजननं रोमाञ्चोत्पादकम्, अनुभूयमानमपि साक्षाक्रियमाणमप्युत्पादिता जनितानुभूयमानस्य साक्षाक्रियमाणस्य स्पृहा वाञ्छा येन तत् । सहसवारमनेकवारमनुभूतमपि सेवितमप्यपुनरुक्तमनामेडितम्, अतिस्पष्टमप्यतिप्रकटमप्यनिर्देश्यं दर्शयितुमशक्यं स्वरूपं स्वभावो यस्य तत् । अचिन्त्यमिदमेतदिति चिन्तयितुमशक्यम् । न विद्यते समासङ्गः संबन्धो यस्य तत् । अतुलो निरुपमः स्पर्शो यस्य तत् । अनुपमः सर्वेभ्योऽतिशायी रसो यस्य तत् । अनाख्येयां कथयितुमशक्यां प्रीतिं स्नेह करोतीति करः । अनाख्येयप्रीतेः करोऽनाख्येयप्रीतिकरः । अन्यथा कर्मणि वृद्धौ कारः स्यात् । परममुत्कृष्टं यद् ध्यानमेकप्रत्ययसंततिस्तस्य सहसं तेनाधिगतं सहितमपरप्रकारमितरस्वरूपं निर्वाणमिव ब्रह्मोव । सुरतेत्याख्या यस्यैवंभूतं सुखान्तरमेकस्मात्सुखादन्यत्सुखं सुखान्तरमनुभूयानुभवविषयीकृत्य निमेषमपि चक्षुर्निमीलनमात्रमपि तया सहाकृतो विरहो वियोगो येनैवंभूतोऽहं तेषु तेषु रम्येषु मनोहरेषूद्देशेषु प्रदेशेषु रममाणः क्रीडां कुर्वाणः स्वभावेन निसर्गेण रम्यं रमणीयमपि यौवनं तारुण्यमतिशयेन रमणीयं रमणीयतरं तस्य भावस्तत्ता ता उपनयामि प्रापयामि । एवमिति । पूर्वोक्तरीत्योत्पन्नः संजातो विश्रम्भो विश्वासो यस्याः सैवंविधा देवी कादम्बरीमभ्यर्थ्य प्रार्थनां कृत्वैव वैशम्पायनस्यापि मदलेखया सह घटनां संबन्धं कारयामि विरचयामि । अवहदित्यन्वयस्तु पूर्वमुक्तः ।
एवमिति । पूर्वोक्तप्रकारेण वहतोऽपि गच्छतोऽप्यध्वनो मार्गस्य दवीयस्तयातिदूरतया । ‘दवीयश्च दविष्ठं च सुदूरे दीर्घमायतम्' इत्यमरः । अर्धपथ एवार्धमार्ग एव जलदकालो वर्षासमयो बभूवाजनिष्ट । तमेव विशेषयन्नाह - कालेत्यादि । वर्त्मनो मार्गस्य कालसर्पः कृष्णाहिः । गमनविघ्नकारित्वादुपमानम् । ग्रीष्मस्य निदाघस्य प्रबलपङ्को बहुलकर्दमः । पङ्कः कर्दमः । गभस्तिमतः श्रीसूर्यस्य निशागमो रजन्या उद्भवः, रविकरप्रसरप्रतिरोधकारित्वात् । अमृतदीधितेश्चन्द्रस्य स्वर्भानू राहुः । सर्वतस्तत्प्रकाशप्रतिरोधकत्वात् । वज्रं पविस्तस्यानलो वह्निस्तस्य स्फुरितानां विस्फूर्जितानां धूमोद्गमो धूमप्रादुर्भावः । यदि वा धूमोद्गमो धूमकेतोरुदयः । यथा धूमकेतोरुदयेन सर्वसस्यानां विनाशस्तथैवानेन वज्रानलस्येति भावः । मकरध्वजकुञ्जरस्य कंदर्पगजस्य मदागमौ - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 अविचारितमिदम् । 'प्रबलकम्पः' इति पाठः । ग्रीष्मस्य तापनिवृत्त्या, अथवा प्रबलझञ्झावातात् प्रबलकम्पकरः ।
पाठा० - १ अनिर्दिश्य. २ अचिन्त्यसमागमम्. ३ निर्वाणसुखम्. ४ प्रकाशम्. ५ तयैव. ६ देशेषु. ७ स्वयमेव रम्यम्. ८ उत्पन्नसहसविश्रम्भाम्. ९ जागर. १० कम्पः.
मार्गे गच्छतश्चन्द्रापीडस्य विचाराः
उत्तरभागः।
595
Page #123
--------------------------------------------------------------------------
________________
मकरध्वजकुञ्जरस्य, मरणान्धतमसप्रवेशो विरहातुराणाम्, अमोघकालपाशवागुरोत्कण्ठितकामिहरिणानाम्, अभेद्यलोहार्गलदण्डो दिग्वारणानाम्, अच्छेद्य हिञ्जीर श्रृङ्खला वाहानाम्, अनुन्मोच्यनिगलबन्धोऽध्वगानाम्, अलङ्घयकान्तारलेखा प्रोषितानाम्, कालायसपञ्जरोपरोधो जीवलोकस्य, उद्गर्जन्नैलिकुलगवलमलिनघनघटाभोगभीषणो विषमविस्फूर्जितध्वनिर्विषमतरतडिद्गुणाकर्षी मण्डलितविकटशक्रकार्मुकोऽनवरैतधाराशरासारवर्षप्रहारी पुरोमार्गर्मुपरुन्धन्विरुद्ध इवान्धकारितमुखो निस्त्रिंशशतसहस्रसंपातदुष्प्रेक्ष्योऽक्षिणी प्रतिघ्नन्निवाशुगमनविघ्नकारी बभूव जलदकालः । तंत्र च प्रथममस्य चेर्तेनाहारिभिर्मूर्च्छावेगैरन्धकारतामनीयन्त दश दिशः, ततो जल
-
दर्पागमः । कामोद्दीपकत्वात्तस्येति भावः । विरहातुराणां वियोगपीडितानां मरणमेवान्धतमसं निबिडं तमस्तस्य प्रवेशः । विरहिनस्य प्राणापहारित्वात् । उत्कण्ठोत्कलिका जाता येषां त उत्कण्ठिताः । इतो जातार्थे । एतादृशाः कामिन एव हरिणाः कुरङ्गास्तेषाममोघः सफलः कालः श्यामैवर्णः पाशवागुरा बन्धनरज्जुः । दिग्वारणानां दिग्गजानामभेद्यो भेत्तुमशक्यो लोहस्यायसोऽर्गलदण्डः परिघयष्टिः । तत्करौधातैर्दुर्भेद्यत्वात् । वाहानामश्वानामच्छेद्यश्छेत्तुमशक्यो यो हिञ्जीरः पादपाशस्तस्य श्रृङ्खला । अध्वगानां पथिकानामनुन्मोच्यस्त्यक्तुमशक्यो निगलबन्धो निगडबन्धः । विघ्नकारित्वात् । प्रोषितानां गतभर्तृकाणामलङ्घया लङ्घितुमशक्या कान्तारलेखा वनराजिः । जीवलोकस्य जीवाधारक्षेत्रस्य कालायसस्य लोहविशेषस्य पञ्जरं लोकप्रसिद्धं तेनोपरोधो गमनप्रतिबन्धः । जीवलोकमभितो वर्तमानत्वेन गतेः प्रतिरोधकत्वेन च पञ्जरोपमानं मेघसमयस्येति भावः । किं कुर्वन् । उत्प्राबल्येन गर्जन्गर्जितं शब्दं कुर्वन् । अलिकुलानि भ्रमरकुलानि, गवला अरण्यमहिषाः, तद्वन्मलिनाः कृष्णा घनघटा मेघपङ्क्तयस्तासामाभोगो विस्तारस्तेन भीषणो भयानकः । विषमा वक्रा विस्फूर्जितस्य विजृम्भितस्य ध्वनिर्यस्य स तथा । विषमतरोऽतिकठिनो यस्तडिद्गुणो विद्युद्गुणस्तमाकर्षतीत्येवंशीलः स तथा । मण्डलितं मण्डलाकारं संजातं विकटं विपुलं शक्रकार्मुकमिन्द्रधनुर्यस्मिन्स तथा । 'विकटं विपुलं बृहत्' इति कोशः । अनवरतं निरन्तरं धारा एव शरा बाणास्तेषामासारवर्षो वेगवदृष्टिस्तेन प्रहरतीत्येवंशीलः स तथा । पुरोमार्गमग्रपन्थानमुपरुन्धन्प्रतिरोधं कुर्वन्चिरुद्ध इव शत्रुरिवान्धकारितं संजातान्धकारं मुखमानन यस्य स तथा । निस्त्रिंशानां खङ्गानां यच्छतसहसं लक्षं तस्य संपातः पतनं तद्वद्दुष्प्रेक्ष्यो दुःखेन प्रेक्षितुं शक्यः । अक्षिणी ची प्रतिघ्नन्निव । प्रतिहन्तीति प्रतिघ्नन् । शत्रन्तः । प्रतिघातं कुर्वन्निव । आशुगमनस्य शीघ्रगतेर्विघ्नकारी प्रतिबन्धजनको वर्षासमयो बभूवेत्यन्वयस्तु प्रागेवोक्तः ।
तत्र च जलदकाले प्रथममादावस्य चन्द्रापीडस्य चेतोहारिभिश्चित्तग्राहिभिर्मूच्छविगैर्मोहसवेगैर्दश दिशो दश ककुभोऽन्धकारं तिमिरं तस्य भावस्तत्ता तामनीयन्त प्रार्पितवन्तः । दश दिशोऽन्धकारतां प्रापिता इत्यर्थः ।
टिप्प० - 1 तत्र, इत्युचितम् । 2 कामिहरिणानाम् अमोघा कालपाश एव (यमसंबन्धिनी गलबन्धनरज्जुरेव ) वागुरा बन्धनयन्त्रम् । 3 वर्षासु पङ्किलभूमौ हस्तिनां पादाः प्रोथन्तीति तेषां गमनदुष्करत्वादर्गलेत्यर्थः । 4 सवेगं गमनाभावात् । 5 शत्रुः कथमन्धकारितमुखः ? अत एव विरुद्धः ( दस्युः 'डाकू') परिज्ञातो मा भवेयमिति स्वरूपविलोपार्थं मस्यादिना समाच्छादितमुखो भवति । जलदकालस्तु - अन्धकारितम् अन्धकाराच्छन्नम् (दृष्टिशक्तिविहीनम् ) मुखम् (लोकानाम्) यस्मिन् तादृशः । स्थगितसूर्याचन्द्रतया अन्धकारयुक्तं वदनं लोकानामत्रेत्याशयः । 6 दस्युस्तु खङ्गशतसहस संपातभीषणः । 7 प्राप्यन्त, इत्यर्थ उचितः ।
पाठा० - १ पाशोत्कण्ठित; पाशविरहोत्कण्ठित. २ अलिगवय; अलिमणकुवलय. ३ धारासार. ४ अवरुन्धन् ५ ततः. ६ चेतः. ७ अन्धकारम्.
596
कादम्बरी ।
कथायाम्
Page #124
--------------------------------------------------------------------------
________________
धरैः । अग्रत समुत्प्लुतेन चेतसा क्वाप्यगम्यत, पृष्ठतो हंसैः । पुरस्तात्परिमलिनोऽस्य निःश्वासमेरुतः प्रावर्तन्त, पश्चात्कदम्बवाताः । पूर्वं तुलितनीलोत्पलवनकान्ति नयनयुगलमस्य सलिलं समुत्ससर्ज, चरममम्भोमुचां वृन्दम् । औदावापूर्यमाणर्मुद्वेगेनोत्कलिकासहसपर्याकुलं मनोऽस्याभवत्, अवसाने स्रोतस्विनीनां पात्रम् । अपि च दुस्तरैर्नदीपूरैरेव सहार्वेर्धन्त मन्मथोन्माथाः । वैर्षाजलविलुलितैः कमलाकरैरेव सह ममज्ज कादम्बरीसमागमप्रत्याशा । धारारयासहैः कन्दलैरेव सहाभिद्यत हृदयम् । अम्भोदवाताहतैर्धाराकदम्बकुङ्मलैरेव सहाकम्पतोत्कण्टकिता तनुः । अनवरतजलंपतनजर्जरितपक्ष्मभिः शिलीन्द्रैरेव सह ताम्रतामधत्त नयनयुगलम् । उत्कूलसलिलोत्खन्यमानमूलैः सरित्तटैरेव सहापतन्प्रणाः । परिमलमयैर्मालतीमुकुलैरेव सह व्यजृम्भन्त रणरणकाः । तथातिगुरुनिर्घातैरेवाभज्यन्त मनोरथाः ।
ततस्तदनन्तरं जलधरैर्मेधैः । अग्रतः प्रथमतः समुत्प्लुतेन सम्यगुत्पतितेन चेतसा हृदयेन क्वाप्यनिर्दिष्टस्थलेऽगम्यत गमनमकार्यत । पृष्ठतः पृष्ठभागे हंसैश्चक्राङ्गैर्गतम् । पुरस्तात्पूर्वमस्य चन्द्रापीडस्य परिमलिनः परिमलयुक्ता निःश्वासमरुतः घ्राणवायवः प्रावर्तन्तं । पश्चात्कदम्बवाताः प्रवर्तितवन्तः । पूर्वं तुलिता सदृशीकृता नीलोत्पलानां नीलकमलानां वनं काननं तस्य कान्तिद्युतिर्येनैवंभूतं नयनयुगलं नेत्रयुग्ममस्य चन्द्रापीडस्य सलिलं जलं समुत्ससर्जोन्मुमोच । चरमं पश्चादम्भोमुचां मेघानां वृन्दं समूहम् । आदौ च प्रथमं चास्य चन्द्रापीडस्योद्वेगेनाऽरत्याऽऽपूर्यमाणं म्रियमाणमुत्कलिका हृल्लेखास्तासां सहस्रं तेन पर्याकुलं व्याप्तमेतादृशं मनश्चित्तमभवत् । अवसाने प्रान्ते । पश्चादित्यर्थः । स्रोतस्विनीनां नदीनां 'पात्रं तीरद्वयान्तरम् । 'पात्रं च भाजने योग्ये पात्रं तीरद्वयान्तरे' इति विश्वः । उद्वेगेनोद्बाहुलकेनापूर्यमाणम् । जलैरिति शेषः । 'उद्वेगः क्रमुकीफले । उद्वेगोऽप्युद्बाहुलकोद्वेजनोद्गमनेषु च' इति विश्वः । उत्कलिका वीचयस्तासां सहस्रं तेन पर्याकुलं चाभवत् । अपि चेति प्रकारान्तरे । दुःखेन तर्तुं शक्यन्त इति दुस्तरास्तैरेतादृशैर्नदीपूरैस्तटिनीप्लवैरेव सह मन्मथस्य कंदर्पस्योन्माथा उन्मथनान्यवर्धन्तैधिषत । वर्षाजलानि वृष्टिपानीयानि तैर्विलुलितैरितस्ततः पर्यस्तैः कमलाकरैरेव पद्मसमूहैरेव सह कादम्बर्या गन्धर्वपुत्र्याः समागमो मेलापस्तस्य प्रत्याशा वाञ्छा ममज्जाब्रुडत् । धारा वेगेन जलपातास्तासां रयो वेगस्तमसर्हन्त इति धारारयासहास्तैः कन्दलैरेव सह हृदयं चेतोऽभिद्यत भेदमापादितवान् । अम्भोदवातेन जलदवायुनाहतास्ताडिता ये धाराकदम्बा धारया ये विकसन्ति ते धाराकदम्बास्तेषां कुङ्मलैर्मुकुलैरेव सहोत्कण्टकिता सरोमाञ्चातनुः शरीरमकम्पत कम्पयुक्ता बभूव । अनवरतं निरन्तरं यज्जलपतनमम्भोनिपतनं तेन जर्जरितं शिथिलीकृतं पक्ष्मोपरिवर्ति रोम येषामेवंभूतैः शिलीन्द्रैर्भूमिस्फोटैः सह नयनयुगलं नेत्रयुग्मं ताम्रतामीषद्रक्ततामधत्तं बभार । उत्प्राबल्येन यानि कूलसलिलानि तैरुत्खन्यमानानि पात्यमानानि मूलान्यधोभागा येषामेवंभूतैः सरित्तटैस्तटिनीतीरैः सह प्राणा असवोऽपतन्भ्रंशमापुः । परिमलप्रधानानि परिमलमयानि मालतीनां वल्लिविशेषाणां मुकुलैः कुङ्मलैरेव सह रणरणका उत्कण्ठा व्यजृम्भन्त विकासमभजन्त । तथातिगुरुनिर्धैतैरेव मनोरथा
-
टिप्प० - 1 न सहन्ते इत्युचितम् । 2 रक्तवर्णैः कन्दल्याख्यलतायाः पुष्पैः 'विडम्ब्यमाना नवकन्दलैस्ते' इति कालिदासः । 3 परस्परमाघ्नतोर्वातयोर्यो वेगो नीचैर्निष्पतति सशब्दः स निर्घात उच्यते । 'कुरुकुलनिधनोत्पातनिर्घातवातः' इति वेणी० ।
पाठा० - १ समुपप्लुतेन. २ निःश्वसित. ३ आदावपूर्वम्. ४ उद्वेग. ५ अवर्धत. ६ वर्ष. ७ लुलितैः ८ प्राभियत हृदयं कादम्बरीसमागमप्रत्याशाधारया सह रयात्कन्दलैरुद्भिद्यत नवाम्भोदवाताहतैर्धाराकादम्बकुङ्मलैरेव. ९ भारायासकन्दलैरेवाभिहतहृदयम्, नवाम्भोदवाताहतैः कदम्बकुङ्मलैरेव सहोदकम्पोत्कण्ठिता. १० जर्जरितैः पक्ष्मभिः. ११ युगलं च, युगम् . १२ अपतन्त कामबाणाः अपतन्. १३ कुसुमैः. १४ उज्जृम्भन्त. १५ रणरणकः. १६ तथातिगुरुभिर्घातैरेव; तथापि गुरुभिर्यातैरेव; तथा गुरुभिर्घनैरेव.
मार्गे प्रावृट्कालः
उत्तरभागः ।
597
Page #125
--------------------------------------------------------------------------
________________
तीक्ष्णतरकोटिभिः केतकीसूचिभिरेवात्रुट्यन्त मर्माणि । उच्छिखैः शिखिंभिरेवादह्यन्त गात्राणि । अन्धकारितदिशा मेघतमसैवावर्धत मोहान्धकारम् । तिरस्कृतध्वान्तेन तडिदातपेनैवातन्यत संतापः । भरेणैव गम्भीरगर्जितैकसंतानोत्कम्पितधरापीठबन्धैर्नभसि नवघनैः, घुनजलधारातिपातवाचालितचञ्चुभिरन्तरालेचातकैः, उद्दाममहारावराविभिरवनिमूलेददुरैः, अनवरतझांकाररवजर्जरितधाराम्बुभिराशासु जलदानिलैः, उन्मुक्तमदकलकेकाकोलाहलैः काननेषु कलापिभिः, असमशिखरोपलस्खलनकलकलमुखरैगिरिषु निरिः, उल्लोलकल्लोलास्फोलविस्फारितविषमनिर्घोषझोंकारिभिः सरित्सु पूरैः, सर्वतश्च विततेन स्थलीषु, संहतेन कन्दरेषु, उच्चण्डेन शिखरिषु, कलेनाम्बुषु, पटुना पर्वततटेषु, मृदुना शाखलेषु, चारुणा -
***********
अभिलाषा अभज्यन्त भङ्गमापुः । तीक्ष्णतरातिशयेन तीक्ष्णा कोटिरग्रभागो येषामेवंभूतैः केतकीसूचिभिर्वल्लीविशेषकण्टकैरेव सह मर्माणि मर्मस्थानान्यत्रुट्यन्ताच्छिद्यन्त । उदूर्ध्वं शिखा येषामेवंभूतैः शिखिंभिर्मयूरैरेव गात्राण्याङ्गान्यदह्यन्त प्राज्वलन् । अन्धकारितदिशा मेघतमसैव मोहान्धकारमवर्धतैधिष्ट । तिरस्कृतं न्यकृतं ध्वान्तं तिमिरं येनैवभूतेन तडिदातपेनैव विद्युदालोकेनैव संतापः संज्वरोऽतन्यत व्यस्तार्यत । भरेण चेति । भरो भारस्तेन गम्भीरं गभीरं यद्गर्जितं स्तनितं तस्यैकं प्रधानं संतानं परम्परा तेनोत्प्राबल्येन कम्पितश्चलितो धरायाः पृथ्याः पीठबन्धो यैस्ते यथा तैर्नवघनैर्नवीनजलधरैर्नभसि व्योम्नि । अन्तराले विचाले चातकैर्नभोम्बुपैः । कीदृशैः । घना निबिडा या जलधारास्तासामतिपातोऽतिपतनं तेन वाचालिता मुखराश्चञ्चवश्चञ्चुपुटिका येषां ते तथा तैः । अवनिमूले पृथिव्यां दुर्दुरै कैः । कीदृशैः । उद्दामः कठिनो यो महारावो महाध्वनिस्तस्य राविभिर्जल्पिभिः । आशासु दिशासु जलदानिलैर्मेघमारुतैः । कीदृशैः । अनवरतं निरन्तरं झांकाररवो झंझावातध्वनिस्तेन जर्जरितानि शिथिलितानि धाराम्बूनि यैस्ते तथा तैः । काननेष्वरण्येषु कलापिभिर्मयूरैः । कथंभूतैः । उन्मुक्तो यो मदस्तेन कलो मनोहरः केकाया मयूरवाण्याः कोलाहलः कलकलो येषां ते तथा तैः । गिरिषु पर्वतेषु निर्झरेरैः । 'उत्सः प्रसवणं वारिप्रवाहो निझरो झरः' इत्यमरः । किंविशिष्टैः । असमा विषमा ये शिखरोपलाः सानुप्रस्तरास्तेषु स्खलनेन भ्रंशेन यः कलकलः कोलाहलस्तेन मुखरैर्वाचालैः । सरित्सु तटिनीषु पूरैः प्लवैरम्बुवृद्धिभिः । किंभूतैः । उल्लोला उत्प्राबल्येन चञ्चला ये कल्लोलास्तरंगास्तेषामास्फालोन्योन्याघातस्तेन विस्फारितों विस्तारितो यो विषमनिर्घोषोऽसमध्वनिस्तेन झांकारिभिर्योतिभिः । एवं सर्वतश्च स्थलीष्वकृत्रिमस्थलभूमिषु विततेन विस्तृतेन, कंदरेषु दरीषु संहतेन प्रतिहतेन, शिखरिषु पर्वतेषचण्डेनात्युग्रेण, अम्बुषु पानीयेषु कलेन मनोहरेण, पर्वततटेष्वद्रिवप्रेषु पटुना स्पष्टेन, शाद्वलेषु शादहरितेषु मृदुना कोमलेन, कपोलेषु गल्लात्परप्रदेशेषु चारुणा मनोहरेण, शाखिषु वृक्षेषु सान्द्रेण निबिडेन, -
- - - - - - - - - - - - - - - टिप्प० -1 'अतुयन्त अपीड्यन्त, इत्येव पाठ उचितः । त्रुट्यतेः परस्मैपदित्वात् । 2 शिखिभिरग्निभिरित्यपि व्यज्यते । उच्छिखैः उद्गतज्वालैरिति तत्रार्थः । 3 अनवरतझांकाररवेण (झांकाररवपूर्वकम्) जर्जरितानि धाराजलानि यैः। 4 नभसि धनैः, अन्तराले चातकैर्विततेन स्थलीषु च सर्वतो विततेन धारारवेण, इत्यन्वयः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ तीक्ष्णान्तर. २ अतुट्यन्त. ३ शिखरैः. ४ निशामेघ. ५ मोहान्धकारः. ६ भरेण च. ७ धारापीठ. ८ घनजलधरधारानिपातरभसवाचालित; घनजललवाचातिरभसवाचालित. ९ महारावहारिभिः; महावारराविभिः. १० तले. ११ झंकार. १२ विस्फुटित. १३ उद्गारिभिः. १४ सरित्पूरैः. १५ संभृतेन.
598
कादम्बरी।
कथायाम्-)
Page #126
--------------------------------------------------------------------------
________________
कपोलेषु सान्द्रेण शाखिषु तनुना तृणोपलेषु, उल्बणेन तालीवनेषु, यथाधाराश्मपतनमाकर्ण्यमानेन सर्वप्रकारमधुरेण हृदयप्रवेशिना धारारवेणोत्कलिकाकलितो न रात्रौ न दिवा न ग्रामे नारण्ये नान्तर्न बहिर्न वने नोपवने न वर्त्मनि नावासे न वहन तिष्ठन्न वैशम्पायनस्मरणेन न कादम्बरीसमागमानुध्यानेन कथंचिदपि न क्वचिदपि निर्वृतिमेवाध्य
गच्छत् ।
अनधिगतनिर्वृतिश्चातिकष्टतया वज्रानलस्येव जलदसमयेन्धनस्य मदनहुतभुजो भस्मसात्कर्तुमेवोद्यतस्य धीरस्वभावोऽपि प्रकृतिमेवोत्ससर्ज । प्लावितसकलधरातलैर्धाराजलैरप्यशोष्यत । योतितदशदिशा शतहदालोकेनापि मूर्छान्धकारेऽक्षिप्यत । आह्लादितजीवलोकैर्जलदानिलैरप्यदह्यत । पयोभारमेदुरैर्घनैरपि तनुतामानीयत । पाटलितशाद्वलैः शक्रगोपकैरपि पाण्डुतां प्रत्यपद्यत कुसुमधवलैः कुटजैरपि रागपरवशोऽक्रियत । तथापि सकलजगज्जी -
***********
तृणानामुपलाः समूहास्तेषु तनुना तुच्छेन, तालीवनेषल्बणेनोग्रेण, धारयाश्मपतनं यथा भवति तथाकर्ण्यमानेन श्रूयमाणेन, सर्वप्रकारैर्मधुरेण मिष्टेन, हृदयप्रवेशिना चित्तप्रविष्टेन, धारारवेण जलसंपातध्वनिनोत्कलिका हल्लेखस्तेन कलितो व्याप्त एवंभूतश्चन्द्रापीडो न रात्रौ निशायाम्, न दिवा दिवसे, न ग्रामेऽवसथे, नारण्ये वने, नान्तरे मध्ये गृहस्य, न बहिर्गृहादन्यत्र, न वने कानने, नोपवने नगराभ्यर्णवर्तिवाटिकायाम्, न वर्त्मनि मार्गे, नावासे सौधे, न वहन्गच्छन्, न तिष्ठन् स्थितिं कुर्वन्, न वैशम्पायनस्य स्मरणेन, स्मृत्या, न कादम्बर्याः समागमस्य मेलापकस्यानुध्यानेनानुचिन्तनेन कथंचिदपि महता कष्टेन न क्वचिदपि न कुत्रापि निर्वृतिमेव चित्तस्वास्थ्यमेवाध्यगच्छदप्रापत् ।
अनधिगताऽप्राप्ता निर्वृतिश्चित्तस्वास्थ्यं यस्यैवंभूतश्चातिकष्टतयातिकृच्छ्रतया वज्रानलस्येव भिदुराग्नेरिव जलदकालः प्रावृट् तस्य समयोऽवसरः स एवेन्धनमिमा यस्यैवंभूतस्य मदनहुतभुजः कामाग्नेर्भस्मसात्कर्तुमेवोद्यतस्य कृतोद्यमस्य धीरस्वभावोऽपि स्थैर्यप्रकृतिरपि प्रकृतिमेव स्वभावमेव चन्द्रापीड उत्ससर्ज तत्याज । तदेव दर्शयन्नाह - प्लावितेति । प्लावितं जलसात्कृतं सकलं धारातलं यैरेवंभूतैर्धाराजलैरप्यशोष्यत शोष प्राप्तवान् । अपिशब्दः सर्वत्र विरोधालंकृतिद्योतनार्थः । योतिताः प्रकाशिता दश दिशो येनैवंभूतेन शतहदालोकेन विद्युत्प्रकाशेनापि मूर्छा मोहः सैवान्धकारं तमिसं तस्मिन्नक्षिप्यत चिक्षिपे । आह्लादितः प्रमोदितो जीवलोको यैरेवंभूतैर्जलदानिलैझंझावायुभिरप्यदह्यत प्राज्वल्यत । पयोभारेण जलवीवधेन मेदुरैः पुष्टैरपि घनैर्मेधेस्तनुतां क्षीणतामानीयताप्राप्यत । पाटलितानि श्वेतरक्तीकृतानि शादलानि शादहरितानि यैरीदृशैः शक्रगोपकैरप्यग्निरजोभिरपि पाण्डुतां धवलतां प्रत्यपद्यत स्वीचक्रे । 'श्वेतरक्तस्तु पाटलः' इत्यमरः । कुसुमैः पुष्पैः कृत्वा धवलैः शुभैरेतादृशैः कुटजैर्गिरिमल्लिकाभिरपि रागपरवशोऽनुरक्त्यधीनोऽक्रियताकल्प्यत । तथाप्येवं सत्यपि सकल - ---------- टिप्प० - 1 समूहार्थे उपलोऽप्रसिद्धः । अत एव 'तृणोलपेषु तृणेषु उलपेषु (गुल्मायितासु लतासु) 'गुल्मिन्युलप इत्यपि इत्यमरः । 2 अश्मपतने वक्ष्यमाणं माधुर्यं न भवति, अत एव 'यथाधारासंपतनम् इत्युचितः पाठः । 3 न वर्त्मनि नावासे इत्यादि पूर्वं सप्तम्यन्तमुपात्तम्, अग्रेपि 'न क्वचिदपि' इति अधिकरणनिर्देशेनैवोपसंहारः कृत इति ‘स्मरणेन' 'अनुध्यानेन' इति तृतीयान्तपाठः स्थूल एव । 'न वैशम्पायनस्मरणे, न कादम्बरीसमागमानुध्याने, न कथंचिदपि' इत्येव पाठः । 4 ईदृशस्य मदनहुतभुजः अतिकष्टतया अतिक्लेशदायकत्वेन, इत्यन्वयः । 5 'बीरबहुट्टी' इति भाषाख्यातैवर्षाकीटैः । 6 'तथाहि इति पाठ उचितः।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ पल्वलेषु. २ तृणोलपेषु. ३ यथाधारापतन; यथाधारासंपतन. ४ हृदयं प्रविशता धारा. ५ सकलधाराजलैः. ६ तथा च.
(प्रावृषा कुमारस्य वैकल्यम् ।
उत्तरभागः।
599
Page #127
--------------------------------------------------------------------------
________________
वनहेतुनापि जीवितसंदेहदोलामारोपितो जलदकालेन, उत्कूलगामिषु विधिविलसितेषु सरित्पूरेषु चोत्प्लवमानः, अनवेरतवर्षाजलजनितेषु मूर्च्छागमेषु पङ्कपटलेषु च निमज्जन्, जलभरस्थगितवर्त्मनि विलोचने च स्खलन्, विकासिनीषु कादम्बरीप्राप्तिचिन्तासु धाराकदम्बरजोवृष्टिषु चामीलयन्, अनुबन्धिषु गमनविघ्नेषु जलधरध्वनितेषु च मुँह्यन्, सुदुर्लङ्मयवेगान्युत्कण्ठितानि सहस्रशः सोतांसि चोल्लङ्घयन्, घनोपाहितवृद्धिना कादम्बरीसमागमौत्सुक्येन पयः प्लवरयेण चोह्यमानः, जीवितप्रत्याशामवहन्, तुरङ्गमांश्च परित्यजन्, तर्ज्यमान इव तडिद्भिः; अवष्टभ्यमान इव जलधरैः, निर्भर्त्स्यमान इव विस्फूर्जितैः, शकलीक्रियमाण इव शतशो निस्त्रिंशवृत्तिभिर्धारासारैः, निरुद्धास्वपि जलदकालेनैवाशुगमनविघ्नभूतास्वाशासु कादम्बरीसमागमाशा सुतरां नारुध्यतास्य, यया तादृशेऽपि यथास्थाननिगडितसमस्तप्राणिनि प्रावृट्काले कलामप्यकृतपरिलम्बोऽनीर्यंत तं पन्थानम् । धाराहतिविकूणिताक्षेण च मुहुर्मुहुर्वलितीन
**
जगतः समग्रविश्वस्य जीवनहेतुनापि प्राणितकरेणापि जीवितस्य सदेहो द्वापरः स एव दोला प्रेखा तां जलदकालेन मेघसमयेनारोपितः स्थापितः । कूलस्योर्ध्वमुत्क॑लं गच्छन्तीत्येवंशीलान्युत्कूलगामिनि तेषूत्कूलगामिषुविधेर्विधातुरेव विलसितं चेष्टितं येष्वेतादृशेषु सरित्पूरेषु न नदीप्लवेषु चोत्प्लवमानस्तरन्ननवरतं निरन्तरं वर्षाजलैर्वृष्टिपानीयैर्जनितेषु विहितेषु मूर्च्छागमेषु मोहागमेषु पङ्कपटलेषु च कर्दमसमूहेषु च निमज्जन्ब्रुडन्, जलभरेण स्थगित आच्छादिते वर्त्मनि मार्गे लोचने नेत्रे च स्खलन्स्खलनां प्राप्नुवन् । विकासिनीषु विनिद्रासु कादम्बरी प्राप्तिचिन्तासु, धाराकदम्बाः येषां धारया पुष्पोद्गमो भवति ते धाराकदम्बाः, तेषां रजोवृष्टिष्येतत्परागवर्षासु चामीलयन्नसंकुचन् । अनुबन्धोऽन्योन्यं सापेक्षभावः स विद्यते येष्वेवंविधेषु गमनविघ्नेषु यात्राप्रतिबन्धेषु जलधरस्य मेघस्य ध्वनितेषु गर्जितेषु च मुह्यन्मोहं प्राप्नुवन्, सुतरां दुर्लङ्घ्यो वेगो रयो येषामेवंभूतान्युत्कण्ठितानि सहस्रशः सोतांसि तटिन्यादीनि चोल्लङ्घयन्नतिक्रामन् । घनो मेघो जलदस्तेनोपहिता स्थापिता वृद्धिर्येनैवंभूतेन कादम्बर्याः समागमस्यौत्सुक्येन रणरणकेन पयसः प्लवः पूरस्तस्य रयो वेगस्तेन चोह्यमानो वहमानो जीवितप्रत्याशां प्राणितसमीहामवहन्त्रधारयन् । तुरंगमानश्वांश्च परित्यजन्परिहरन्, तडिद्भिर्विद्युद्भिस्तर्प्यमान इव तिरस्क्रियमाण इव, जलधरैर्मेघैरवष्टभ्यमान इव प्रतिरुध्यमान इव, विस्फूर्जितैर्जलदचेष्टितैर्निर्भर्त्स्यमान इव निर्भर्त्सनां क्रियमाण इव । शतशो निस्त्रिंशाः खङ्गास्तेषां वृत्तिरिव वृत्तिर्वर्तनं येषामेवंभूतैर्धारासारैर्धाराया आसारैर्वेगवद्वर्षेः शकलीक्रियमाण इव खण्डीक्रियमाण इव, अस्य चन्द्रापीडस्य जलदकालेन मेघसमयेनैवाशुगमनस्य शीध्रयात्राया विघ्नभूतासु प्रतिबन्धकारिणीष्वाशासु दिशासु निरुद्धास्वपि कादम्बरीसमागमाशा सुतरामत्यर्थं नारुध्यत न प्रत्यबध्यत, SS तादृशेऽपि पूर्वोक्तलक्षणेऽपि यथास्थानं यथास्थलं निगडिताः संनाहिताः समस्ताः प्राणिनो येनैवंभूते प्रावृट्काले वर्षासमये कलामपि घटिकामात्रमपि न कृतो विहितः परिलम्बो विलम्बो येनैवंभूतस्तं पन्थानमनीयत प्राप्यत । कथंभूतः । अनुगम्यमानोऽनुयायमानः । केन । वाजिसैन्येनाश्चबलेन । एतदेव विशेषयन्नाह - धारेति । धाराणामाहत्याभिधातेन विकूणितेऽर्धमीलिते अक्षिणी -
-
***
टिप्प० - 1 उत्कूलं प्रतिकूलं गच्छन्ति तादृशानि विधिविलसितानि, कूलम् अतिक्रम्य गच्छन्ति तादृशाः सरित्पूराः इति बोध्यम् । 2 ' आमीलन्' नेत्रे संकोचयन्, इत्युचितः पाठस्तदर्थश्च । 3 घनं घना ( प्रचुरा ) वा उपाहिता वृद्धिर्यस्य ईदृशेन समागमौत्सुक्येन । 4 'जीवितप्रत्याशामनिर्वहतस्तुरङ्गमांश्च परित्यजन्', मार्गगमनखेदेन अग्रे चलनशक्तिमवहतोऽश्वांस्तत्रैव त्यजन्नितिपाठः अर्थश्च । 5 वज्रनिर्घोषैरित्यर्थः, 'स्फूर्जथुर्वज्रनिर्घोषः ' इत्यमरः ।
600
पाठा० - १ जीवनसदेह. २ वर्ष. ३ लोचने. ४ स्वबलविकासिनीषु. ५ अमीलन्. ६ विमुह्यन्. ७ उपाहृत. ८ अनिर्वहस्तुरंगमांश्च; अनिर्वहस्तुरंगमांश्च. ९ आशया तया; यथा. १० असौ. ११ विवलित; चलित.
कादम्बरी ।
कथायाम्
Page #128
--------------------------------------------------------------------------
________________
मिताननेन श्च्योतदासक्तसंपिण्डितकेसराग्रेणैकसंतानकर्दमानुमग्नखुरेणादृश्यनिम्नोन्नतस्खलद्गतिना विशीर्यमाणपर्याणसमायोगेनोपर्युपरिवाहिनीतीरोत्तारसंतानावानपृष्ठेनापचीयमानबलजवोत्साहेन वॉजिसैन्येनानुगम्यमानो जीवितसंधारणाय यथा तथा निर्वर्तितोशनमात्रकोऽभ्यर्हितराजलोकवचसाप्यप्रतिपन्नशरीरसंस्कारो दिवसमेव केवलमवहत् ।।
वहश्च विभागमात्रावशिष्टेऽध्वनि निवर्तमान मेघनादमद्राक्षीत् । दृष्ट्वा च दूरत एव कृतनमस्कारं तमप्राक्षीत् - 'तिष्ठतु तावत्पुरस्तात्पत्रलेखागमनवृत्तान्तप्रश्नः । वैशम्पायनवृत्तान्तमेव तावत्पृच्छामि । अयि, दृष्टस्त्वयाच्छोदसरसि वैशम्पायनः ? पृष्टो वावस्थानकारणम् ? पृष्टेन वा किंचित्कथितं न वा ? पश्चात्तापी वास्मत्परित्यागेन ? स्मरति वास्माकम् ? पृष्टोऽसि वानेन किंचिन्मदीयम् ? उपलब्धो वाभिप्रायः ? उत्पन्नो वालापो युवयोः ? मातापित्रोर्वा संदिष्टं किंचित् ? प्रतिबोधितो वा त्वयागमनाय ? आवेदितं वास्य -
***********
येन तत्तथा । मुहुर्मुहुवरिवारं वलितानि परावर्तितान्यानमितानि चाननानि मुखानि येन तत्तथा । च्योततीति च्योतत्प्रस्वेदस्तस्यासक्तिः संपर्कस्तेन सपिण्डितानि मिलितानि केसराणां स्कन्धरोम्णामाणि प्रान्तानि यस्मिंस्तत्तथा । एकं संतानं परम्परा यस्मिन्नेवंभूतः कर्दमः पङ्कस्तत्रानुमग्ना बुडिताः खुराः शफा यस्य तत्तथा । अदृश्यं यनिम्नोन्नतस्थलं तत्र स्खलन्ती गतिर्गमनं यस्य तत्तथा । विशीर्यमाणो विदीर्यमाणः पर्याणसमायोगः पल्ययनसंबन्धो यस्य तत्तथा । उपर्युपरि वाहिनीनां नदीनां तीराणां तटानामुत्तारस्तेषां संतानानि तैरवाना अशुष्काः पृष्ठयो यस्य तत्तथा । बलं सामर्थ्यम्, जवो वेगः, उत्साहः प्रगल्भता, एतेषां द्वन्द्वः । पश्चादपचीयमानानि प्रतिक्षणं हीनतां प्राप्यमाणानि बलजयोत्साहादीनि यस्य तत्तथा, जीवितसंधारणाय प्राणितधारणाकृते यथा तथा येन केन प्रकारेण निर्वर्तितं विहतमशनमात्र केवलं भोजनं येन सः । अभ्यर्हितः पूजितो यो राजलोकस्तस्य वचसापि वाक्येनाप्यप्रतिपन्नोऽनङ्गीकृतः शरीरसंस्कारो देहशुश्रूषा येनैवंभूतः । केवलं दिवसमेवावहदचलत् ।
वहश्च त्रिभागमात्रमवशिष्टमुररितं यस्मिन्नेवंविधेऽध्वनि मार्गे निवर्तमानं पश्चादलमान मेघनादं स्वसपर्याकारिणमद्राक्षीद्ध्यलोकयत् । दृष्ट्वा च विलोक्य च दूरत एव कृतो विहिलो नमस्कारः प्रणामो येनैवंभूतं तमप्राक्षीदपृच्छत् । तावदादौ पुरस्तात् पत्रलेखागमनवृत्तान्तप्रश्नस्तिष्ठतु । वैशम्पायनस्य वृत्तान्तमुदन्तमेव तावत्पृच्छामि प्रश्नविषयीकरोमि । अयीति । अयीति विषादे । 'अयि क्रोधे विषादे च संभ्रान्तस्मरणेऽपि च' इति विश्वः । अच्छोदसरस्यछं निर्मलमुदकं जलं यस्मिन् । उदकस्योदादेशः । एवंविधे तटाके वैशम्पायनस्त्वया दृष्टो विलोकितः । अवस्थानकारणं तत्रावस्थाननिदानं पृष्टो वा पृच्छाविषयीकृतो वा । पृष्टेन वा तेन किंचित्कथितं प्रोक्तं न वा । अस्मत्परित्यागेन तस्य पश्चात्तापोऽनुतापोऽस्ति वा, अस्माकं स्मरति स्मृतिगोचरीकरोति वा । कर्मणि षष्ठी । अनेन वैशम्पायनेन किंचित्त्वं मदीयं मत्संबन्धि पृष्टोऽसि वा । उपलब्धो ज्ञातो वा तस्याभिप्राय आशयः । युवयोर्भवतोरुत्पन्नः संजातो वालापः संलापः । मातापित्रोर्जननीजनकयोः किंचित्संदिष्टं कथितं वा । त्वया भवताऽऽगमनाय प्रतिबोधितो वा प्रतिबोधं प्रापितो वा । अस्य वैशम्पायनस्य मदीय -
- - - - - - - - - - - - टिप्प० -1 प्रस्वेदपदं न दृश्यते मूले, अत एव च्योतत् स्खलत् आसक्त्या अन्योन्यसंश्लेषेण पिण्डितं घनतां गतं केसराग्रं यस्य तथोक्तेनेत्यर्थः । 2 तेन, इत्यर्थः ।
-
-
-
-
-
-
-
-
-
पाटा० - १ पिण्डित; संपीडित. २ अनुलग्न; मग्नोन्मग्न. ३ पूर. ४ विशीर्यता वाजी. ५ निवर्तित. ६ अभ्युद्गत. ७ दिवसमवहदेव केवलम्. ८ त्रिभागावशिष्टे. ९ वर्तमानम्. १० परस्तात्. ११ अपि. १२ च. १३ उपालब्यो बाभिप्रायो वाक्यम्; उपलक्षितो वाभिप्रायस्त्वया. १४ परिबोधितः.
(परावर्तमानस्य मेघनादस्य दर्शनम् ।
उत्तरभागः।
aar 1601
Page #129
--------------------------------------------------------------------------
________________
मंदीयमागमनम् ? नापयास्यति वा तस्माप्रदेशात् ? दास्यति वा दर्शनम् ? ग्रहीष्यति वास्मदनुनयम् ? आगमिष्यति वा पुनर्मया सह ? किं कुर्वन्दिवसमास्ते ? को वा विनोदोऽस्य तिष्ठतः' इति ।
से त्वेवं पृष्टो व्यज्ञपयत् - "देव, देवेन तु 'वैशम्पायनमालोक्यानुपदमेव तुरंगमैरागत एवाहम्' इत्यादिश्य विसर्जितोऽहम् । अच्छोदसरसः प्रतीपं वैशम्पायनो गत इत्येषान्तरा वातॆव नोपयाता । चिरयति च देवे जलदसमयारम्भमालोक्य कदाचिदेतेषु दिवसेषु देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च कृतप्रयत्नोऽपि न मुच्यत एवागन्तुं देवश्चन्द्रापीडः । त्वया चैकाकिना न स्थातव्यमेवास्यां भूमौ । परागतप्रायाश्च वयम् । तन्निवर्तयास्मादेव प्रदेशादित्यभिधाय पत्रलेखया केयूरकेण च त्रिचतुरैः प्रयाणकैप्राप्त एवाच्छोदं यावदलानिवर्तितोऽस्मि" इति एवमावेद्य विरराम । विरतवचनं च तं पुनरपृच्छत् । किमाकलयस्यद्यतनेनाह्रा यावत्परापतिता पत्रलेखा नेति । स तु व्यज्ञपयत् - 'देव, यद्यन्तराकश्चिदन्तरायो न भवति विलम्बकारी, तदा विना सदेहेन परापतितैवेत्यवगच्छति मे हृदयम् ।'
***********
मागमनमावेदितं निवेदितं वा तस्मात्प्रदेशात्स्थानान्नापयास्यति न गमिष्यति वा । दर्शनं दास्यति वा । अस्माकमिति शेषः । अस्माकमनुनयं प्रणतिं ग्रहीष्यति वा । पुनर्मया सहागमिष्यति वागमनं करिष्यति वा । किं कुर्वन्किंविदधदिवसं दिनमास्ते तिष्ठति । अस्य वैशम्पायनस्यात्र तिष्ठतः स्थितिं कुर्वतः को विनोदः का केलिरिति ।
स तु मेघनाद एवं पृष्टः सन्व्यज्ञपयद्विज्ञप्तिं चकार । किं कथितवानित्याशयेनाह - देव इति । हे देव हे स्वामिन्, देवेनैव भवतैव वैशम्पायनमालोक्य निरीक्ष्यानुपदमनुचरणन्यासं तुरंगमैरश्चैरहमागत एवेत्यादिश्येत्युक्त्वाहं मेघनादाभिधो विसर्जितो गमनायानुज्ञातः । अच्छोदसरसः प्रतीपं वाम प्रदेशं वैशम्पायनो गत इत्येषा वाव किंवदन्त्येवान्तरा विचाले । मार्गस्येति शेषः । नोपयाता न प्राप्ता । 'प्रतिकूल तु विलोममपसव्यमपष्ठुरम् । वामप्रसव्यप्रतीपं प्रतिलोममपष्ठु च' इति हैमः । मया पूर्वं त्वं विसर्जितः कथमत्रागत इत्याकाङ्क्षायामाह - चिरयति चेति । जलदसमयारम्भं वर्षाप्रारम्भमालोक्य निरीक्ष्य देवे चिरयति विलम्बं कुर्वति सति एतेषु दिवसेषु वर्षावासरेष्वागन्तुमागमनाय कृतप्रयत्नोऽपि विहितोद्यमोऽपि देवश्चन्द्रापीडो देवेन तारापीडेन जनकेन, देव्या विलासवत्या मात्रा, आर्यशुकनासेन वृद्धमन्त्रिणा च कदाचिन्न मुच्यत एव । न स्वसमीपास्रीक्रियत एव । त्वया चास्यां भूमावेकाकिनाऽसहायेन न स्थातव्यमेव न स्थेयमेव । परागतप्रायाश्च प्राप्तप्रायाश्च वयं पत्रलेखाकेयूरकाख्याः । ततोऽस्मादेव प्रदेशात्त्वं निवर्तय पश्चाद्वलेत्यभिधायेत्युक्त्वा पत्रलेखया केयूरकेण च त्रिचतुरैः प्रयाणकैः प्रस्थानकैरच्छोदं यावत्, अप्राप्त एव बालाद्धठानिवर्तितः पश्चादलितोऽस्मीत्यावेद्य निवेद्य विरराम विरतो बभूव । विरतवचनं मौनावलम्बिनं च तं मेघनादं पुनरपृच्छत् । किं तदित्याह - किमिति । किमाकलयसि किं जानासि । अद्यतनेनाहा दिवसेन यावत्, पत्रलेखा परापतिता प्राप्ता नेति न प्राप्ता वा । स तु मेघनादो व्यज्ञपयत् - हे देव, यद्यन्तरा मध्ये कश्चिदन्तरायः प्रत्यूहो विलम्बकारी परिलम्बकृन भवति न स्यात्, तदा सदेहेन विना निःसदेह परापतितैव तत्र गतैव मे मम हृदयं चेत इत्यवगच्छति जानातीति ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'अच्छोदसरसः समीपे' इति पाठः स्पष्टः । 2 'निवर्तस्व' (परावर्तस्व) इत्युचितः पाठः । 3 त्रिचतुर्दिवससाध्यैः प्रयाणकैः अप्राप्तः अर्थात् यावता त्रिचतुरदिवसैरच्छोदसरः प्राप्यते ततः स्थानात्पूर्वमेवाहं परावर्तित इत्याशयः ।
पाठा० - १ आगमनम्. २ एवमापृष्टः; एवमादिष्टः. ३ विज्ञपयेत्. ४ अथाच्छोद. ५ नोपयाता; चोपजाता. ६ मुच्येत. ७ निवर्तस्व. ८ विनिर्वर्तितः. ९ किमु कलयसि. १० अद्य तेन. ११ भविष्यति.
(602)
कादम्बरी।
कथायाम्
Page #130
--------------------------------------------------------------------------
________________
इत्युक्तवति मेघनादे घनसमयवर्धिताभोगमकरध्वजार्णवमेध्यपातिनीं स्वानुमानात्कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य विक्लवीभवतः पैर्यवर्त्यन्त इवास्य जलधराः कालपुरुषैः, तडितो मदनानलशिखाभिः, अवस्फूर्जितं प्रेतपतिपटहस्वनैः, आसारधाराः स्मरेषुभिः, औमन्द्रगर्जितं मकरध्वजधनुर्ज्यागुञ्जिताभोगेन, कलापिकेकाः कालदूतालापैः, केतकामोदो विषपरिमलेन, खद्योताः प्रलयानलस्फुलिङ्गराशिभिः, अलिवलयानि कालपाशैः, बलाकाश्रेणयः प्रेतपतिपताकाभिः, आपगाः बलं सर्वक्षयमहापूरप्लवैः, दुर्दिनानि कालरात्र्या, कुटजतरवः कृतान्तहासैः । अपि च शरीरेऽपि सत्त्वं कातरतया, क्षामतया, कान्तिर्वैवर्ण्येन, मतिर्मोहेन, धैर्यं विषादेन, हसितं शुचा, नयनमश्रुणा, आलपनं मौनेन, अङ्गान्येसहतया, करणान्यपाटवेन, सर्वमेवारत्या ।
**
मेघनाद उक्तवति कथितवति सति घनसमयो वर्षाकालस्तेन वर्धितो वृद्धिं प्रापित आभोगो विस्तारो यस्यैवंभूतो यो मकरध्वज एवार्णवः समुद्रस्तस्य मध्यपातिनीं तदन्तर्गतां स्वानुमानादपि । यथा तस्या दुःखेन विरहेणाहं दुःखवान्, तथा मद्विरहेण सापि भविष्यतीत्यनुमानं तस्मादित्यर्थः । कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य हृदयवर्तिनीं विलोक्य विलोक्य विक्लवीभवतो विह्वलीभवतोऽस्य चन्द्रापीडस्य जलधरा मेघाः कालपुरुषैर्यमकिंकरैः पर्यवर्त्यन्त इवात्मसात्क्रियन्त इव । स्वस्वरूपमापाद्यन्त इवेति यावत् । अतो जलधराः कालपुरुषा एव बभूवुरित्यर्थः । एवमग्रेऽपि पर्यवर्त्यन्त इवेति यथायोग्यं योज्यम् । तडितो विद्युतो मदन एवानलो वह्निस्तस्य शिखाभिर्ज्यालाभिः पर्यवर्त्यन्त इव । अवस्फूर्जितं करालगर्जितं प्रेतपतिर्यमस्तस्य पटहो ढक्का तस्य स्वनैः शब्दैः पर्यवर्त्यत इव । क्वचित् 'प्रेतपुरीपटहस्वनेन' इत्यपि पाठः । आसारधारा वेगवदृष्टिधाराः स्मरस्य कंदर्पस्येषवो बाणास्तैः पर्यवर्त्यन्त इव । आमन्द्रगर्जितं गम्भीरस्तनितं मकरध्वजधनुषो ज्या प्रत्यञ्चा तस्या गुञ्जितं शब्दितं तस्याभोगेन विस्तारेण पर्यवर्त्यत इव । कलापिकेका मयूरवाण्यः कालदूता यमप्रहितजनास्तेषामालापैः संभाषणैः । केतकस्य क्रकचच्छदस्यामोदः परिमलो विषं गरलं तस्य परिमलेन । खद्योता ज्योतिरिङ्गणाः प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य स्फुलिङ्गा अग्निकणास्तेषां राशिभिः समूहैः पर्यवर्त्यन्त इव । 'खद्योतो ज्योतिरिङ्गणः' इति हैमः । अलिवलयानि भ्रमरकर्टकानि कालपाशैर्यमबन्धनैः । बलाकाश्रेणयो बिसकण्ठिकासमूहाः प्रेतपतिर्यमस्तस्य पताकाभिर्वैजयन्तीभिः । आपगा नद्यः सर्वेषां क्षयो विनाशो येभ्य एवंविधैर्महापूरस्य प्लवैः प्रवाहैः । दुर्दिनानि मेघजनिततमांसि कालरात्र्या मृत्युप्रदनिशया 'कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः' इति हैमः । कुटजतरवो गिरिमल्लिकाः कुटजवृक्षपुष्पाणि कृतान्तस्य यमस्य हासैः स्मितैः । पर्यवर्त्यन्त इवेत्यर्थः । अपि चेति । अन्यदपि शरीरेऽपि देहेऽपि सत्त्वं साहसं कातरतया भीरुकतया, बलं स्थामं क्षामतया क्षीणतया, कान्तिद्युतिः । शरीरस्येति शेषः । वैवर्ण्येन कालिकया । विच्छायतयेत्यर्थः । मतिर्बुद्धिर्मोहेनाज्ञानेन, धैर्यं धीरिमा विषादेनावसादेन, हसितं हास्यं शुचा शोकेन, नयनं नेत्रमश्रुणा बाष्पेण, आलपनं जल्पनं मौनेन जोषेण, अङ्गानि प्रतीका असहतयाक्षमतया, करणानीन्द्रियाण्यपाटवेनापटुतया, सर्वमेव समग्रमेवारत्योद्वेगेन कृत्वा ।
मेघनादसदेशेन विषादः
***
टिप्पo - 1 पर्यवर्त्यन्त परस्परं विनिमयं प्राप्यन्तेव, जलधराः कालपुरुषा अबुध्यन्तेत्याशयः । एवं तडितो मदनानलशिखा अज्ञायन्तेत्यादिः सर्वत्रार्थो बोद्धव्यः । 2 भ्रमरसमूहा इत्यर्थः । 3 पर्यवर्त्यत, साहसस्य परिवर्ते कातरत्वमभवदित्यर्थः ।
पाटा० - १ मध्यपातिनी. २ परिवर्तन्ते; परिवर्त्यन्ते ३ आमन्द्रम् ४ रश्मिभिः ५ असहितया ६ सर्वं च ७ रजन्या.
उत्तरभागः ।
603
Page #131
--------------------------------------------------------------------------
________________
दिवसैश्चोल्लिख्यमानमिवानवरतवाहिनाश्रुपूरप्रवाहणावभज्यमानमिव । सततैर्निश्वासप्रभञ्जनैरुत्खन्यमानमिव । संततैः सान्तर्मदनदुःखोत्कलिकासहस्त्रैरजस्त्रपातिभिरितस्ततो जर्जरीक्रियमाणमिव । अपि च सहसैर्मकरध्वजशरासारैर्वपुषैव च सह क्षीयमाणमिव स्वल्पावशेषं संकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेणेव सह कण्ठलग्नं कथंकथमपि जीवितं धारयन्, धाराधरक्लिन्नतीरतरुतलम्, आप्लावितोपान्तहरितशाद्वलम्, अंशेषतटलतावनम्, अनवरतरोधोजलप्रवेशकलुषितप्रान्तम्, अवशीर्यमाणोद्दण्डकुमुददलगहनम्, -
***********
दिवसैदिनैश्चोल्लिख्यमानमिवोत्कीर्यमाणमिव, अनवरतवाहिना निरन्तरप्रवर्तिनाश्रुपूरप्रवाहेण नेत्रजलप्लवरयेणावभज्यमानमिव मद्यमानमिव, सततैर्निरन्तरैः सविस्तृतैर्वा निश्वासप्रभञ्जनैः प्राणवायुभिरुत्खन्यमानमिवोत्पाट्यमानमिव, सततैरत एवाजसपातिभिर्निरन्तरपतनशीलैः सान्तर्मदनस्य कंदर्पस्य यदुःखमसातं तस्योत्कलिकासहसैहल्लेखासहसैरितस्ततः प्रेरणेन जर्जरीक्रियमाणमिव शिथिलीक्रियमाणमिव । अपि च सहसैः सहससंख्याकैर्मकरध्वजस्य मदनस्य शरासारैर्बाणवेगवृष्टिभिर्वपुषा शरीरेणैव च सह क्षीयमाणमिव क्षीणतां प्राप्यमाणमिव । स्वल्पं स्तोकं यदवशेषमुर्वरितं संकल्पलिखितं कल्पनाकल्पितं तेन निर्विशेषवृत्तिना स्परूपमात्रवर्तिना कादम्बरीशरीरेणेव सह कण्ठलग्नं निगरणासक्तं कथंकथमपि महता कष्टेन जीवितं प्राणितं धारयन्बिभ्रन्(त) । तदेवाच्छोदं सर आससाद प्राप्तवान् । इतोऽच्छोदं विशेषयनाह - धारेति । धाराधरेण क्लिनमा तीरस्य तटस्य तरूणां वृक्षाणां तलमधोभागो यस्मिंस्तत्तथा । आप्लावितो जलेन धौत उपान्तः समीपवर्ती हरितो नीलः शादलप्रदेशो यस्य तत्तथा । 'शाद्वलः शादहरिते' इत्यमरः । अशेषे समग्रे तटे तीरे लतावनं वल्लीकाननं यस्मिंस्तत्तथा । अनवरतं निरन्तरं रोधस्ततं तस्य जलप्रवेशेन पानीयागमेन कलुषितो मलिनीकृतः प्रान्तः प्रवेशो यस्य तत्तथा । अवशीर्यमाणानि भ्रश्यमानानि यान्युद्दण्डान्युन्नालानि कुमुदानि कैरवाणि तेषां -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'दिवसै रित्यारभ्य 'जीवितं धारयन् एतत्पर्यन्तो ग्रन्थः पुनरप्यनुशीलनीयोऽन्वयसुग्रथनाय । 'दिवसैः' इति 'तदेव अच्छोदमाससाद' इत्यत्रान्वेति । कतिपयैर्दिवसैश्चन्द्रापीडः अच्छोदं प्रापेति स्पष्टोऽर्थः । उल्लिख्यमानमिवानवरतवाहिनाऽश्रुपूरेण, (अश्रुप्रवाहेण उल्लिख्यमानमिव उत्कीर्यमाणमिव, इत तदर्थः) निश्वासप्रभञ्जनैः अपभज्यमानमिव, इत्यादिरग्रेऽप्यन्वयः सुस्पष्ट एव । किन्तु - दिवसैः उल्लिख्यमानमिव, अश्रुप्रवाहेणापभज्यमानमिव, इत्यादिरूपेणान्तपर्यन्तमन्वयं व्यवस्थापनीयं । अजसपातिभिरिति विशेषणमात्र सुन्दरतयाऽन्वेति, उत मकरध्वजशरासाररित्यत्र, इति तु सुहृदयैरेव विवेक्तव्यम् । पाठकानां सौकर्याय शुद्धं पाठमुल्लिखामि, शब्दानामर्थष्टीकातोऽपि ज्ञातुं शक्यः । “दिवसैश्चोल्लिख्यमानमिवाऽनवरतवाहिनाऽश्रुपूरेण, अवभज्यमानमिव संततैर्निश्वासप्रभजनैः, उत्खन्यमानमिव मदनदुःखोत्कलिकासहसैः, अजसपातिभिरितस्ततो जर्जरीक्रियमाणमिव मकरध्वजशरासारैः, वपुषैव सह क्षीयमाणमिव स्वल्पावशेषसंकल्पलिखितेन निर्विशेषवृत्तिना कादम्बरीशरीरेण सह कण्ठलग्नं कथंकथमपि जीवितं धारयन्", (वपुर्यथा क्षीणं जातं तथा जीवितमपि क्षीणम् । स्वल्पः अवशेषो यस्य तादृशेन तथा संकल्पेन मनःकल्पनया लिखितेन, निर्विशेषवृत्तिना स्वशरीरादभिन्नेन कादम्बरीशरीरेण सह, कादम्बरीशरीरं यथा भावनावशात्कण्ठालिङ्गनसक्तं तथा खेदातिशयात् जीवितमपि कण्ठागतमित्यर्थः ।) 2 आसेव्यतटलतावनम् । इत्येव पाठः ।
पाठा० - १ प्रवाहिता; वाहिता रथवाहिना. २ धारा. ३ अपभज्यमानम् विभज्यमानम्. ४ संततैः. ५ शेषसंकल्प. ६ इव. ७ धाराधरजल. ८ उपान्तं. ९ आसेव्य; अशेष. १० प्रवेशं. ११ कुसुमकुमुद.
(604)
कादम्बरी।
स्थायाम्-)
Page #132
--------------------------------------------------------------------------
________________
आमग्नकमलखण्डम्, उत्प्लवमानाश्यानकिंजल्कदलकमलम्, आजर्जरितकरारकुवलयम्, उद्घान्तभ्रमदलिवलयम्, उड्डीनहर्ससार्थत्यक्तम्, अनवस्थानसारसारसितकरुणम्, अवशिष्टदलतलनिलीयमानोच्चकितचक्रवाकयुगम्, उत्कम्पितकादम्बकदम्बकाश्रीयमाणोपकूलनड्वलम्, उत्कलविरुतकलापिबकबलाककलापाध्यासितोपान्तपादपम्, आहतं प्रावृषान्यदिव, दृष्टपूर्वमप्यदृष्टपूर्वमिव, अदत्तदृष्टिसुखम्, अनुत्पादितहृदयाह्लादम्, अनुपजनितमानसप्रीति, तदेवाच्छोदमुपाहितद्विगुणदुःखमाससाद ।
आसाद्य चोपसर्पन्नेव सर्वाश्चवारानादिदेश । 'कदाचिदसौ वैलक्ष्यादस्मानालोक्यापसर्पत्येव, तच्चतुर्धपि पार्थेष्ववहिता भवन्तु भवन्तः' इत्यात्मनापि तुरगगत एव खिन्नोऽप्यखिन्न इव विचिन्चलतागहनानि वृक्षमूलानि शिलातलानि लसन्मण्डपाश्च समन्ताद्वभ्राम । भ्राम्यश्च यदा न क्वचिदपि किंचिदवस्थानचिह्नमप्यद्राक्षीत्तदा चकार चेतसि - 'नियतमसौ -
***********
दलानि पत्राणि तैर्गहनं निबिडम् । दुरवगाहमित्यर्थः । आमग्नं बुडितं कमलखण्डं पद्मवनं यस्मिंस्तत्तथा । उत्प्लवमानान्युत्प्राबल्येनोदुदूर्ध्वं
प्रमाणान्यनाश्यानान्यशुष्काणि किंजल्कदलानि कमलानि च यस्मिंस्तत्तथा । 'किंजल्कः केसरोऽस्त्रियाम् इत्यमरः । आ समन्ताज्जर्जरितानि शिथिलितानि कह्नारकुवलयानि यस्मिंस्तत्तथा । तत्र कलारं सौगन्धिकम् । 'सौगन्धिकं तु करारम्' इत्यमरः । कुवलयानि प्रतीतानि । उद्भ्रान्तं चकितं च तद्धमत्कमलाभावादलिवलयं भ्रमरसमूहो यस्मिंस्तत्तथा । उड्डीनैः संडीनैहँससाथैश्चक्राङ्गसमूहैस्त्यक्तमुज्झितम् । 'प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः' इत्यमरः । क्वचित 'उड्डीनहंससार्थम' इत्येव पाठः । तत्रोड्डीना हंसानां सार्थाः समूहा यस्मिन्नित्यर्थः । न विद्यतेऽवस्थानं मेघसद्भावाद्येषां तेऽनवस्थाना एवंविधाः सारसा लक्ष्मणास्तेषामारसितं रटितं तेन करुणं दीनम् । अवशिष्टानि यानि दलानि पत्राणि तेषां तले निलीयमानमाश्रीयमाणमुच्चकितमुत्त्रस्तं चक्रवाकयुगलं रथाङ्गाह्वयुग्मं यस्मिंस्तत्तथा । उत्कम्पितास्त्रस्ता ये कादम्बानां हंसानां कदम्बकाः समूहास्तैराश्रीयमाण उपकूलस्य नड्वलः । 'नडप्रायो नडकीयोऽनड्वांश्च नड्वलश्च सः' इति हैमः । प्रदेशो यस्मिंस्तत्तथा । उव्याबल्येन कलं मनोहरं विरुतं येषामेवंविधाः कलापिनो मयूराः, बका बकोटाः, बलाका बिसकण्ठिकाः, तेषां कलापाः समूहास्तैरध्यासित आश्रित उपान्तपादपः समीपवृक्षो यस्य तत्तथा । प्रावृषा पावृट्कालेनाहतं पीडितं तेनान्यदिवेतरदिव । दृष्टपूर्वमपि विलोकितपूर्वमप्यदृष्टपूर्वमिवानिरीक्षितपूर्वमिव । अदत्तं दृष्टेर्नेत्रस्य सुखं सातं येन तत्तथा । अनुत्पादितोऽविहितो हृदयस्य चेतस आह्लादः प्रमोदो येन तत्तथा । अनुपजनिताऽकृता मानसस्य स्वान्तस्य प्रीतिः स्नेहो येन तत्तथा । उपाहितं स्थापितं द्विगुणं दुःखं येन तत्तथा । आससादेत्यन्वयस्तु प्रागेवोक्तः ।
आसाद्य च प्राप्य चोपसर्पनेवोपसरनेव सर्वान्समग्रानश्चवारान्सादिन इत्यादिदेशाज्ञां दत्तवान् । इतिद्योत्यमाह - कदेति । कदाचिदसौ वैशम्पायनो वैलक्ष्यातीक्षापनत्वतोऽस्मानालोक्य निरीक्ष्यापसर्पत्येवापयात्येव । तच्चतुर्वपि पार्थेषु भवन्तो यूयमवहिताः सावधाना भवन्तु । इत्यात्मनापि स्वेनापि तुरगगत एवाश्चाधिरूढ एव खिन्नोऽपि खेदं प्राप्तोऽप्यखिन्न इवाप्राप्तखेद इव विचिन्वन्विलोकयल्लतागहनानि वल्लीगह्वाराणि वृक्षमूलानि पादपबुध्नानि शिलातलानि प्रसिद्धानि लसन्मण्डपांच प्रतिदिवसवर्धमानवीरुज्जनाश्रयांश्च समन्ताद्विष्वग्बभ्राम । भ्राम्यश्च पर्यटश्च यदा क्वचिदपि कुत्रापि स्थले किंचिदपि स्वल्पमप्यवस्थानचिह्न निवासाभिज्ञानं नादाक्षीन -
- - - - - - - - - - - - - - टिप्प० - 1 ‘उड्डीनहसमालम्' इत्युचितः पाठः । 2 'अनवस्थानसारसात्तकरुणकूजितम् (अनवस्थानैः सारसैः आत्तं स्वीकृतं करुणकूजितं यत्र तत्) । पाठा० - १ अजर्जरित. २ हंसमालम्. ३ आश्रितमान. ४ मुक्तकलविरुत; उत्कलविक. ५ कलाप. ६ दृष्टमप्यपूर्वमिव, अन्यदिवादृष्टपूर्वमिव. ७ इव. ८ सर्वान्. ९ लता.
प
अच्छोदगमनम्
उत्तरभागः।
605)
Page #133
--------------------------------------------------------------------------
________________
पत्रलेखासकाशान्मदागमनमुपलभ्य प्रथममेवापक्रान्तो येनावस्थानचिह्नमात्रेकमपि कथमपि नोपलक्ष्यते । निरुद्धोद्देश गतश्च क्वाप्यस्माभिरसावेवान्विष्टोऽपि न दृष्टः । तत्कष्टतरमापतितम् । वैशम्पायनमदृष्ट्वास्मात्प्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते । मे मन्मथशरविक्षिप्ताश्च कादम्बरीदर्शनमात्रालम्बनाः क्षणमपि विलम्बमन्तरीकर्तुमक्षमाः क्षामतया मा यासिषुः प्राणाः । सर्वथा विनष्टोऽस्मि, न दृष्टा देवी कादम्बरी, नापि वैशम्पायन' इति । एवमुत्पनिश्चयोऽप्यपरिच्छेद्यस्वभावत्वात्प्रत्याशायाः कदाचिदस्य वृत्तान्तस्याभिज्ञा महाश्वेतापि भवत्येव । तत्तां तावत्पश्यामि । ततो यथायुक्तं प्रतिपत्स्य इत्यारोप्य हृदये तदाश्रमस्यैव नातिदूरे निवेशिततुरगसैन्यः सैन्यसमायोगैमपनीय सर्पनिर्मोकपरिलघुनी घनोज्झिातज्योत्स्नाभिरामे परिधाय वाससी तथास्थितपर्याणमेवेन्द्रायुधमारुह्य महाश्वेताश्रममुपाजगाम ।
***********
व्यलोकयत् तदेति चेतसि चित्ते चकार निर्ममे । नियतं निश्चितमसौ वैशम्पायनः पत्रलेखायाः सकाशात्समीपान्मदागमनं चन्द्रापीडागमनमुपलभ्य प्राप्य प्रथममेवादावेवापक्रान्तो गतो येन कारणेनावस्थानचिह्नमात्रकमपि निवासज्ञापकाभिज्ञानमात्रमपि कथमपि महता कष्टेन नोपलक्ष्यते न ज्ञायते । निरुद्धोद्देशं निरुद्धप्रद्देशं गतश्च प्राप्तश्चासावेव वैशम्पायन एवास्माभिरन्विष्टोऽपि विलोकितोऽपि क्वापि न दृष्टो न दृक्पथमायातः । तत्तस्माद्धेतोः कष्टतरमतिकृच्छ्रमापतितमायातम् । तदेव प्रदर्शयन्नाह - वैशम्पायनेति । वैशम्पायनमदृष्ट्वानवेक्ष्यास्माठप्रदेशात्पदमपि गन्तुं पादावेव नोत्सहेते नोद्यमं कुर्वाते । मे मम मन्मथः कंदर्पस्तस्य शरैर्बाणैर्विक्षिप्ता नोदिताश्च प्राणा असवः गताः कथं नेत्याकाङ्क्षायामाह - कादम्बरीति । केवलं कादम्बरीदर्शनमेवालम्बनं येषां ते तथा । तद्दर्शनावलम्बनेन स्थिता इत्यर्थः । अन्तरा मध्ये क्षणमपि निमेषमात्रमपि विलम्बं कर्तुं विधातुमक्षमा असमर्थाः क्षामतया क्षीणतया मा यासिषुः प्राणाः । न विलोकिता देवी कादम्बरी न वैशम्पायन इति हेतोः सर्वथा सर्वात्मनाहं विनष्टो गतप्राय एवास्मि । एवमुत्पन्ननिश्चयोऽपि संजातनिर्णयोऽप्यपरिच्छेद्यस्वभावत्वादनावेद्यप्रकृतित्वात्प्रत्याशायाः प्रतिलिप्साया अस्य पूर्वोक्तवृत्तान्तस्य कदाचिदभिज्ञा वेत्री महाश्वेतापि भवत्येव । तत्तस्माद्धेतोस्तावदादौ तां महाश्वेतां पश्यामि विलोकयामि । ततस्तदनन्तरं यथायुक्तं यथोचितं प्रतिपत्स्येऽङ्गीकरिष्ये हृदये चेतसीत्यारोप्येत्याधाय तस्या महाश्वेताया आश्रमस्य गुम्फाया नातिदूरे नातिविप्रकृष्टे निवेशितं स्थापितं तुरगसैन्यमश्वबलं येनैवंभूतः सैन्यसमायोगं वाहिन्याः संबन्धमपनीय दूरीकृत्य सर्पस्याहेर्निर्मोकः कञ्चुकः । 'फणोऽहिकोशे तु निर्ध्वयनी निर्मोककञ्चुकाः' इति हैमः । तद्वत्परिलघुन्यगुरूणी, घनेन मेघेनोज्झिता त्यक्ता या ज्योत्स्ना चन्द्रिका तद्वदभिरामे मनोहरे वाससी वस्त्रे परिधायं परिधानं कृत्वा । अत्र वस्त्रद्वयग्रहणं देशाचारविशेषादेव मन्तव्यम् । यथा पूर्वं स्थापितं तथैव स्थितं पर्याणं पल्ययनं यस्यैवंभूतमेवेन्द्रायुधमश्चमारुह्यारोहणं कृत्वा महाश्वेताश्रममुपाजगामोपाययौ ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 अत एव 'निरुद्देशम् (नास्ति उद्देशो यत्र तथा तत्) इत्युचितः पाठः । 2 'एवम् अस्माभिः अन्विष्टोपि न दृष्टः, इत्येव पाठः । 3 वाक्यादौ 'मे' इति प्रयोगोप्यवैयाकरणत्वम् । अतः मे इति पूर्वान्वयि, मे पादौ नोत्सहेते इति । 4 आशायाः स्वभावो न इदंतया निश्चेतुं शक्यः नानारूपा आशा भवतीत्याशयः ।
पाठा० - १ प्रथमतरम्. २ मात्रकमपि. ३ निरुद्देशम्. ४ कष्टम्, कष्टतमम्. ५ क्षामतयामी प्राणाः; क्षोभमवप्राणाः. ६ अपहाय.
606
कादम्बरी।
कथायाम्
Page #134
--------------------------------------------------------------------------
________________
तत्र च प्रविशन्त्रेवावतीर्य महाश्वेतावलोकनकुतूहलात्पश्चादाकृष्टेनेन्द्रायुधपरिजनेनानुगम्यमानो विवेश । प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टामधोमुखीमसह्यमन्युवेगोत्कम्पितसर्वावयवामनवरतनयनजलवर्षिणीमुच्चण्डवाताहतां लतामिवोद्वाष्पदीनदृष्ट्या कथंकथमपि तरलिकया विधृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदपादि हृदये - ‘मा नाम देव्याः कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत् । येनेयमीदृश्यवस्था हर्षहेतावपि मदागमनेऽनुभूयते महाश्वेतया ।' इत्याशङ्काभिन्नहृदयोऽयमुड्डीनैरिव प्राणैः पदे पदे स्खलन्निव पतन्निव मुह्यन्निवोपसृत्योपविश्य च तस्यैव शिलातलस्यैकदेशे प्रोद्वाष्पविषण्णवदनः किमेतदिति तरलिकामपृच्छत् । सा तु तथावस्थाया अपि महाश्वेताया एव मुखमवलोकितवती ।
कैिमियमावेदयति
अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैव प्रत्यवादीत् - "महाभाग, वराकी । यया दुःखाभिघातैककठिनहृदयया पुर्नरप्यदुःखश्रवणार्हेऽपि -
तत्र च तदाश्रमे प्रविशन्त्रेव प्रवेशं कुर्वन्नेवावतीर्यावतरणं कृत्वा । अश्वादिति शेषः । महाश्वेताया अवलोकनं निरीक्षणं तस्मिन्यत्कुतूहलमाश्चर्यं तस्मात्पश्चादाकृष्टेनाकर्षितेनेन्द्रायुधस्य परिजनः परिच्छदस्तेनानुगम्यमानोऽनुयायमानो विवेश प्रवेशं कृतवान् । प्रविश्य च प्रवेशं कृत्वा च गुहाद्वारे या धवलशिला तस्यास्तले समुपविष्टां निषण्णामधोमुखीं नीचैर्मुखीं महाश्वेतामपश्यद् व्यलोकयत् । कीदृशीम् । असह्यो विसोढुमशक्यो यो मन्युः क्रोधः शोको वा । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । तस्य वेगो रयस्तेनोत्कम्पिता उच्चलिताः सर्वावयवाः समग्रापघना यस्याः सा ताम् । अनवरतं निरन्तरं नयनजलं नेत्राम्बु वर्षतीत्येवंशीला सा ताम् । अत एवोटप्रेक्ष्यते - उच्चण्डोऽत्युग्रो यो वातो वायुस्तेनाहतां ताडितां लतामिव । ‘उच्चण्डस्त्वतिकोपनः' इति हैमः । उद्बाष्पोद्गताश्रुरेवंविधा दीना दुःखिता दृष्टिर्दृग्यस्या एतादृश्या तरलिकया कथंकथमपि महता कष्टेन विधृतं धारितं शरीरं यस्याः सा ताम् दृष्ट्वा च निरीक्ष्य च तादृशीं तथावस्थां महाश्वेताम् अस्य चन्द्रापीडस्य हृदय उदपाद्युत्पन्नम् । तदेव प्रकटयन्नाह - नामेति कोमलामन्त्रणे । देव्याः कादम्वर्या एव किमप्यनिर्दिष्टनामकमनिष्टमशिवमुत्पन्नं प्रादुर्भूतं भवेत् । येन हेतुनेयं प्रत्यक्षोपलभ्येदृश्येतत्प्रकारावस्था दशा महाश्वेतया हर्षहेतावपि प्रमोदनिदानभूतेऽपि मदागमने अनुभूयतेऽनुभवविषयीक्रियते इत्याशङ्कारेका तया भिन्नं विदीर्णं हृदयं चेतो यस्यैवंभूतोऽयं चन्द्रापीड उड्डीनैरिवोड्डीयगतैरिव प्राणैरसुभिरत एव पदे पदे स्खलन्निव स्खलनां प्राप्नुवन्निव, पतन्निव, भ्रश्यन्निव, मुह्यन्निव मोहं गच्छन्निव, उपसृत्य समीप आगत्य तस्यैव शिलातलस्यैकदेश एकप्रदेश उपविश्य च प्रोद्बोष्पेण प्रकृष्टाश्रुणा विषण्णं विलक्षं वदनमाननं यस्यैवंभूतः किमेतदिति तरलिकामपृच्छदप्रश्नयत् । सा तरलिका । तु पुनरर्थे । तथावस्थाया अपि तथाविधदुःखदग्धाया अपि महाश्वेताया एव मुखमाननमवलोकितवती निरीक्षितवती ।
अथेति । तदनन्तरम् । अनुपसंहृतोऽदूरीकृतो मन्युवेगो यया सैवंविधापि गद्गदिकया गद्गदध्वनिनावगृह्यमाणो रुध्यमानः कण्टो यस्याः सा महाश्वेतैव प्रत्यवादीत्प्रत्यब्रवीत् । हे महाभाग, किमियं वराकी शोचनार्हा । ' वराकः संगरे शोच्ये' इति विश्वः । आवेदयति कथयति । दुःखस्याभिघातः प्रहारस्तेनैकमद्वितीयं कठिनं कठोरं हृदयं भुजान्तरं यस्या एवंविधया यया मया पुनरप्यदुःखश्रवणीर्हेऽपि दुःखं श्रोतुमयोग्येऽप्यात्मीयं -
टिप्पo - 1 प्रोद्वाष्पः प्रकृष्टाश्रुरित्येवोचितम् । 2 'अदुःखश्रवणार्हः' इति प्रथमान्तमेवोचितम् ।
पाटा० - १ तत्र च प्रवेश एव; तत्राप्रविशत्रेव २ इन्द्रायुधेन परिजनेन च; इन्द्रायुधेन परिजनेन राजपुत्रैश्च. ३ किमिति नावेदयते; किमपि नावेदयते ४ पुनरदुःखश्रवणार्होऽप्यात्मीयदुःखं प्रापितः पुनरप्यदुःखश्रवणार्होऽप्यात्मीयदुःखं श्रावितः
महाश्वेताश्रमे गमनम्
उत्तरभागः ।
607
Page #135
--------------------------------------------------------------------------
________________
दुःखमात्मीयं श्रावितम्, सैवाहं मन्दभाग्या महाभाग, जीवितव्यसनिनी निर्लज्जा निघृणा च दुःश्रवणमपि श्रावयामि दुःखमिदम् । श्रूयताम् । केयूरकाद्भवद्गमनमाकर्ण्य विदीर्यमाणमनसा न मया चित्ररथस्य मनोरथः पूरितः, न मदिरायाः प्रार्थना कृता, नात्मनः समीहितं संपादितम्, न गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम्, न चापि हृदयवल्लभसमागमनिर्वृता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्कादम्बरीस्नेहपाशानपि छित्त्वा पुनः कष्टतरतपश्चरणायात्रैवायाता, यावदत्र महाभागस्येव तुल्याकृतिमुन्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रणष्टमिव किमपीतस्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुपसृत्यानन्यदृष्टिदृष्टपूर्वोऽपि प्रत्यभिजाननिव, असंस्तुतोऽपि चिरपरिचित इव, असंभावितोऽप्युपारूढप्रौढप्रणय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरनिव, दुःखिताकारोऽपि -
***********
स्वकीयं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् । हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये व्यसनमासक्तिर्यस्याः सा तथा निर्लज्जा निस्त्रपा निघृणा निष्करुणा चेदं दुःखं दुष्टं श्रवणमाकर्णनं यस्येति दुःश्रवणमेतादृशमपि श्रावयामि श्रुतिगोचरीकारयामि श्रूयतामाकर्ण्यतामिति । केयूरकाद्भवद्गमनं तव प्रस्थानमाकर्ण्य विदीर्यमाणं मनो मानसं यस्याः तया । स्फुटमानहृदययेत्यर्थः । मया महाश्वेतया चित्ररथस्य पितुर्मनोरथोऽभिलाषो न पूरितो न पूर्णीकृतः । नापि मदिराया मातुः प्रार्थना याञ्चा कृता । नात्मनः स्वकीयस्य समीहितं वाञ्छितं संपादितं निष्पादितम् । न गृहाभ्यागतस्य स्वकीयसदनागतस्य चन्द्रापीडस्य प्रियमिष्टमनुष्ठितमादरितम् । न चापि हृदयस्य चेतसो वल्लभो जनस्तस्य समागमेन निर्वृता संजातसंतोषा, एतादृशी प्रियसखी वल्लभवयस्या कादम्बरी वीक्षिता विलोकितेति हेतोरुत्पन्न प्रादुर्भूतं यदनेकगुणमुत्कृष्टं वैराग्यं विरागता तस्यासमन्ताद्गाढबन्धोऽत्युग्रग्रन्थिस्तस्मात्कादम्बरीस्नेहपाशानपि छित्त्वा छेदं विधाय पुनर्द्धितीयवार कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणादि तस्य चरणायासेवनायात्रैव गुम्फायामेव यावत् आयातागता तावत्, अत्र महाभागस्य भवतस्तुल्याकृति सदृशाकारमन्तःकरणेन चित्तेनोन्मुक्तमिव त्यक्तमिव, अत एव शून्यशरीरमिन्द्रियव्यापाररहितदेहमुत्तरलमुखमुत्कम्यं मुखं यस्य स तमुत्प्लुतमुत्पतितमाबद्धं यल्लक्ष्यं वेध्यं तेन शून्यया निरवधानया दृष्ट्या दृशा प्रणष्टमिव गतमिव किमपि किंचिदितस्ततोऽपि विलोकयन्तं पश्यन्तं ब्राह्मणयुवानमपश्यं व्यलोकयम् । स तु मामुपसृत्य मत्समीपमागत्य नान्यस्मिन्दृष्टिर्यस्य स तथादृष्टपूर्वोऽप्यनिरीक्षितपूर्वोऽपि प्रत्यभिजानन्निव सोऽयं देवदत्त इति प्रत्यभिज्ञानप्रत्यक्षेणावगच्छनिव, असंस्तुतोऽप्यपरिचितोऽपि चिरपरिचित इव बहुकालविहितपरिचितिरिव, असंभावितोऽप्यसंभावनाविषयीकृतोऽप्युपारूढोऽङ्कुरितः प्रौढो महान्प्रणयः स्नेहो यस्मिनेतादृश इव, अस्निग्धोऽप्यवत्सलोऽपि परवानिव पराधीन इव । 'परतन्त्रः पराधीनः परवानाथवानपि' इत्यमरः । प्रेम्णा स्नेहेन शून्योऽपि किमप्यनुस्मरन्निव किंचित्स्मृतिगोचरीकुर्वनिव, दुःखितो दुःखं प्राप्त आकारो यस्यैवंविधोऽपि सुखमिवाचरतीति सुखायते -
- - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 चित्ररथ-मदिरे कादम्बर्याः पिता च माता च । 2 यस्याः सा, ईदृश्यहमिति व्याख्यातव्यम् । 3 गाढो बन्धो येषाम् अतिनिबिडो ग्रन्थिर्येषां तान्, इति व्याख्या बोद्धव्या । 4 उत्प्लुता बाष्पाच्छन्ना, अबद्धलक्ष्या (अस्थिरा) निर्विषया या (दृष्टिः) तया । 5 सुखं वेदयनिवेति सुखायमान इव, सुखं मम संजातमिति प्रकटयनिवेत्याशयः । 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् ।
पाठा० - १ निष्करुणापि. २ श्रूयताम्. ३ भवतो गमनम्। भवदागमनम्. ४ विदीर्णमानसा. ५ गृहात्प्रत्यागतस्य. ६ निवृत्ता. ७ भित्त्वा. ८ तुल्यवयसमाकृतिमन्तम्.
HOBaaaaaaaaaaaaM कादम्बरी । MA
कथायाम् )
Page #136
--------------------------------------------------------------------------
________________
सुखायमान इव, तूष्णीमपि स्थितः प्रार्थयमान इव, अपृष्टोऽप्यावेदयन्निवात्मीयामेवावस्थाम्, अभिनन्दन्निव, अनुशोचन्निव, हृष्यन्निव, कृष्यन्निव, विषीदन्निव, बिभ्यदिव, अभिभवन्निव, हृत इव, आकाङ्क्षन्निव, अनुस्मरन्निव विस्मृतम्, अनिमेषेण निश्चलस्तब्धपक्ष्मणान्तर्बाष्पपूराद्रेण कर्णान्तचुम्बिना विकसितेनेवामुकुलिततारकेण चक्षुषा मत्त इवाविष्ट इव वियुक्त इव पिबन्निवाकर्षन्निवान्तर्विशन्निव च सुचिरमालोक्याब्रवीत् -
‘वरैतनु, सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन्न वचनीयतामेति । तव पुनरेकान्तवामप्रकृतेर्विधेरिव विसदृशानुष्ठाने कोऽयं प्रयत्नः ? यदियमक्लिष्टमालतीसुकुमारा मालेव कण्ठप्रणयैकयोग्या तनुरनुचितेनामुना केष्टतरतपश्चरणपरिक्लेशेन ग्लानिमुपनीयते । रूपवयसोरनुरूपेण सुमनोहारिणी लतेव रसाश्रयिणा फलेन कथं न संयोज्यते । जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय शोभते परत्रसंबन्धी -
वेति सुखायमान इव । तूष्णीमपि स्थितो मौनमाधाय स्थितोऽपि प्रार्थयमान इव याञ्चां कुर्वन्निव । ' तूष्णीकं तु स्मृतं मौने मौनं शीले त्वनव्ययम्' इति विश्वः । अपृष्टोऽप्यप्रश्नीकृतोऽप्यात्मीयां स्वकीयामेवावस्थां दशामावेदयन्निव ज्ञापयन्निव, अभिनन्दन्निव श्लाघां कुर्वन्निव अनुशोचन्निवं शुचं विदधदिव, हृष्यन्निव हर्षन्निव, कृष्यन्निव विलिखन्निव, विषीदन्निव विषादं प्राप्नुवन्निव, बिभ्यदिव भयं प्राप्नुवन्निव, अभिभवन्निव तिरस्कुर्वन्निव, हृत इव मुषित इब, आकाङ्क्षन्निव वाञ्छन्निव, विस्मृतमनुस्मरन्निव, अनिमेषेण निमेषरहितेन निश्चलं निष्कम्पं स्तब्धं पक्ष्म नेत्ररोम यस्य तत्तथा तेनान्तर्बाष्पो मध्यागताश्रु । क्वचित् 'क्षरद्वाष्प' इति पाठः । तस्य पूरः समूहस्तेनार्द्रेणोन्नेन कर्णान्तं श्रोत्रान्तं चुम्बतीत्येवंशीलेन कर्णान्तचुम्बिना । अत एव विकसितेनेव विनिद्रेणेवामुकुलिता कुड्मलिता तारका कनीनिका यस्मिंस्तत्तथा तेन । एवंविधेन चक्षुषा नेत्रेण मत्त इव क्षीब इव, आविष्ट इव भूतग्रस्त इव, वियुक्त इव विभिन्न इव, पिबन्निव पानं कुर्वन्निव । अत्यादरेणावलोकनं पानमिति प्राञ्चः । आकर्षन्निवाकर्षणं कुर्वन्निव, अन्तर्विशन्निव मध्ये प्रवेशं विदधदिव च, सुचिरं बहुकालमालोक्य निरीक्ष्याब्रवीदवोचत् ।
***
हे वरनु प्रशस्तदे, सर्व एव हि जनो जगति लोके जन्मन उत्पत्तेर्वयसोऽवस्थाया आकृते रूपस्य वा सदृशमनुरूपमाचरन्कुर्वाणो न वचनीयतां निन्द्यतामेति गच्छति । तव भवत्याः पुनरेकान्तेन निश्चयेन वामा प्रतिकूला प्रकृतिः स्वभावो यस्यैवंभूर्तस्य विधेरिव विधा विसदृशानुष्ठानेऽसदृशाचरणे कोऽयं प्रयत्नः प्रयासः । यद्यस्मादियं तनुः शरीरमक्लिष्टाऽव्यथिता या मालती जातिस्तद्वत्सुकुमारा सुकोमला मालेव सगिव कण्ठे यः प्रणयो रक्षणस्नेहस्तत्रैकाद्वितीया केवलं वा योग्योचिताऽमुनानुचितेनायोग्येन कष्टतरं यत्तपश्चरणं तस्य परिक्लेशः परिश्रमस्तेन ग्लानिं ग्लानिमुपनीयते प्राप्यते । रूपं सौन्दर्यं वयोऽवस्थाविशेषस्तयोरनुरूपेण योग्येन रसं माधुर्यादिर्लक्षणमाश्रयतीत्येवंशीलेन फलेन साध्येन कथं न संयोज्यते संयुक्तीक्रियते । केव । लतेव वल्लीव । यथा लता फलेन संयोज्यते । उभयोः साम्यमाह - • सुमनोहारिणी सुमनसः पुष्पाणि ताभिर्हारिणी रुचिरा तनुः । पक्षे सुमनसः सज्जनास्तेषां हारिणी मनोज्ञा । हि यस्मात्कारणाद्रूपगुणादिविहीनस्यापि सौन्दर्यगुणरहितस्यापि जातस्योत्पन्नस्य जन्तोर्जन्मन्युपनतानि प्राप्तानि जीवलोकसुखानि सांसारिकसौख्यान्यनुभूय -
टिप्प० - 1 यथा विधिर्वामस्वभावस्तथा त्वमपि विलासपरित्यागात् वयसोननुरूपस्य तपसश्चाचरणात् वामस्वभावेत्युपमा । 2 रसाश्रयिणा रसाधिष्ठानभूतेन (रसिकेन) फलेन यौवनोपभोगस्य फलस्वरूपेण न संयोज्यते तनुरिति स्पष्टीकरणीयम् ।
पाठा० - १ अभिनिन्दन्. २ क्षरद्वाष्प ३ सुतनु. ४ विधोः ५ कष्टतमेन तपश्चरण ६ ग्लानिम् ७ फलसंबन्धी.
(तस्या वैशम्पायनवृत्तकथनम्
उत्तरभागः ।
609
Page #137
--------------------------------------------------------------------------
________________
तपश्चरणपरिक्लेशः, किं पुनराकृतिमतो जनस्य । तद्दुःखयति मामयमस्यास्ते स्वभावसरसायास्तनोर्मृणालिन्या इव तुहिनपातस्तपःपरिक्लेशः । यदि च त्वादृशी जीवलोकसुखेभ्यः पराङ्मुखी तपसा क्लेशयन्त्यात्मानं तदा वृथा वहति धनुरधिज्यं कुसुमकार्मुकः । निष्कारणेमुदयति चन्द्रमाः । वृथा वसन्तमासाभ्यागमः । निष्फलानि कुमुदकुवलयकह्लारकमलाकरविलसितानि । निष्फला जलदसमारम्भाडम्बराः । निरर्थकान्युपवनानि । किं ज्योत्स्नया, किं वा लीलासरिपुलिनैर्मलयानिलेन वा' इति ।
अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादपेतकौतुका सर्वथा तं वदन्तम् ‘अपि कस्त्वम्, कुतो वा समायातः, किमर्थं वा मामेवमभिदधासि' इत्यपृष्ट्वैवान्यतोऽगच्छम् । गत्वा च देवार्चनकुसुमान्याचिन्चती तरलिकामाहूयाब्रवम् - 'तरलिके, योऽयं युवा कोऽपि ब्राह्मणाकृतिरस्यावलोकयतो वदतश्चान्यादृश एवाभिप्रायो मयोपलक्षितः । तन्निवार्यतामयं यथा पुनरत्र नागच्छति । अथ निवारितोऽपि यद्यागमिष्यति तदावश्यमेवास्याभद्रक भवि -
***********
साक्षात्कृत्य परत्रसंबन्धी परभवसक्तस्तपश्चरणपरिक्लेशः शोभते शोभां प्राप्नोति । आकृतिमतः सौन्दर्योपेतस्य जनस्य किं पुनः । भण्यत इति शेषः । तत्तस्मात्कारणात्ते तव स्वभावेन प्रकृत्या सरसाया रसोपयुक्ताया अस्यास्तनोर्देहस्य मृणालिन्याः कमलिन्यास्तुहिनपात इव हिमनिपतनमिवायं तपः परिक्लेशो मां दुःखयति दुःखं करोति । यदि च त्वादृश्यनन्यरूपा. जीवलोकसुखेभ्यः पराङ्मुखी निवर्तिताननात्मानं तपसा क्लेशयन्ती शोषयन्ती, तदा कुसुमकार्मुकः कंदर्पोऽधिज्यं ज्यामधिरूढं धनुः कार्मुकं वृथा मुधा वहति धारयति । निष्कारणं निष्प्रयोजन चन्द्रमाः शशाकउदयत्युद्गच्छति । वृथा मुधा वसन्तमासस्य सुरभिमासस्याभ्यागम आगमनम् । कुमुदानि कैरवाणि, कुवलयानि श्वेतकमलानि, करारं सौगन्धिकम्, कमलानि पद्मानि, एतेषामाकराः समूहास्तेषां विकसितानि हसितानि निष्फलानि निरर्थकानि । जलदस्य समारम्भः प्रारम्भस्तस्याडम्बराः समाटोपा निष्फला निरर्थकाः । उपवनानि आरामाणि निरर्थकानि निष्प्रयोजनानि । ज्योत्स्नया चन्द्रिकया किम् । न किमपीत्यर्थः । लीलासरित्सुलिनैः क्रीडानदीसैकतैः किम् । किं वा मलयानिलेन मलयाचलमरुता वा किमिति । __ अहं तु देवस्य पुण्डरीकस्यैव वृत्तान्तादुदन्तादपेतं गतं कौतुकं कुतूहलं यस्याः सैवंविधा सर्वथा सर्वात्मना तं वदन्तं ब्रुवन्तमपि कस्त्वं को भवान्, कुतो वा कस्मात्प्रदेशात्समायातः समागतः, किमर्थं वा किंप्रयोजनं मां महाश्वेताभिधानामेवमभिदधासि कथयसि, इत्यपृष्ट्वैव. प्रश्नमकृत्वैवान्यतोऽपरस्मिन्स्थलेऽगच्छमव्रजम् । गत्वा च देवस्य महेशितुरर्चनं पूजनं तस्मै कुसुमानि पुष्पाण्याचिन्चत्यवचयं कुर्वन्ती तरलिकामाहूयाह्वायाब्रवमकथयम् । हे तरलिके, योऽयं प्रत्यक्षोपलभ्यो युवा तरुणः कोऽप्यनिर्दिष्टनामा ब्राह्मणस्य विप्रस्याकृतिराकारो यस्य स तथा । अस्य यूनोऽवलोकयतः पश्यतो वदतश्च ब्रुवतश्चान्यादृश इव कामिजनसदृश इवाभिप्राय आशयो मयोपलक्षितो ज्ञातः । तत्तस्माद्धेतोरयं निवार्यतां प्रतिषिध्यताम्, यथा पुनर्वितीयवारमत्र मत्समीपे नागच्छति नाभ्येति । अथ निवारितोऽपि प्रतिषिद्धोऽपि यद्यागमिष्यति तदावश्यमेव निश्चितमेव -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 त्वादृशी 'आत्मानं क्लेशयति' इत्येवोचितः । 2 'कोऽयं युवा ब्राह्मणाकृतिः ? कोऽप्यस्याऽवलोकयतो बदतश्चान्यादृश एवाभिप्रायो मयोपलक्षितः' इति पाठः । इदानीं यथेच्छमभिरोच्यतां सहृदयैः ।
पाठा० - १ अस्याः. २ उदेति. ३ व्यर्थः. ४ च. ५ सर्वथा तथा; सर्वं तथा. ६ देवतार्चन. ७ अपचिन्वन्ती; उच्चिन्वन्ती. ८ कोऽप्यस्य. ९ विलोकयतः; न विलोकयता. १० यदि. ११ अस्यैव.
610
कादम्बरी।
कथायाम्
Page #138
--------------------------------------------------------------------------
________________
ष्यति' इति । स तु निवार्यमाणोऽपि दुर्निवारवृत्तेर्मदनहतकस्य दोषैर्भवितव्यतया वानर्थस्य नात्याक्षीदेवानुबन्धम् ।
अतीतेषु केषुचिद्दिवसेष्वेकदो गाढायां यामिन्याम्, उद्गिरत्स्विव भरेणोद्दीपितस्मरानलं ज्योत्स्नापूरमिन्दुमयूखेषु, लब्धनिद्रायां तरलिकायाम्, अप्राप्तसुखा संतापनिर्गत्यास्मिन्नेव शिलातले विमुक्ताङ्गी, कह्लारसुरभिणा मन्दमन्देनाच्छोदानिलेनावीज्यमाना, वर्णसुधाकूर्चकैरिव करैर्धवलितदशाशामुखे चन्द्रमसि निहितदृष्टिः ‘अपि नामायमेभिरमृतवर्षिभिरखिलजगदाह्लादकारिभिः करैश्चन्द्रमास्तमपि हृदयवल्लभं मे वर्षेत्' इत्याशंसाप्रसङ्गेन, देवस्य सुगृहीतनाम्नः पुण्डरीकस्य स्मरन्ती, कथमभाग्यैर्मे मन्दपुण्यायास्तादृशस्यापि दिव्याकृतेर्महापुरुषस्य तस्य नभसोऽवतीर्णस्य भाषितमलीकमुपजातम्, जातानुकम्पेन वा यथाकथंचिजीवितुमित्येव समाश्वासिता जीवितप्रिया तपस्विन्यपि येन पुनदर्शनमेव तेन मम न -
***********
तस्य यूनोऽभद्रकमकल्याणं भविष्यतीति । स तु युवा तरलिकया निवार्यमाणोऽपि प्रतिषिध्यमानोऽपि दुर्निवारा वारयितुमशक्या वृत्तिर्वर्तन यस्यैवंभूतस्य मदनहतकस्य हत्याकारिणः कंदर्पस्य दोषैर्दूषणैरनर्थस्योत्पातस्य भवितव्यतया वाग्रे भावितया वानुबन्धं स्नेहं नात्याक्षीन तत्याज । __ दिवसेषु केषुचिदतीतेषु गतेषु सत्सु, एकदैकस्मिन्समये गाढायां तीव्रायां यामिन्यामुद्दीपित उत्तेजितः स्मरएवानलो वहिर्यनवंभूतं ज्योत्स्नापूर चन्द्रिकासमूहमिन्दुमयूखेषु चन्द्रकिरणेषूद्गिरत्सु विमुञ्चत्सु सत्सु, लब्धनिद्रायां प्राप्तप्रमीलायां तरलिकायामप्राप्तमलब्धं सुखं सौख्यं यया सैवंविधाहं संतापं संज्वरं तस्य निर्गत्या निर्गमनहेतुनास्मिन्नेव शिलातले विमुक्ताङ्गी न्यस्तदेहा करारं सौगन्धिकं तेन सुरभिणा सुगन्धिना मन्दमन्देनाच्छोदानिलेनाच्छोदवायुना वीज्यमानोद्भूयमाना, वर्णसुधा चेतसुधा तस्याः कूर्चकैः कुञ्चिकाभिरिव करैः किरणैर्धवलितं शुभीकृतं दशसंख्याका या आशा दिशस्तासां मुखं येनैवंविधे चन्द्रमसि कुमुदबान्धवे निहिता स्थापिता दृष्टिदृग्यया सा निहितदृष्टिः, अपि नामेति कोमलामन्त्रणे । अयं चन्द्र एभिरमतवर्षिभिः पीयषसाावेभिरत एवाखिलजगतः समाविश्वस्याह्लादकारिभिः प्रमोदजनकैः करैः किरणैः कत्वा चन्द्रमाः शशाङको मे मम तमपि हृदयवल्लभं चित्तप्रियं वर्षदृष्टिं कुर्यात् । इत्येवंरूपाशंसा स्पृहा तस्याः प्रसङ्गेन संबन्धेन देवस्य पूज्यस्य सुष्टु गृहीतं नामा यस्यैवभूतस्य पुण्डरीकस्य स्मरन्ती स्मृतिपथमानयन्ती । 'अधीगर्थदयेशां कर्मणि' इति षष्ठी । मे मम मन्दपुण्याया हीनसुकृताया अभाग्यैर्दुर्दैवैस्तस्य कपिजलस्य नभसो व्योमादवतीर्णस्योत्तरितस्य तादृशस्य दिव्याकृतेः सुन्दराकारस्य महापुरुषस्यापि कथं भाषितं जल्पितमलीक मिथ्योपजातम् । वाथवा जातानुकम्पेन समुत्पन्नकरुणेन यथाकथंचित्प्रकारेण केवलं जीवितुं प्राणितुमित्येव हेतोः समाचासिताश्वासनां कारिता येन हेतुना जीवितप्रिया प्राणितवल्लभा तपस्विनी वराक्यसि तेन हेतुना मम पुनदर्शनमेव न दत्तं पुनः समीपे -
टिप्प० - 1 मत्प्रत्याशया अनुसरणमित्येवार्थः । 2 'अनवाप्तनिद्रासुखा' इत्येव पाठः । 3 'निर्गत्या' इत्यनेन निःसारणरूपो णिजर्थः कथं प्रतीयेत? 'संतापानिर्गत्यास्मिन्नेव' इति पाठः । संतापवशाद् बहिर्निर्गत्य अस्मिन्नेव शिलातले विमुक्ताङ्गीति तदर्थः, 14 कृपासिन्धो ! व्योमात् (अर्थात् व्योम्नः) न कपिञ्जलोऽवतीर्णः, अपि तु स्वयं चन्द्र एवावतीर्णः । कपिजलस्तु गगने निलीनः । 5 'जातानुकम्पेन वा यथाकथंचिज्जीवतु जीवितप्रिया तपस्विनी इत्येवमेव समाचासितास्मि' इति पाठः । अर्थः स्पष्टः ।
पाठा० - १ दुर्निवार्य. २ चैकदा. ३ विगाटायाम्. ४ रजन्याम्. ५ उद्दीपितं. ६ अप्राप्तनिद्रासुखा; अनवाप्तनिद्रासुखा. ७ संतापनिर्गत्या. ८ सुगन्धिना. ९ वीज्यमाना. १० कारिकरैः ११ तादृशोऽपि. १२ जीवतु जीवितप्रिया तपस्विनीत्येवमेव समाश्वासितास्मि. १३ अनेन. १४ मे.
वैशम्पायनवृत्तश्रवणम्
उत्तरभागः।
611)
Page #139
--------------------------------------------------------------------------
________________
दत्तम् । किं करोतु देवः सुगृहीतनामा पुण्डरीको यः परासुरेवोत्क्षिप्य नीतः । कपिञ्जलस्तु जीवन्गतः, कथमियता कालेन गतेनापि निष्करुणेन वार्तापि मे न संपादिता' इत्येतानि चान्यानि चालजालानि दुर्जीवितगृहीता चिन्तयन्ती जाग्रत्येवातिष्ठम् ।
अथ निभृतपदसंचरणम्, औ चरणादुत्कण्टकमनवरतनिपतितमदनशरशल्यनिकरनिचितमिव शरीरमुद्वहन्तम्, उद्विकासिकेतकरजःपाटलधवलं प्रथमतरमेव भस्मासात्कृतमिव मदेनहुतभुजा, भुजाग्रेण कुण्डलीकृतमृणालमुँपर्युषितशासनवलयमिवावर्श्यमरणाय सकलजगदप्रतिहतशासनेन कुसुमधन्वना विसर्जितं दधानम्, उद्भूतसाध्वसोत्कम्पतरलितया केतकीगर्भसूच्या क्व परं गम्यते हतोऽसि मयेति मन्मथप्रथमसहायस्य चन्द्रमसः कैलयेव कर्णान्तलग्नया तर्ज्यमानम्, उद्वेगावर्जितेन नयंनजलसोतसात्मने जैलमिव प्रच्छन्तम्, आत्मे -
**** *****
नागतम् । देवः सुगृहीतनामा पुण्डरीकः किं करोतु कुर्यात् । यः परासुरेव मृत एवोत्क्षिप्योत्पाट्य नीतः प्रापितः । स्वर्गमिति शेषः । कपिञ्जलस्तु जीवन्गतः । कथं तेनापीयता कालेन निष्करुणेन मे मम वार्तापि किंवदन्त्यपि न संपादिता न विहिता । इत्येतानि च पूर्वोक्तान्यन्यानि च पुरो वक्ष्यमाणान्यालजालानि स्वप्नान्तर्गतप्रायाणि दुर्दुष्टं यज्जीवितं तेन गृहीतात्मसात्कृता चिन्तयन्ती ध्यायन्ती सजागरैवातिष्ठं स्थिता ।
अथेति तदनन्तरम् । तमेव युवानमद्राक्षं व्यलोकयमिति दूरेणान्वयः । तमेव विशेषयन्नाह - निभृतेति । निभृतमशब्दं यथा स्यात्तथा पदानमङ्ग्रीणां संचरणं यस्य स तम् । आ चरणाच्चरणं मर्यादीकृत्य । उत्कण्टकम् | संजातरोमोद्गममित्यर्थः । एतादृशं शरीरं देहमुद्वहन्तं धारयन्तम् । अत एवोत्प्रेक्षते अनवरतं निरन्तरं निपतिता लग्ना ये मदनशराः कंदर्पबाणास्तेषां शल्यनिकरस्तेन निचितमिव व्याप्तमिव । उद्विकास्युन्निद्रो यः केतकः क्रकचच्छदस्तस्य रजः पटलं परागसमूहस्तद्धद्धवलं शुभ्रम् । अत एवोव्प्रेक्षते - प्रथमतरमेवादावेव मदनहुतभुजा कामाग्निना भस्मसात्कृतमिव । शुक्लत्वसाम्याद्भस्मोपमानमित्यर्थः । भुजाग्रेण बाहुप्रान्तेन कुण्डलीकृतं कुण्डलवदाचरितं मृणालं बिसकटकं दधानं बिभ्राणम् । ‘कटको वलयोऽस्त्रियाम्' इत्यमरः । शुक्लत्वसाम्यादुत्प्रेक्षते - सकलजगत्यप्रतिहतमनिराकृतं शासनमाज्ञा यस्यैवंविधकुसुमधन्वना कंदर्पेणावश्यमरणाय निश्चितप्राण विमुक्तये विसर्जितं दत्तमुपर्युषितं स्थापितं शासनवलयमिवाज्ञावलयमिव । यथा कश्चित्सांयुगीनो राज्ञा दत्तमवश्यं सङ्ग्राममरणाय वीरवलयं भुजाग्रेण बध्नाति तथैवानेन भुजाग्रेणावश्यं मरणाय कंदर्पदत्तं शासनवलयं बद्धमिवेति भावः । मन्मथस्य कंदर्पस्य प्रथमसहायस्यादावेव साहाय्यकारिणश्चन्द्रमसः कुमुदबान्धवस्य कलैयषोडशांशेन कर्णान्तलग्नया श्रोत्रान्तप्राप्तयेति तर्ज्यमानमिव तिरस्क्रियमाणमिव । इतिद्योत्यमाह - उद्भूतेति । उद्भूतमुत्पन्नं यत्साध्वसं भयं तस्मादुत्कम्पस्तेन तरलितया चञ्चलया केतकीगर्भसूच्या क्रकचच्छदमध्यवर्तित्रिपत्रकेण । 'त्रिपत्रकः सूचिरभिधीयते' इत्यमरः । तया, मया त्वं हतो व्यापादितोऽसि । अतः क्व परमग्रे गम्यते । उद्वेगः संतापस्तेनावर्जितेन दत्तेन नयनजलस्रोतसा नेत्राम्बुप्रवाहेणात्मने स्वस्मै जलमिव प्रयच्छन्तं ददतम्, आत्मेच्छयैव स्वकीयवाञ्छयैव मत्करग्रहणाय मत्पाणिपीडनाय स्वेदाम्भसा धर्म
-
-
टिप्प० - 1 पदयोः संचरणमित्युचितम् । 2 तर्जनाय 'तर्जनी' नामवाहिनी अङ्गुलिरेव व्यवहियते, अत एव 'करशाखया' इत्येव पाठः सम्यक् । नायिकाया अनिच्छायामपि तत्कालाभिसरणेन भयं जातमिति तज्जनितकम्पवती कर्णान्तलग्ना केतकीगर्भत्रिपत्री नास्ति अपि तु तर्जनाय सेयं चन्द्रमसोङ्गुलिरेवास्तीति सर्वस्याशयः । 3 'जलाञ्जलिम्' इत्येव सम्यक् । अन्तसमये तस्यैव स्वारस्यात् ।
पाठा० - १ आलजालानि; आलापजालानि. २ यदुदुर्जीवित. ३ आचरणादुत्कण्टकितम्; आपतन्तं तमुत्कण्टकिततनुम्. ४ उद्विकासकेतक; उद्विकाशिकेतकी. ५ मदनहतभुजाग्रेण. ६ मृणालिकावलयम्. ७ अपर्युषित, अपर्युषितम् ८ अवश्यम्. ९करशाखया. १० सलिल. ११ जलाञ्जलिम् .
612
कादम्बरी |
कथायाम्
Page #140
--------------------------------------------------------------------------
________________
छयैव मत्करग्रहणाय निर्वर्तितस्नानमिव स्वेदाम्भसा, न युक्तमेव ते परहृदयमविज्ञायोपगन्तुमिति पदे पदे निवार्यमाणमिव गुरुणोरुस्तम्भेन, दूरत एव मदालिङ्गनालीकाशया प्रसारितभुजयुगलम्, उत्कलिकासहस्रविषमं रागसागरमिव प्रतरन्तम्, अनवरतप्रवृत्तैराकृष्यमाणमिव पुरस्ताद्दीघैनिःश्वासमरुद्भिः उह्यमानमिव दिङ्मुखप्लाविना ज्योत्स्नापूरेण, रणरणकशून्यम्, उच्छुष्काननम्, प्रोन्मुक्तं सत्त्वेन, प्रतिपन्नं कृपणतया, अवधीरितं धैर्येण, संगृहीतं तरलतया, विसर्जितं लज्जया, अधिगतं धाष्ट्येन, दूरीकृतं परलोकभीत्या, विमुक्तं युक्तायुक्तविचारेण, संकल्पजन्मन एव केवलं वशे स्थितम्, आविष्टमिव मत्तमिवोन्मादादापतन्तम्, दूरतोऽपि दिवसनिर्विशेषेण चन्द्रातपेन विभाव्यमानं तमेव युवानमद्राक्षम् ।
दृष्ट्वा च तं तादृशं निःस्पृहाप्यात्मनि परं भयमुपगतवती चेतस्यचिन्तयम् - 'अहो, कष्टमापतितम् । यद्ययमुन्मादादागत्य पाणिनापि स्पृशति मां तदा मयेदमपुण्यहतक शरीर -
***********
जलेन निर्वर्तितस्नानमिव विहिताप्लवमिव, परहृदयमन्यचित्तमविज्ञायाज्ञात्वोपगन्तुं तत्समीपे यातुं ते तव न युक्तमेव न न्याय्यमेवेति गुरुणा बृहत्तरेणोरुस्तम्भेन जङ्घास्थूणया पदे पदे निवार्यमाणमिव प्रतिषिध्यमानमिव, दूरत एव दविष्ठत एव मदालिङ्गनस्य मदीयोपगृहनस्यालीकाशया मिथ्यावाञ्छया प्रसारितं विस्तारितं भुजयुगलं बाहुयुग्मं येन स तम् । उत्कलिका हल्लेखास्तासां सहसं तेन विषमं व्याकुलं रागसागरमिवानुरतिसमुद्रमिव प्रतरन्तमुत्तरन्तम् । अनवरतप्रवृत्तैर्निरन्तरप्रवर्तितैर्दी(रायतैनिःश्वासमरुद्भिः घ्राणवायुभिः पुरस्तादग्र आकृष्यमाणमिवाकृष्टिं विधीयमानमिव, दिङ्मुखप्लाविना दिग्वदनक्षालकेन ज्योत्स्नापूरेण चन्द्रिकाप्रवाहेणोह्यमानमिव वहमानमिव, रणरणकेनौत्सुक्येनोत्प्राबल्येन शुष्कं रूक्षमाननं मुखं यस्य स तम् । सत्त्वेन साहसेन प्रोन्मुक्तं व्यक्तम्, कृपणतया प्रतिपनं दैन्यत्वेनाङ्गीकृतम्, धैर्येण धीरिम्पावधीरितमवहीलितम्, तरलतया परिप्लवनया संगृहीतं स्वीकृतम्, लज्जया त्रपया विसर्जितं दूरीकृतम्, धाटान निर्लज्जतागुणेनाधिगतं प्राप्तम्, परलोकभीत्यागामिभवभयेन दूरीकृतम्, युक्तायुक्तविचारेण न्याय्यान्याय्यवितर्केण विमुक्तं त्यक्तम्, केवलं संकल्पजन्मन एव मनोभवस्यैव वशे तन्त्रे स्थितम्, आविष्टमिव भूतगृहीतमिव, मत्तमिव क्षीबमिव, उन्मादाच्चित्तविप्लवत आपतन्तमागच्छन्तम् । दूरतोऽपि दविष्ठादपि दिवसानिर्गतो विशेषो यस्यैवंभूतेन । दिवससदृशेनेत्यर्थः । चन्द्रातपेन शशाङ्कालोकेन विभाव्यमान प्रकाश्यमानम् । अहं तं युवानमद्राक्षमित्यन्वयस्तु पूर्वमुक्तः
तं वैशम्पायनं तादृशं तथावस्थं दृष्ट्वा च निरीक्ष्य च निस्पृहापि गततृष्णाप्यात्मनि परं भयमुपगतवती प्राप्तवती इति चेतसि चित्तेऽचिन्तयं चिन्तितवती । अहो इति खेदे । कष्टं कृच्छ्रमापतितम्, यद्ययं युवोन्मादादागत्य मां पाणिना स्पृशति स्पर्श करोति तदा मया महावेतयेदमपुण्यहतक शरीरमुत्सष्टव्यमुज्झितव्यम् ।
टिप्प० - 1 ऊर्वोः स्तम्भः सात्त्विकभावेन जाड्यम् (अचलनम्) अत्र विवक्षितम् । 2 अनुरागः उत्कलिकानाम् उत्कण्ठानां सहसेण दुस्तरः, सागरस्तु उत्कलिकानां तरङ्गाणां सहसेण । अत एव श्लेषोत्थापितः 'रागसागरः' इति रूपकालंकारः । भुजप्रसारणे च सागरोत्तरणस्योत्प्रेक्षा, इति सेयं प्रधानम् । 3 ज्योत्स्नारूपेण प्रवाहेण प्लाव्यमानमिव (तार्यमाणमिव) ।
पाठा० - १ मकर. २ अदूरतः. ३ प्रवृत्तेः. ४ रणक. ५ धिकृतम्. ६ भीषया. ७ अङ्गीकृतं स्वरुच्या विमुक्तम्. ८ केवलम्. ९ अकरवम्. १० कष्टतरम्. ११ यययमेवमुन्मादात्; 'यययमेत्य स्वयमुन्मादात्.
वैशम्पायनस्य महाचेताऽभिसारः
उत्तरभागः।
613
Page #141
--------------------------------------------------------------------------
________________
मुत्सष्टव्यम् । तच्चिराद्देवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया दुःखोत्तरमप्यङ्गीकृतं व्यर्थतां मे यातं प्राणसंधारणम् इति । स त्वेवं विचिन्तयन्तीमेव मामुपसृत्याब्रवीत् - 'चन्द्रमुखि, हन्तुमुद्यतो मामयं कुसुमशरसहायश्चन्द्रमाः । तच्छरणमागतोऽस्मि, रक्ष मामशरणमनाथमार्तमप्रतीकारक्षममात्मना त्वदायत्तजीवितम् । शरणगतपरित्राणं हि तपस्विनामपि धर्म एव । तद्यदि मामात्मप्रदानेन नात्र संभावयसि तदा हतोऽहमाभ्यां कुसुमशरशिशिरकराभ्याम्' इति । अहं तु तदाकर्ण्य धिगित्युत्तमाङ्गनिर्गतज्वालेव रोषानलेन निर्दहन्तीव तम्, उन्मिषद्वाष्पस्फुलिङ्गया दृष्ट्या तांतर्जयन्तीव, आपादतलादुत्कम्पितगात्रयष्टिराविष्टेव, आत्मानमप्यचेतयमाना क्रोधावेगरूक्षाक्षरमवदम् - आः पाप, कथमेवं वदतो मामुत्तमाङ्गे ते न निपतितं वज्रम् ? अवशीर्णा वा न सहसधा जिह्वा ? विह्वलतां न गता वा वाणी ? नष्टानि वा नाक्षराणि ? मन्ये च न सन्त्येव तेऽस्मिञ्शरीरे सकललोकशुभाशुभसाक्षिभूतानि पञ्चमहाभूतानि । येनैवं -
***********
तत्तस्मात्कारणाच्चिराच्चिरकालेन देवस्य पुण्डरीकस्य पुनर्दर्शनप्रत्याशया पुनरवलोकनवाञ्छया दुःखादसातादुत्तरमुत्तरकालमङ्गीकृतमपि स्वीकृतमपि प्राणसंधारणं मे मम व्यर्थतां निष्फलतां यातं प्राप्तम् । इत्येवं विचिन्तयन्तीमेव ध्यायन्तीमेव स तु युवा मामुपसृत्य मत्समीपमागत्याब्रवीदवोचत् । किं तदित्याह - हे चन्द्रमुखि हे शशाङ्कमुखि, मामयं कुसुमशरः कामस्तस्य सहायः साहाय्यकारी चन्द्रमाः कुमुदबान्धवो हन्तुं व्यापादयितुमुद्यत उद्युक्तः । तदिति हेत्वर्थे । शरणं त्राणमागतोऽस्मि । अशरणमत्राणमनाथपनीश्वरमार्तं प्रपीडितमप्रतीकारक्षममप्रतिक्रियासहं मां रक्ष त्राहि । त्वदायत्तं जीवितं प्राणितं यस्य स तम् । हि यस्मात्कारणात्तपस्विनां तपोवतामप्ययं धर्म एव यच्छरणागतस्य रक्षणं त्राणम् । तद्यदि मामात्मप्रदानेन स्वार्पणेनात्र न संभावयसि न संभावनाविषयीकरोषि तदाभ्यां कुसुमशरशिशिरकराभ्यां कामबाणचन्द्राभ्यामहं वैशम्पायनो हतो व्यापादितोऽस्मि । इति पूर्वोक्तमहं महाश्वेता तदाकर्ण्य श्रुत्वा धिगिति धिगस्त्विति उत्तमाङ्गाच्छिरसो निर्गता प्रादुर्भूता ज्वालार्चिर्यस्या एवंविधेव रोषानलेन क्रोधवह्निना तं वैशम्पायनं निर्दहन्तीव ज्वालयन्तीव उन्मिषन्तः प्रकटीभवन्तो बाष्पस्फुलिङ्गा अश्रुवह्निकणा यस्यामेवंभूतया दृष्ट्या दृशा । तदव्यक्ते नपुंसकम् । आतर्जयन्तीव तिरस्कुर्वन्तीव । आपादतलात्पादतलं मर्यादीकृत्योत्कम्पिता प्रचलिता गात्रयष्टिरञ्जयष्टिर्यस्याः सा तथा । आविष्टेव भूतगृहीतेव । आत्मानमपि स्वमप्यचेतयमानाज्ञायमाना क्रोधस्य क्रुध आवेगस्त्वरिस्तेन रूक्षाक्षरमसिग्धवर्णं यथा स्यात्तथावदमब्रवम् । आः पाप हे पापिष्ठ, एवं मां वदतो ब्रुवतः कथं ते तवोत्तमाङ्गे शिरसि न निपतितं वर्ज पविः, सहसधा सहसप्रकारेण जिह्वा रसना नावशीर्णा न शटिता, वाणी भाषा विह्वलतां विक्लवतां वा न गता, न नष्टानि वने प्रपलायितानि वाक्षराणि वर्णा वा । मन्येऽहं जाने च ते तवास्मिशरीरे देहे सकललोकानां समग्रजनानां शुभाशुभयोर्वर्यावर्ययोः पुण्यपापयोः साक्षिभूतानि पञ्चमहाभूतानि पृथिव्यप्तेजोवाय्वाकाशकलक्षणानि न सन्त्येव एतदर्थे हेतुमाह - येनेति । येन कारणेनैवं वदन्ब्रुवन्नग्निना - - - -- - - - - - - - - - - - - -
-- - - - - - - - - - - टिप्प० - 1 दुःखोत्तरं दुःखबहुलं, दुःखमुत्तरं (अनन्तरम्) वा यस्य, ईदृशं प्राणसंधारणमङ्गीकृतमपि व्यर्थतां यातम् । 2 'त्वदायत्तं मे जीवितम् । इत्येव पाठः । अन्यथा 'आत्मना' इति पदस्यान्वयो न घटेत । 'त्वदायत्तं मे इति व्यस्तपाठे तु 'अशरणादिविशिष्टं माम् आत्मना (स्वशरीरेण) रक्ष, इति पूर्ववाक्यान्चयः । 3 'तदातर्जनायेव (तस्य वैशम्पा० भर्त्सनायेव) आपादतलात् उत्कम्पितगात्रयष्टिः,' इति पाठः ।
पाठा० - १ चिरात्. २ अङ्गीकृत्य. ३ एवं, एव. ४ अप्रतीकाराक्षमम्. ५ त्वदायत्तं मे जीवितम्. ६ प्रसादेन. ७ शिशिरकिरणाभ्याम्. ८ झटिति, झगिति. ९ तर्जनायैव. १० हताश. ११ एवंवादिनस्तव नोत्तमाङ्गे.
614
कादम्बरी।
कथायाम
Page #142
--------------------------------------------------------------------------
________________
वदन्नाग्निना भस्मीकृतोऽसि, न वायुना धूतोऽसि, नाम्भसा प्लावितोऽसि, न धेरित्र्या रसातलं प्रवेशितोऽसि, नापि तत्क्षणमेवाकाशेनात्मनिर्विशेषता नीतोऽसि, अव्यवस्थितो व्यवस्थितेऽस्मिल्लोके कुतस्त्वमुत्पन्न एवंविधः ? यस्तिर्यग्जातिरिव कामचारी न किंचिदपि वेत्सि । येनैवं खलु हतविधात्रा केनाप्युपदर्शितमुखरागः स्वपक्षपातमात्रप्रवृत्तिरनिरूपितस्थानास्थानवादी शुक इव वक्तुमेवं शिक्षितस्तेनैव किमुत तस्यामेव जातौ न निक्षिप्तोऽसि, येनैकान्तहासहेतुरेवं वदन्नपि न क्रोधमुत्पादितवानसि ? त्वदुक्तेर्दुःखिताहं ते संविभागमिमं करोमि, येनात्मवचनानुरूपां जातिमापन्नो नैवोस्मद्विधाः कामयसे इत्युक्त्वा चन्द्राभिमुखी भूत्वा कृताञ्जलिः पुनरवदम् - 'भगवन्, परमेश्वर, सकलभुवनचूड़ामणे, लोकपाल, यदि मया देवस्य पुण्डरीकस्य दर्शनाप्रभृति मनसाप्यपरः पुमान चिन्तितस्तदाऽनेन मे सत्यवचनेनायमलीककामी मदुदीरितायामेव जातौ पततु' इति ।
***********
वह्निना न भस्मीकृतो न भस्मसाद्विहितोऽसि । न वायुना समीरेणाधूतः कम्पितोऽसि । नाम्भसा जलेन प्लावितः प्रवाहितोऽसि । न धरित्र्या पृथिव्या रसातलमधोलोकं प्रवेशितोऽसि क्षिप्तोऽसि । नापि तत्क्षणमेव तस्मिन्नेव च क्षण आकाशेन नभसात्मनिर्विशेषतां स्वतुल्यतां नीतोऽसि प्रापितोऽसि । अव्यवस्थितो व्यवस्थामप्राप्तः पञ्चभूतात्मकतया व्यवस्थितेऽस्मिल्लोके कुतस्त्वमुत्पन्नः प्रादुर्भूत एवंविध एतादृशो यस्तिर्यग्जातिरिव पशुजातिरिव कामचारी स्वैरविहारी न किंचिदपि वेत्सि जानासि । येनैवम् । खल्विति निश्चये । हतविधात्रा पापिष्टब्रह्मणा केनापि कारणेनापदर्शितः प्रकटितो मुख आस्ये रागोऽनुरक्तिर्येन स तथा । स्वपक्षपातमात्रे स्वपक्षरक्षणमात्रे प्रवृत्तिः प्रवर्तनं यस्य स तथा । अनिरूपितमज्ञातं यत्स्थानास्थानं वक्तव्यावक्तव्यस्थलं तत्र वदतीत्येवंशीलः शुक इव कीर इव । सोऽपि दर्शितमुखरागः स्वपक्षपातनमात्रे प्रवृत्तः स्थानास्थानवादी च भवति । तद्वदेवैवं वक्तुं जल्पितुं शिक्षितः शिक्षा ग्राहितस्तेनैव हतविधात्रा किमुत कथं तस्यामेव तिर्यग्जातौ न निक्षिप्तोऽसि । एकान्तेन निश्चयेन हासस्य हेतुर्निदानमेवं वदन्नपि जल्पन्नपि क्रोधं कोपं नोत्पादितवानसीति काकूक्तिः । अतस्त्वदुक्तेस्त्वत्कथितस्यान्यथा कर्तुमहं त इमं संविभागं विभज्य प्रदानं करोमि । येन संविभागेनात्मवचनस्य स्वकीयोक्तेरनुरूपां योग्यां जातिं तिर्यग्जन्म आपनः प्राप्तो नैवास्मद्विधा अस्मत्सदृशाः कामयसेऽभिलषसे' इत्युक्त्वेत्यभिधाय चन्द्रस्य शशाङ्कस्याभिमुखीभूत्वा संमुखीभूय कृताञ्जलिः संयुतकरद्वया पुनरवदमब्रवम् । 'पाणिः प्रसृतः प्रसृतिस्तौ युतौ पुनरञ्जलिः' इति हैमः । हे भगवन् हे माहात्म्यवन्, हे परमेश्वर परमैश्वर्यवन्, हे सकलभुवनचूडामणे समग्रविष्टपशिरोमणे, हे लोकपाल जगद्रक्षक, यदि मया महाश्वेतया देवस्य पुण्डरीकस्य दर्शनाप्रभृति तदवलोकनदिवसादारभ्य मनसापि चित्तेनाप्यपरस्तदन्यः पुमान चिन्तितो न ध्यातः, तत्तस्माद्धेतोरनेन सत्यवचनेनायं पुरःस्थोऽलीककामी मिथ्याकामवान्मदुदीरितायामेव मदुक्तायामेव जातौ जन्मनि पततु गच्छत्विति । 'जातिः सामान्यजन्मनोः' इत्यमरः। - - - - - - - - - - - -
-- - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'केनापि एतावन्मात्रस्य कारणेनेत्यर्थोऽसंगतः । वस्तुतस्तु - 'येनैवं खलु हतविधिना समुपदर्शितवदनरागः' इत्येव पाठः । अर्थस्तु स्पष्टः । 2 'येनैकान्तहासहेतु वदन् क्रोधमपि इति पाठः । एकान्तहासहेतु इति वदनिति क्रियाया विशेषणम् । 3 त्वदुक्तेः त्वत्कथनाइःखिताहं ते संविभागं दण्डमिम करोमीत्यर्थः ।
पाठा० . १ आहृतः; अपहृतः. २ पयसा. ३ धात्र्या रसातलम्. ४ लोकत्रये. ५ हतविधिना. ६ समुपदर्शितवदनरागः. ७ किमिति; किमु. ८ क्षिप्तः. ९ येन. १० हासहेतुं बदन्. ११ त्वहुरुक्तेस्तेऽहम्. १२ अस्मद्विधा.
(वैशम्पायनस्य तिरस्कारः
उत्तरभागः।
Page #143
--------------------------------------------------------------------------
________________
मद्वचसोऽस्यानन्तरमेव च न वेद्मि किमसह्यवृत्तेर्मदनज्वरस्यावेगात्, उत सद्योविपाकस्यात्मनो दुष्कृतस्य गौरवात्, आहोस्विन्मद्वचसः सामदेिव छिन्नमूलस्तरुरिवाचेतनः क्षितावपतत् । अतिक्रान्तजीवितेऽस्मिन्कृतोक्रन्दान्तर्जनाच्छुतवती यथासौ महाभागस्यैव मित्रं भवति" इत्युक्त्वा च त्रपावनम्रमुखी महीं महीयसाश्रुवेगेन तूष्णीमेवाप्लावितवती ।
चन्द्रापीडस्य तु तदाकर्ण्य कर्णान्तायतलोचनद्वयामीलनमग्नदृष्टेभ्रष्टवचनसौष्ठवस्य 'भगवति, कृतप्रयत्नायामपि भगवत्यामपुण्यभाजास्मिञ्जन्मनि मया न प्राप्तं देव्याः कादम्बर्याश्चरणपरिचर्यासुखम्, तज्जन्मान्तरेऽपि मे भगवती संपादयित्री भूयात्' इति गदत एव कादम्बरीसमागमाप्राप्तिदुःखेनेव भेदोन्मुखं मुकुलमिव शिलीमुखाघातात्स्वभावसरसं हृदयमस्फुटत् ।
अथ महाश्वेतायाः शरीरमुत्सृज्य संभ्रमप्रतिपत्रचन्द्रापीडशरीरायां 'भर्तृदारिके, किं लज्जया । पश्य तावदन्यथैव कथमप्यास्ते देवश्चन्द्रापीडोऽयम् । भग्नेवास्य ग्रीवा न मूर्धानं -
***********
अस्य मढेचसोऽनन्तरमेव न वेद्मि न जाने । असह्यासहनीया वृत्तिर्वर्तनं यस्यैवंविधस्य मदनचरस्य कामसंतापस्य वेगात् । उत इति वितर्के । सद्यस्तत्कालं विपाकोऽनुभवनं यस्यैवंविधस्यात्मनः स्वकीयस्य दुष्कृतस्य पापस्य गौरवाद्गुरुत्वात् । आहोस्विद्वितर्के । वचस एव सामर्थ्याच्छक्तेरेव छिन्नं छेदितं मूलं बुनं यस्यैवंभूतस्तरुरिव वृक्ष इवाचेतनश्चेतनारहितः क्षितौ पृथिव्यामपतत् । अस्मिन्वैशम्पायनेऽतिक्रान्तजीविते च गतप्राणिते च सति कृताक्रन्दा विहितार्तस्वरान्त नान्मध्यजनाच्छुतवत्याकर्णितवती । यथासौ महाभागस्य महापुरुषस्य मित्रं वयस्यो भवति इत्युक्त्वेत्यभिधाय च त्रपया लज्जयावननं मुखं यस्याः सैवंविधा महीयसा गरीयसाश्रुवेगेन नेत्राम्बुप्रवाहेण तूष्णीमेव महीमाप्लावितवती ।
चन्द्रापीडस्य तु तदाकर्ण्य श्रुत्वा हृदयमस्फुटदित्यन्वयः । कीदृशस्य । कर्णं यावदायतं विस्तीर्णं यल्लोचनद्वयं तस्यामीलनं मुद्रणं तेन मग्ना दृष्टिर्यस्य स तथा तस्य । भ्रष्टं नष्टं वचनस्य वचसः सौष्ठवं शोभनत्वं यस्य स तथा तस्य । किं कुर्वतः । इति गदत इति ब्रुवतः । इतिद्योत्यमाह - भगवतीति । हे भगवति हे देवि, कृतप्रयत्नायामपि विहितोद्यमायामपि भगवत्यामपुण्यभाजा पापभाजास्मिञ्जन्मनीह भवे देव्याः कादम्बर्याश्चरणपरिचर्यासुखं क्रमसेवासातं न प्राप्तं तज्जन्मान्तरेऽप्यन्यभवेऽपि मे मम भगवती भवती संपादयित्री जनयित्री भूयादितीवोत्प्रेक्षते । कादम्बरीसमागमस्याप्राप्तिदुःखेनेव भेदोन्मुखं प्रस्फुटनोन्मुखं मुकुलमिव कुङ्मलमिव शिलीमुखस्याघाताद्भमराभिघातात् । यथा भ्रमराभिघातात्कुङ्मलं भेदोन्मुखं स्फुटति, तथैव चन्द्रापीडस्य तच्छ्रुत्वा स्वभावेन प्रकृत्या सरसं कोमलं हृदयमस्फुटदिति भावः ।
अथेति । हृदयस्फोटानन्तरं महाश्वेतायाः शरीरमुत्सृज्य विमुच्य संभ्रमेणादरेण प्रतिपन्नमङ्गीकृतं चन्द्रापीडस्य शरीरं यया सा तथा तस्याम् । इत्युक्त्वेत्यभिधाय मुक्तं परित्यक्तमार्तं पीडितं वचो यया सा तथा तस्यां तरलिकायां सत्याम् । इतियोत्यमाह - हे भर्तृदारिके इति । हे महाश्वेते, किं लज्जया त्रपया । तावदादौ पश्य विलोकय । अयं देवश्चन्द्रापीडोऽन्यथैवेतरप्रकारेणैव कथमप्यास्ते तिष्ठति । अस्य चन्द्रापीडस्य ग्रीवा -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'स तु मदचसोऽस्यानन्तरमेव इति पाठः । स वैशम्पायनः । 2 'कृताक्रन्दात्तत्परिजनाच्छुतवती इत्येव पाठः । 3 मया । 4 भूयादिति आशीर्लिङा भगवतस्तदिदं काम्यते ।
पाठा० - १ स च मे वचसोऽस्यानन्तरमेव; स तु मवचनानन्तरम्. २ आच्छिन्नमूलः. ३ अपक्रान्त. ४ च तस्मिन्. ५ कृताक्रन्दात्तत्परिजनाछुतवती; कृताक्रन्दात्तत्परिजनतः श्रुतम्. ६ प्लावितेन. ७ तत्तत्. ८ ससंभ्रम. ९ चन्द्रापीडः. १० भग्नैव.
616
(कादम्बरी।
कादम्बरी।
कथायाम्
Page #144
--------------------------------------------------------------------------
________________
धारयति । विचालितोऽपि न किंचिच्चेतयते । नान्तःप्रविष्टतारके समुन्मीलयति विलोचने । नायं यथावस्थितानां गात्राणामावरणं करोति । नोच्छसिति हृदयेन । हे देव चन्द्रापीड, चन्द्राकृते, कादम्बरीप्रिय, क्वेदानीं त्वया विना गम्यते इत्युक्त्वा मुक्तार्तवचसि तरलिकायाम, तिर्यगाभुग्नचन्द्रापीडमुखनिहितनिखिलस्तब्धदृष्टिनिश्चेष्टायां महाश्वेतायाम्, 'आः पापे दुष्टतापसि, किमिदं त्वया कृतम् । अपाकृताखिलजगत्पीडस्य तारापीडस्य कुलमुत्सारितम् । अनाथीकृताः प्रजाः सहास्माभिः । भग्नाः पन्थानो गुणानाम् । अर्गलिताः ककुभोऽर्थिलोकस्य । कस्य वदनमीक्षता लक्ष्मीः ? कोऽवलम्बनं भवतु भूमेः ? के सेवन्तां सेवकाः ? त्वया विना संप्रति व्यसनमेव सेवा संवृत्ता । वृत्तं समानशीलत्वम् । अस्तमिता चे परिजनश्लाघा । लघूकृतो भृत्यादरः । दूरं गतानि प्रियलपितानि । समाप्ताः परित्यागकथाः । त्वं कथं कथावशेषीभूतोऽसि ? भूतपूर्वाः कमुपयान्तु संप्रति प्रजाः ? क्व संप्रति साधूनां -
***********
कंधरा भग्नेव त्रुटितेव मूर्धानं शिरो न धारयति न धत्ते । विचालितोऽपि परावर्तितो न किंचित् चेतयते न संज्ञा लभते । अन्तर्मध्ये प्रविष्टे तारके कनीनिके ययोरेवंविधे विलोचने नेत्रे न समुन्मीलयति न विकासयति । अयं यथावस्थितानां गात्राणामङ्गानां नावरणमाछादनं करोति । हृदयेन भुजान्तरेण नोच्छ्रसिति नोच्छासं गृह्णाति । हा इति खेदे । हे देव हे पूज्य, हे चन्द्रापीड, चन्द्रवच्छशाङ्कवदाकृतिराकारो यस्य तस्य संबोधनं हे चन्द्राकृते, हे कादम्बरीप्रिय हे गन्धर्वसुताप्राणप्रिय, त्वया विना भवद्व्यतिरेकेण मया वेदानीं सांप्रतं गम्यत इति । तिर्यगाभुग्ना वक्रा चन्द्रापीडमुखे निहिता स्थापिता निखिला समग्रा स्तब्धा निश्चला दृग्यया सा तस्यामेवंविधायां निश्चेष्टायां निर्गतशरीरव्यापारायां महाचेतायां सत्याम्, इति परिजने सेवकजन आरटति पूत्कुर्वति सति । इतियोत्यमाह - आः पापे इति । आः इति खेदे । पापे पापकारिणि दुष्टतापसि, त्वया भवत्येदं किं कृतं किं विहितम् । अपाकृता दूरीकृताखिलजगतः समग्रविश्वस्य पीडा येनैवभूतस्य तारापीड़स्य कुलं वंश उत्सारितं उच्छेदितम् । दूरीकृतमिति यावत् । अस्माभिः सह प्रजाः प्रकृतयोऽनाथीकृता विनायकीकृताः । वयमप्यनाथीभूता इत्यर्थः । गुणानां शौर्यादीनां पन्थानो मार्गा भग्ना भ्रंशं प्राप्तः । अर्थिलोकस्य याचकजनस्य ककुभो दिशोऽर्गलिताः कृतपरिघाः संजाताः । लक्ष्मीः पद्मा कस्य वदनमीक्षतां विलोकताम् । भूमेः पृथिव्याः को वाव लम्बनमालम्बनं भवतु । सेवकाः सपकारिणः कं पुमांस सेवन्तामुपासन्ताम् । त्वया विना भवद्विना सेवा सपर्या संप्रति व्यसनमेव कष्टमेव संवृत्ता जाता । समानशीलत्वं सदृशस्वभावत्वम् । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । वृत्तमतीतम् । 'वृत्तं पद्ये चरित्रे निष्वतीते दृढनिश्चले' इत्यमरः । परिजनस्य परिच्छदस्य श्लाघा प्रशंसास्तमितास्तं प्राप्ता । भृत्यानां किंकराणामादरः सन्मानप्रदानं लघुकृतः स्वल्पीकृतः । प्रियलपितानि मिष्टभाषितानि दूरं गतानि दविष्ठदेशं प्राप्तानि । परित्यागकथा दानकिंवदन्त्यः समाप्ताः । विलयं गता इत्यर्थः । त्वमिति । चन्द्रापीडः कथं केन प्रकारेण कथावशेषीभूतः कथा एवावशेषोऽवशिष्टा यस्मिन्नेवभूतो जातोऽसि । पूर्वं भूता भूतपूर्वाः संप्रति प्रजाः कमुपयान्तु कमाश्रयन्तु । क्व साधूनां सज्जनानां संप्रति समाधानं चित्तप्रमोदजन -
-- - - - - - - - •- - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'निश्चेष्टायामेव महाचेतायाम् इत्येव पाठः । 2 'युवराज ! त्वया विना०' इति पाठः । 3 'अस्तमिता च परिजनकथा' इति पाठः ।
-
पाठा० - १ विचलितः. २ किंचिदपि. ३ लोचने. ४ यथास्थितानाम्; यथावस्थितपतितानाम्. ५ ईष्टे. ६ नमनागप्युच्छसित्येव. ७ उक्त्वा उन्मुक्तार्तबचसि; इत्युन्मुक्तार्तवचसि. ८ निश्चल. ९ त्वयापकृपया. १० अपाकृत; अकृत. ११ उत्सादितम्. १२ उद्दीक्षताम्. १३ वृत्ता. १४ निवृत्तम्. १५ अश्रान्तपरिजन. १६ समाप्ता परित्यागकथा; पर्याप्ता परित्यागवार्ता. १७ सांप्रतम्. १८ प्रज्ञाः. १९ किम्.
(वैशम्पा०मृत्युः, चन्द्रा० हृदयस्फोटः )
उत्तरभागः।
1617)
Page #145
--------------------------------------------------------------------------
________________
समाधानम् ? अधुना धूधरे त्वयि विपन्ने कः समुद्बहतु देवेन तारापीडेनोढां धुरम् ? धीरस्यापि ते कथं कातरस्येव शुचा भिन्न हृदयम् ? दयालोरपि केयमयेदृशी जाता निर्दयतास्मासु ? देव, प्रसीद सकृदप्याज्ञापय ? देहि भक्तजनस्याभ्यर्थनाम् । प्रतिपद्यस्व प्राणान् । न त्वया विना क्षणमपि प्राणिति पुत्रवत्सलो देवस्तारापीडः, न देवि विलासवती, नोप्यायः शुकनाशः, न मनोरमा, न राजानः, नापि प्रजाः । परित्यज्य च सर्वानेकाकी क्व प्रस्थितोऽसि ? कुतस्तवेयमेकपद एवेदृशी निष्ठुरता जाता ? क्व सा गुरुजनस्योपरि भक्तिर्यदेवमनपेक्ष्य प्रयासि' इत्युक्तवत्यवनितलविमुक्तात्मन्यारटति परिजने, तदाकर्णनोत्कर्णे ‘हा हा, किमेतत्' इत्युभ्रान्तमनसि समापतति राजपुत्रलोके, समुस्लुतोत्पक्ष्मनयनदर्शिनि चन्द्रापीडवदननिवेशितदृशि दीनतरहेषारवकृताक्रन्दे शुचेव पर्यायोत्क्षिप्तखुरचतुष्काहतक्ष्मातले मुहुर्मुहुरात्मोन्मोचनायेवाच्छोटितखरखलीनकनकश्रृङ्खलायोगे तुरंगमतां मुमुक्षतीवेन्द्रायुधे, पत्रलेखानिवेदितचन्द्रापीडागमना चन्द्रोदयोल्लासिनी वेलेव महोदधेः समकरध्वजा, व्याजीकृत्य -
***********
नम् । अधुना धूधरे राज्यभारधरणक्षमे त्वयि भवति विपन्ने मृते देवेन तारापीडेनोढां धुरं कः समुद्बहतु को दधातु । धीरस्यापि वीरस्यापि ते कथं कातरस्येव भीरोरिव शुचा शोकेन भिन्न स्फुटितं हृदयं भुजान्तरम् । दयालोरपि कृपालोरपि ते तव तेयमयेदृशी निर्दयता निष्करुणता जातोत्पन्नास्मासु सेवकजनेषु । हे देव, प्रसीद प्रसन्नो भव । सकृदप्येकवारमप्याज्ञापयाज्ञां देहि । भक्तजनस्याभ्यर्थनां प्रार्थनां देहि वितर । प्रतिपद्यस्वाङ्गीकुरुष्व प्राणानसून । त्वया विना भवब्यतिरेकेण क्षणमपि समयमात्रमपि पुत्रवत्सलस्तारापीडो न प्राणिति । न जीवतीत्यर्थः तथा देवी विलावसती न प्राणितीत्यस्य सर्वत्र संबन्धः । नाप्यायः पूज्यः शुकनासः । न मनोरमा शुकनासस्य स्त्री । नान्ये राजानः कियद्ग्रामाधिपतयः । न प्रजाः प्रकृतयः । परित्यज्य च विहाय च सर्वानेकाक्यसहायः क्व प्रस्थितः क्व चलितोऽसि । कुतः कस्मात्तवेयमेकपद एव सहसैवेदृशी निष्ठुरता कठिनता जाता । क्व साऽनिर्वचनीयस्वरूपा गुरुजनस्योपरि पूज्यलोकस्योपरि भक्तिराराध्यत्वेन ज्ञानं श्रद्धा वा । 'श्रद्धारचनयोक्तिः ' इत्यमरः । यद्यस्मादेवं ताननपेक्ष्यानादृत्य प्रयासीत्युक्तवत्यवनितले विमुक्तो न्यस्त आत्मा येन स तस्मिन्नेवभूते परिजन आरटत्याक्रन्दं कुर्वति सति । तस्याकर्णनं श्रवणं तेनोत्कर्ण ऊर्चीकृतश्रवणे । हा हा इति खेदे । किमेतदेतत्किमित्युभ्रान्तं व्याकुलं मनो यस्य स तस्मिन्नेवभूते राजपुत्रलोके समापतति समागच्छति सति । समुत्प्लुते नम्रीभूते उत्पक्ष्मणी ययोरेवंभूताभ्यां नयनाभ्यां पश्यतीत्येवंशीलः स तथा तस्मिन् । चन्द्रापीडस्य वदने मुखे निवेशिता स्थापिता दृग्येन स तथा तस्मिन् । दीनतरं यथा स्यात्तथा हेषारवेण ह्वेषाध्वनिना कृत आक्रन्दः पूत्कृतिर्येन स तथा तस्मिन् । शुचेव शोकेनेव पर्यायेणानुक्रमेणोत्क्षिप्तमुत्पाटितं यत्खुरचतुष्कं तेन हतं मातलं येन तस्मिन् । मुहुर्मुहुवरिवारमात्मनः स्वस्योन्मोचनाय मुक्तय इवाच्छोटितं खरं कठिनं खलीनं मुखयन्त्रणं कनकश्रृङ्खलायोगो येन स तस्मिन् । 'कविका तु खलीनोऽस्त्री' इत्यमरः । तुरंगमतामवतां मुमुक्षतीव मोक्तुमिच्छतीवेन्द्रायुधे । पत्रलेखया निवेदितं ज्ञापितमेकमद्वितीयं चन्द्रापीडागमनं यस्याः सा । चन्द्रोदयेनोल्लसतीत्येवंशीला सा - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'अवधेहि (अवधानेन शृणु) भक्तजनाभ्यर्थनाम् इति पाठः । 2 आच्छोटितः संछिन्नः खरस्य खलीनस्य कविकायाश्च शृङ्खलायोगो येन, इत्यर्थः । 3 अमूला सेयं व्याख्या ।
पाठा० - १ धीर. त्वयि; धूधर त्वयि. २ शरीरम्. ३ अस्मासु ते. ४ अवधेहि. ५ भक्तजनाभ्यर्थनाम्. ६ नार्यशुकनासः. ७ अनपेक्ष्य. ८ तदाकर्योत्कर्ण्य. ९ उद्घान्ते राजपुत्रलोके. १० समुल्ललित.
618
कादम्बरी।
कथायाम्
Page #146
--------------------------------------------------------------------------
________________
महाश्वेतादर्शनं मातापित्रोः पुरः प्रतिपन्नश्रृङ्गारवेषाभरणा, रणनपुरयुगेन मुखरमेखलादाम्नारम्योज्ज्वलाकल्पेन कल्पितानङ्गबलविभ्रान्तिना गृहीतसुरभिमाल्यानुलेपनपटवासाद्युपकरणेन नातिबहुना परिजनेनानुगम्यमाना, पुरः केयूरकेणोपदिश्यमानमार्गा, पत्रलेखाहस्तावलम्बिनी, मदलेखया सह कृतालापा - ‘मदलेखे, पत्रलेखा कथयति प्रत्यहमहं पुनस्तस्यैकान्तनिष्ठुरहृदयस्य शठमतेर्निर्पणमनसो निःस्पृहागमनमेव न श्रद्दधे । किं न स्मरसि तत्तस्य मदवस्थामश्रद्दधानस्य हिमगृहके मंद्धितविमर्शाय दुर्विदग्धबुद्धेर्वक्रभाषितम्, यत्र सस्मितमालोकितया त्वयैवास्मै सुतरामेवासंशयकारि प्रत्युत्तरं दत्तम् । तदसौ मरणेऽपि मे न श्रद्दधात्येवेमामव -
***********
तथा महोदधेः समुद्रस्य वेलेवाम्भसो वृद्धिरिव । सह मकरध्वजेन कामेन वर्तत इति समकरध्वजा । मातापित्रोः पुरो महाश्वेतादर्शनं व्याजीकृत्य मिषीकृत्य प्रतिपत्रेऽङ्गीकृते श्रृङ्गारवेषाभरणे उज्ज्वलनेपथ्यभूषणे यया सा तथा । रणशब्दं कुर्वन्यन्नपुरयुगं पादकटकयुग्मं तेन मुखरं वाचालं यन्मेखलादाम काञ्चीदाम तेन रम्यं मनोहरमुज्ज्वलं निर्मलं यदाकल्पं वेषस्तेन । 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः । कल्पिता .घटितानङ्गबलस्य कामसैन्यस्य विभ्रान्तिर्धमो येन स तथा तेन । गृहीतान्यात्तानि सुरभिमाल्यानि सुगन्धसजोऽनुलेपनं विलेपनम्, पटवासः पिष्टातः, एते आदौ येषामेवंविधान्युपकरणानि येन स तथा तेन । नातिबहुना नातिभूयसा परिजनेन परिच्छदेनानुगम्यमानानुयायमाना । पुरोऽग्रे केयूरकेणोपदिश्यमानः प्रदर्यमानो मार्गः पन्था यस्याः सा । पत्रलेखानाम्नी ताम्बूलकरण्डकवाहिनी तस्या हस्तं करमवलम्बतीत्येवंशीला मदलेखया सह कृतो विहित आलापो यया सा । तदेवाह - हे मदलेखे इति । हे मदलेखे, पत्रलेखा प्रत्यहं कथयति ब्रवीति । अहं पुनस्तस्य चन्द्रापीडस्यैकान्तेन निष्ठुरं हृदयं यस्य शठा निकृता मतिः बुद्धिर्यस्य स तस्य निघृणं निर्दयं मानो यस्य स तथा तस्य निःस्पृहागमनमेव केवलमदर्थागमनमेव न श्रद्दधे न मन्ये । त्वं तत्किं न स्मरसि न स्मृतिगोचरीकरोषि । तस्य चन्द्रापीडस्य मदवस्था मदीयदशामश्रद्दधानस्यास्थामकुर्वाणस्य हिमगृहके मद्धितैविमर्शाय दुर्विदग्धबुद्धेरचतुरमतेर्वक्रभाषितं वक्रोक्तिजल्पितं विमर्शय विचारय यत्र सस्मितं सहास्यं यथा स्यात्तथालोकितया निरीक्षितया त्वयैवास्मै चन्द्रापीडाय सुतरामेवात्यन्तमेवासंशयकारि अनारेकाकृत्प्रत्युत्तरं प्रतिवचो दत्तम् । तदसौ -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 समुद्रवेला मकररूपेण ध्वजेन सहिता, कादम्बरी तु सकामा । 2 इमानि सर्वाणि 'परिजनेन इत्यस्य विशेषणानि । अत एव 'रणत् नूपुरयुगं यस्य' इत्यादिर्बव्रीहिः सर्वत्रोचितः । 3 'निस्पहस्यागमनमेव इति पाठः । 4 'मद्विमर्शाय' इति पाठः । मम गवेषणाय 'अहं तदनरागिणी आ मद्विषयकनिश्चयाय दुर्विदग्धबुद्धेः शठमतेः (प्रयोजितकूटमतेरिति भावः) । 5 वक्रभाषितं तत्किं न स्मरसि ? इति संबन्धः । 'विमर्शय' इति तु निर्मूलः शब्दयोगः । 6 असंशयकूदुत्तरदानं शोभते किमु विदग्धगोष्ठ्याम् ? 'संशयकारि' इत्येव पाठः । तत्र कविशिरोमणिना बाणेन मदलेखाया व्यर्थतया संशयात्मकमेवोत्तरमुपनिबद्धम् - 'कुमारभावोपेतायाः किमिवास्या यन्त्र संतापाय' इत्यादि ।
पाटा० - १ कादम्बरीदर्शनम्. २ नपुरेण; नपुरयुगा. ३ दामा. ४ वाससा. ५ विभ्रमेण. ६ अपदिश्यमान. ७ अन्यत्. ८ निघृणस्यागमनम्; निस्त्रिंशस्यागमनम्; नृशंसस्यागमनम्. ९ मद्विमर्शाय. १० संशयकारि. ११ एवेमावस्थाम; एवमवस्थाम्.
कादम्बर्यास्तत्रागमनम्
उत्तरभागः।
1619
Page #147
--------------------------------------------------------------------------
________________
स्थाम् । अन्यथा यदि मदर्थे दुःखमेवमियमनुभवतीत्येतदस्याभविष्यत्तदा तथा गमनमेव नाकरिष्यत् । तथागतोऽप्यसौ यत्किमपि वक्तव्यस्त्वयैव । मया पुनर्दृष्टोऽपि नालपितव्यो नोपालब्धव्यो न चरणपतितस्याप्यनुनयो ग्राह्यो नाहं प्रियसख्या प्रसादनीया' इत्यभिदधानवाचेतितागमनखेदा कादम्बरी चन्द्रापीडदर्शनायोत्ताम्यन्ती तत्रैवाजगाम ।।
आगम्य चोद्धृतामृतमिव रत्नाकरम्, इन्दुविरहितमिव निशाप्रबन्धम्, अस्तमिततारागणमिव गगनम्, अपचितकुसुमशोभमिवोपवनम्, उत्खातकर्णिकमिव कमलम्, उत्खण्डिताङ्कुरमिव मृणालम्, अवलुप्ततरलमिव हारम्, उन्मुक्तजीवितं चन्द्रापीडमद्राक्षीत् । दृष्ट्रा च तं सहसा 'हा किमिदम्' इत्यधोमुखी धरातलमुपयान्ती कथंकथमपि मुक्ताक्रन्दया मदलेखयाधार्यत । पत्रलेखा पुनरुन्मुच्य कादम्बरीकरतलमचेतना क्षितिमुपागमत् । चिराँच्च लब्धसंज्ञापि कादम्बरी तथैव मूढेव निश्चलस्तब्धदृष्टिाविष्टेव, स्तम्भितेव, निष्प्रयत्ना, निःश्वसितुमपि विस्मृता, अन्तर्मन्युभारनिष्पन्देव चन्द्रापीडवदनसमर्पिताक्षी, श्यामारुणानना ग्रहोपरक्तेन्दु -
***********
मरणेऽपि मे ममेमामवस्थां न श्रद्दधात्येव न चेतस्यवबुध्यते । अन्यथोक्तविपर्यये । यदि मदर्थे चन्द्रापीडनिमित्तमेवेयं कादम्बरी दुःखमनुभवत्यनभवविषयीकरोतीत्येतदस्य चन्द्रापीडस्याभविष्यत्तदा तथा गमनमेव तादशगमनमेव नाकरिष्यत । तथागतोऽपि तेन प्रकारेणागतोऽप्यसौ चन्द्रापीडो यत्किमपि त्वयैव भवत्यैव वक्तव्यो मया पुनर्दृष्टोऽपि निरीक्षितोऽपि नालपितव्यो न संभावितव्यः । नोपालब्धव्यो नोपालम्भो दातव्यः । चरणपतितस्यापि पादप्रणतस्याप्यनुनयः प्रणामो न ग्राह्यो न ग्रहीतव्यः । नाहं प्रियसख्या वल्लभवयस्यया प्रसादनीया प्रसन्नीकार्या । इत्यभिदधानैवेतिब्रुवाणैवाऽचेतितागमनखेदाऽज्ञातागमनसादा कादम्बरी चन्द्रापीडस्य दर्शनाय वीक्षणायोत्ताम्यन्त्युप्राबल्येन खेदं कुर्वन्ती तत्रैव महाश्वेताश्रमं आजगाम ।
आगम्य चागमनं कृत्वैव चोन्मुक्तजीवितं त्यक्तप्राणितं चन्द्रापीडमद्राक्षीद् व्यलोकयत् । कः कमिवेत्यपेक्षायामाह - उद्धृतेति । उद्धृत गृहीतममृतं पीयूषं यस्मादेवंभूतं रत्नाकरमिव समुद्रमिव । इन्दुना चन्द्रेण विरहितं वियुक्तं निशाप्रबन्धमिव रात्रिसंबन्धमिव । अस्तमितोऽस्तप्राप्तस्ताराणां नक्षत्राणां गणो यस्मिनेतादृशं गगनमिव व्योमेव अपचिता दूरीकृता कुसुमशोभा पुष्पलक्ष्मीर्यस्मादेवभूतमुपवनमिवाराममिव । उत्खाता त्रोटिता कर्णिका बीजकोशो यस्मादेतादृशं कमलमिव पद्ममिव । उत्खण्डिता उच्छेदिता अङ्कुरा अङ्करा यस्यैवंविधं मृणालं कमलमिव । अवलुप्तो दूरीकृतस्तरलो मध्यमणिर्यस्मादेतादृशंहारमिव मुक्ताकलापमिव । 'तरलश्चञ्चलेखङ्गे हारमध्यमणावपि इति विश्वः । चन्द्रापीडमद्राक्षीदित्यन्वयस्तु पूर्वोक्त एव । दृष्ट्वा च तं चन्द्रापीडं सहसैकपदे । हा इति खेदे । किमदमित्यधोमुखी नीचैर्मुखी धरातलं पृथ्यास्तलमुपयान्ती गच्छन्ती कथंकथमपि महता कष्टेन मुक्ताक्रन्दयापि विहितफत्कृत्यापि मदलेखयाधार्यत धृता । पत्रलेखा पुनः कादम्बरीकरतलमुन्मुच्य त्यक्त्वा क्षितिं वसुधामुपागमत्याप्तवती । चिराच्च बहुकालेन लब्धा प्राप्ता संज्ञा चेतना यया सैवंभूतापि कादम्बरी तथैव तस्थाविति दूरेणान्वयः । कादम्बरी विशेषयन्नाह - मूढेति । मूढेव मूर्छितेव निश्चला निमेषरहितात एव स्तब्धा दृष्टिर्यस्याः सा तथा । आविष्टेव भूतग्रस्तेव स्तम्भितेवावरुद्धेव । अतएव निष्प्रयत्ना(पि) निरुद्यमा निःश्वसितुमपि निःश्वासं ग्रहीतुमपि विस्मृता विस्मरणं गता । अन्तर्मन्युभारः शोकसंभारस्तेन निष्पन्देव निश्चेष्टेव चन्द्रापीडवदने समर्पिते दत्ते -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'अन्यच्च' इत्युचितः पाठः । 2 'एतदस्य चेतस्यभविष्यत्' इति पाठः । 3 अनुनयो मानवत्याः प्रसादनम् । प्रणामार्थस्तु पुंगवत्वमेव । पाटा० - १ अन्यच्च. २ अस्य चेतस्यभविष्यत्. ३ तत्र गतः. ४ आगत्य. ५ अवचित. ६ फलकुसुम. ७ मृणालिनीम्. ८ तरलमणिम्. ९ संक्रन्दया. १० उपागता. ११ अचिरात्. १२ विस्मृत्यार्थ. १३ सदानिताक्षी.
620
कादम्बरी।
कथायाम्
Page #148
--------------------------------------------------------------------------
________________
बिम्बेव पौर्णमासी निशा, निशितपरशुपातोत्कम्पिनी लतेव वेपिताधरकिसलया, लिखितेव स्त्रीस्वभावविरुद्धेन चेतसा तस्थौ । तथावस्थितां च तामुन्मुक्तार्तनादा सपादपतनं मदलेखाब्रवीत् - 'प्रियसखि, प्रसीद । उत्सृजेमं मन्युसंभारमरटैन्ती । बाष्पमोक्षेणामुच्यमानेऽस्मिन्नियतर्मेतिभारोत्पीडितं तटाकमिव सरेसमृदु नियतं सहस्रधा स्फुटति ते हृदयमित्यपेक्षस्व देवीं मदिरां देवं च चित्ररथम् । त्वया विना कुलद्वयमपि नास्ति इत्युक्तवती मदलेखां कादम्बरी विहस्याब्रवीत् ‘अय्युर्मत्तिके, कुतोऽस्य मे वज्रसारकठिनस्य हतहृदयस्य स्फुटनम्, येन्नालोक्यैवं सहसधा स्फुटितम् । अपि च या जीवति तस्याः सर्वमिदम्, माता पिता बन्धुरात्मा सख्यः परिजन इति । मया पुनर्ह्रियमाणया जीवितभूतं कथंकथमपि समासादितमिदं प्रियतमशरीरं यज्जीवदजीवद्वा संभोगेनानुमरणेन वा द्विधापि सर्वदुःखानामेवोपशान्तये । तत्किमिति देवेनागच्छता मदर्थं प्राणांश्चोत्सृजता सुदूरमारोपितं गुरुतां च नीतमात्मानमश्रुपात -
अक्षिणी चक्षुषी यया सा तथा शुचा श्यामं क्रोधेनारुणं रक्तमाननं मुखं यस्याः सा तथा । केव । ग्रहेण राहुणा राहुग्रासेनोपरक्तमिन्दुबिम्बं चन्द्रमण्डलं यस्यामेवंविधा पौर्णमासीनिशेव । निशितस्तीक्ष्णो यः परशुः कुठारस्तस्य पातः पतनं तेनोत्कम्पितुं शीलं यस्याः सा तथैतादृशी लतेव वल्लीव । वेपितः कम्पितोऽधरकिसलय ओष्ठपल्लवो यस्याः सा तथा । लिखितेव चित्रितेव स्त्रीस्वभावश्चञ्चलप्रकृतिस्तस्या विरुद्धेन स्थैर्येण चेतसा चित्तेन तस्थावित्यन्चयस्तु पूर्वमेवोक्तः । तथावस्थितां तेन प्रकारेणासेदुषीं च तां कादम्बरीमुन्मुक्त आर्तनादः करुणध्वनिर्यया सैवंभूता मदलेखा सपादपतनं यथा स्यात्तथाब्रवीदवोचत् । किं तदित्याह - प्रियेति । हे प्रियसखि, प्रसीद प्रसन्ना भव । इमं मन्युसंभारमुत्सृज त्यज । किं कुर्वन्ती । अरटन्ती रुदनमविदधती । बाष्पमोक्षेण कृत्वास्मिन्मन्युभारेऽमुच्यमानेऽतिभारेणातिवीवधेनोत्पीडितं दुःखितं सरसं च तन्मृदु च सरसमृदु । रसोपयुक्तं सुकुमारं चेत्यर्थः । तटाकमिव कासार इव नियतं निश्चितं ते तव हृदयं भुजान्तरं सहसधा स्फुटति । भविष्यद्वर्तमाना । स्फुटिष्यतीत्यर्थः । तटाकमपि रसः पानीयं तेन सुतं मृदु च स्यादिति तदुपमानम् । 'रसो जलं रसो हर्षः' इति कोषः । इति हेतोः । अवेक्षस्व विलोकय । देवीं मदिरां निजजननीं देवं च चित्ररथं स्वजनकम् । त्वया विना कुलद्वयमपि मातृपक्षः पितृपक्षश्च नास्ति न विद्यते । इत्युक्तवतीमिति निवेदितवतीं मदलेखां कादम्बरी विहस्य स्मितं कृत्वाब्रवीत् ।
1
अयि उन्मत्तिके, मे ममास्य वज्रस्य पवेः सारं मध्यं तद्वत्कठिनस्य कठोरस्य हतहृदयस्य कुतः स्फुटनं द्वैधीभावो यन्त्रैवमालोक्यं निरीक्ष्य सहस्रधा स्फुटितम् । अपि चेति युक्त्यन्तरे । या जीवति प्राणिति तस्याः स्त्रियो माता जननी, पिता जनकः, बन्धुः स्वजनः, आत्मा जीवः, सख्यो वयस्याः, परिजनः परिच्छद इति सर्वमिदं स्यात् । मया पुनः कादम्बर्या म्रियमाणया प्राणान्परित्यजन्त्या कथं कथमपि इदं प्रियतमशरीरं जीवितभूतं प्राणभूतं समासादितं प्राप्तं यज्जीवद्वाऽजीवद्वा संभोगेन मैथुनेनानुमरणेन वा सहगमनेन द्विधाप्युभयप्रकारेणापि सर्वदुःखानामेव समग्रकृच्छ्राणामेवोपशान्तये निवृत्तये । मदर्थं मत्कृते देवेन चन्द्रापीडेनाऽऽगच्छतागमनं कुर्वता प्राणांश्चासूंश्चोत्सृजता परित्यजता सुदूरमत्युच्चैरारोपितमारोहणं कारितम् । गुरुतां च नीतं महत्त्वं च प्रापितम् ।
टिप्प० - 1 ‘इति' पदं विरूपमेवात्र । 'स्फुटति ते हृदयमिदम् । अपेक्षस्व०... ' इत्युचितः पाठः ।
पाटा० - १ तथास्थितां तु. २ एनम् ३ आरटन्ती; अनारटन्टी. ४ अतिजलभार. ५ मृदुसरसम्. ६ हृदयमिदम् ७ अपि. ८ उन्मत्तके. ९ आलोक्यैव यत्र.
(अनुमरणार्थं विलापः
-
उत्तरभागः ।
621
Page #149
--------------------------------------------------------------------------
________________
मात्रेण लघुकृत्य पातयामि । कथं स्वर्गगमनोन्मुखस्य देवस्य रुदितेनामङ्गलं करोमि । कथं वा पादधूलिरिव पादावनुगन्तुमुद्यता हर्षस्थानेऽपि रोदिमि । किं मे दुःखमेवंविधम् । अधुना तु मे सर्वदुःखान्येव दूरीभूतानि । किमद्यापि रुद्यते । यदर्थं कुलक्रमो न गणितः, गुरवो नापेक्षिताः, धर्मो नानुरुद्धः, जनवादान्न भीतम्, लज्जा परित्यक्ता, मदनोपचारैः सखीजनः खेदितः, दुःखिता मे प्रियसखी महाश्वेता, तस्याः कृते प्रतिज्ञातमन्यथा जातं मयेत्येतदपि चेतसि न कृतम्, तस्मिन्मदर्थमेवोज्झितप्राणे प्राणेश्वरे, प्राणान्प्रतिपालयन्ती त्वयैवं किमुक्ताहम् । अस्मिन्समये मरणमेव जीवितम् । जीवितं पुनर्मरणम् । तद्यदि ममोपरि स्नेहं करोषि मत्प्रियं हितं वा, तन्ममोपरि स्नेहाबद्धयापि प्रियसख्या तथा कर्तव्यं यथा न तातोऽम्बा चे मच्छोकादात्मानं परित्यजतः, यथा च मयि, वाञ्छितं मनोरथं त्वयि पूरयतः, परलोकगताया अपि मे जलाञ्जलिदानाय पुत्रकस्त्वयिभवः । यथा च मे सखीजनः परिजनो वा न स्मरति, शून्यं वा मद्भवनमालोक्य न दिशो गृह्णन्ति तथा करिष्यसि ।
***********
ममात्मानमश्रुपातमात्रेण नेत्राम्बुनिर्गमनेन तत्किमिति किमर्थं लघूकृत्य पातयामि । स्वर्गगमन उन्मुखस्याभिमुखस्य देवस्य चन्द्रापीडस्य रुदितेनाश्रुपातेन कथममङ्गलमशिवं करोमि । पादधूलिरिव चरणरज इव पादावनुगन्तुमुद्यता कथं वा हर्षस्थाने रोदिमि रुदनं करोमि एवंविधं किं मे दुःखम् । अधुना तु मे मम सर्वदुःखान्येव दूरीभूतानि । किमद्यापि मया रुद्यते । यदर्थं यत्कृते कुलक्रमोऽन्वयस्थितिर्न गणितो नापेक्षितः । गुरवो हिताहितप्राप्तिपरिहारोपदेष्टारो नापेक्षिता न समीहिताः । धर्मो नानुरुद्धो न नियन्त्रितः । जनवादात्कौलीनान भीतं न त्रस्तम् । 'स्यात्कौलीनं लोकवादे' इत्यमरः । लज्जा त्रपा परित्यक्ता मुक्ता । मदनोपचारैः कामोपशमनक्रियाभिः सखीजनः खेदितः खेदं प्रापितः । दुःखिता पीडिता मे मम प्रियसखी महाश्वेता । तस्या महाश्वेतायाः कृते प्रतिज्ञातमङ्गीकृतं तदन्यथा वैपरीत्येन जातं मयेत्येतदपि चेतसि न कृतम् । मदर्थं कादम्बर्या एवोज्झितप्राणे त्यक्तजीविते तस्मिंश्चन्द्रापीडाख्ये प्राणेवरे प्राणानसून्प्रतिपालयन्ती रक्षन्ती त्वयैवं भवत्या किमुक्ताहं किं भणिता । अस्मिन्समये सांप्रतकाले मरणमेव जीवितं प्राणत्यागमेव प्राणितम् । जीवितं पुनर्मरणं प्राणत्यागः । त्रपाजनकत्वात् । तयदि ममोपरि स्नेहं प्रीति मत्प्रियं मदल्लभं हितमायतिसुन्दरं वा त्वं करोषि विदधासि तन्मम कादम्बर्या उपरि यः स्नेहः प्रेम तेनाबद्धया संदानितयापि प्रियसख्या वल्लभवयस्या (स्यया) तथा कर्तव्यं तथा विधेयं यथा तातचित्ररथोऽम्बा मदिरा च मच्छोकान्मदिरहजनितदुःखादात्मानं न परित्यजतः प्राणमोक्षणं न कुरुतः । यथा मयि वाञ्छितं मनोरथमभिलषितं कामं त्वयि पूरयतः परिपूर्णीकुरुतः । परलोकगताया अन्यभवं प्राप्ताया अपि मे मम जलाञ्जलिदानाय मृतस्य पानीयप्रदानायर्यायं पुत्रकस्त्वयि भवः । यथा च मे मम सखीजनः परिजनो वा परिच्छदलोको वा दुःखाभिभूतो भृत्यजनो न स्मरति न स्मृतिगोचरीकरोति । शून्यं रिक्तं वा मद्भवनं मद्गृहमालोक्य निरीक्ष्य दिशो न गृह्णन्ति । अन्यत्र न यान्तीत्यर्थः । त्वं मद -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 मदलेखया प्राणांस्त्यजन्ती एवमुक्ता, न तु प्रतिपालयन्ती । अत एव 'त्वयैव किं वक्ष्येऽहम्' इत्येव पाठः । 2 नीचैर्दत्ते पाठान्तरेऽपि सहृदयैर्देया दृष्टिः । 3 तन्ममोपरीत्यस्याऽऽब्रेडनं दृष्ट्वा पाठान्तरमनुसंधेयम् । 4 'अयम् कः ? अत एव नीचैः पाठान्तरमेव सम्यक् ।
पाठा० - १ जनापवादात्. २ मम. ३ अस्मिंस्तु. ४ मरणमेव श्रेयो न जीवितं मे सर्वप्रकारलज्जाकरं तु जीवितं न पुनर्मरणम्. ५ तन्मदीयमप्यात्मनि स्नेहमारोप्य. ६ वा. ७ अवाञ्छितम्. ८ येन परलोकगताया अपि मे जलाञ्जलिदायी पुत्रको भविष्यति. ९ वापि. १० भवनम्.
622
कादम्बरी।
कथायाम्
Page #150
--------------------------------------------------------------------------
________________
पुत्रकस्य मे भवनाङ्गणे सहकारपोतस्य त्वया मच्चिन्तयैव माधवीलतया सहोद्वाहमङ्गलं स्वयमेव निर्वर्तनीयम् । मच्चरणतललालितस्याशोकविटपस्य कर्णपूरार्थमपि न पल्लवः । खण्डनीयः । मत्संवर्तिताया मालत्याः कुसुमानि देवतार्चनायैवोच्चेयानि । वासभवने मे शिरोभागनिहितः कामदेवपटः पाटनीयः । मया स्वयं रोपिताश्चतवृक्षो यथा फलं गृह्णन्ति तथा संवर्धनीयाः । पञ्जरबन्धदुःखाद्वराकी कालिन्दी सारिका शुकश्च परिहासो द्वावपि मोक्तव्यौ । मदङ्कशायिनी नकुलिका स्वाङ्क एव शाययितव्या । पुत्रको मे बालहरिणस्तरलकः कस्मिंश्चित्तपोवने समर्पणीयः । पाणितलसंवर्धितं मे जीवजीवमिथुनं क्रीडापर्वते यथा न विपद्यते तथा केर्तव्यम् । पादसहसंचारी हंसको यथा न हन्यते केनचित्तथा विधेयैः । अपरिचितगृहवंसतिः सा च बलाद्विधृता तपस्विनी वनमानुषी वन एवोत्सष्टव्या । क्रीडापर्वतकः कस्मैचिदुपशान्ताय तपस्विने प्रतिपादयितव्यः । शरीरोपकरणानि मे ब्राह्मणेभ्यः प्रतिपादनीयानि । वीणा पुनरात्मन एवाङ्कप्रणयिनी कार्या । अपरमपि यत्ते रोचते तदपि स्वीकर्तव्यम् । अहं -
लेखा तथा करिष्यसीत्यर्थः । मे मम पुत्रकस्य भवनागणे सहकारपोतस्य त्वया भवत्या मच्चिन्तयैव मम चिन्तयैव माधवीलतयातिमुक्तकलतया सहोद्वाहमङ्गलं विवाहकल्याणं स्वयमेवात्मनैव निर्वर्तनीयं करणीयम् । 'आम्रचतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः । मच्चरणयोर्मदग्र्योस्तलमधोभागस्तेन लालिर्तस्य पालितस्याशोकविटपस्य कङ्केल्लिवृक्षस्य कर्णपूरार्थमपि श्रवणभूषणार्थमपि न पल्लवः किसलयः खण्डनीयश्छेदनीयः । मत्संवर्धिताया मयैव वृद्धिं नीताया मालत्या जात्याः कुसुमानि पुष्पाणि देवतार्चनायैव देवपूजार्थमेवोच्चेयानि ग्राह्याणि । वासभवने निवाससद्मनि मे मम शिरोभागे मस्तकप्रदेशे निहितः स्थापितः कामदेवपटः पाटनीयः खण्डशः कार्यः । मया स्वयमात्मना रोपिता उप्ताश्चतवृक्षा आम्रवृक्षा यथा फलं गृह्णन्ति तथा संवर्धनीया वृद्धिं प्रापणीयाः । पञ्जरबन्धदुःखाद्वराक्यनाथा कालिन्दीनाम्नी सारिका पीतपादा शुकश्च परिहासाख्यो द्वावपि मोक्तव्यौ मोचनीयौ । मदङ्कशायिनी मदीयक्रोडशयनकारिणी नकुलिका पिङ्गलिका स्वाक एव स्वकीयक्रोड एव शाययितव्या शयनं कारयितव्या । मे मम पुत्रकस्तरलकञ्चञ्चलो बालहरिणः शिशुकुरङ्गः कस्मिंश्चित्तपोवने मुनिस्थाने समर्पणीयः प्रदातव्यः । मे मम पाणितलेन करतलेन संवर्धितं वृद्धिं प्रापितं जीवजीवकमिथुनं विषदर्शनमृत्युकयुग्मं चकोरयुगलं क्रीडापर्वते यथा न विपद्यते विलयं न याति तथा कर्तव्यं तथा विधेयम् । पादाभ्यां सहसंचारी हंसको यथा केनचिन्न हन्यते न व्यापाद्यते तथा विधेयः कर्तव्यः । अपरिचिता गृहवसतिः सौधावस्थानं ययैवंविधा तपस्विनी वराकी वनमानुषी बलाद्धठाद्विधृता गृहीता सा च वन एवोत्सष्टव्या मोच्या । क्रीडापर्वतकः ‘पवयी' इति प्राकृतलोके । कस्मैचिदनिर्दिष्टनाम्न उपशान्ताय शीतलप्रकृतये तपस्विने मुनीश्वराय प्रतिपादयितव्यः प्रदातव्यः । शरीरस्य देहस्य मे ममोपकरणानि ब्राह्मणेभ्यो विप्रेभ्यः प्रतिपादनीयानि दातव्यानि । वीणा वल्लकी पुनरात्मनः स्वस्यैवाङ्के प्रणयः स्नेहो यस्याः सैवंविधा कार्या । अपरमप्यन्यदपि यद्वस्तु ते तव रोचते रुचिविषयीभवति तदपि वस्तु स्वीकर्तव्यमङ्गीकार्यम् । अहं कादम्बरी पुनरिममात्मानमेतैः शीतलवस्तुभिः कृत्वा दग्धैशेषं ज्वलितोर्वरितमुज्ज्वला -
टिप्प० - 1 न प्रसङ्गः सम्यक् । अत एव - 'मच्चितया ' ( मत्पालितया) इति पाठः । 2 पुष्पितीकृतस्य 'पादाघातादशोकः ०' इति । 3 प्रियवियोगावस्थायां शीतलैरप्येभिर्वस्तुभिर्मम शरीरमदह्यत, दग्धशेषमेव तच्छरीरं संप्रति चितानले निर्वापयामीत्याशयः ।
पाठा० - १ इव. २ निवर्तनीयम्. ३ बालाशोक. ४ पल्लवलवः. ५ वृक्षकाः. ६ क्वचित्. ७ जीवजीवक. ८ क्रीडापर्वतके. ९ कार्यम्. १० चारी. ११ विधेयम्. १२ वसति तपस्विनी बलाद्धृता; निवासा बलाद्विधृता तपस्विनी. १३ सर्वाण्येव ब्राह्मणसात्कर्तव्यानि १४ कर्तव्या.
कादम्बर्या विलापः
उत्तरभागः ।
623
Page #151
--------------------------------------------------------------------------
________________
पुनरिमममृतकिरणरश्मिभिरनाश्यानचन्दनचर्चाभिरनवरतधारागृहासारसेकैरनेकसंतानतुहिनकिरणकिरणनिकरतारकिततारहारार्पणैर्मणिदर्पणप्रणयनेन मलयजजलापद्मिनीपत्रास्तरणेन सरसबिसकिसैलयप्रस्तरैरकठोरमृणालतल्पकल्पनयोगविकसितकमलकुमुदकुवलयशयनीयैश्च दग्धशेषेमुज्ज्वलचिताज्वालामालिनि विभावसौ देवस्य कण्ठलग्ना निर्वापयाम्यात्मानम्' इत्यभिदधानैव कृतावधारंणानुबन्धां मदलेखामर्वक्षिप्योपसृत्य महाश्वेतां कण्ठे गृहीत्वा निर्विकारवदनैव पुनस्तामवादीत् -
'प्रियसखि, तवास्ति कीदृश्यपि प्रत्याशा ययानुरागपरवशा पुनः समागमाकाङ्क्षिणी क्षणे क्षणे मरणाभ्यधिकानि दुःखान्यनुभवन्ती जीवितमलज्जाकरमननुशोच्यमनुपहसनीयमवाच्यं धारयसि । मम पुनः सर्वतो हताशायाः सापि नास्ति । तदामन्त्रये प्रियसखी पुनर्जन्मा -
***********
दीप्ताश्चितायाचितेर्चाला अर्चिषस्ताभिर्मालत इत्येवंशीलः स तथा तस्मिन्नेवंभूते विभावसावग्नौ देवस्य राज्ञः । 'देवः सुरे वने राज्ञि देवमाख्यातमिन्द्रियम्' इति यादवप्रकाशः । कण्ठे निगरणे लग्नासक्ता निर्वापयामि शीतलीकरोमि । एतेन वह्नितप्तेविरहज निततापस्याधिक्यमसूचि । एतैः कैरित्यपेक्षायामाह - अमृतेत्यादि । अमृतकिरणश्चन्द्रस्तस्य रश्मिभिः किरणैरनाश्यानमशुष्कं यच्चन्दनं मलयज तस्य चर्चाभिः समालम्भनरनवरतं निरन्तरं धारागृहाणामासारो वेगवदृष्टिस्तेन सेकैः सेचनैरनेकसताना अनेकपरंपरा ते तुहिनकिरणस्य चन्द्रमसः किरणास्तेषां निकरः समूहस्तेन तारकिताः संजाततारका ये तारा उज्ज्वला हारा मुक्ताकलापास्तेषामर्पणैर्व्यसनैर्मणिदर्पणानां रतादर्शानां प्रणयनेन ग्रहणेन । अत्यन्तशीतलत्वात्तेषामिति भावः । मलयजजलेन चन्दनपानीयेनार्द्राणि स्विन्नानि यानि पद्मिनी कमलिनी तस्याः पत्राणि दलानि तेषामास्तरणेन प्रस्तरणेन सरसानि रसोपेतानि बिसकिसलयानि तन्तुलपल्लवास्तेषां प्रस्तरैरास्तरैरकठोराणि मृदूनि यानि मृणालानि तैः सह तल्पकल्पनयोगो विद्यते येषां तानि विकसितानि यानि कमलकुमुदकुवलयानि तेषां शयनीयैश्च । अन्वयस्तु प्रागेवोक्तः । इति पूर्वप्रतिपादितमभिदधाना ब्रुवाणा एव कृतो विहितोऽवधारणे देहपरित्यागेऽनुबन्धो निश्चयो यया सैवंविधां मदलेखामवक्षिप्य दूरीकृत्य महाश्वेतामुपसृत्य समीपे गत्वा कण्ठे निगरणे गृहीत्वा । कण्ठाश्लेषं विधायेत्यर्थः । निर्विकारवदना एव शुग्जनितविकृतिवर्जितानना एव पुनस्तां महाश्वेतामवादीदवोचत् ।
हे प्रियसखि महाश्वेते, तव भवत्याः कीदृश्यप्यनिर्दिष्टनाम्न्यपि प्रत्याशा लिप्सा वर्तते यया प्रत्याशयानुरागपरवशानुरत्याधीना पुनर्वितीयवारं पुण्डरीकस्य समागमस्तस्याकाङ्क्षिणी तद्वाञ्छाविधायिनी क्षणे क्षणे मरणेभ्योऽधिकानि दुःखानि कृच्छ्राण्येवमनुभवन्त्यनुभवविषयीकुर्वन्ती । अलज्जाकरमत्रपोत्पादकमननुशोच्यमविमर्श्यमनुपहसनीयं परेषामनुपहसनार्हमवाच्यमवचनीयमेवंविधं जीवितं धारयसि दधासि । मम पुनः सर्वतोऽभितो हता ध्वस्ताशा वाञ्छा यस्याः सैवंविधायाः सापि प्रत्याशापि नास्ति । तत्तस्माद्धेतोरहं पुनर्जन्मान्तरे -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'अनेकसंतानतानतुहिनकरकिरण०' इत्यादिरघोधृतः पाठः । अनेके संतानानाम् (विस्तृतीनाम्) तानाः (विस्ताराः) येषां तथाभूता ये तुहिनकर (चन्द्र) किरणाः, अग्रे टीकायाम् । 2 'विधारणानुबन्धाम् इत्युचितः पाठः । कृतो विधारणे देहपरित्यागे इत्यादिस्तस्यार्थः स्यात् ।
पाठा० - १ इयम्. २ अनेकसंतानतुहिनकरकिरण; अनन्तसंतानतुहिनकरकिरण. ३ किसलयैः सस्तरैः; किसलयसस्तरैः. ४ मृणालिनी. ५ उद्विकासकमलकुमुदकुवलय; विकसितकुमुदकुवलय. ६ उज्ज्वलितचितानले ज्वालामालिनी. ७ अभिदधाना कृतमरणानुबन्धा. ८ विदारण. ९ अवच्छिद्य. १० अपसृत्य च. ११ मरणादधिकानि. १२ पुनर्जन्मान्तरे.
624
कादम्बरी।
कथायाम
Page #152
--------------------------------------------------------------------------
________________
न्तरसमागमाय' इत्यभिधायोत्पद्यमानपुलककेसरोद्भासिनी, असमसाध्वसानिलाहता, उत्कम्पोत्तरयमाणा, आनन्दबाष्पवेगोर्मितरला, संगलत्स्वेदमकरन्दबिन्दुनिस्यन्दिनी, मुकुलायमाननयनकुमुदा कुमुदिनीव चन्द्रापीडचन्द्रास्तमयविधुरा, तदवस्थेऽपि हृदयवल्लभे समागमसुखमिवानुभवन्ती सरभसमुपरि पर्यस्तचिकुरहस्तोद्वान्तकुसुमनिवहेन मूर्ध्नार्चयित्वा चन्द्रापीडचरणौ सवत्स्वेदामृतार्द्राभ्यां कैराभ्यामुत्क्षिप्याकेन घृतवती ।
अथ तत्करस्पर्शेनोच्छ्रंसत इव चन्द्रापीडदेहाज्झटिति तुहिनमयमिव सकलमेव तं प्रदेशं कुर्वाणमव्यक्तरूपं किमपि चन्द्रधवलं ज्योतिरिवोर्ज्जगाम । अनन्तरं चान्तरिक्षे क्षरन्तीवामृतमशरीरिणी वागश्रूयत - 'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाप्याय्यमानमविनाशि भूयस्त्वत्संमागमनाय तिष्ठत्येव । इदमपरं मत्तेजोमयं स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्याय्यमानं चन्द्रापीडशरीरं शापदोषाद्विमुक्तमप्यन्तरात्मना कृतशरीरसंक्रान्तेर्योगिन इव शरीरमत्रैव भवत्योः
***********
भवान्तरे समागमाय मेलापकाय प्रियसखीमामन्त्रये निमन्त्रये । इत्यभिधायेत्युक्त्वोत्पद्यमानः संजायमानो यः पुलको रोमाञ्चः स एव केसर कुङ्कुमं तेनोद्भासिनी शोभमानाऽसमं विषमं यत्साध्वसं भयं तस्मादनिलः श्वासप्रवृद्धिस्तेनाहता ताडिता, उत्कम्पेनोत्तरङ्ग्यमाणोच्चैर्नीयमाना, आनन्दबाष्पवेगोर्मिभिर्हर्षाश्रुरंहस्तरंगैस्तरला चञ्चला, सम्यक्प्रकारेण गलन्स्वेदो घर्मजलं स एव मकरन्दबिन्दुस्तस्य निस्यन्दिनी क्षरणशीला मुकुलायमाने संकोचं प्राप्यमाणे नयने एव कुमुदे यस्याः सा कुमुदिनीव कैरविणीव चन्द्रापीड इव चन्द्रः शशाङ्कस्तस्यास्तमयोऽस्तमनं तेन विधुरा दुःखिता । 'विधुरं प्रेत्यभावे स्यात्कष्टविश्लेषयोरपि' इति विश्वः । तदवस्थेऽपि तादृशरूपेपि हृदयवल्लभे प्राणप्रिये समागमसुखमिव मेलापकसातमिवानुभवन्ती साक्षात्कुर्वन्ती सरभसमुपरि पर्यस्तो निपतितो यश्चिकुरहस्तः केशकलापस्तस्मादुद्वान्तः कुसुमानां पुष्पाणां निवहो येनैवंविधेन मूर्ध्ना शिरसा चन्द्रापीडस्य चरणौ पादावर्चयित्वा पूजां कृत्वा सवन्क्षरन्यः स्वेद एवामृतद्रवस्तेनार्द्राभ्यामुन्नाभ्यां कराभ्यामुत्क्षिप्योत्थाप्याङ्केन क्रोडेन धृतवती धारितवती । अथेति चरणन्यसनानन्तरं तस्याः कादम्बर्याः करस्पर्शेन पाणिसंश्लेषेणोच्छ्रसत इव उज्जव इव चन्द्रापीडदेहाज्झटिति शीघ्रं सकलमेव समग्रमेव तं प्रदेशं तुहिनमयमिव हिमनिर्मितमिव कुर्वाणं विदधानमव्यक्तरूपमप्रकटस्वरूपं चन्द्रवद्धवलं शुभ्रं ज्योतिस्तेज इवोज्जगाम प्रादुर्बभूव ।
-
अनन्तरं तदनन्तरं चान्तरिक्ष आकाशेऽमृतं पीयूषं क्षरन्तीव सवन्तीवाशरीरिणी वाग्वाण्यश्रूयताकर्ण्यत । एतदेव स्पष्टीकुर्वन्नाह - वत्से इति । हे वत्से हे पुत्रि महाश्वेते, पुनरपि त्वं मयैव समाश्वासितव्याश्वासनां कारितव्या वर्तसे । तत्ते तव पुण्डरीकशरीरं मल्लोके मत्तेजसा मद्धाम्नाप्याय्यमानं शीतलीक्रियमाणमत एवाविनाश्यविनश्वरं भूयः पुनरपि त्वया सह समागमो मेलापस्तस्मै तिष्ठत्येव । इदमपरमन्यन्मत्तेजसा निष्पन्नं मत्तेजोमयमतः स्वत एव स्वभावत एवाविनाश्यविनश्वरं विशेषतः कादम्बरीकरस्पर्शेनाप्याय्यमानं शीतलीक्रियमाणं चन्द्रापीडशरीरं शापदोषाद्विमुक्तमपि रहितमप्यन्तरात्मैना मध्यवर्तिना जीवेन कृता विहिता शरीरे देहान्तरे संक्रान्तिः संक्रमणं तस्य योगिन इव आपरमवेदिनो योगिनस्तस्येव भवत्योर्महाश्वेताकादम्बर्योः प्रत्ययार्थं विश्वासार्थमाशा -
टिप्प० - 1 'कुमुदिनीव' इति उपमानुरोधेन 'नयने कुमुदे इव' इत्युपमितसमास एवोचितः । 2 'चन्द्रापीडश्चन्द्र इव' इत्युचितम् । 3 आत्मना कृता शरीरे (अपरस्य पुरुषस्य शरीरे) संक्रान्तिः प्रवेशो येन तस्य, अन्यस्मिन् शरीरे कृतप्रवेशस्य योगिनः पूर्वशरीरं यथा तिष्ठति तथेत्याशयः ।
पाटा० - १ उत्पुञ्ज्यमान. २ हस्ताभ्याम् ३ समुच्छ्रसित. ४ सकलमपि ५ कुर्वत. ६ एव. ७ अन्तरिक्षे ८ समाश्वासिता ९ पुण्डरीक. १० समागमाय. ११ चन्द्रापीडस्य शरीरम्.
१२ आत्मना.
आकाशवाण्या कादम्बर्याः सान्त्वनम्
उत्तरभागः ।
625
Page #153
--------------------------------------------------------------------------
________________
1
प्रेत्ययार्थमाशापक्षयादास्ताम् । नैतदग्निना संस्केर्तव्यम् । नोदके प्रक्षेप्तव्यम् । नापि वा समुत्सष्टव्यम् । यत्नतः परिपालनीयमासमागमप्राप्तेः' इति । तां तु श्रुत्वा किमेतदिति विस्मिताक्षिप्तहृदयः सर्व एव परिजनो गगनतलनिवेशितनिर्निमेषलोर्चनो लिखित इव पत्रलेखावर्जमतिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारशीतलेनाह्लादहेतुना स्पर्शेन लब्धसंज्ञोत्थायाऽऽविष्टेव वेगाद्धावित्वा पँरिबद्धकहस्तादाच्छिद्येन्द्रायुधम् 'अस्मद्विधानां यथा तथा भवतु, त्वं पुनरेवमेकाकिन विना वाहनं दूरं प्रस्थिते देवे क्षणमप्यवस्थातुं न शोभसे' इत्यभिदधाना तेनैवेन्द्रायुधेन सहात्मानमच्छोदसरस्यक्षिपत् ।
अथ तयोर्निमज्जनसमयानन्तरमेव तस्मात्संरसः सलिलाच्छैवलोत्करमिव शिरसि लग्नं गलज्जलबिन्दुसंदोहमंयथालम्बिदीर्घशिखं मुखोपरि परस्परासक्तेरसंस्कारमलिनतया चौपसूचितचिरोर्ध्वबन्धं जटाकलापमुद्वहन्, जलार्द्रदेहासक्तेन बिसतन्तुमयेनेव ब्रह्मसूत्रेणोद्भासमानः, ग्लोनारैविन्दनीलपलाशपृष्ठपाण्डुरेण जीर्णमन्दारवल्कलेनाबद्धपरिकरः, करेणा
नना -
***********
1
पक्षयाच्छापक्षयं मर्यादीकृत्यात्रैवास्मिन्नेवस्थल आस्तां तिष्ठतु । एतच्छरीरमग्निना वह्निना न संस्कर्तव्यं न संस्कारः कार्यः, नोदके जले प्रक्षेप्तव्यं प्रक्षेपः कार्यः, नापि वा समुत्सष्टव्यं त्यजनीयम् । आसमागमप्राप्तेर्यावत्संगमं यत्नतः परिपालनीयम् । महोद्यमेन रक्षणीयमित्यर्थः । तां तु पूर्वोक्ता वाणीं श्रुत्वाकर्ण्य किमेतदिति विस्मितेन विस्मयेनाक्षिप्तहृदयश्चमत्कृतचेताः सर्व एव परिजनो गगनतले निवेशिते स्थापिते निर्निमेषे निमेषोन्मेषरहिते लोचने नेत्रे येन सः । अत एव लिखित इव चित्रित इव पत्रलेखां वर्जयित्वातिष्ठत् । पत्रलेखा तु तेन तस्य ज्योतिषस्तुषारवद्धिमवच्छीतलेनाह्लादहेतुना प्रमोदकारकेण स्पर्शेन संश्लेषेण लब्धसंज्ञा प्राप्तचैतन्योत्थायोत्थानं कृत्वाविष्टेव भूतग्रस्तेव वेगाज्जवाद्धावित्वा धावनं कृत्वा परिबद्धकहस्तादश्वपालककरादिन्द्रायुधमाच्छिद्य बलाद्गृहीत्वाप्यस्मद्विधानामस्मत्सदृशानां यथा तथा भवतु । त्वं पुनरेककिनि विना वाहनं यानं विना दूरं प्रस्थिते चलिते देवे क्षणमपि समयमात्रमप्यवस्थातुमवस्थितिं कर्तुं न शोभसे न शोभां प्राप्नोषीत्यभिदधानेति ब्रुवाणा तेनैवेन्द्रायुधेन सहात्मानं स्वमच्छोदसरस्येवाक्षिपच्चिक्षेप ।
अथेति । अच्छोदसरसि पातानन्तरं तयोः पत्रलेखातुरङ्गमयोर्निमज्जनसमयो ब्रुडनकालस्तस्मादनन्तरं पश्चादेव तस्मात्सरसस्तटाकस्य सलिलादम्भसस्तापसकुमारको मुनिबालकः सहसैवैकपद एवोदतिष्ठदुत्थितो बभूव । किं कुर्वन् । जटाकलापं सटासमूहमुद्वहन्धारयन् । कृष्णत्वसाम्यादुत्प्रेक्षते - शिरसि मस्तके लग्नं विलग्नं शैवलोत्करमिव शैवालसमूहमिव गलत्क्षरज्जलबिन्दूनां संदोहो यस्मिन्स तथा । न यथास्थानमालम्बत इत्येवंशीलं तत्तथा, दीर्घायता शिखा चूड़ा यस्य तत्तथा । मुखस्य वदनस्योपर्युपरिष्टात्परमन्योन्यमासक्तेः संश्लेषादसंस्कारेण केशमार्जनाभावेन मलिनतया चोपसूचितो ज्ञापितश्चिरकालीन ऊर्ध्वबन्धो यस्य तत्तथा । पुनः कीदृशः । ब्रह्मसूत्रेण यज्ञोपवीतेनोद्भासमान उत्प्राबल्येन शोभमानः । कीदृशेन ब्रह्मसूत्रेण । जलेनाम्भसार्द्र उन्नो देहः शरीरं तत्रासक्तेन संबद्धेन । अत एवोत्प्रेक्षते बिसतन्तुमयेनेव तन्तुलतन्तुनिष्पन्नेव । पुनः कीदृक् । जीर्णं चिरकालीनं यन्मन्दारस्य वल्कलं चोचं तेनाबद्धः परिकरो येन सः । कीदृशेन । म्लानान्यरविन्दानि
-
टिप्प० 1 विना वाहनम्, एकाकिनि देवे दूरं प्रस्थिते सति इत्यन्वयः । 2 अम्लानमित्येवोचितम् ।
पाठा० - १ संप्रत्ययार्थम्. २ संस्कार्यम्. ३ उदके वा क्षेप्तव्यमुत्सष्टव्यं प्रयत्नतः ४ विस्मय. ५ एव गगन. ६ दृष्टयः ७ परिवर्धकः ८ अस्मिन्विध्यतां यथा ते तथा त्वं पुनरप्येवमेकाकिनि देवे बिना वाहनं दूरं प्रस्थिते क्षणमप्यवस्थातुं न शोभस इत्यभिदधाना तेनैव; अस्मद्विधा तु यथा त्वं पुनरेवमेकाकी विना वाहनं दूरं प्रस्थिते देवे क्षणमपि न तिष्ठशोभस इत्यभिदधाने तेनैव ९ सरः सलिलात्. १० अयथातथालम्बि ११ उद्भासमानः १२ अम्लान १३ अरविन्दिनीपलाश. १४ पाण्डुना.
626
कादम्बरी ।
कथायाम्
Page #154
--------------------------------------------------------------------------
________________
वरोधिनीर्जटाः समुत्सारयन, अश्रुजलच्छलेनाच्छोदसरःसलिलमिवान्तःप्रविष्टमाताम्राभ्यामुबहल्लोचनाभ्याम्, उद्विग्नाकृतिस्तापसकुमारकः सहसैवोदतिष्ठत् । उत्थाय च दूरत एवोद्दामबाष्पजलनिरोधपर्याकुलयामेलब्धलक्ष्यया दृष्ट्या विलोकयन्ती महाचेतामुपसृत्य शोकगद्गदमवादीत् - 'गन्धर्वराजपुत्रि, जन्मान्तरादिवागतोऽपि प्रत्यभिज्ञायतेऽयं जनो न वा इति ।
सा त्वेवं पृष्टा शोकानन्दमध्यवर्तिनी संसंभ्रममुत्थाय कृतपादवन्दना प्रत्यवादीत् - 'भगवन्कपिजल, अहमेवंविधाऽपुण्यवती या भवन्तमपि न प्रत्यभिजानामि ? अंथ युक्तैवेदृशी मय्यनात्मज्ञायां संभावना याहमेकान्तत एंव व्यामोहहता स्वर्ग गतेऽपि देवे पुण्डरीके जीवामि । तत्कथय केनासावुत्क्षिप्य नीतः ? किमर्थं वा नीतः ? किं वास्य वृत्तम् ? क्व वर्तते ? किं वा तवोपजातम् ? येनैतावतापि कालेन वार्तापि न दत्ता । कुतो वा त्वमेकाकी देवेन विना सैमागतः ?
स त्वेवं पृष्टो महाश्वेतया विस्मयोन्मुखेन कादम्बरीपरिजनेन चन्द्रापीडानुगामिना च राजपुत्रलोकेनोपर्युपरि पातिना वीक्ष्यमाणः प्रत्यवादीत् - “गन्धर्वराजपुत्रि, श्रूयताम् ।
***********
कमलानि तेषां नीलपलाशानि पत्राणि तेषां पृष्ठं पृष्ठभागस्तद्वत्पाण्डुरेण चेतेन । किं कुर्वन् । करेण हस्तेन समुत्सारयन्दूरीकुर्वन् । काः । जटाः । जटाः कीदृशीः । आननमवरुन्धन्तीत्येवंशीला आननावरोधिन्यस्ताः । अश्रुजलच्छलेन नेत्राम्बुमिषेणाच्छोदसरसः सलिलं पानीयमन्तःप्रविष्टमिवाताम्राभ्यामीषद्रक्ताभ्यां लोचनाभ्यां नेत्राभ्यामुदहन्धारयन् : उद्विग्नोद्वेगं प्राप्ता आकृतिराकारो यस्य स तथा । अम्भसस्तापसकुमारक उदतिष्ठदित्यन्वयस्तु प्रागेवोक्तः । उत्थाय चोत्थानं कृत्वा च दूरत एवोद्दाममत्युग्रं यद्वाष्पजलमश्रुपानीयं तस्य निरोधः प्रतिबन्धस्तेन पर्याकुलयापि व्याकुलयाप्यलैब्धमप्राप्तं लक्ष्यं वेध्यं ययैवंविधया दृष्ट्या दृशा विलोकयन्ती पश्यन्ती महाश्वेतामुपसृत्य समीपे गत्वा शोकेन गद्गदमव्यक्ताक्षरं यथा स्यात्तथावादीदब्रवीत् । हे गन्धर्वराजपुत्रि, जन्मान्तरादागतोऽप्ययं जनस्त्वया प्रत्यभिज्ञायत उपलक्ष्यते न वेति । ___ सा तु महाश्वेता त्वेवं पृष्टा प्रश्नविषयीकृता शोकश्चानन्दश्च शोकानन्दौ तयोर्मध्यवर्तिनी ससंभ्रमं सादरं यथा स्यात्तथोत्थाय कृतं पादवन्दनं चरणनमस्कतिर्यया सैवंविधा प्रत्यवादीप्रत्यब्रवीत । हेभगवन्कपिजल, अहमेवंविधाऽपुण्यवती या भवन्तमपि त्वामपि न प्रत्यभिजानामि नोपलक्षयामि । अथ मय्यनात्मज्ञायामात्मज्ञानवर्जितायामीदृशी संभावना युक्तैव न्याय्यैव या महाश्वेताहमेकान्तत एव व्यामोहोऽज्ञानं तेन हता पीडिता स्वर्ग गतेऽपि देवलोकं प्राप्तेऽपि देवे पूज्ये पुण्डरीके जीवामि प्राणिमि । तदिति हेत्वर्थे । कथय प्रतिपादय केन पुंसासौ पुण्डरीक उत्क्षिप्योत्थाप्य नीतः । किमर्थं वा किंप्रयोजनं वा नीतः । किं वास्य पुण्डरीकस्य वृत्तं चरित्रम् । क्व कुत्र वर्तते । तव भवतः किं वोपजातं किं जज्ञे, येनैतावतापि कालेनानेहसा वार्तापि किंवदन्त्यपि न दत्ता । कुतो वा कस्मात्प्रदेशाद्वा त्वमेकाक्यसहायो देवेन पुण्डरीकेण विना समागतोऽत्रायातः ।
स तु कपिजलो महाश्वेतयैवं पृष्टो नियोजित उपरि चोपरि चोपर्युपरि पतितुं शीलं यस्य स तेनेत्युभयोर्विशेषणम् । विस्मयेनाश्चर्येणोदू_ मुखमाननं यस्यैवभूतेन कादम्बरीपरिजनेन गन्धर्वपुत्रीपरिच्छदेन चन्द्रापीडमनुगच्छतीत्येवंशीलेन राजपुत्रलोकेन च वीक्ष्यमाणो विलोक्यमानः प्रत्यवादीप्रत्यब्रवीत् । हे गन्धर्वराजपुत्रि, - टिप्प० - 1 'अपि पदस्य न स्वारस्यम् । तस्मात् 'आबद्धलक्ष्यया (लक्ष्यं प्रति व्यापारितया) इत्येव पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठ० - १ आताम्रायताभ्याम्. २ बद्धलक्षया. ३ जन्मान्तरागतः; जन्मान्तरगतः. ४ ससंभ्रमाकुलम्. ५ प्रमाणा. ६ त्वयाप्यात्मनः कारणादेवं संभाविता. ७ अथवा. ८ एकान्ते. ९ इव. १० वार्तामपि न दत्तवानसि. ११ कुतोऽपि. १२ एवागतोऽसीति.
(कपिजलस्यागमनम् )
उत्तरभागः।
Page #155
--------------------------------------------------------------------------
________________
अहं हि तथा कृतार्तप्रलापामपि त्वामेकाकिनी समुत्सृज्य वयस्यस्नेहादाबद्धपरिकरः 'क्व मे प्रियसुहृदमपहृत्य गच्छसि' इत्यभिधाय तं पुरुषमनुबध्नञ्जवेनोदपतम् । स तु मे प्रतिवचनमदत्त्वैव गीर्वाणवर्त्मनि विस्मयोत्फुल्लनयनैरवलोक्यमानो वैमानिकैः, अवगुण्ठितमुखीभिरवमुच्यमानगमनमार्गो दिव्याङ्गनाभिः, अभिसारिकाभिरालोलतारकेक्षणाभिरितस्ततः प्रणम्यमानस्तारकाभिः अम्बरसरःकुमुदाकरमतिक्रम्य तारागणं चन्द्रिकाभिरामसकललोकं चन्द्रलोकमगच्छत् । तत्र च महोदयाख्यायां सभायामिन्दुकान्तमये महति पर्यङ्के तत्पुण्डरीकशरीरं स्थापयित्वा मामवादीत् - 'कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं खेलूदयं गतो जगदनुग्रहाय स्वव्यापारमनुतिष्ठन् अनेन ते प्रियवयस्येन कामापराधाज्जीवितमुत्सृजता निरपराधः संशप्तः 'दुरात्मनिन्दुहतक, यथाहं त्वया करैः संतोपित उत्पन्नानुरागः सनसंप्राप्तहृदयवल्लभासमागमसुखः प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते वर्षे जन्मनि जन्म -
***********
श्रूयतामाकर्ण्यताम् । अहं हि तथा तेन प्रकारेण कृतो विहित आर्तो दीनः प्रलापः प्रियाश्रित काल्पनिकव्याहारो यया सा तामपि त्वामेकाकिनीमसहायां समुत्सृज्य त्यक्त्वा वयस्यस्नेहान्मित्रप्रीतेराबद्धः परिकरः कटिप्रदेशो येन सः । क्वेति । कुत्र मे मम प्रियसुहृदं वल्लभवयस्यमिममपहृत्यापहरणं कृत्वा गच्छसि प्रयासीत्यभिधायेत्युक्त्वा तं पुरुषमनुबध्नन्ननुधावजवेन वेगेनोदपतमूर्ध्वमगच्छम् । स तु पुमान्मे मम प्रतिवचनं प्रत्युत्तरमदत्त्वैवाकथयित्वैव गीर्वाणवम॑न्याकाशे विस्मयेनाश्चर्येणोत्फुल्लानि विकसितानि नयनानि नेत्राणि येषां तैर्वैमानिकैर्विमानवासिभिः सुरैरवलोक्यमानो वीक्ष्यमाणोऽवगुण्ठितान्याच्छादितानि मुखानि यासां ताभिर्दिव्याङ्गनाभिरभिसारिकाभिर्याः स्वयमेव प्रियमभियान्ति ता अभिसारिकास्ताभिरवमुच्यमानस्त्यज्यमानो गमनमार्गो यस्य सः । आलोलाश्चञ्चलास्तारकाः कनीनिका येष्वेतादृशे ईक्षणे यासा ताभिस्तारकाभिस्ताराभिरितस्ततः प्रणम्यमानो नमस्क्रियमाणः । अम्बरमेव सरस्तस्मिन्कुमुदाकरमिव । कुमुदसमूहमिवेत्यर्थः । एवंविधं तारागणं तारकासमूहमतिक्रम्योल्लङ्घय चन्द्रिका ज्योत्स्ना तयाभिरामो रमणीयः सकललोकः समग्रजनो यस्मिन्नेतादृशं चन्द्रलोकमगच्छदगमत् । तत्र चेति । चन्द्रलोके महोदया इत्याख्या यस्याः सा तथा तस्यां सभायां संसदीन्दुकान्तस्तेन निष्पन्न इन्दुकान्तमये महत्यायते पर्यङ्के पल्यड्के तत्पुण्डरीकशरीरं स्थापयित्वा न्यस्य मामवादीदवोचत् । हे कपिजल, चन्द्रमसं ग्रहं मां जानीह्यवबुद्ध्यस्व । स्वव्यापारं परिभ्रमणलक्षणमनुतिष्ठन्कुर्वजगतोऽनुग्रहायाभ्युपपत्तयेऽहमुदयं गतः । अनेन ते तव प्रियवयस्येन कामापराधात्कन्दर्पागसो जीवितमुत्सृजता त्यजताह निरपराधोऽपि निरागाः संशप्तः शापविषयीकृतः । तदेव दर्शनयन्नाह - दुरात्मनिति । हे दुरात्मन् हे दुष्टात्मन्, हे इन्दुहतक, यथाहं त्वया करैः किरणैः संतापितः पीडितः उत्पन्नः संजातोऽनुरागोऽनुरतिर्यस्यैवंभूतः सन् असंप्राप्तमलब्धं हृदयवल्लभस्य समागमसुखं येन सः, प्राणैरसुभिर्वियोजितः पृथक्कृतः, तथा त्वमपि भवानपि कर्मभूमितां भूते प्राप्ते 'यत्रैव क्रियते कर्म कर्मभूमिरतो मता । यत्रैव भुज्यते तद्धि भोगभूमिस्तु सापरा ॥' इत्युक्तः । अकर्मभूमिः कर्मभूमिः संपद्यत इति कर्मभूमीभूत इति वा । अस्मिन्भारते वर्षे भरतक्षेत्रे जन्मनि जन्मन्येवोत्पन्नानुरागः -
टिप्प० - 1 तारकाणामपि तारकाः, ता अपि आलोलाः, किं कारणमालोलत्वे ? 'दिव्याङ्गनाभि रित्यस्याग्रे - 'त्यज्यमानोऽभिसारिकाभिरालोलतारकेक्षणाभिः', इति पाठः । माद्राक्षीदिति भयेन विलोलतारके ईक्षणे यासामीदृशीभिः अभिसारिकाभिः परिहियमाण इति तदर्थः । 2 वल्लभाया इत्युचितम् ।
पाठा० - १ दिव्याङ्गनाभिसारिकाभिः. २ चन्द्राभिराम. ३ उदयगतः. ४ अनुकुर्वन्. ५ संताप्य. ६ प्राप्त.
628
कादम्बरी।
कथायाम्-)
Page #156
--------------------------------------------------------------------------
________________
न्येवोत्पन्नानुरागोऽप्राप्तसमागमसुखस्तीव्रतरां हृदयवेदनामनुभूय जीवितमुत्सद्यसिइति । अहं तु तेनास्य शापहुतभुजा झटिति ज्वलित इव निरंगाम् । किमनेनात्मदोषानुबन्धेन निर्विवेकबुद्धिना शप्तोऽस्मीत्युत्पन्नकोपः 'त्वमपि मत्तुल्यदुःखसुख एव भविष्यसि' इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च विवेकमागतया बुद्धया विमृशन्महाश्वेताव्यतिकरमस्याधिगतवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभवादप्सरसः कुलालब्धजन्मनि गौर्यामुत्पन्ना । तया चायं भर्ता स्वयं वृतः । अनेन च स्वयंकृतादेवात्मदोषान्मया सह मर्त्यलोके वारद्वयमवश्यमुत्पत्तव्यम् । अन्यथा जन्मनि जन्मन्येषा वीप्सैव न चरितार्था भवति । तद्यावदयं शोपदोषादपैति तावदस्यात्मना विरहितस्य शरीरस्य मा विनाशोऽभूदिति मयेदमुत्क्षिप्य समानीतम् । वत्सा च महाश्वेता समाचासिता । तदिदमत्र मत्तेजसोप्याय्यमानमाशापक्षयास्थितम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे निवेदय । महाप्रभावोऽसौ कदाचिदत्र प्रतिक्रियां काञ्चिदपि करोति' इत्युक्त्वा मां व्यसर्जयत् ।
***********
संजातानुरतिरप्राप्तहृदयवल्लभासमागमसुखोऽलब्धप्राणप्रियामेलापकसौख्यस्तीव्रतरां वेदनामतिकठिनामसातामनुभूय जीवितं प्राणितमुत्सक्ष्यसि त्यक्ष्यसीति । अहं त्वस्य पुण्डरीकस्य तेन शापहुतभुजा शापवह्निना झटिति शीघ्रं ज्वलित इव दग्ध इव निरगां निरगच्छम् । किमनेन पुण्डरीकेण । आत्मदोषस्यानुबन्धः संबन्धो यस्मिन्स तेन निर्विवेकबुद्धिना तत्त्वातत्त्वविचारवियुक्तमतिना शप्तोऽहमस्मीति हेतोरुत्पन्नः प्रादुर्भूतः कोपो यस्य सोऽहं त्वमपि भवानपि मत्तुल्यदुःखसुख एव मत्सदृशकृच्छ्रसौख्य एव भविष्यसीति प्रतिशापमस्मै पुण्डरीकाय प्रायच्छमदासिषम् । अपगतो दूरीभूतोऽमर्षः । क्रोधो यस्मात्स तथा । एवंविधश्चाहं विवेकः पृथगात्मता तमागतया प्राप्तया बुद्धया प्रतिभया विमृशन्विचारयन्नस्य पुण्डरीकस्य महाश्वेताव्यतिकरं गान्धर्वपुत्रीवृत्तान्तमधिगतवाज्ञातवानस्मि । वत्सा तु महाश्वेता मन्मयूखसंभवान्मदीयकान्तिसमुत्पन्नादप्सरसः स्वर्गिवध्वाः कुलादभिजनाल्लब्धजन्मनि प्राप्तोद्भवायां गौर्यामुत्पन्ना संजाता । 'सजातीयगणे गोत्रे देहेऽपि कथितं कुलम्' इति विश्वः । तया च महाश्वेतया चायं भर्ता पुण्डरीकः स्वयं वृत्तः । अनेन च पुण्डरीकेण च स्वयंकृतादेवात्मदोषादेव मया सह चन्द्रमसा सार्द्ध वारद्वयं मर्त्यलोके मनुष्यक्षेत्रेऽवश्यमुत्पत्तव्यम् । अन्यथोक्तविपर्यये जन्मनि जन्मन्येषा वीप्सैव न चरितार्था कृतार्था भवति । तद्यावदयं पुण्डरीकः शापदोषादपैति दूरीभवति तावत्कालमस्य पुण्डरीकस्यात्मना जीवेन विरहितस्य शरीरस्य मा विनाशोऽभूदिति हेतोर्मया चन्द्रमसेदमुत्क्षिप्योत्पाट्य समानीतम् । वत्सा च महाश्वेता समावासिता । अत्र तल्पे तदिदं शरीरं मत्तेजसा मद्धाम्नाप्याय्यमानं शीतलीक्रियमाणमाशापक्षयाच्छापक्षयपर्यन्तं स्थितम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे मुनीश्वराय निवेदय । असौ महाप्रभावः कदाचिदत्र कांचित्प्रतिक्रियामपि प्रतीकारमपि करोति । इत्युक्त्वा मां कपिञ्जलं व्यसर्जयद्गमनाज्ञां दत्तवान् । - - - - - - - - - - - -
- - - - - - - - - टिप्प० - 1 'निरागाः' इति पाठः । निरागाः (निरपराधः) अहं शापाग्निना झटिति उद्दीपित इवेत्युत्पन्नकोपः प्रतिशापं प्रायच्छमित्यर्थः । 2 मोहाद्विरुद्धो (अर्थात् तात्त्विकः) विचार एव विवेकः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ तीव्रतमाम्. २ उत्सजिष्यति. ३ झगिति; धगिति. ४ समुद्दीपित; उद्दीपित. ५ निरगात्. ६ सुखदुःख. ७ अनया. ८ च संप्रति. ९ शापदोषातू. १० जन्मनीति. ११ तत्तथा; तयावत्. १२ शापदीपो व्यपैति. १३ आप्यायितम्. १४ वृत्तान्तमिमम्.
(अच्छोदानिःसृतस्य कपिजलस्य वृत्तम् ।
उत्तरभागः।
629)
629
Page #157
--------------------------------------------------------------------------
________________
अहं तु विना वयस्येन शोकावेगान्धो गीर्वाणवर्मनि धावन्नन्यतममतिक्रोधनं वैमानिकमलङ्घयम् । स तु मां दहन्निव रोषहुतभुजा भृकुटीविकरालेन चक्षुषा निरीक्ष्याब्रवीत् - 'दुरात्मन्, मिथ्यातपोबलगर्वित, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दामप्रचारिणा तुरङ्गमेणेवोपलचितस्तस्मात्तुरंगम एव भूत्वा मर्त्यलोकेऽवतर' इति । अहं तु तमुद्धाष्पपक्ष्मा कृताञ्जलिरवदम् - 'भगवन्, वयस्यशोकान्धेन त्वं मयोल्लचित्तो नावज्ञया । तत्प्रसीद । उपसंहर शापमाशु त्वमिमम् इति । स तु मां पुनरवादीत् - 'यन्मयोक्तं तन्नान्यथा भवितुमर्हति । तदेतत्ते करोमि । कियन्तमपि कालं यस्यैव वाहनतामुपयास्यसि तस्यैवावसाने स्नात्वा विगतशापो भविष्यसि' इति ।
एवमुक्तस्तु पुनस्तमहमवदम् - 'भगवन्, यद्येवं ततो विज्ञापयामि । तेनापि मंप्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यम् । तदेतावन्तमपि भगवान्प्रसादं करोतु मे दिव्येन चक्षुषावलोक्य, यथा तुरङ्गमत्वेऽपि मे तेनैव प्रियवयस्येन सहाऽवियोगेन कालो यायात्' इति । स त्वेवमुक्तो मुहूर्तमिव ध्यात्वा पुनर्मामवादीत् - 'अनया -
***********
अहं तु वयस्येन मित्रेण शोकस्य शुच आवेगस्तेनान्धो गताक्षो गीर्वाणवम॑नि देवपथि धावस्त्वरया गच्छन्नन्यतमं वैमानिकानां मध्येऽन्यमतिक्रोधनमत्यन्तकोपनं वैमानिक देवमलवयं व्यतिक्रमम् । स तु वैमानिको मां रोषहुतभुजा क्रोधवह्निना दहन्निव भस्मीकुर्वनीव भृकुटिभृकुटिस्तया विकरालेन विकृतेन । भीषणेनेति यावत् । चक्षुषा नेत्रेण निरीक्ष्यावलोक्याब्रवीदवोचत् । हे दुरात्मन् दुष्टात्मन्, मिथ्या वृथा तपोबलेन . तपस्तेजसा गर्वित गर्वं प्राप्त, यदेवमतिविस्तीर्णेऽतिवितते गगनमार्गे व्योमपथि त्वया भवताहमुद्दामप्रचारिणोद्धतगमनशीलेन तुरंगमेणेवाश्वेनेवोपलपित्त उल्लचित्तस्तस्मात्त्वं मर्त्यलोके तुरंगम एव ययुरेव भूत्वा मर्त्यलोके मनुष्यभूमाववतरावतारं गृहाणेति । अहं तु तं वैमानिकमुदूर्ध्वं बाष्यो यस्मिन्नेतादृशं पक्ष्म यस्य स तथा कृताञ्जलिः संयोजितपाणिरवदमब्रुवम् । हे भगवन्, वयस्यस्य मित्रस्य शोकः शुक् तेनान्धस्तेन मया त्वमुल्लङ्घितो नावज्ञयाशातनया । तदिति हेत्वर्थे । प्रसीद प्रसन्नो भव । त्वमिम शापमाशूपसंहर निवर्तय । स तु वैमानिकः पुनर्द्वितीयवारमवादीदब्रवीत् । यन्मयोक्तं कथितं तदन्यथा कथितादन्यद्भवितुं नार्हति । तत्तस्माद्धेतोरेतत्ते तव करोम्यनुतिष्ठामि । कियन्तमपि कालमनेहसं यस्यैवं पुंसो वाहनता युग्यतामुपयास्यस्युपगमिष्यसि तस्यैव पुंसोऽवसानेऽन्ते स्नात्वा स्नपनं कृत्वा विगतशापः शापनिर्मुक्तो भविष्यसि इति ।
एवमुक्तस्तु पुनस्तं वैमानिकमहमवदम् - हे भगवन्, यद्येवं ततो हेतोर्विज्ञापयामि विज्ञप्तिं करोमि । किं तदित्याह - तेनेति । तेनापि मप्रियवयस्येन पुण्डरीकेण चन्द्रमसा चन्द्रेण सह शापदोषान्मर्त्यलोक एवोत्पत्तव्यं जन्म ग्रहीतव्यम् । तत्तस्मात्कारणादेतावन्तमपीयन्मात्रमपि भगवान्मे मम प्रसादं करोतु दिव्येन चक्षुषाज्ञानलोचनेनावलोक्य निरीक्ष्य यथा तुरंगमत्वेप्यश्चत्वेऽपि तेनैव प्रियवयस्येन सहावियोगेन संयुक्तेन कालोऽनेहा यायाद्गच्छेदिति । स त्वेवं पूर्वोक्तप्रकारेणोक्तः कथितो मुहूर्तमिव ध्यात्वा ध्यानं कृत्वा पुनर्मामवादीदभ्य -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 पुनः पुङ्गवत्वं प्रदर्श्यते । 'ययुरश्चोऽश्वमेधीयः' इति कोषादश्वमेधाश्च एव ययुः, न तु अश्वसामान्यम् ।
पाठा० - १ विनाकृतः. २ शोकावेशान्धः. ३ गीर्वाणवर्त्मना. ४ उल्लकित्तः. ५ इति वोटव्यं त्वया. ६ अवज्ञायाः; अवज्ञानात्. ७ इम शापमुपसंहरेति. ८ दत्त एव शापः संप्रति मया नान्यथा. ९ बाह्यताम्. १० तम्, ११ मे प्रिय.
630
कादम्बरी।
कथायाम्
Page #158
--------------------------------------------------------------------------
________________
स्नेहलतया ते ममार्दीकृतं हृदयम् । तदालोकितं मया । उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्नो राज्ञः सनिदर्शन चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नः । त्वमपि तस्य महोपकारिणश्चन्द्रात्मनो राजपुत्रस्य वाहनतामुपयास्यसि इति । अहं तु तद्वचनानन्तरमेवाधः स्थिते महोदधौ न्यपतम् । तस्माच्च तुरङ्गीभूयैवोदतिष्ठम् । संज्ञा तु मे तुरंगमत्वेऽपि ने व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी भूमिमेतामानीतो देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ प्राक्तनानुरागसंस्कारादभिलषन्नजानन्त्या त्वया शापाग्निना निर्दग्धः सोऽपि मे वयस्यपुण्डरीकस्यावतारः' इति ।
एतच्छ्रुत्वा । “हा देव पुण्डरीक, जन्मान्तरेष्वविस्मृतमदनुराग, मप्रतिबद्धजीवित, मच्छरण, मन्मुखावलोकिन्, मन्मयसकलजीवलोक, लोकान्तरगतस्यापि तेऽहमेव राक्षसी विनाशायोपजाता । दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रधाने च प्रयोजनं निष्पन्नं यत्पुनःपुनस्तेव्यापादनम् । स्वयं हत्वा च पापकारिणी कमुपालभे ? कि ब्रवीमि, किमाक्रन्दामि, -
***********
धात् । ते तवानंया स्नेहलस्य भावः स्नेहलता तयानामा संपन्नमित्यार्दीकृतं मम हृदयं चेतः । तत्तस्मादालोकितं निरीक्षितं मया । उज्जयिन्यां विशालायामपत्यहेतोः संतानार्थं तपस्यतस्तपः कुर्वतस्तारापीडनाम्नो राज्ञः सनिदर्शनं सदृष्टान्तं चन्द्रमसा चन्द्रेण तनयत्वं पुत्रत्वमुपगन्तव्यमुपयातव्यम् । ते तव वयस्येनापि पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नस्तनयत्वमुपगन्तव्यं प्राप्तव्यम् । त्वमपि भवानपि तस्य महोपकारिणो महोपकृतिकर्तुश्चन्द्र एवात्मा यस्यैवंभूतस्य राजपुत्रस्य राजसूनोर्वाहनतामुपयास्यस्युपगमिष्यसीति । अहं तद्वचनानन्तस्मेव तद्भाषितादन्वधःस्थिते महोदधौ समुद्रे न्यपतं पतितवान् । तस्माच्च महोदधेस्तुरङ्गीभूयैवाचीभूयैवोदतिष्ठमुत्थितोऽभूवम् । तुरंगमत्वेऽपि मे मम संज्ञा नैव व्यपगता नैवापगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी एतामेतावती भूमिमानीतो देवचन्द्रमसोऽवतारश्चन्द्रापीडः । योऽप्यसौ वैशम्पायनः प्राक्तनः पूर्वभवसंबन्धी योऽनुरागोऽनुरतिस्तस्य संस्काराद्भावनारूपादभिलषन्वाञ्छनजानन्त्याज्ञायमानया त्वया शापाग्निना निर्दग्धो ज्वालितः सोऽपि मे मम वयस्यपुण्डरीकस्यावतारः ।
इत्येतच्छ्रुत्वा निशम्य । हा खेदे । हे देव पुण्डरीक, जन्मान्तरेषु भवान्तरेष्वविस्मृतो विस्मृतिमप्राप्तो ममानुरागो यस्य तस्य संबोधनम् । मय्येव प्रतिबद्धं जीवितं प्राणितं यस्य तस्य संबोधनम् । मम शरणं यस्य संबोधनम् । मन्मुखमवलोकत इत्येवंशीलस्तस्य संबोधनम् । मन्मयो मद्व्याप्तः । मत्स्वरूप इति यावत् । सकलजीवलोको यस्य तस्य संबोधनम् । ते तव लोकान्तरगतस्यापि भवान्तरप्राप्तस्यापि विनाशाय मरणायाहमेव राक्षस्युपजाता प्रादुर्भूता । दग्धप्रजापतेर्भस्मीभूतविधातुर्मनिर्माणे मज्जनने दीर्घजीवितप्रदाने च चिरंजीवित्ववितरणे चेयदेवैतावदेव प्रयोजनं कृत्यं निष्पन्नं संजातं यत्पुनः पुनस्ते व्यापादनं मारणम् । स्वयमात्मना हत्वा चाहं पापकारिणी कमुपालभे । कस्योपालम्भं ददामीत्यर्थः । किं ब्रवीमि किं वच्मि । किमाक्रन्दाम्याक्रन्दं करोमि । टिप्प० - 1 सनिदर्शनम् निदर्शनेन अभिज्ञानेन (अयं चन्द्र एव, यतो हि चन्द्रापीडेति नामाऽस्याभिज्ञानम् इति) सहितम्, इत्यर्थः । 2 'देवस्य चन्द्रमसः' इति स्यात् । वस्तुतस्तु - 'आनीतश्चन्द्रमसोवतारः' इत्येव पाठः । 3 बहुवचनक्षेपो निरर्थकः । 'जन्मान्तरेऽपि इत्येव पाठः । पाठा० - १ आतिम्. २ तस्यैव परमोपकारिणः. ३ अधःस्थितः. ४ तुरंगमत्वेन. ५ नैवोपयाता. ६ तदेव. ७ प्राक्तनादेव. ८ एतछ्रुत्वा महाश्वेता. ९ कथं लोकान्तर. १० किम्. ११ कम्. १२ ब्रवीमि कस्यै कथयामि. १३ कम्.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
(कपिजलस्य वृत्तान्तः
उत्तरभागः।
1631)
Page #159
--------------------------------------------------------------------------
________________
कर्मुपयामि शरणम्, को वा करोतु मयि दयाम्, याचेऽहमात्मनैवाधुना । 'देव, प्रसीद । कुरु दयाम् । देहि मे प्रतिवचनम्' इत्येतान्यक्षराण्युच्चारयन्त्यपि लज्जे । मन्ये च तवाप्येवैमुत्पन्नं मन्दभाग्यायां मयि वैराग्यं येनैवमपि विप्रैलपन्त्यां न प्रतिवचनं ददसि । हा, हतास्म्यनेनैवात्मनो जीवितस्योर्पर्यनिर्वेदेन" इत्युन्मुक्तार्तनादा सोरस्ताङमवनावात्मानमपातयत् ।
कपिञ्जलस्तु तथार्तकृतप्रलापां तां सानुकम्पमवादीत् - 'गन्धर्वराजपुत्रि, कस्तवात्र दोषो येनैवमनिन्दनीयमात्मानं पर्योजयति । काखपकेऽनुभवनीये दुःखत्यावसरः, } पेनैवात्मानं शुचा व्याप । सह्यतरं तत्त्वया निर्व्यूढं हँतहृदयस्यास्यैव समागमप्रत्याशया । यथा च शापदोषादिदमुपगतं भवत्योर्द्वयोरपि दुःखं तथा मया कथितमेव । चन्द्रमसोऽपि भारती भवतीभ्यां श्रुतैव । तदुन्मुच्यतामयमात्मनो वयस्यस्य चाश्रेयस्करः शोर्कानुबन्धः । द्वयोरेवँ श्रेयसे यदेव भवत्याङ्गीकृतं तदेवानुबध्यतां व्रतपरिग्रहोचितं -
कं शरणं त्राणमुपयामि गच्छामि । मयि विषये दयां कृपां को वा करोतु विदधातु । अधुना सांप्रतमहमात्मनैव याचे प्रार्थये । हा देव, प्रसीद प्रसन्नो भव । दयां कृपां कुरु । मे मम प्रतिवचनं प्रत्युत्तरं देहि वितर । इत्येतान्यक्षराणि वर्णानुच्चारयन्त्यपि कथयन्त्यपि लज्जे त्रपे । मन्ये च जाने च मन्दभाग्यायां भाग्यरहितायां मयि वैराग्यं विरक्तत्वं तवाप्येवमुत्पन्नं संजातं येनैवं विप्रलपन्त्यामपि विलापं कुर्वन्त्यामपि प्रतिवचनं प्रत्युत्तरं न ददासि न प्रयच्छसि । हा इति खेदे । अहं हता व्यापादितास्मि । अनेनैवात्मनः स्वस्य जीवितस्य प्राणितस्योपर्यनिर्वेदेनाऽस्वावमानेनेत्युन्मुक्त आर्तनादः करुणस्वरो यया सा । 'निर्वेदः स्वावमाननम्' इति । सोरस्ताडं वक्षस्ताडनं यथा स्यात्तथावना पृथिव्यामात्मानमपातयत्पातितवती ।
कपिलस्तु तथा तेन प्रकारेणार्तः करुणः कृतो विहितः प्रलापो यया सा तां सानुकम्पं सदयं यथा स्यात्तथावादीदवोचत् - हे गन्धर्वराजपुत्रि, कस्तव भवत्या अत्र दोषो दूषणम्, येनैवमनिन्दनीयमगर्हणीयमात्मानं स्वं निन्दापदैर्गर्हावाक्यैर्योजयसि संयुक्तं करोषि । नामे कोमलामन्त्रणे । को बाधुनेदानीं सुखपाकेऽनुभवनीये सति सुखफलस्य साक्षात्कारे कर्तव्ये सति दुःखस्य कृच्छ्रस्यावसरः प्रस्तावः । येनैवं येन हेतुना शुचा कृत्वात्मानं व्यापादयसि शरीरात्पृथक्करोषि । यदसह्यतरं सोढुमशक्यं तत्त्वया निर्व्यूढमतिक्रान्तं हतं हृदयं यस्यैवंभूत पुण्डरीकस्य समागमो मेलापस्तस्य प्रत्याशया वाञ्छया । यथा च भवत्योर्द्वयोः शापदोषादिदं दुःखमसातमुपगतं प्राप्तं मया कथितमेव निवेदितमेव । चन्द्रमसोऽपि चन्द्रस्यापि भारती वाणी भवतीभ्यां श्रुतैवाकर्णितैव । तदयमात्मनो वयस्यस्य चाश्रेयस्करोऽकल्याणकृच्छोकानुबन्धः शोचनप्रबन्ध उन्मुच्यतां त्यज्यताम् । द्वयोरेव श्रेयसे शुभार्थं यदेव भवत्याङ्गीकृतं स्वीकृतं तदेव व्रतपरिग्रह उचितं योग्यं तपोऽनुबध्यतां टिप्प० - 1 ' तथा कृतार्तप्रलापाम्' इत्येव पाठः । 2 'येनैवमात्मानं शुचा व्यापादयसि' इत्येव पाठः । येनाऽवसरेण एवम् (अनेन प्रकारेण ) आत्मानं व्यापादयसीति तदर्थः । 3 'यदसह्यं तत्त्वया निर्व्यूढम् दृढीकृतं च हृदयं समागमप्रत्याशया' इति पाठान्तरम् । यथेच्छमुपादीयतां विज्ञैः ।
पाठा० - १ किम्. २ अपराद्धा. ३ उत्पन्नमेव. ४ विलपन्त्या. ५ मे ददासि ६ अनिर्वेदना. ७ सोरस्ताडनम् ८ तथा कृतार्त. ९ को वा. १० सुखमात्रके . ११ यदेवम्. १२ अलङ्घयतरम्. १३ तु. १४ दृढीकृतहृदयस्य. १५ उपनतम् १६ शोकानुबन्धावेगः १७ अपि
632
कादम्बरी |
कथायाम्
Page #160
--------------------------------------------------------------------------
________________
तपः । तपसो हि सम्यक्कृतस्य नास्त्यसाध्यं नाम किंचित् । देव्या हि गौर्या तपसः प्रभावादतिदुरासदं स्मरारेरपि यौवदासादितं देहार्धपदम् । एवं त्वमपि नॅचिरात्तथैव मे वयस्यस्याङ्गे निजैतपः प्रभावात्पदमवाप्स्यसि' इति महाश्वेतां पर्यबोधयत् । उपशान्तमन्युवेगायां च महाश्वेतायां विषण्णदीनमुखी कादम्बरी कपिञ्जलमप्राक्षीत् - 'भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन्सरसि जलप्रवेशः कृतस्तत्किं तस्याः पत्रलेखायाः संवृत्तमित्यावेदनेन प्रसादं करोतु भगवान्' इति । स तु प्रत्यवादीत् - ‘राजपुत्रि, सलिलपातनन्तरं न कश्चिदपि तद्वृत्तान्तो मया ज्ञातः । तदधुना क्व चन्द्रात्मकस्य चन्द्रापीडस्य, क्वं पुण्डरीकात्मनो वैशम्पायनस्य जन्म, किं वास्याः पत्रलेखाया वृत्तमिति सर्वथैवास्य वृत्तान्तस्यावगमनाय गतोऽहं प्रत्यक्षलोकत्रयस्य तातस्य श्वेतकेतोः पादमूलम्' इत्यभिदधान एव गगनमुदपतत् ।
१०
अथ गते तस्मिन्विस्मयान्तरितशोकवृत्तान्ता चन्द्रापीडमलोक्य गलितनयनपयसि यथास्थानमपसृत्य स्थितवति सपरिजने राजपुत्रलोके कादम्बरी महाश्वेतामवादीत् - 'प्रियसखि, -
***********
क्रियताम् । हि यस्माद्धेतोः सम्यक्प्रकारेण कृतस्य तपसश्चान्द्रायणादेः । नामेति कोमलामन्त्रणे । किंचिदसाध्यमकर्तव्यं नास्ति । अत्रार्थे निदर्शनं प्रदर्शयन्नाह - गौर्या पार्वत्या तपसश्चान्द्रायणादेः प्रभावान्माहात्म्यात्स्मरारेपि महादेवस्यापि अतिदुःखेनासाद्यत इति दुरासदम् । अर्ध देहस्य देहार्धः । ‘अर्धं नपुंसक' इति समासः । तदेव पदं स्थानमासादितं प्राप्तम् । एवं त्वमपि नचिरात्स्तोककालेन तथैव वयस्यस्य पुण्डरीकस्याडूके क्रोडे निजतपः प्रभावात्पदमवाप्स्यसीति महाश्वेतां पर्यबोधयव्प्रतिबोधयामास । उपशान्तः प्रशान्तो मन्युवेगः शोकरयो यस्याः सा तस्यां महाश्वेतायां च विषण्णा विलक्षा चासौ दीनमुखी च विषण्णदीनमुखो कादम्बरी कपिञ्जलमप्राक्षीदपृच्छत् - हे भगवन्कपिञ्जल, पत्रलेखया त्वया चास्मिन् सरसि अच्छोदतटाके जलप्रवेशः पानीयावगाहः कृतः । तदिति हेत्वर्थे । तत्तस्मात्तस्याः पत्रलेखायाः किं संवृत्तं किं संजातमित्यावेदनेनेति प्रकथनेन भगवान्कपिञ्जलः प्रसादमनुग्रहं करोतु विदधातु । स तु मुनिः प्रत्यवादीव्यत्यब्रवीत् । किं तदित्याह राजपुत्रीति । हे राजपुत्रि नृपसुते, सलिलपातानन्तरं जलपतनाव्यवहितं तद्वृत्तान्तः पत्रलेखोदन्तो न कश्चिदपि मया ज्ञातोऽवगतः । तस्मादधुना सांप्रतं क्व चन्द्रात्मकस्य शशिस्वरूपस्य चन्द्रापीडस्य जन्मोत्पत्तिः, क्व पुण्डरीकात्मनो वैशम्पायनस्य जन्म, अस्याः पत्रलेखायाः किं वा वृत्तं जातमिति सर्वस्य वृत्तान्तस्यावगमनाय ज्ञानाय प्रत्यक्षलोकत्रयस्य साक्षात्कृतत्रिविष्टपस्य श्वेतकेतुनाम्नो मत्तातस्य पादमूलं चरणसमीपमहं गतैः प्राप्त इत्यभिदधान इति ब्रुवाणो गमनं व्योमोदपतदुत्पतितो बभूव ।
अथेति । उत्पतनानन्तरं तस्मिन्कपिञ्जले गते याते सति विस्मयेनाश्चर्येणान्तरितो व्यवहितः शोकवृत्तान्तो यस्याः सैवंविधा कादम्बरी महाश्वेतामवादीदवोचत् । कस्मिन्सति । यथास्थानमपसृत्य संस्थितवति सपरिजने सपरिच्छदे राजपुत्रलोके सति । कीदृशे । चन्द्रापीडमालोक्य निरीक्ष्य गलितं च्युतं नयनपयो नेत्रजलं यस्य स तस्मिन् । किमवादीत्तदाह - प्रियेति । हे प्रियसखि हे वल्लभवयस्ये, त्वया सह भक्त्या सार्धं तुल्यं सदृशं दुःखं -
टिप्प० - 1 'क्व चन्द्रात्मकस्य चन्द्रापीडस्यात्मा, पुण्डरीकात्मकस्य वैशम्पायनस्य च जन्म, ' इति पाठः । 2 'प्रस्थितोहम्' इति पाठः । अयमहं प्रस्थितो भवामीत्याशयः ।
-
पाटा० - १ अपि २ गौर्यास्तपः ३ समासादितम् ४ अचिरात्. ५ निजतपसः ६ भगवन् ७ तस्याः संवृत्तम् ८ भगवति ९ आयात १० आत्मा. ११ पुण्डरीकात्मकस्य. १२ अवगमाय १३ वृत्तान्ते. १४ आलोक्यालोक्य १५ अपसृत्यापसृत्य १६ संस्थितवती.
कपिञ्जलकृतं सान्त्वनम्
उत्तरभागः ।
633
Page #161
--------------------------------------------------------------------------
________________
तुल्यदुःखितां त्वया सह नयता न खल्वसुखं स्थापितास्मि भगवता विधात्रा । अद्य मे शिरः समुद्घाटितम् । अद्य ते वदनं दर्शयन्ती प्रियसखीति चाभाषमाणा न लज्जे । तवाप्यहमद्यैव प्रियसखी संजाता । संप्रति मरणं जीवितं वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यो मया ? केन वापरेणोपदेष्टव्यम् ? तदेवं गते यत्करणीयं तदुपोदिशतु मे प्रियसखी । नाहमात्मना किंचिदपि वेद्मि, किं कृत्वा श्रेयः ?' इत्युक्तवती कादम्बरी महाश्वेता प्रत्यवादीत् - 'प्रियसखि, किमत्र प्रश्नेनोपदेशेन वा । यदेवेयमनतिक्रमणीया प्रियतमसमागमप्रत्याशा कारयति, तदेव करणीयम् । पुण्डरीकवृत्तान्तोऽद्य कपिञ्जलाख्यानात्स्फुटीभूतः । तत्कालं तु वाङ्मात्रकेणैव समाधासितया मया न पारितमन्यत्किंचिदपि वक्तुम् । तत्त्वमन्यत्किं करोषि यस्याः प्रत्ययस्थानमिदं चन्द्रापीडशरीरमक एवास्ते । तदन्यथात्वेऽस्य करणीयचिन्ता । यावत्पुनरिदमविनाशि तिष्ठति तावदेव तस्यानुवृत्तिं मुक्त्वा किमन्यत्करणीयम् । अप्रत्यक्षाणां हि देवतानां -
***********
विद्यते यस्याः सा तुल्यदुःखिनी तस्या भावस्तुल्यदुःखिता तां नयता प्रापयता भगवता विधात्रा । खलु निश्चयेन । असुखं न स्थापितास्म्यसुखे न रक्षितास्मि । अद्य मे शिरः समुद्घाटितम् । अद्य मया शिरः कर्षितमित्यर्थः । अद्य ते तव वदनं दर्शयन्त्यवलोकनं कारयन्ती प्रियसखि इति भाषमाणेति जल्पमाना न लज्जे न त्रपे । समदुःखत्वादिति भावः । तवापि भवत्या अप्यथैवाहं प्रियसखी वल्लभवयस्या संजाता । पूर्वं भवत्या एव दुःखितत्वेन वचनमात्रेण प्रियसखित्वमभूत, सांप्रतं तु समदुःखसुखित्वेनेति भावः । संप्रतीदानीं मरणं जीवित वा मे मम पूर्वोक्तहेतोरेव न दुःखाय दुःखहेतवे । तत्तस्माद्धेतोरपरोऽन्यः को मया प्रष्टव्यः पृच्छाविषयीकार्यः । केन वापरेणान्येनोपदेष्टव्यमुपदेशो दातव्यः । तदेव गते प्राप्ते सति यत्करणीयं यदेव विधेयं तप्रियसखी मे ममोपादिशतु कथयतु । नाहमात्मना किंचिदपि वेद्मि किं कृत्वा श्रेयः कल्याणं स्यात् । इत्युक्तवती कादम्बरी महाश्वेता प्रत्यवादीप्रत्यब्रवीत् - हे प्रियसखि, अत्रास्मिन्नर्थे प्रश्नेन पृच्छयोपदेशेन वा किम् । यदेवेयमनतिक्रमणीयानुल्लङ्घनीया प्रियतमसमागमप्रत्याशा वल्लभजनमेलापकसमीहा कारयति निष्पादयति तदेव करणीयं कार्यम् । भवत्या इति शेषः । पुण्डरीकस्य वृत्तान्त उदन्तोऽद्य कपिजलस्याख्यानात्कथनात्स्फुटीभूतः प्रकटीभूतः । तत्कालं तदात्वे वाङ्मात्रकेणैव वचनमात्रेणैव समाधासिंतयाश्वासनं कारितया मयान्यत्किंचिदपि वक्तुं कथयितुं न पारितं न शक्तम् । तत्तस्माद्धेतोस्त्वमन्यदितरत्किं करोषि विदधासि । यस्या भवत्याः प्रत्ययस्थानं विश्वासस्थलमिदं चन्द्रापीडशरीरमक उत्सङ्ग एवास्ते तिष्ठति । तत्तस्मात्कारणादस्य शरीरस्यान्यथात्वेऽनेकस्थायित्वे करणीयचिन्ता कर्तव्यचिन्ता । यावत्पुनरिदमविनाशि तिष्ठति तावदेव तस्य शरीरस्यानुवृत्तिं सपर्या मुक्त्वा किमन्यत्करणीयं विधेयम् । हि यस्मात्कारणादप्रत्यक्षाणां परोक्षाणां देवतानां देवानां मृन्मृत्तिका, अश्मा दृषत्, -
- - - - - - - - -- - - - - - - - - - - टिप्प० - 1 तुल्यं यथा तथा दुःखिताम् इत्यर्थ उचितः । वस्तुतस्तु - 'तुल्यदुःखताम् (तुल्यं दुःखं ययोः ते तुल्यदुःखे, तत्ताम्) इत्येव पाठः सम्यक् । 2 अद्य मे शिरः समुद्घाटितं समुत्रमितं (विधात्रा) । 3 कोर्थ इति स्वयं जानीयात्, लेखे प्रमादकारी लेखको वा । कदाचित् 'अनेवस्थायित्वे करणीया चिन्ता । इति पाठः स्यात् । शरीरस्यैवमेव अस्थितौ (विकारे सति) चिन्ता कार्या, इति तदर्थः । 4 'तावदस्याऽनुवृत्तिं मुक्त्वा' इत्येव पाठः ।
पाटा० - १ तुल्यदुःखतां कुर्वता तेन चिरात्खल्वय सुखम्. २ उपदिशतु. ३ त्वद्य. ४ हस्तात्. ५ तदा तु. ६ कर्तुम्. ७ तत्किमन्यत्. ८ तदन्यथा त्वस्य. ९ करणीया. १० अविनाशि तावदेव,
(634
कादम्बरी।
कथायाम्-)
Page #162
--------------------------------------------------------------------------
________________
मृदश्मकाष्ठमय्यः प्रतिमाः श्रेयसपूजासत्कारेणोपचर्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडनामान्तरितस्य चन्द्रमसो मूर्तिरनाराधितप्रसन्ना।
इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीमेवोत्थाय तरलिकया मदलेखया चोत्थाप्य तामखेदात् चन्द्रापीडतनुम्, अन्यतरस्मिञ्छीतवातातपर्वर्षादिसर्वद्वन्द्वदोषरहिते शिलातले शनैःशनैरखेदयन्ती स्थापयित्वा, अपनीतशृङ्गारवेषाभरणा, मङ्गलमात्रकावस्थापितैककररत्नवलया, स्नानशुचिर्भूत्वा परिधाय धौतशुचिनी दुकले, प्रक्षाल्य पुनःपुनर्गाढलग्नमधरकिसलये ताम्बूलरागम्, उपर्युपरि निमीलितागतबाष्पवेगोत्तरललोचना, अन्यदेव किमप्यचिन्तितमनुठोक्षितमशिक्षितमनभ्यस्तमनुचितमपूर्वं बाला बलाद्विलोमप्रकृतिनाकार्यपण्डितेन दग्धवेधसा कार्यमाणा, यान्येव सुरभिकुसुमधूंपानुलेपनानि सुरतोपभोगायानीतानि तैरेव देवतोचितामपचितिं संपाद्य चन्द्रापीडमूर्ती, मूर्तिमतीव शोकवृत्तिरार्तरूपा रूपान्तरमिव क्षणेनेवा -
***********
काष्ठं दारु, एतैर्निष्पन्ना मृदश्मकाष्ठमय्यः प्रतिमा मूर्तयः श्रेयोहेतुत्वाच्छ्रेयसानि दधिदूर्वादीनि, पूजार्चा पुष्पादिभिः, सत्कारोऽभ्युत्थानादिः, एतेषां समाहारस्तेनोपचर्यन्ते पूज्यन्ते । किं पुनः प्रत्यक्षदेवस्य चन्द्रापीडॅनाम्नोऽन्तरितस्य व्यवहितस्य चन्द्रमसो मूर्तिः प्रतिमाऽनाराधितप्रसनानासेवितप्रमुदिता। - इत्युक्तवत्यां महाश्वेतायां कादम्बरी तूष्णीं मौनमेवोत्थायोत्थानं कृत्वा तरलिकया मदलेखया च तामखेदाहाँ सुकुमारां चन्द्रापीडतनुमुत्थाप्य तत उत्थानं कारयित्वान्यतरस्मिञ्छीतं च वातश्चातपश्च वर्षा च शीतवातातपवर्षास्ता एवादौ येषामेवंविधाः सर्वद्वन्द्वदोषास्तै रहिते वर्जिते । एतत्प्रतिपक्षग्रहणाद्वन्द्वता बोध्या । शिलातले शनैःशनैरखेदयन्ती सादमनुत्पादयन्ती स्थापयित्वा स्थापनां कृत्वापनीतो दूरीकृतः श्रृङ्गारवेष आभरणं च यया सा । केवलं मङ्गलार्थं मङ्गलमात्रमवस्थापितमवस्थानं कारितमेकैकरे रत्नवलयं मणिकटकं यया सा । स्नानेनाप्लवेन शुचिर्भूत्वा धौते क्षालिते शुचिनी पवित्रे दुकूले चोचे परिधाय परिधानं कृत्वा गाढलग्नमत्यन्तसंयुक्तमधरकिसलय ओष्ठपल्लवे ताम्बूलरागं पुनःपुनर्वारंवारं प्रक्षाल्य प्रक्षालनं कृत्वोपर्युपरि निमीलिते मुद्रित आगतबाष्पवेगे समागतनेत्राथुरये उत्तरललोचने चञ्चलनयने यस्याः सैवंविधा कादम्बरी बाला बलाद्धठाद्विलोमप्रकृतिना प्रतिकूलस्वभावेनाकार्यपण्डितेनाकृत्यविचक्षणेन दग्धवेधसा ज्वलितविधानान्यदेव किमप्यचिन्तितमविमृष्टमनुत्प्रेक्षितमतर्कितमशिक्षितमपठितमनभ्यस्तं पुनः पुनः कृतापरिवर्तनमनुचितमन्याय्यमपूर्वमभिनवं कार्यमाणा विधाप्यमाना, यान्येव सुरभिकुसुमधूपानुलेपनानि सुरभिकुसुमानि सुगन्धपुष्पाणि, धूपः प्रसिद्धः, अनुलेपनं विलेपनं एतानि सुरतस्य मैथुनस्योपभोगायानीतानि तैरेव चन्द्रापीडमूर्ती चन्द्रापीडस्य शरीरे देवतोचितां देवयोग्यामपचितिमर्चा संपाय विधाय । मूर्तिमती देहधारिणी शोकवृत्तिरिवार्तरूपा पीडास्वरूपा क्षणेनेव समयेनेव -
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'प्रतिमाः श्रेयसे (कल्याणाय) पूजानमस्कारेणोपचर्यन्ते इति पाठः । पूजासहितेन ननरकारेण । 2 चन्द्रापीडेति नाम्ना अन्तरितस्य, वास्तवे चन्द्रमा एव नाममात्रस्य व्यवधानमित्याशयः । 3 अवस्थापितः एकः करे रत्नवलयो यया, एकैकस्मिन् करे एकमेकं वलयमवस्थापितमित्याशयः ।
पाठा० - १ काष्ठमयाः. २ पूजानमस्कारेण चन्द्रस्य. ३ प्रत्यक्षदेवस्य चन्द्रस्य. ४ प्रपन्ना. ५ महाभेतायां तूष्णीम. ६ सहोत्थाय. ७ वर्षादिद्वन्द्व. ८ शनैः. ९ स्थापितावशेषरत्नवलया; स्थापयित्वापनीतश्रृङ्गारवेषग्रहणा; मङ्गलमात्रकावस्थापितैककरभूषणा. १० म्नाता शुचिः. ११ किंचिदपि. १२ अनुपक्षिप्तम्. १३ अभ्यस्तम्. १४ अपूर्व विलोम. १५ विलोमप्रकृतिना. १६ अनुलेपनादीनि. १७ आतिरूपा. १८ तत्क्षणेनैवागता; तत्क्षणेनैवोपगता.
महाश्वेतोपदेशात्काद०श्चन्द्रा०देहरक्षा
उत्तरभागः।
635
Page #163
--------------------------------------------------------------------------
________________
गता, विगतजीवितेव शून्यमुखी, मुखावलोकिनी चन्द्रापीडस्य, पीडितोत्पीडितहृदयापि रक्षन्ती बाष्पमोक्षम्, उद्दामवृत्तेः शोकादपि मरणादपि कष्टतमामवस्थामनुभवन्ती, तथैवाङ्के समारोपितचन्द्रापीडचरणद्वया, दूरागमनखिन्नेनापि बुभुक्षितेनाप्यप्रतिपन्नस्नानपानभोजनेनापि मुक्तात्मना राजुपुत्रलोकेन स्वपरिजनेन च सह निराहारा तमशेषं दिवसमक्षिपत् ।
यथैव च दिवसमशेष क्षपितवती तथैव तां गम्भीरमेघोपरोघभीमामनवरतगर्जितध्वानकम्पितहृदयबन्धामाबद्धकलकैलापिकुलकेकाकोलाहलाकुलितचेतोवृत्तिमुद्दामदुर्दुरारटितबधिरितश्रोत्रेन्द्रियां दुर्दर्शतडित्संपातपीडितदिशर्मतिनिहादापादितभुवनज्वरां ज्वलत्खद्योतनिकरजर्जरिततरुगहनतलतमःप्रसरभीषणतमा तमस्विनीमपि दूरीकृत्याऽबलासहभुवं भीतिम्, अपरित्यक्तचन्द्रापीडॅचरणकमला, अचेतितस्वशरीरखेदा जाग्रती समुपविष्टैव क्षणमिव क्षपां क्षपितवती । प्रातश्च तदुन्मीलितं चित्रमिव चन्द्रापीडशरीरमवलोक्य शनैःशनैः पाणिना -
***********
रूपान्तरमाकारान्तरमागतेव विगतजीवितेव गतप्राणेवात एव शून्यमुखी । चन्द्रापीडस्य मुखमाननमवलोकते पश्यतीत्येवंशीला । पीडितेन पीडयोत्पीडितं व्याप्तं हृदयं वक्षो यस्या एवंविधापि बाष्पमोक्षमश्रुपातं रक्षन्ती रुन्धन्त्युद्दामा कठिना वृत्तिर्वर्तनं यस्यैवंभूताच्छोकादपि खेदादपि मरणादपि मृत्योरपि कष्टतमामतिशयेन कृच्छ्रामवस्थां दशामनुभवन्ती साक्षात्कुर्वन्ती । तथैव पूर्वोक्तरीत्या अङ्क उत्सङ्गे समारोपितं स्थापित चन्द्रापीडचरणद्वयं यया सा । दूरायदागमनं तेन खिनेनापि संजातखेदेनापि बुभुक्षितेनापि क्षुधितेनाप्यप्रतिपन्नान्यनङ्गीकृतानि स्नानपानभोजनान्याप्लवपानभक्षणानि येन स तथा तेन । मुक्त आत्मा येन स तथा तेनैवंविधेन राजपुत्रलोकेन स्वपरिजनेन च कादम्बरीपरिच्छदेन च सह निराहारा निर्गतभोजना तमशेषं समग्रं दिवसं दिनमक्षिपनिर्गमयामास ।
यथैव च येन प्रकारेण दिवसमशेष क्षपितवती तथैव तेन प्रकारेण समुपविष्टैवासेदुष्येव क्षणमिव क्षपां त्रियामां क्षपितवतीति दूरेणान्चयः । 'शर्वरी क्षणदा क्षपा' इति हैमः । अथ तां विशेषयन्नाह - गम्भीरो यो मेघस्तेनोपरोधः प्रतिबन्धस्तेन भीमा भीषणाम् । अनवरतं निरन्तर यो गर्जितध्वानः स्तनितशब्दस्तेन कम्पितो हृदयबन्धो भुजान्तरबन्धो यया सा ताम् । आबद्धं मिलितं यत्कलं मनोज्ञ कलापिकुलं मयूरान्ववायस्तस्य केकावाण्यस्तासां कोलाहलेन कलकलेनाकुलिता व्याकुलीकृता चेतोवृत्तिर्यया सा ताम् । उद्दाम भीषणं य१राणां भेकानामारटितं पूत्कृतं तेन बधिरितं बधिरीकृतं श्रोत्रेन्द्रियं यया ताम् । दुर्दर्शो दुर्निरीक्ष्यो यस्तडित्संपातो विद्युत्पातस्तेन पीडिता दिशः ककुभो यया सा ताम् । अतिनिहादेनातिगर्जितेनापादितो विहितो भुवनस्य ज्वरस्तापो यया सा ताम् । ज्वलन्दीप्यमानो यः खद्योतानां ज्योतिरिङ्गणानां निकरः समूहस्तेन जर्जरितं शिथिलीभूतं यत्तरुगहनानां तलेऽधोभागे तमोऽन्धकारं तस्य प्रसरो विस्तारस्तेन भीषणतमामतिभैरवामेतादृशीं तमस्विनीं तमोयुक्तामप्यबलया सहभुवं सहोत्पन्नां भीतिं भयं दूरीकृत्य निराकृत्य । कीदृशी कादम्बरी । अपरित्यक्तमनुज्झितं चन्द्रापीडचरणकमलं यया सा । अचेतितोऽविचारितः स्वशरीरखेदो यया सा । जाग्रती जागरा क्षणमिव क्षपां क्षपितवती । अन्वयस्तु प्रागेवोक्तः । प्रातश्चेति । प्रत्यूषे तदुन्मीलितं विकसितं चित्रमिव चित्र -
-
-
-
टिप्प० - 1 त्यक्तात्मना जीवितनिरपेक्षेणेत्यर्थः । 2 कुले कलशब्दस्य किं स्वारस्यम् ? आबद्धः कलः (मधुराऽस्फुटः स्वनः) यैः तथाविधानां कलापिकुलाना केकाकोलाहलैरित्यादिरों वाच्यः । 3 तमोयुक्ता रात्रिरिति विशिष्य वक्तव्यं, ज्योत्स्न्या अपि रात्रेः सत्त्वात् । 4 जागरा किम् ? अस्वपतीत्यर्थः ।
पाठा० - १ पीडोत्पीडित. २ अक्षपयत्. ३ कलापिकेका. ४ आकुलीकृत. ५ दृशम्. ६ अशनिनिर्याततर्जनापादित; अशनिनिहादतर्जनापादित. ७ गहनतर. ८ चरणाचेतितशरीर. ९ आलोक्य.
(636
कादम्बरी।
कथायाम्
Page #164
--------------------------------------------------------------------------
________________
स्पृशन्ती पार्थस्थितां मदलेखामवादीत् - 'प्रियसखि मदलेखे, न वेद्मि किं रुचेर्वशादुत निर्विकारतति, अहं तु तादृशीमेवेमां तनुमवलोकयामि । तत्त्वमपि तावदादरतो निरूपय' इति । एवमुक्ता मदलेखा तां प्रत्यवादीत् - 'प्रियसखि, किमत्र निरूपणीयम् । अन्तरात्मनो विरहाद्व्यापारमात्रकमस्यामुपरतम् । अन्यत्तादृशमेवेदं व्याकोशशतपत्राकारं मनागप्यनुन्मुक्तं श्रिया वदनम् । तथा च संवेल्लिताग्रभागः स्निग्धः कुन्तलकलापः । तथैवेयमिन्दुशकलानुकारिणः कान्तिर्ललाटस्य । तादृशमेवेदमामुकुलितनीलोत्पलद्युतिहारि कर्णान्तायतं लोचनद्वयम् । तथैव चेावहसतोऽपि विकसिताविवोद्भासितकपोलमूलौ सृक्कोपान्तौ । तादृश एवाभिनवकिसलयच्छविरधरः । तथैव चेदं विद्रुमालोहितनखाङ्गुलीतलं पाणिपादम् । तदेवेदमविगलितसहजलावण्यसौकुमार्याणां सौष्ठवमङ्गानाम् । तत्सत्या सा भारती, कपिञ्जला -
***********
कारालेखितमिव चन्द्रापीडशरीरमवलोक्य निरीक्ष्य शनैःशनैर्मन्दमन्दं पाणिना हस्तेन स्पृशन्ती स्पर्श कुर्वन्ती पार्थस्थितां मदलेखामवादीदभ्यधात् । किमुवाचेत्याह - हे प्रियसखि मदलेखे, अहं न वेद्मि न जाने । किं रुचेर्वशादभिलाषवशतः, उत निर्विकारतया निर्विकृतितया चेति । अहं तु तादृशीमेव पूर्वविलोकितामेवेमां तनुमवलोकयामि पश्यामि । तत्त्वमपि तावदादरतः संभ्रमतो निरूपय विलोकयेति । एवमुक्ता प्रतिपादिता मदलेखा ता प्रत्यवादीप्रत्यवोचत् - हे प्रियसखि कादम्बरी, किमत्र निरूपणीयं विलोकनीयम् । अन्तरात्मनोऽन्तर्वर्तिजीवस्य विरहाद्वियोगाद्व्यापारमात्रक परिस्फुरणादिकमस्यां चन्द्रापीडस्य तनावुपरतं स्थितम् । अन्यत्तादृशमेव पूर्वावलोकितसदृशमेव । एतदेव स्पष्टयन्नाह - इदमिति । व्याकोशं विकसितं यच्छतपत्रं पद्मं तस्याकार आकृतिर्यस्यैवंविधं मनागपीषदपि श्रियानुन्मुक्तमत्यक्तमिदं प्रत्यक्षगतं वदनं मुखम् । 'सहसपत्र कमलं शतपत्रं कुशेशयम्' इत्यमरः । तथा च सवेल्लितश्चञ्चलोऽग्रभागो यस्यैवंभूतः स्निग्धः सचिक्कणः कुन्तलकलापः केशसमूहः । 'चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । तथैव चेयमिन्दुशकलं चन्द्रखण्डमनुकरोत्येवंशीलस्य ललाटस्यालिकस्य कान्तिर्युतिः । तादृशमेवेदमामुकुलितमाकुड्मलितं यनीलोत्पलं नीलपमं तस्यद्युति हरतीत्येवंशीलं कर्णान्तं यावदायतं विस्तीर्ण लोचनद्वयं नेत्रयुग्मम् । तथैव चाहसतोऽपि हास्यमकुर्वतोऽपीमौ विकसिताविव विनिद्राविवोद्भासिते कपोलमूले याभ्यां ताबुद्भासितकपोलमूलौ । एवंभूतौ सृक्कयोरोष्ठप्रान्तयोरुपान्तौ समीपौ । सृक्कशब्दोऽदन्तः क्लीबश्च । 'प्रान्तावोष्ठस्य सृक्किणी' इत्यमरः । तादृश एवाभिनवो नूतनो यः किसलयः पल्लवस्तद्वच्छविः कान्तिर्यस्यैवंभूतोऽधर ओष्ठः । तथैव पूर्ववदेवेदं विद्रुमं हेमकन्दलस्तद्वदालोहितं रक्तं नखा नखराः अङ्गुलयः करशाखास्तलमधोभागः । नखाश्चाङ्गुलयश्च तलं चेतीतरेतरद्वन्द्वः ! एतादृशौ पाणिपादौ यस्य तत् । 'द्वन्द्वश्च प्राणि-' इत्येकवद्भावः । तदेवेदमविगलितमच्युतं यत्सहजलावण्यं स्वाभाविकलवणिमा तेन सौकुमार्याणां मृदूनामङ्गानां हस्तपादानां सौष्ठवं शोभनत्वम् । तत्तस्माकारणात्सा भारती वाणी सत्या यथार्था, कपिज्जलेनावेदितो निवेदितश्च शापवृत्तान्तः सत्य इति संभावयामि संभा -
-
-
-
-
-
-
-
टिप्प० -1 आकार इवाकारो यस्येत्यर्थः । 2 सवेल्लित आकुञ्चित इत्यर्थो वाच्यः । 3 धन्यधन्यो भवान्, 'चिक्कणः' इत्येव मुखारविन्दाद्वक्तव्यम् 'चिक्कणो
- - - - - - मसृणः स्निग्धः' इति ह्यमरः । 4 स्वयमेकवद्भावः सूच्यते, तथापि 'प्राणिपादौ लिख्यते ? अस्पष्टश्च विग्रहः, तस्मात् - 'विद्रुमवदालोहितं नखाङ्गलितलं यस्य तथाविधं पाणिपादमिति वक्तव्यम् । 5 न विगलितं स्वाभाविकं लावण्यस्य सौकुमार्यं येषाम् ।
पाटा० - १ आभाष्येदमब्रवीत् - मदलेखे. २ विरहानव्यापारमात्रकमस्याः परमन्यत्. ३ सकोश. ४ तथायं तथैवायम्. ५ लोचनयुगलम्. ६ एतौ. ७ विहसितो. ८ तथैव चेदम्. ९ अङ्गाना लावण्यम्. १० असौ.
(शरीरस्य निर्विकारतया सर्वेषां प्रमोदः ।
उत्तरभागः।
637
Page #165
--------------------------------------------------------------------------
________________
वेदितश्च शापवृत्तान्त इति संभावयामि' इत्युक्तवत्यां मदलेखायामानन्दनिर्भरा महाश्वेतायै दर्शयित्वा चन्द्रापीडचरणतलनिबद्धजीविताय राजपुत्रलोकायापि दर्शितवती ।
स तु विस्मयोत्फुल्ललोचनः सर्व एवावनितलनिवेशितशिराः प्रणम्य चन्द्रापीडचरणौ रचिताञ्जलिर्जानुद्वयेनावनौ स्थित्वा कादम्बरी व्यज्ञापयत् - 'देवि, त्वत्प्रभावोऽयं यदेवास्मानपुण्यवतः परित्यज्य दूरं गतस्यापि देवस्य तादृशमेवेदं प्रसन्नेन्दुमण्डलद्युतिहारि वीक्ष्यते वदनम् । तथैव चेदं चरणयुगलमवभाति पुरेव प्रोत्फुल्लतामरसच्छायम् । तथैव च पुनः प्रसादानुभवप्रत्याशालालसं हृदयम् । अन्यच्चैतन्मनुष्यलोकेषु केनं कदा वा दृष्टं श्रुतमनुभूतं वा यदस्माभिः पुण्यवद्भिः इत्यभिहितवति राजलोके ससखीजना संपरिजना चोत्थाय स्वयमेवावचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रापीडशरीरपूजासंस्कारा शरीरस्थितिकरणायादिदेश सकलमेव राजलोकम् । निर्वर्तितस्नानाशने च तस्मिन्नात्मनापि महाश्वेतयोपनीतानि तयैव सह परिवारा फलान्युपभुक्तवती । कृताहारा च पुनस्तथैव चन्द्रापीडचरणावकेनोद्वहन्ती तमपि दिवसमनयत् ।
***********
वनां करोमि । इत्युक्तवत्यामिति प्रतिपादितवत्यां मदलेखायामानन्देन प्रमोदेन निर्भरा कादम्बरी महाश्वेतायै दर्शयित्वा दर्शनं कारयित्वा चन्द्रापीडस्य चरणतले निबद्धं जीवितं प्राणितं यस्य स तथा तस्मै राजपुत्रलोकायापि दर्शितवती दर्शनं कारितवती । ___ स तु राजपुत्रलोको विस्मयेनाश्चर्येणोत्फुल्ले विकसिते लोचने यस्य सः । सर्व एव समग्र एवावनितले निवेशितं स्थापितं शिर उत्तमाङ्ग
येन स तथा । चन्द्रापीडचरणौ प्रणम्य नमस्कृत्य रचिताञ्जलिनियोजितकरो जानुद्वयेन नलकीलयुग्मेनावनौ पृथिव्यां स्थित्वा कादम्बरी व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कां विज्ञप्तिं चकारेत्याशयेनाह - देवीति । हे देवि कादम्बरि, अयं त्वत्प्रभावो भवत्या एव माहात्म्यं यदेवास्मानपुण्यवतः सुकृतरहितान्परित्यज्य दूरीकृत्य दूरं दविष्ठं गतस्यापि प्राप्तस्यापि देवस्य तादृशमेवेदं प्रसन्नं निर्मलं यदिन्दुमण्डलं चन्द्रबिम्ब तस्य द्युतिं कान्तिं हरतीत्येवंशीलं वदनं मुखं वीक्ष्यतेऽवलोक्यते । तथैवेदं चरणयुगलं पादयुग्ममवभाति शोभते । कीदृशम् । पुरेव पूर्ववदेव प्रोत्फुल्ल विकसितं यत्तामरसं कमलं तद्वच्छाया कान्तिर्यस्य तत् । तथैव च पुनः प्रसादस्यानुभवप्रत्याशालाल लम्पटं हृदयं चेतः । अन्यच्चैतन्मनुष्यलोकेष्वैदयुगीनमर्त्यलोकेषु केन वा कदा वा कस्मिन्काले वा दृष्टमवलोकितं श्रुतमाकर्णितं यदस्माभिः पुण्यवद्भिरनुभूतं साक्षात्कृतम् । इत्यभिहितवति कथितवति राजलोके सह सखीजनेन वर्तते या सा ससखीजना, सहपरिजनेन परिच्छदेन वर्तते या सा सपरिजना चोत्थायोत्थानं कृत्वा स्वयमेव देवतानामर्चनं पूजनं तदर्थं कुसुमानि पुष्पाण्यवचित्यावचयं कृत्वा स्नात्वा स्नानं विधाय निर्वर्तितो विहितश्चन्द्रापीडशरीस्य पूजासंस्कारो यया सा । तत्र पूजार्चा, संस्कारोऽधिवासनम् । सकलमेव समग्रमेव राजलोकं शरीरस्य स्थितिर्यस्मात्तच्छरीरस्थितिर्भोजनं तस्य करणं विधानं तदर्थमादिदेशादेशं दत्तवती । निर्वर्तिते विहिते स्नानाशने येन स तथा तस्मिन् । तस्मिंश्च राजलोके सत्यात्मनापि स्वेनापि महाश्वेतयोपनीतान्यानीतानि तया महाश्वेतया सह तथैव सपरिवारा फलान्युपभुक्तवती । कृतो विहित आहारो ययैवंविधा च पुनस्तथैव पूर्ववदेव चन्द्रापीडचरणावङ्केनोत्सङ्गेनोद्वहन्ती धारयन्ती तमपि दिवसमनयद्यापितवती ।
पाठा० - १ व्यज्ञपयत्। व्यजिज्ञपत्. २ तथैव. ३ प्रसन्नमिन्दुः प्रसन्नप्रभमिन्दुः. ४ अविकारि. ५ प्रणम्यते. ६ पुनःपुनः. ७ अनुभवन. ८ मानुष्येषु एतन्मनुष्येषु. ९ कदा वा; केन कदा. १० सपरिवारा. ११ उचितदेवतार्चनकुसुमा. १२ निवर्तित. १३ उपयुक्तवती. १४ अङ्के कृत्वोद्वहन्ती.
638
कादम्बरी।
कथायाम्-)
Page #166
--------------------------------------------------------------------------
________________
अन्येयुश्च संजातदृढतरप्रत्यया चन्द्रापीडशरीराविनाशं प्रति मदलेखामवादीत् - 'प्रियसखि, देवस्य शरीरमिदमुपचरन्तीभिरवश्यमाशयाऽऽशापक्षयादस्माभिरधुनात्र स्थातव्यम् । तदिदमत्यद्भुतं वृत्तान्तं तातस्याम्बायाश्च गत्वा निवेदय । येन नान्यथा मां संभावयतो दुःखेन वा मदीयेन न तिष्ठतः । यथा मामेवंविधां दुःखभागिनीमागत्य न पश्यतस्तथा करिष्यसि । न शक्नोम्यहं तातमम्बां च दृष्ट्वा शोकवेगं धारयितुम् । मैया चोपरतमेव देवमालोक्य न रुदितम् । सा किमपरमधुना निःसंशयितजीविते देवे प्रतिपन्ननियमा रोदिमि इत्यभिधाय तां व्यसर्जयत् ।
गत्वाऽऽगतया च तया 'प्रियसखि, सिद्धं तेऽभिवाञ्छितम् । एवं संदिष्टं तातेन चित्ररथेनाम्बया च मदिरया गाढंगाढं पुनरालिङ्ग्य शिरस्युपाघ्राय च वक्तव्यावयोर्वचनात् 'वत्से, कालमेतावन्तं मनस्येव नैतदावयोरासीद्यथा जामातृसहिता वत्सा द्रष्टव्येति । तदयमेवावयोः परमानन्दो यद्वत्सया स्वयं जामाता वृतः । तत्राप्यपरं भगवतो लोकपालस्य -
***********
अन्येधुरन्यस्मिन्काले चन्द्रापीडशरीरस्याविनाशोऽविनश्वरत्वं तं प्रति संजातः समुत्पन्नोऽतिशयेन दृष्टो दृढतरः प्रत्ययो विश्वासो यस्याः सा तथा मदलेखामवादीदभ्यधात् - हे प्रियसखि, देवस्य चन्द्रापीडस्येदं शरीरमुपचरन्तीभिरुपचारं कुर्वन्तीभिराशापक्षयाच्छापक्षयं यावदस्मा-भिरधुना सांप्रतमवश्यं निश्चितमाशया वाञ्छयात्राच्छोदसरसोऽभ्यणे स्थातव्यम् । तदिदमत्यद्भुतमत्याश्चर्यं वृत्तान्तमुदन्तं तातस्याम्बायाश्च गत्वा निवेदय कथय । येनान्यथान्यप्रकारेण मां कादम्बरी (न) संभावयतो विचारयतो मदीयेन दुःखेन वा तिष्ठतः स्थितवतः । यथा मामेवंविधां दुःखभागिनीमागत्य समेत्य न पश्यतो नालोकयतः मातापितराविति शेषः । तथा त्वं करिष्यसि रचयिष्यसि । अहं तातं पितरमम्बां मातरं च दृष्ट्वावलोक्य शोकवेगं धारयितुं स्तम्भयितुं न शक्नोमि न समर्था भवामि । मया चोपरतमेव निवृत्तमेव देवं चन्द्रापीडमालोक्य न रुदितं न रुदनं कृतम् । निःसंशयितं निश्चितं जीवितं यस्यैवंविधे देवे चन्द्रापीडे न रोदिमि इति प्रतिपन्नः स्वीकृतो नियमोऽभिग्रहो यया सैवंविधा साहमधुना किमपरं रोदिमीत्यभिधायेत्युक्त्वा च तां मदलेखां व्यसर्जयग्राहिणोत् ।
गत्वाऽऽतया च तत्र गमनं कृत्वा प्रतिनिवृत्तया च तया मदलेखया हे प्रियसखि, ते तवाभिवाञ्छितं सिद्धं निष्पन्नम् । तातेन चित्ररथेनाम्बया च मदिरयैवं संदिष्टं कथितम् । एवमिति किमित्यपेक्षायामाह - गाढं गाढमिति । गाढंगाढं पुनःपुनरालिङ्ग्योपगृहनं कृत्वा शिरस्युत्तमाङ्ग उपाघ्रायावघ्राय चावयोर्वचनादस्मद्भाषिताद्वक्तव्या भाषितव्या । हे वत्से, एतावन्तं कालं मनस्येव नैतदावयोरासीद्यथा जामातसहिता दुहितुः पतियुक्ता वत्सा पुत्री द्रष्टव्या विलोक्येति । तत्तस्मात्कारणादयमेवावयोः परम उत्कृष्ट आनन्दो यद्वत्सया पुत्र्या स्वयमेव जामाता वृतोऽङ्गीकृतः । तत्रापि वरणेऽप्यपरमन्यद्भगवतो लोकपालस्य चन्द्रमसोऽवतारः । तत्क -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 मदीयेन दुःखेन दुःखितौ न तिष्ठतः (न तिष्ठेताम्) इत्याशयः । 2 दुहितुः पतियुक्ता वत्सेत्यनेन वत्साया अपि दुहिता, तस्याः पतिरित्यर्थः प्रतीयते । निजपतियुक्ता वत्सा (पुत्री) द्रष्टव्येति सरला व्याख्या ।
पाठा० - १ प्रतिपद्य. २ अवश्यमा. ३ अत्यद्भुतं भूतम्, अद्भुतरूपम्. ४ येनान्यथा. ५ यया. ६ अपि. ७ गतागतया. ८ गाढतरमालिङ्ग्य. ९ वत्सयैव.
शरीरस्य निर्विकारतया सर्वेषां प्रमोदः
उत्तरभागः।
639
Page #167
--------------------------------------------------------------------------
________________
चन्द्रमसोऽवतारः । तत्कल्याणैः शापावसाने जामात्रा सहैवानन्दबाष्पेनिर्भराननारविन्दं ते द्रक्ष्यावः' इत्यावेदिते निर्वृतेनौन्तरात्मना दैवतवदुपचरन्ती तच्चन्द्रापीडशरीरमतिष्ठत् ।
अथापगतवति जलदसमये, घननिरोधोद्धन्धादिवोन्मुक्त जीवलोके, प्रसरन्तीष्विवाशासु, फलभारावनम्रकलमवनपिजरासु ग्रामसीमासु, काशकुसुमधवलास्वरण्यस्थलीषु, सेव्यतामुपगतेषु प्रासादतलेषु, करारहारिषु पल्वलेषु, कुमुदामोदशीतलासु यामवतीषु, शेफोलिकापरिमलग्राहिषु निशावसानमातरिश्वसु, चन्द्रप्रभाभिरामेषु प्रदोषेषु, उद्दामफुलेन्दीवररजोवाससुरभिषु वासरेषु, सलिलापसरणक्रमतरङ्ग्यमाणासु सुकुमारतीरसैकतरेखासु, सुखोत्तारतामापनास्वापगासु, पङ्कपरिहरणशुष्केष्वप्रहतरूढतृणोलपच्छन्नेषु मन्दाश्यानकर्दमोद्भिद्यमानाभिनवपदवीकेषु पुनरपि पौर्थिवलोकेन प्रवर्तितेषु प्राञ्जलवम॑सु, जम्बालविगमात्स -
***********
ल्याणैर्मङ्गलैः शापस्यावसाने प्रान्ते जामात्रा सहैवानन्दबाष्पेण निर्भरं यदाननारविन्दं मुखपद्म ते तवावां द्रक्ष्याव आलोकयिष्यावः । इत्यावेदिते कथिते निवृतेन स्वस्थेनान्तरात्मना दैवतवद्देववत्तच्चन्द्रापीडशरीरमुपचरन्त्युपचर्यां कुर्वन्त्यतिष्ठत्स्थितवती ।
अथेति । कियद्दिनानन्तरं जलदसमये मेघकालेऽपगतवति व्यतिक्रान्ते सति घनस्य मेघस्य निरोधोऽवग्रहः स एव बन्धस्तस्मादिवोन्मुक्ते पृथग्भूते जीवलोके सत्याशासु दिशासु प्रसरन्तीष्विव प्रसर्पन्तीष्विव, फलभारेण सस्यवीवधेनावनम्राण्यवनतानि यानि कलमाः शालयस्तेषां वनान्यरण्यानि तैः पिञ्जरासु पीतरक्तासु ग्रामसीमासूपशल्येषु । 'पीतरक्तस्तु पिञ्जरः' इति हैमः । काशकुसुमैर्धवलासु चेतास्वरण्यस्थलीषु, सेव्यतामुपगतेषु प्राप्तेषु प्रासादतलेषु सौधानामधोभागेषु, कलारेण सौगन्धिकेन हारिषु मनोहरेषु पल्वलेष्वाखातसरःसु, कुमुदानां कैरवाणामामोदेन शीतलासु शिशिरासु यामवतीषु रात्रिषु, शेफालिका वल्लीविशेषस्तस्याः परिमलमामोदं गृह्णन्तीत्येवंशीलेषु निशाया रावेरवसानं प्रान्तस्तस्य मातरिश्वसु वायुषु सत्सु, चन्द्रप्रभाः शशिज्योत्स्नास्ताभिरभिरामेषु मनोहरेषु प्रदोषेषु यामिनीमुखेषु । 'प्रदोषो यामिनीमुखम्' इति हैमः । उद्दामफुल्लानि विकसितानि यानीन्दीवराणि नीलकमलानि तेषां रजः परागस्तस्य वासो गन्धस्तेन सुरभिषु सुगन्धिषु वासरेषु दिनेषु सत्सु, सलिलस्य पानीयस्यापसरणं दूरीभवनं तस्य क्रमस्तेन तरङ्ग्यमाणासूत्कलिकायमानासु सुकुमारं मृदु यत्तीरं तटं तस्य सैकतरेखासु जलोज्झितस्थलपङ्क्तिषु, सुखेनोत्तार उत्तरणं तस्य भावः सुखोत्तारता तामापनासु प्राप्तास्वापगासु नदीषु सत्सु, पङ्कस्य कर्दमस्य परिहरणं दूरीकरणं तेन शुष्केषु वल्लूरेषु । 'वल्लूरं स्यादनक्षेत्रे वाहनोषरयोरपि । वल्लूरमाहुः संशुष्कमांसशूकरमांसयोः' इति विश्वः । अप्रहतान्यविनष्टानि यानि रूढानि प्रादुर्भूतानि तृणानि यवसानि तेषामुलपाः समूहास्तैश्छन्नेष्वाच्छादितेषु । मन्दस्तुच्छो य आश्यानोऽशुष्कः कर्दमः पङ्कस्तेनोद्भिद्यमाना प्रादुर्भूयमानाभिनवा प्रत्यग्रा पदवी मार्गो येषु तानि तेषु । पुनरपि पार्थिवलोकेनं राजलोकेन प्रव -
- - - - - - टिप्प० - 1 'निर्भरमाननारविन्दम् इति पाठः, समासचातुर्यं टीकायाः स्यात् । 2 वर्षासु किं प्रासादतलानि परित्याज्यानीति राजाज्ञा ? तस्मात् - 'सेव्यतामुपगतेषु पादपतलेषु' इति पाठः । वर्षाभयात् वृक्षाधस्तले न शक्यमवस्थातुम् । संप्रति तु न तथेत्याशयः । 3 जलेऽपगतेपि वालुकासु तरङ्गचिह्नः सतरङ्गास्विवेत्याशयः । 4 सुकुमाराः तीरस्य सैकतरेखा यासां तासु । 5 अप्रहतेषु खिलेषु (धान्यनिवेशस्थानेषु) रूद्वैः तृणोपलैः आवृतेषु । 'द्वे खिलाप्रहते समे कोषः । 6 'पान्थलोकेनेत्येव पाठः । राजभिः क्षुण्णे तु मार्गे दूरदूरं पान्थपदव्येव लुप्यते ।
पाठा० - १ तत्कतिपयेनैव कालेन. २ निर्भरमानन. ३ निवृत्तेन. ४ बन्धात्. ५ फलभरादवनम्र; कणिशभरावनम्र. ६ आपिञ्जरासु. ७ पादपतलेषु. ८ कुसुम. ९ शेफाली; काली. १० सलिलाशयेषु. ११ सलिलापसरणक्रमतरंगमाणपाण्डुसुकुमारतीरसैकतरेखासु. १२ रूढोलप. १३ पान्थलोकेन.
(640
कादम्बरी।
कथायाम्
Page #168
--------------------------------------------------------------------------
________________
र्वतस्तुरगखुरसहासु भूमिष्येकदा चन्द्रापीडचरणमूलोपविष्टां कादम्बरीमुपसृत्य मेघनादो व्यजिज्ञपत् -
'देवो युवराजश्चिरयतीत्युत्ताम्यता हृदयेन देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहराः प्रहिताः । ते च देव्या एव शोकशल्यघटना परिहरद्भिर्यावृत्तं सर्वमाख्यायास्माभिरभिहिताः - भवतां हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसदेष्टव्यम् । नापि देव्या कादम्बर्या । तदकृतविलम्बा एव गत्वैवमखिलवृत्तान्तं लोकार्तिहरायावनितलपतये देवदेवाय तारापीडायावेदयत' इत्येवमभिहितास्तु तेऽस्मान्मन्युनिर्भराः प्रत्यवदन्-'यथा भवद्भिः कथितं तत्तथा । तिष्ठतु तावत्क्रमागतस्नेहो भक्तिरनुवृत्तिर्वा । कार्यगौरवकृतं कुतूहलमेव देवावलोकनं प्रति बलात्प्रेरयत्यस्मान् । यदि भवतामपि वार्तामात्रकोपलभ्य एवायमर्थः, ततो युज्यतेऽस्माकं भवद्भ्यः समुपलभ्य प्रतिगमनम् । अथ नयनविषयगामी तदा वयमपि नेदृशा ऐवापुण्यकर्माणो ये न पश्यन्ति देवम् । अस्माभिरपि चिरतरं चरणपरिचर्यया देवस्य पवित्रित एवात्मा । अस्माकमपि सर्वदा दर्शनगोचरावस्थानेन प्रसादं कृत -
*********** तितेषु क्षुण्णेषु प्राञ्जलवम॑सु सुकुमारमार्गेषु सत्सु । जम्बालविगमात्कर्दमापगमात्सर्वतोऽभितस्तुरगानामधानां खुराः शफास्तान्सहन्ते क्षमन्ते इति तुरगखुरसहास्तास्वेवंविधासु भूमिषु वसुधास्वेकदैकस्मिन्समये चन्द्रापीडस्य चरणयोर्मूलं समीपं तत्रोपविष्टां स्थितां कादम्बरीमुपसृत्य समीपमागत्य मेघनादो व्यजिज्ञपज्ज्ञापयामास ।
किं तदित्याह - देवेति । देवो युवराजश्चन्द्रापीडश्चिरयति विलम्बयतीत्युत्ताम्यतोत्प्राबल्येन खेदं कुर्वता हृदयेन चेतसा देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च वार्ताहरा लेखहारकाः प्रहिताः प्रेषिताः । ते च वार्ताहरा देव्याः शोक एव शल्यं शरीरान्तर्गतलोहखण्डस्तस्य घटना रचनां परिहरद्भिर्वर्जयद्भिरस्माभिर्यथावृत्तं यथाभूतं सर्वं समग्रमाख्याय कथयित्वाभिहिताः कथिताः । भवतां युष्माकं हस्ते देवेन चन्द्रापीडेन न किंचित्प्रतिसदेष्टव्यं न प्रतिकथनीयम् । नापि देव्या कादम्बर्या । तत्तस्मात्कारणादकृतो विलम्बः कालक्षेपो यैरेवंविधा एव गत्वा गमनं कृत्वैवाखिलं समग्र वृत्तान्तमुदन्तं लोकानां जनानामार्तिः पीडा तस्या हरायावनितलपतये भूतलस्वामिने देवदेवाय राजाधिराजाय तारापीडायावेदयत न्यवेदयत इत्येवमभिहिताः कथितास्तु तेऽस्मान्मन्योः क्रोधस्य निर्भरो येष्वेतादृशाः प्रत्यवदन्प्रत्यूचुः । किंतदित्याशयेनाह - यथेति । यथा येन प्रकारेण भवद्भिः कथितमुक्ततत्तथा तेन प्रकारेणास्तु । क्रमागतः परम्परायातः स्नेहः प्रेम, भक्तिराराध्यत्वेन ज्ञानम्, अनुवृत्तिरनुवर्तनं वा तिष्ठत्वास्ताम् । परं कार्यस्य कृत्यस्य गौरवं गुरुत्वं तेन कृतं विहितं कुतूहलमेव कौतुकमेव देवस्य चन्द्रापीडस्यावलोकन वीक्षणं प्रत्यस्मान्बलाद्धठात्प्रेरयति नोदयति । यदि भवतामपि केवलं वार्ता वार्तामात्रकं तेन उपलभ्य प्राप्य एवायमर्थः प्रयोजनम् । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । ततो युज्यते घटतेस्माकं भवद्भ्यः समुपलभ्य कथयित्वा प्रतिगमनं प्रतियानम् । अथ नयनविषयं चक्षुर्गोचरं गच्छतीत्येवंशीलोऽर्थः, तदा वयमपि नेदृशा एवापुण्यकर्माणोऽशुभकृत्यकारिणो ये न देवं पश्यन्त्यवलोकयन्ति । अस्माभिरपि देवस्य चिरतरं चिरकालं चरणपरिचर्यया पादसेवयात्मा पवित्रित एव । अस्माकमपि सर्वदा सर्वकालं दर्शनगोचरमवलोकनविषयं यदवस्थानमवस्थितिस्तेन प्रसादमनुग्रहं देवः कृतवानेव विहितवानेव । अद्य -
- - - - - - - - - - - - - - टिप्प० -1 'निवेदयत' इत्येव । न्यवेदयतेति लेखकदोष एव स्यात् । 2 अर्थात् प्रत्यक्षदर्शनस्य नावसरः, केवलं संवादप्राप्तिरेव वशः । 3 प्रवृत्तिम् (संवादम्) प्राप्य गमनमित्यर्थ उचितः ।।
पाठा० - १ सहासु संजातासु. २ देवि देवः. ३ अस्याभिर्यथावृत्तं समाख्याय. ४ भवता तु हस्तेन. ५ अखिललोक. ६ हरये. ७ देवाय. ८ कारयति. ९ भवतां वार्ता. १० मात्रकलभ्यः. ११ युज्यत एव. १२ अपि च. १३ एव केऽप्यगुणाः. १४ देवचरणपरिचर्यया. १५ प्रसादीकृतवान्.
(दूतानां कुमारदर्शनाग्रहः
उत्तरभागः।
641
Page #169
--------------------------------------------------------------------------
________________
वानेव देवः । किमद्य जातं येन देवस्य पादारविन्दवन्दनाप्रसादेनासंविभज्य विसृज्यामहे । त एव वयं पादलग्नाश्चरणरेणवः । तद्विज्ञाप्य देवी देवस्य युवराजस्य पादप्रणामेनास्माकं सफलयतु भवानागमनपरिश्रमम् । अन्यथा भूमिमेतावतीमागत्य संभवे सत्यप्रत्यक्षीकृतयुवराजशरीरा गताः सन्तः किं देवदेवेन तारापीडेन वक्तव्या वयम् । किं वास्माभिर्देवो विज्ञापयितव्यः' इत्यावेदिते, 'देवी प्रमाणम्' इति विज्ञाप्य पुनस्तूष्णीं स्थितवति मेघनादे, तत्कालसमुप्रेक्षितानाधास्यश्वशुरकुलवैक्लव्या, विलीयमानेव शुचा, अन्तःसंचितं बाष्पमाकुलिततरलतारकाभ्यामापिबन्ती लोचनाभ्याम्, उद्गदिकयावगृह्यमाणकण्ठी, कथंकथमपि चिरात्कादम्बरी प्रत्युवाच - 'स्थान एव हि तैरगमनमङ्गीकृतम् । अनवलोक्य देवमेवमेव याताः सन्तः किमुच्यन्ताम् ? अपि च वृत्तान्त एवायमेवंविधो लोकातीतो यत्रावलोकनेनापि न संप्रत्ययः समुत्पद्यते, किं पुनरनालोकनेनापि । कैतवमात्रकोपदर्शितप्रेमपल्लवा वल्ल -
***********
किं जातं किं जज्ञे देवस्य चन्द्रापीडस्य पादारविन्दस्य चरणकमलस्य वन्दना नमस्कृतिः सैव प्रसादस्तेनासंविभज्यासंविभागीकृत्य विसृज्यामहे । ते तव वयं पादलग्नाश्चरणरेणवः पादधूलयः । तद्विज्ञाप्य विज्ञप्तिं कृत्वा देवी कादम्बरी देवस्य युवराजस्य पादप्रणामेनास्माकमागमनपरिश्रम भवान्मेघनादः सफलयतु सफलीकरोतु । अन्यथोक्तवैपरीत्ये । एतावती भूमिमागत्य संभवे सति दर्शनयोग्यतायां सत्यामप्रत्यक्षीकृतं युवराजशरीरं यैस्तेऽप्रत्यक्षीकृतयुवराजशरीरास्ते च ते गताश्चेति कर्मधारयः । एवंविधा गताः सन्तो वयं देवदेवेन तारापीडेन किं वक्तव्याः किं कथनीयाः । अस्माभिर्देवस्तारापीडः किं विज्ञापयितव्यः किं वा निवेदयितव्य इत्यावेदिते ज्ञापिते देवी प्रमाणं यदादिशति देवी तत्कर्तव्यमिति विज्ञाप्य निवेद्य तूष्णीं स्थितवति मौनं कृतवति मेघनादे, तत्कालं समुत्प्रेक्षितं वितर्कितमनाश्चास्यमाश्वसनावर्जितं श्वशुरकुलस्य स्वपतिवंशस्य वैक्लव्यं विह्वलता यया सा तथा । शुचा शोकेन विलीयमानेव विलयं प्राप्यमाणेवान्तःसंचितं मध्ये संघातीकृतं बाष्पमश्वाकुलिते व्याकुलीभूते तरले चञ्चले तारके कनीनिके ययोरेवंभूताभ्यां लोचनाभ्यां नेत्राभ्यामापिबन्ती पानं कुर्वन्ती, उत्प्राबल्येन गद्गदिकया गद्गदस्वरेणावगृह्यमाणो निरुध्यमानः कण्ठो यस्याः सा तथा । कथंकथमपि महता कष्टेन चिरादहुकालेन कादम्बरी प्रत्युवाच प्रत्यब्रवीत् । हि निश्चितम् । तैलेखहारकैरगमनमयानमङ्गीकृतं स्वीकृतं तत्स्थान एव युक्तमेव । देवं चन्द्रापीडमनवलोक्यानिरीक्ष्यैवमेव यथागतं तथैव याताः पश्चाद्वलिताः सन्तस्तत्र तैः किमुच्यतां किं कथ्यताम् । अपि चेति युक्त्यन्तरे । अयमेवंविधो वृत्तान्त उदन्तो लोकातीतोऽनिर्वचनस्वरूपो यत्र यस्मिन्वृत्तान्तेऽवलोकनेनापि निरीक्षणेनापि न संप्रत्ययो न विश्वासः समुत्पद्यते संजायते । अनालोकनेनाप्यनिरीक्षणेनापि किं पुनर्भण्यते । सुतरामविश्वासो भवत्येवेति भावः । कैतवमात्रेण केवलदम्भेनोपदर्शिताः प्रकटिताः प्रेमपल्लवाः स्नेहकिसलया यैस्ते तथा वल्लभतममतिशयेन -
टिप्प० - 1 'कैतवमात्रोपदर्शितप्रेमफला वल्लभतमजीविता वयमपि यावत्पश्यामस्तम्' इत्येव पाठः । कपटमात्रेण प्रकटितं प्रेमफलम् (प्रणयकार्यम्) याभिस्ताः, अस्माभिः स्वप्रणयकार्यं दम्भरूपेणैव प्रकटितं यदि अस्माकं प्रेम सत्यमभविष्यत् तर्हि अस्माभिरपि जीवितमत्यक्ष्यत । अत एव - चन्द्रापीडादपि वल्लभतम जीवितं यासाम् ईदृश्यो वयमिति ।
पाटा० -१ विसामहे. २ कृतशरीराः. ३ देवेन. ४ च. ५ तत्कालम्. ६ गद्गदिकावगृह्यमाणकण्ठा; उद्गदिकावगृह्यमाणकण्ठी; उद्गदिकयावगृह्यमाणकण्ठी. ७ देवदेवम्. ८ किमुच्यताम्; किमुच्यन्तात एव. ९ अयमेवंविधो लोकातीतो वृत्तान्तः. १० फलाः.
(642
कादम्बरी।
कथायाम्
Page #170
--------------------------------------------------------------------------
________________
भतमजीविता वयमपि यावत्पश्यामस्तं तावदनपेक्षितप्राणवृत्तयः स्नेहसद्भावनया सद्धृत्या न पश्यन्तीत्यघटमानकमिदम् । तदपरिलम्बितं प्रवेश्यताम् । पश्यन्तु देवम् । सैफलयित्वागमनपरिश्रमेण साधु लोचने ततो यास्यन्ति' इत्याज्ञानन्तरं च मेघनादेन प्रवेशितान्दूरत एव समं बाष्पपातेन पञ्चाङ्गालिङ्गितमहीतलांश्चन्द्रापीडचरणवन्दनसद्भावनिहितोत्पश्मनिभृतदृष्टींस्ताननन्यदृष्टिश्चिरैमिवालोक्य कादम्बरी स्वयमेवाभाषत -
'भद्रमुखाः, परित्यज्यतामयं क्रमागतनेहसद्भावसुलभः शोकावेगः । यत्खल्वनालोचितावधि दुःखावसानमेव दुःखं तन्मरणभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोद तत्पुरःस्थितया सुखप्रत्याशयैवान्तरितं नापतति हृदये । तदेष वृत्तान्त एवंविधो येन न केवलमत्र निरवकाशता शोकस्य, प्रत्युत सुदूरभिनवृत्तेर्विस्मयस्यावसरः । किमत्र परिबोधनेन,
***********
प्रियं जीवितं प्राणितं येषामेवंविधा वयमपि तं चन्द्रापीडं यावत्पश्यामोऽवलोकयामस्तर्खेते लेखहारका अनपेक्षिता असमीहिताः प्राणवृत्तयो यैरेवंभूताः स्नेहस्य सद्भावो विद्यते यस्यामेवंविधया नेहसद्भावनया सद्धृत्याः सदनुचरा न पश्यन्ति न विलोकयन्तीत्यघटमानकमयुक्तमिदम् । तदपरिलम्बितमविलम्बितं प्रवेश्यतां प्रवेश कार्यताम् । देवं चन्द्रापीडं पश्यन्त्ववलोकयन्तु । आगमनपरिश्रमेण प्रयासेन साधु लोचने नेत्रे सफलयित्वा कृतार्थीकृत्य ततस्तदनन्तरं यास्यन्ति गमिष्यन्तीत्याज्ञा निदेशस्तदनन्तरं च मेघनादेन प्रवेशितान्दूरत एव दविष्ठादेव बाष्पपातेनाश्रुपातेन समं द्वे जानुनी, द्वौ करौ, उत्तमाङ्गं चेति पञ्चाङ्गैरालिङ्गितमाश्लिष्टं महीतलं भूमितलं यैस्ते तथा तान् । चन्द्रापीडस्य चरणयोः पादयोर्वन्दनं नमस्करणं तस्य सद्भावेऽस्तित्वे निहिताः स्थापिता उदूर्ध्वं पक्ष्म नेत्ररोम यासामेवंविधा निभृता निश्चला दृष्टयो दृशो यैस्ते तथा तान् । न विद्यतेऽन्यस्मिन्दृष्टिर्यस्याः सैवंभूता कादम्बरी चिरमिव चिरसदृशमालोक्य निरीक्ष्य स्वयमेवात्मनैवाभाषतावोचत् ।
किं तदित्याह - भद्रेति । भो भद्रमुखाः शुभाननाः, क्रमागतः परम्परायातो यः स्नेहसद्भावः प्रेमसत्ता तेन सुलभः सुप्रापोऽयं शोकावेगः शुग्रयः परित्यज्यतां परिमुच्यताम् । अनालोचितोऽविमृष्टोऽवधिर्मर्यादा यस्य तत्तथा, दुःखमेवावसाने प्रान्ते यस्यैवं तदुःखमेव मरणभीरोः कातरस्य । खल्विति निश्चयेन । शोकावेगाय भवतु । यत्पुनः सुखः सुखकूदुदर्क उत्तरकालजन्यं फलं यस्यैवंभूतं दुःखं पुरःस्थितयाग्रे वर्तमानया सुखप्रत्याशयैव सौख्यलिप्सयैवान्तरित व्यवहितं हृदये चित्ते नापतति नागच्छति । 'आयतिस्तूत्तरः काल उदर्कस्तद्भवं फलम्' इति हैमः । तत्तस्माद्धेतोरेष वृत्तान्त एवंविधो येन कारणेन(न)केवलमत्र शोकस्य शुचो निरवकाशता निःप्रवेशता, प्रत्युत सुदूरं भिन्ना वृत्तिर्वर्तनं यस्यैवंभूतस्य विस्मयस्याश्चर्यस्यावसरः प्रस्तावः । अत्रास्मिन्विषये परिबोधनेन ज्ञापनेन किम् । न किमपीत्यर्थः । एतदेव विशिनष्टि - अन्यत्र मनुष्येष्वदृष्टपूर्वो -
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'स्नेहसंभावनीयाः' इति पाठः । स्नेहेन संभावनीया आदरणीयाः । 2 'प्रवेश्यन्ताम् (ते वार्ताहराः) इत्येव पाठः । 3 वन्दने यः सद्भावः प्रणयस्तेन निहिता उत्पक्ष्मा निभृता दृष्टियस्तानित्यर्थः । 4 मरणाद्धीतस्यैव तदिदं दुःखं भोक्तव्यम्, अन्यथा तत्समये मरणमेवोचितमित्याशयः । 5 सुखस्य प्रत्याशा दुःखे व्यवधानभूता भवति, अत एव दुखं न जायत इत्यर्थः । 6 अतिविरुद्धा वृत्तिर्यस्य, एवंविधस्थले विस्मयो न संभवतीत्याशयः ।
पाठा० - १ सद्भावनीयाः, २ अघटमानम्. ३ सफलयन्तु. ४ अदूरतः. ५ चिरमवलोक्य. ६ अलपत्. ७ सुलभ. ८ न खलु.
(दूताना सान्त्वनम् ।
उत्तरभागः।
Page #171
--------------------------------------------------------------------------
________________
अन्यत्रादृष्टपूर्वो मनुष्येषु प्रत्यक्षीकृत एवायं वृत्तान्तो भवद्भिरपि । दृष्टं च पुरेवोक्षततनोर्देवस्य वदनम् । संभाषणापि या देवेन विना न संभवति सापि संभावितैव । तद्गम्यतामधुना वार्तोत्सुकमतर्देवस्य पादमूलम् । न चायं प्रत्यक्षदृष्टोऽप्युपरतशरीराविनाशवृत्तान्तः प्रकाशनीयः । दृष्टोऽस्माभिरच्छोदसरसि तिष्ठत्येतदेवावेदनीयम् । यतः कारणादुपरतिः खल्ववश्यंभाविनी प्राणिनां कथंचित्प्रत्ययमुत्पादयति । शरीराविनाशः पुनः प्राणैर्विनाकृतानां दृश्यमानोऽप्यश्रद्धेय एव । तदस्याऽऽवेदनेन सुदूरस्थितमपि गुरुजनं मरणसंशये निक्षिप्य वर्तमाने प्रयोजनमेव नास्ति । प्रत्यागतजीविते जीवितेश्वरे स्वयमेवायमद्भुतभूतोऽर्थो गुरुजनेष्वाप्रकटीभविष्यति ।
इत्येवमादिष्टाश्च ते व्यंज्ञापयन् - 'देवि, कि विज्ञापयामः । द्वाभ्यामेवापरिज्ञानमस्यवस्तुनः संभवेदगमनेनास्मदीयेनाकथनेन वा । तदस्माकं तु हस्ते द्वयमप्येतनास्ति । युवराजवैशम्पायनयोर्वार्ता विना दुःखं तिष्ठता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन -
***********
ऽनवलोकितपूर्वोऽयं वृत्तान्तो भवद्भिरपि युष्माभिरपि प्रत्यक्षीकृत एव । साक्षात्कृत एवेति भावः । अक्षततनोरखण्डितशरीरस्य देवस्य चन्द्रापीडस्य वदनं पुरेव दृष्टमवलोकितम् । संभाषणाप्यन्योन्यालापोऽपि या देवेन विना न संभवति नोपपद्यते सापि संभाषणापि संभावितैव संभावनाविषयीकृतैव । तदिति हेत्वर्थे । तत्तस्मात्कारणाद्वार्तायां प्रवृत्तौ उत्सुकोत्कण्ठिता मतिर्बुद्धिर्यस्यैवंविधस्य देवस्य तारापीडस्य पादमूलं चरणसमीपं युष्माभिरधुना गम्यतां यायताम् । अयं प्रत्यक्षदृष्टोऽपि साक्षानिरीक्षितोऽप्युपरतं निर्जीवं यच्छरीरं तस्याविनाशस्तथैवावस्थानं तस्य वृत्तान्त उदन्तो न च प्रकाशनीयो न प्रकटीकार्यः । तर्हि किं वाच्यमित्याशयेनाह - दृष्ट इति । अच्छोदसरसि तिष्ठति विद्यते, दृष्टो विलोकितोऽस्माभिरेतदेवावेदनीयं कथनीयम् । यतः कारणादुपरतिर्मरणम् । खलु निश्चयेन । प्राणिनामवश्यंभाविनी कथंचित्प्रत्ययं विश्वासमुत्पादयति । प्राणैर्विनाकृतानां रहितानां शरीराविनाशः पुनदृश्यमानोऽपि विलोक्यमानोऽप्यश्रद्धेय एवास्थारहित एव । तदस्यावेदनेन ज्ञापनेन सुदूरस्थितमप्यतिदविष्ठस्थितमपि गुरुजनं श्वशुरजनं मरणसंशये मृत्युद्धापरे निक्षिप्य वर्तमाने प्रयोजनमेवार्थ एव नास्ति । प्रत्यागतं पश्चादागतं जीवितं यस्यैवंविधे जीवितं प्राणितं तस्य ईश्चरे चन्द्रापीडे स्वयमेवायमद्भुतोऽर्थो गुरुजनेषु वशुरकुलेष्वासमन्तात्प्रकटीभविष्यति सर्वं विदितं भविष्यति ।
इत्येवमादिष्टाः कथिताश्च ते व्यज्ञापयन्विज्ञप्तिं चक्रुः । हे देवि, किं विज्ञापयामः कां विज्ञप्तिं कुर्मः । अनिवेदनरूपस्यास्य वस्तुनो द्वाभ्यामेवापरिज्ञानं संभवत् । एतदेव स्पष्टयनाह - अगमनेनेति । अस्मदीयेनाऽगमनेनाऽयानेनाऽकथनेन वाऽनिवेदनेन वा, तवयमप्यस्माकं तु हस्ते पाणौ नास्ति । अस्मदधीनं न विद्यत इत्यर्थः । तत्प्रदर्शयन्नाह - युवराजेति । युवराजश्चन्द्रापीडो वैशम्पायनो मन्त्रिसुत एतयोर्वार्ता प्रवृत्तिं विना दुःखं तिष्ठता कृच्छ्रेण स्थितिं कुर्वता देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च संभाव्य विचार्य प्रेषि -
- - - टिप्प० - 1 नीचैः पाठो द्रष्टव्यः । जीवाद्विना संभावना (शरीरगता कान्तिः) न संभवति, सा भवद्भिः संभावितैव दृष्टैवेत्याशयः । 2 'आङ् निपातस्य नासीत्स्वारस्यम् । अत एव 'गुरुजने जने वा' इति पाठगतस्य 'वा' पदस्य सत्तां सूचयति । 3 'संभाष्य' (सौम्याः ! गम्यतामित्यादरेण संबोध्य) इत्येव पाठो योग्यः ।
-
-
-
-
पाटा० - १ प्रत्यक्षतः. २ च दृष्टं च; दुष्टो दुष्टं च. ३ पुनरेवाक्षत; पुनरेवाविकृत. ४ संभावनापि या जीवाद्विना. ५ यतः कारणम्; किं कारणम्, ६ न कचित्. ७ गुरुजने जने वा प्रकटीभविष्यति. ८ व्यज्ञपयन्. ९ किंचिज्ञापयामः. १० हस्तात्. ११ विना वार्ताम्; वार्तया विना.
644
कादम्बरी।
कथायाम्
कथायाम
Page #172
--------------------------------------------------------------------------
________________
च संभाव्यं प्रेषितानामप्रोषितजीवितानामगमनं तु दूरापेतमेव । गत्वापि दयिततमतनयवार्ताश्रवणलालसस्य राज्ञो देव्या आर्यशुकनासस्य दुःखप्लुताक्षीण्युद्वीक्ष्य मुखानि निर्विकारवदनानामस्माकमैवस्थानमशक्यमेव' इति विज्ञापिता तैः 'एवमेतत्' इत्युक्त्वा कादम्बरी मेघनादमवादीत् - 'मेघनाद, वेद्मि संस्तुतजनस्यैतदनुचितमिति । तथापि गुरूणां चेतःपीडार्मैवेक्ष्यमाणया मयैवमभिहितम् । इतरदपि दुःखमायाति । कीदृशं भवति किं पुनरिदं महावज्रपतनसदृशम् । तदेतदपि भवतु । एभिः सहापरः कचिच्छ्रद्धेयवचाः प्रत्यक्षदृष्टसकलवृत्तान्तः संप्रत्ययाय व्रजतु' इति ।
एवमादिष्टस्तु मेघनादो व्यज्ञापयत् - 'देवि, राजलोके तु का कथा । भृत्यवर्गोऽपि सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वा स्थितो यथास्माकं मध्यादेकेनापि देवपादान्विना न प्रतीपं गन्तव्यमिति । भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते । समुन्नम्यमानाः सुतरामवनमन्ति । आलाप्यमाना न समालापाः संजायन्ते । स्तूयमाना -
***********
तानां प्रहितानामप्रोषितजीवितानाममृतानामगमनं तु दूरापेतमेव दूरापास्तमेव । द्वितीयं पक्षं प्रतिक्षिपन्नाह गत्वेति । तत्र गत्वापि दयिततमोऽतिवल्लभो यस्तनयः सुतस्तस्य वार्ता प्रवृत्तिस्तस्याः श्रवणमाकर्णनं तत्र लालसस्य सस्पृहस्य राज्ञो देव्या आर्यशुकनासस्य दुःखेन प्लुतानि ब्रुडितान्यक्षीणि येष्वेवंविधानि मुखानि वक्त्राण्युट्प्राबल्येन वीक्ष्य निरीक्ष्य निर्विकारवदनानां शोकादिविकृतिवर्जितानामस्माकमवस्थानमशक्यमेव दुष्करमेव । तैर्लेखहारकैरिति विज्ञापितेति निवेदिता एवमेतत्सत्यमेवेदमित्युक्त्वा कादम्बरी मेघनादमवादीदब्रवीत् । किं तदित्याह - मेघनादेति । हे मेघनाद, अहं वेद्मि जानामि संस्तुतजनस्य परिचितजनस्यैतदनिवेदनरूपमनुचितमयोग्यमिति । तथापि गुरूणां श्वशुरादीनां चेतःपीडामवेक्ष्यमा॑णया विलोक्यमानया मयैतत्पूर्वोक्तमभिहितं कथितम् । इतरदप्येतद्भिन्नमपि दुःखमायाति तदा कीदृशं महावज्रपतनसदृशं महापविपाततुल्यं भवति । किं पुनरिदं दुःखम् । तदेतदपि 'तुष्यतु दुर्जनः' इति न्यायेन वज्रपतनोपमं दुःखमपि भवति पततु । परमेभिर्लेखहारकैः सह श्रद्धेयं मान्यं वचो यस्य स तथा प्रत्यक्षं दृष्टोऽवलोकितः सकलवृत्तान्तः समग्रोदन्तो येनैवंविधोऽपर एतद्भिन्नः कश्चित्संप्रत्ययाय विश्वासाय व्रजतु गच्छतु ।
-
एवमादिष्टस्त्वेवं प्रोक्तस्तु मेघनादो व्यज्ञापयत् । हे देवि राजलोके नृपवर्गे तु का कथा का वार्ता कथ्यते । सकल एवायं भृत्यवर्गोऽपि सेवकसमूहोऽपि कन्दमूलफलान्यश्नातीत्येवंशील इति निश्चयं निर्णयं कृत्वा स्थितोऽस्ति निषिद्धोऽस्ति । कोऽयं निश्चय इत्यपेक्षायामाह - यथेति । यथास्माकं मध्यादेकेनापि देवपादांश्चन्द्रापीडचरणान्विना न प्रतीपं विलोमं गन्तव्यं न व्याघुट्य यातव्यमिति । भृत्या अपि अनुचरा अपि त एव ये संपत्तेः संपत्तितः विपत्तौ विपदि सविशेषं पूर्वतोऽधिकं सेवन्ते सपर्यां कुर्वन्ति । समुन्नम्यमानाः समुन्नतिं प्राप्यमाणाः सुतरामत्यर्थमवनमन्ति नम्रीभवन्ति । आलाप्यमानाः संभाष्यमाणाः सम आलापो येषां ते समालापाः सदृशभाषिणो न संजायन्ते न भवन्ति । स्तूयमाना नूयमाना नोत्सिच्यन्ते नोत्सेकं गच्छन्ति ।
टिप्प० - 1 ‘अवेक्षमाणया' इति स्थाने अयं पाठो लेखकदोष एव । 2 'इतरदपि दुःखमतर्कितं कीदृशं भवति, ( अर्थात् साधारणप्रियवियोगजनितदुःखमेव अनिर्वाच्यं भवति), इदं (पुत्रवियोगजम्) तु किं पुनः ? अयमेव पाठः ।
पाटा० - १ संभाष्य २ अगमनं दूरत एव ३ अवस्थानमनुचितमशक्यमेव. ४ अवेक्षमाणया; अपेक्षमाणया ५ आपतति; अतः ६ श्रद्धेयवाक्यः ७ व्रजतु संप्रत्ययायेति. ८ भृत्यवर्गेऽपि.
(तत्स्वीकृत्य तैः सह त्वरितकप्रेषणम्
उत्तरभागः ।
645
Page #173
--------------------------------------------------------------------------
________________
नोत्सिच्यन्ते । क्षिप्यमाणा नापरागं गृह्णन्ति । उच्यमाना न प्रतीपं भाषन्ते । पृष्टा हितप्रियं विज्ञपयन्ति । अनादिष्टाः कुर्वन्ति । कृत्वा न जल्पन्ति । पराक्रम्य न विकत्थन्ते । विकत्थ्यमाना अपि लज्जामुदहन्ति । महाहवेष्वग्रतो ध्वजभूता इव लक्ष्यन्ते । दानकाले पलाय्य पृष्ठतो निलीयन्ते । धनात्स्नेहं बहु मन्यन्ते । जीवितात्पुरो मरणमभिवाञ्छन्ति । गृहादपि स्वामिपादमूले सुखं तिष्ठन्ति । येषां च तृष्णा चरणपरिचर्यायाम, असंतोषो हृदयाराधने, व्यसनमाननावलोकने, वाचालता गुणग्रहणे, कार्पण्यमपरित्यागे भर्तुः । ये च विद्यमानेऽपि स्वात्मन्यस्वाधीनसकलेन्द्रियवृत्तयः, पश्यन्तोऽप्यन्धा इव, श्रृण्वन्तोऽपि बधिरा इव, वाग्मिनोऽपि मूका इव, जानन्तोऽपि जडा इव, अनुपहतकरचरणा अपि पङ्गव इव, क्लीबा इवाकिंचित्कराः, स्वात्मनः स्वामिचिन्तादर्श प्रतिबिम्बवद्वर्तन्ते । तत्सर्वमेवंस्थितो -
***********
क्षिप्यमाणास्तिरस्क्रियमाणा नापरागं विरक्ततां गृह्णन्त्याददते । उच्यमानाः । विरूपमिति शेषः । भाष्यमाणा न प्रतीपं प्रतिकूलं भाषन्ते ब्रुवते । पृष्टा अनुयोजिता हितं च तप्रियं च हितप्रियं विज्ञपयन्ति निवेदयन्ति । अनादिष्टा अकथिताः कुर्वन्ति । कार्याणीति शेषः । कृत्वा न जल्पन्ति न कथयन्ति । पराक्रम्य पराक्रमं कृत्वा न विकत्थन्ते न श्लाघन्ते । विकत्थ्यमाना अपि श्लाघ्यमाना अपि लज्जा त्रपामुद्रहन्ति धारयन्ति । महाहवेषु महारणेष्वग्रतो ध्वजभूता इव केतुभूता इव लक्ष्यन्ते विलोक्यन्ते । 'अभ्यामर्दः समाघातः सङ्ग्रामाभ्यागमाहवाः' इत्यमरः । दानकाले पलाय्य पलायनं कृत्वा पृष्ठतो निलीयन्ते निलीना भवन्ति । धनाद् द्रव्यात्स्नेह प्रेम बहु मन्यन्तेऽधिकं गणयन्ति । जीवितात्प्राणितासुरोऽग्रे । स्वामिन इति शेषः । मरणं मृत्युमभिवाञ्छन्त्यभिलषन्ति । गृहादपि सौधादपि स्वामिपादमूले स्वकीयाधीशचरणोपान्ते सुखं यथा स्यात्तथा तिष्ठन्ति । येषां च सेवकानां चरणपरिचर्यायां पादसेवायां तृष्णा स्पृहा । हृदयाराधने चित्तप्रसादनेऽसंतोषः । आननावलोकने मुखनिरीक्षणे व्यसनमासक्तिः । वाचालता मुखरता गुणग्रहणे परगुणानां शौर्यादीनामादाने । भर्तुः स्वामिनोऽपरित्यागेऽमोचने कार्पण्यं कृपणत्वम् । ये च सेवका विद्यमानेऽपि स्वात्मनि जीवति सत्यप्यस्वाधीनसकलेन्द्रियवृत्तयोऽस्वाधीना अनायत्ताः सकलेन्द्रियाणां वृत्तयो येषा ते तथा । पश्यन्तोऽपि विलोकयन्तोऽप्यन्धा इव गताक्षा इव । परच्छिद्रान्वेषणेऽन्धत्वमिति भावः । श्रृणवन्तोऽप्याकर्णयन्तोऽपि बधिरा इव । परापवादश्रवण इत्यर्थः । वाग्मिनोऽपि वचस्विनोऽपि मूका इवावाच इव । परदूषणवक्तव्यतायामिति भावः । 'वाग्मी वाचस्पतौ पटौ' इति विश्वः । जानन्तोऽप्यवबुध्यन्तोऽपि जडा इव मूर्खा इव । प्रभुप्रतिपादितकथादिश्रवणेष्वित्यर्थः । कराश्च चरणाश्च करचरणम् । 'द्वन्द्वश्च प्राणितूर्य-' इत्येकवद्भावः । अनुपहतमखण्डितं करचरणं येषां ते तथैवंविधा अपि पङ्गव इव श्रोणा इव, क्लीबा इव षण्ढा इव, अकिंचित्करा निरर्थकाः । स्वात्मनः स्वस्वामिनोऽधिपतेचिन्ता सैवादर्शो मुकुरस्तस्मिन्प्रतिबिम्बवत्प्रतिच्छायवद्वर्तन्ते । तत्सर्वमेवाव्यक्ते - --------------------- टिप्प० - 1 'अनुपहतकरचरणा अपि कुणय इव पङ्गव इव' इत्युचितः पाठः । कररहितः कुणिः, विकलपादः पङ्गः, ते तु करपदसत्तायामपि तद्रहिता इत्यर्थः । 2 'स्वात्मना स्वामिचित्तादर्श प्रतिबिम्बवत्' इत्युचितः पाठः । स्वामिनश्चित्तरूपे आदर्श (दर्पणे) स्वात्मना प्रतिबिम्बवत् वर्तन्ते, स्वामिनश्चित्ते सर्वदा येषां स्थितिर्भवतीत्याशयः ।
-
-
-
-
-
--
पाठा० - १ अपराधम्; अपरज्यन्ते. २ प्रियहितम्; प्रियं हितम्. ३ कथ्यमानाः. ४ नापि. ५ व्यसनतानवलोकने. ६ गुणाग्रहणे. ७ आत्मनि. ८ न स्वाधीन. ९ कृपणा इव पङ्गवः; कुणप इव पङ्गवः. १० स्वात्मना. ११ चित्ता. १२ सर्वः.
IN
(646
कादम्बरी।।
कथायाम्
Page #174
--------------------------------------------------------------------------
________________
भृत्यलोकः । देवस्य च स्थाने देवी वर्तते । तदाज्ञापितं कृतमवधारयतु देवि' इत्युक्त्वा मेघनादस्त्वरितकनामानं कुमारबालसेवकमाहूय तैः सह व्यसर्जयत् ।
अथ सुबहुदिवसापगमे वार्ता विनोत्ताम्यन्ती चन्द्रापीडस्यैवागमनायोपयाचितं कर्तुमवन्तीनामनगरीदेवतानामवन्तीमातृणामायतनं निर्गता विलासवती देवी, दिष्ट्या वर्धसे । प्रसन्नास्तेऽवन्तिमातरः । परागता युवराजवार्ताहराः' इति सहसैव संभ्रमप्रधावितात्परिजनादुपश्रुत्यानन्दबाष्पजललुलितया जलाइँन्दीवरसजेव विक्षेपदीर्घया दृष्ट्यार्चयन्तीव चिरं दृष्ट्वा ककुभः, मृगाङ्गनेव परिभ्रष्टबालपोता, पूत्कृत्य प्राकृतवार्ता, 'केनेदममृतं मे वाक्छलादृष्टम् ? कस्यानुकम्पास्मिञ्जने जाता ? केन दृष्टाः ? कियडूरे वर्तन्ते ? किं वा तैः कथितं -
***********
नपुंसकम् । अयमेवंस्थितो भृत्यलोको गोप्यजनः । देवस्य च चन्द्रापीडस्य च स्थाने देवी वर्तते । तत्तस्मादाज्ञापितमादिष्टं कृतं निष्पादित देवीकादम्बर्यवधारयतु जानातु । इत्युक्त्वेत्यभिधाय मेघनादस्त्वरितकनामानं कुमारबालसेवकं चन्द्रापीडभृत्यमाहूयाह्वानं कृत्वा तैर्लेखहारकैः सह व्यस यत्प्राहिणोत् ।
अथेति । तत्प्रेषणानन्तरं सुबहूनामनेकेषां दिवसानामपगमे सति वार्ता प्रवृत्तिं विनोत्ताम्यन्ती खेदं कुर्वन्ती चन्द्रापीडस्यैवागमनायोपयोचितं वाञ्छितं कर्तुं विधातुमवन्तीनामनगरीदेवतानां विशालापुरीदेवानामवन्तीमातृणां ब्राम्याया मातरः सप्त तासां चायतनं गृहं निर्गता निर्याता । इतश्च हे देवि, त्वं दिष्ट्या भाग्येन वर्धसे वृद्धिं प्राप्नोषि । प्रसत्रास्ते तवावन्तिमातरः । युवराजवार्ताहराचन्द्रापीडकिंवदन्तीकथकाः । सदेशहरा इत्यर्थः । परागताः समायाता इति सहसैवैकपद एव संभ्रमेणादरेण प्रघावितात्परिजनात्सेवकजनादुपश्रुत्याकग्रॅनन्दबाष्पजलं हर्षाश्रुपानीयं तस्मिल्लुलितया लुठितया जलक्लिन्नया । नीलसाधादुटप्रेक्षते - जलाइँन्दीवरसजेव जलनुननीलपद्ममालयेवार्चयन्ती पूजयन्तीव विक्षेपेण दीर्घया दृष्ट्या दृशा चिरं चिरकालं ककुभो दिशो दृष्ट्वावलोक्य । परिभ्रष्टो गतो बालो मूर्खः पोतः शिशुर्यस्याः सा तथा । 'बालोऽर्भके च मूर्खे स्यात्' इत्यमरः । एवंविधा मृगाङ्गनेव हरिणीव पूत्कृत्योच्चै रटित्वा प्राकृतेव पामरेवार्ता पीडिता केन वार्ताकन वाक्छलाद्वचनोपधेरियममृतं पीयूषं वृष्टम् । तेन वचनच्छलादमृतमेव वृष्टमिति भावः । अस्मिञ्जने कस्य पुंसोऽनुकम्पा दया जाता समुत्पन्ना । केन पुंसा दृष्टा अवलोकिताः । क्व वा दृष्टाः कुत्र दृष्टाः । कियडूरे दविष्ठे वर्तन्ते । किं वा तैः कथितं प्रोक्तं मे मम वत्सस्य पुत्रस्य कुशलं कल्याणमितीतस्ततः पृच्छन्त्येव प्रश्नं कुर्वन्त्येव ताल्लेखहारकान्दूरत एवाद्राक्षीद्विलोकितवती । त्वरितकसमेतांस्ताल्लेखहारकानालोक्य निरीक्ष्य तस्मिन्नेव मातृगृहाङ्गणे स्थिता विलासवती तेषामाह्वानायाहूतायादिदेशाज्ञापितवती । कथंभूताल्लेखहारकान् ।
- - - - - - - - - - टिप्प० - 1 'तत्सर्व एवायमेवं स्थितो भृत्यलोकः' इत्युचितः पाठः । अयं भृत्यलोकः सर्व एवम् (पूर्वोक्तरूपेण) स्थितः । 2 यदाज्ञापितं तत्तस्मिन्समये एव कृतं जानातु भवती इत्यर्थः । 3 'चन्द्रापीडो मे समागच्छेत्तर्हि एवमुपहारान दद्याम् इति प्रार्थना - 'दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहदं तद्विदुर्बुधाः ॥ इति जटाधरः । 4 'अवन्तिनगरीदेवतानाम् इत्येवोचितम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ भृत्यजनः. २ त्वरितः. ३ कुमारसेवकम्. ४ अथ सा बहु. ५ वार्तया. ६ उत्ताम्यती. ७ उपयाचितकम्. ८ अवन्तीनगरदेवतानामवन्तीमातृणाम्. ९ वार्ता. १० ससंभ्रमप्रतिधावितात्. ११ परिचारिकाजनात्. १२ फूत्कृत्य. १३ दुष्टः. १४ वर्तते. १५ तेन; अनेन.
(देवमन्दिरे विलासवत्या दूतानामाह्वानम् ।
उत्तरभागः।
647
Page #175
--------------------------------------------------------------------------
________________
४
कुशलं मे वत्सस्य ?' इति पृच्छन्त्येवाद्राक्षीत् । इतस्ततो यथादर्शनसंबन्धशः प्रधावितेन नरपतिप्रतिबद्धेनाप्रतिबद्धेन चोज्जयिनीनिवासिना जनेने “आगतः युवराजः कियद्दूरे भवद्भिः परित्यक्तः, दिवसेष्वेतेषु क्व वर्तते, क्व वा भवद्भिर्यात्वौ दृष्टः, क्व वातिकष्टस्तेनातिवाहितो वाहनमात्रसाधनेन धाराधरागमः । तुरगपृष्ठगतस्य मन्ये बह एवास्याप्रक्रान्तः । त्वरितक एतद्वेत्ति, किमनेन विदितेनापि ? सतत्कथयतु, यदर्थमयं क्लेशः कृतो युवराजेन सं दृष्टो वैशम्पायनः प्रत्यानीतो वा ? मिलितोऽस्य पत्रलेखासहितो मेघनादः ? दत्तः कथं कश्चिदपि सदेशो देववर्धनेन ? मे मित्रमेवासावद्यारभ्य । राभसिकतयैव विनाशं बलाद्गतस्य बलधर्मणो वत्सस्य बिभेम्येव वार्तां पृच्छन्नपि । जीवत्यसावस्य वाजी यो युवराजेन प्रसादीकृतः । प्रसीदत, सादिनां प्रथमस्य पृथुवर्मणो मातुलस्य मे कथयत वार्ताम् । उत्प्रे -
1
इत्येतानि चान्यानि च प्रतिपदं प्रतिचरणन्यासं पृच्छ्यमानानपि प्रश्नविषयीक्रियमाणानप्यदत्तवचसोऽकथितप्रतिवचसः । एतानि कानीत्यपेक्षायामाह - यथादर्शनेति । यथादर्शनं यथावलोकनं तस्य संबन्धशः संबन्धेभ्यः प्रधातवितेनातित्वरितेन नरपतिप्रतिबद्धेन नृपसक्तेनाप्रतिबद्धेन राजसपर्यावर्जितेन चोज्जयिनीनिवासिना विशालावास्तव्येन जनेन, आगतः समायातो युवराजश्चन्द्रपीडो भवद्भिर्युष्माभिः कियद्दूरे परित्यक्तो मुक्तः । एतेषु दिवसेषु क्व वर्तते । भवद्भिर्युष्माभिर्लेखहारकैः क्व वा कुत्र यात्वा गत्वा दृष्टोऽवलोकितः । तेन युवराजेन वाहनमात्रसाधनेन केवलाश्वसैन्येनातिर्कष्टोऽतिदुःखदो धाराधरागमो जलदसमयः क्व वातिवाहितः कुत्रातिक्रान्तः । अहं च मन्येऽस्य युवराजस्य तुरगपृष्ठगतस्याश्वारूढस्य वहत एव व्रजत एवापक्रान्तो गतो वर्षासमयः । त्वरितक एतत् पूर्वोक्तं वेत्ति जानाति । अनेन विदितेनापि ज्ञातेनापि किम् । एतन्मदुक्तं कथयतु ब्रूहि यदर्थं यद्धेत्तोर्युवराजेन चन्द्रापीडेनायं क्लेशः कृतो विहितः । स वैशम्पायनो दृष्टोऽवलोकितः प्रत्यानीतो वा पश्चादानीतो वा । अस्य युवराजस्य पत्रलेखासहितो मेघनादो मिलितः संघटितः । देववर्धनेन तन्नाम्ना पुंसा कश्चिदपि सदेशो वाचिकं कथं दत्तो वितीर्णः.? अद्यारभ्याद्यप्रभृत्यसौ मे मम मित्रं वर्तते । राभसिकतयैवानालोचितवृत्त्यैव बलाद्धाद्विनाशं बलात्पाथेयाद्गतस्य प्राप्तस्य बालधर्मणो वत्सस्य पुत्रस्य वार्तां किंवदन्तीं पृच्छन्नपि प्रश्नयन्नप्यहं बिभेम्येव भयं प्राप्नोम्येव । असौ जीवति प्राणित्यस्य युवराजेन चन्द्रापीडेन यो बाजी तुरंगमः प्रसादीकृतः प्रदत्तः । यूयं प्रसीदत प्रसन्ना भवत । सादिनां यन्तॄणां मध्ये प्रथमस्याद्यस्य पृथुवर्मणो मातुलस्य
**
टिप्पo - 1 'यथादर्शनं संघशः प्रधावितेन' इत्युचितः पाठः । यथादर्शनम् ( दर्शनकालोत्तरमेव ) पृथक् पृथक् समूहीभूय प्रधावितेन उज्जयिनीवासिना जनेन 'इति... पृच्छ्यमानान्' इति तदर्थः । 2 'क्व वातिकष्टैस्तेनातिवाहितः' इत्युचितः पाठः । न किल जलदकालः कष्टः । अत एव पाठस्वारस्यं विचार्यम् । 3 'मे मित्रमेव असौ (देववर्धनः ) । अद्यारभ्य राभसिकतयैवात्मना बलाद्गतस्य' इत्येव पाठः । रामसिकतया (वेगशालितया, अनालोचितप्रवृत्ततया वा ) हटादेव स्वतः (स्वेच्छया) गतस्य, इति तदर्थः । 4 'जीवत्यसौ, अस्य वाऽऽजीवो युवराजेन प्रसादीकृतः ?' असौ (बलधर्मा) जीवति ? अस्मै युवराजेन आजीवः (जीवनोपायः, वेतनम् ) किमु प्रसादीकृतः, इत्युचितः पाठः । परीक्ष्यतां तारतम्यं सहृदयैः ।
648
पाठा०-१ यथादर्शनं सर्वशः २ अनुगतः; आयातः ३ गत्वा ४ दृष्टः सः ५ मिलितो वास्य; मिलितो वा तस्य ६ न दत्तः ७ आत्मना ८ प्रष्टुमपि ९ वो. १० प्रसीदतास्य. ११ पृथुवर्त्मनः.
कादम्बरी |
-
कथायाम्
Page #176
--------------------------------------------------------------------------
________________
क्षामहे महानश्चवारैरनुभूतः क्लेश इति । कुशलं महाश्वपतेरवसेनस्य ? श्वशुरोऽसावस्माकम् । विस्मयः कृतोऽस्मत्पित्रापि, यच्चिह्नकमपि भवतां हस्ते न किंचित्प्रहितम् । आहितभर एवासौ युवराजभवने दृष्टो भवद्भिता मे भरतसेनः ? सपरिजनस्य सेनापतेर्भद्रं भद्रसेनस्य ? सेवाव्यसनी सूनुर्मे कुमारवर्मा । तंत्र चलगतिबलाधिकृतस्य का वार्तावन्तिसेनस्य ? रोषितस्तेनासीनासीरार्थं युवराजः । राजकुले कः प्रसादवित्तो वर्धेनो मान्यते वा ? केन वा किं लब्धमेतावद्भिर्दिवसैः ? राजनिका बहवः खल्वभिनवसेवका जाताः । यातु तावत्सर्वमेवान्यत् । येन दृष्टः स कथयतु सर्वसेनसूनोर्वीरसेनस्य वार्ताम् । पितर्युपरते प्रथममेव स प्रविष्टो यात्राम् । मात्राऽस्य दुःखान्तरितप्रत्यग्रपतिमरणशोकादशनक्रियैव परित्यक्ता । न विद्म एवं कथं सा जीवति' इत्येतानि चान्यानि च प्रतिपदं पृच्छयमानानप्यदत्तवचसो नासाग्रस्थितमन्युगर्भदृष्टीनाविष्टानिवाध्वश्रमनिःसहाङ्गानपि पदाकृष्टिसंभावितोद्यमाऽऽयासि -
***********
मातृभ्रातुर्वार्ता प्रवृत्तिं कथयत । उत्प्रेक्षामह आशङ्क्यामहेऽश्ववारैः सादिभिर्महान्भूयान्क्लेशोऽनुभूत इति । महाश्वपतेर्महाश्वसाधनाधिपतेरश्वसेनस्य कुशलं वर्तते । अस्माकमसौ श्वशुरो भवति । अस्मत्पित्राप्यस्मदीयजनकेनापि विस्मयः कृतः, भवता हस्ते यत्किंचिच्चिह्नकमप्यभिज्ञानकमपि न प्रहितं न प्रेषितम् । आहितः स्थापितो भरो भारो यस्मिन्नेवंविधोऽसौ युवराजभवने भवद्भिर्धाता मे भरतसेनो दृष्टोऽवलोकितः । सपरिजनस्य सपरिच्छदस्य सेनापतेर्भद्रसेनस्य भद्रं वर्तते । सेवाव्यसनी कुमारवर्मा मे मम सूनुः पुत्रः । तत्र चलगतिबलाधिकृतस्यावन्तिसेनस्य का वार्ता किंवदन्ती । तेनावन्तिसेनेन नासीरार्थमग्रयानार्थं युवराजो रोषितः कोपित आसीत् । 'नासीरं त्वग्रयान स्यादवमर्दस्तु पीडनम् इति हैमः । राजकुले नृपकुले को वा मान्यते पूज्यते, प्रसादे प्रसन्नतायां वित्तं यस्यैवंभूतो वर्धमानो वृद्धिं प्राप्यमाणः । एतावद्भिर्दिवसैदिनैः केन वा किं लब्धं किं प्राप्तम् । अनुजीविष्विति शेषः । राजनिका राज्ञः संबन्धिनः । खलु निश्चयेन । बहवोऽनेकेऽभिनवा नूतनाः सेवकाः सपर्याकारिणो जाताः संपन्नाः । यातु तिष्ठतु तावत्सर्वमेवान्यदितरत् । अव्यक्त नपुंसकम् । एतेन नवीनसपर्याकारिवार्तायां सर्वथानादरः सूचितः । येन दृष्टो वीक्षितः स कथयतु निवेदयतु सर्वसेनसूनोर्वीरसेनस्य वार्ता कुशलम् । पितरि जनक उपरते मृते सति प्रथममेवादावेव स यात्रां व्रज्यां प्रविष्टो गतः । अस्य वीरसेनस्य मात्रा जनन्या दुःखेन सूनुसक्तेनान्तरितो व्यवहितो यः प्रत्यग्रो नूतनः पतिमरणशोको भर्तृमृत्युशुक् तस्मादशनक्रियैव भोजनविधिरेव परित्यक्तोज्झिता । न विद्मो न जानीम एवममुना प्रकारेण सा कथं जीवति कथं प्राणिति । आदिदेशेत्यन्वयस्तु पूर्वमेवोक्तः । इतो लेखहारकाविशेषयन्नाह - नासेति । नासाग्रे नासिकाप्रान्ते संस्थितो मन्युः दैन्यं गर्भे यस्या एवंविधा दृष्टीदृशो येषां ते तथा तान् आविष्टानिव भूतग्रस्तानिवाध्वश्रमेण निःसहान्यसक्तान्यङ्गानि येषामेवंविधानपि पदानामाकृष्टिराकर्षस्तेन संभावितोऽनुमितो य उद्यम -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'सेवाव्यसनी सूनुर्मे कुमार(कपाल)वर्मा, तत्र अवलगति बलाधिकृतः ? (मम सूनुविषये सेनाधिकारी सज्जते, तदनुकूलोस्ति ?), तस्य का वार्ताऽवन्तिसेनस्य ?' इति पाठः । 2 'आजीवनिकाः (ग्रासाच्छादनमात्रभागिनः) बहवः खल्वभिनवसेवका जाताः ग्रासाच्छादनमात्रमादाय बहवः पामरा नवीनाः सेवका जाता इति तेषामाक्रोशः । 3 दृष्टय इत्युचितम् ।
पाठा० - १ पित्रा स्वचिह्नकम्. २ कलापवर्मा; कपालवर्मा. ३ तत्र लगति; तत्र चलति; तत्रावलगति. ४ बलाधिकृतस्तस्य. ५ वर्तमाने. ६ आजीवनिकाः. ७ एवं. ८ अदत्तप्रतिवचसः.
देवमन्दिरे विलासवत्या दूतानामाह्वानम्
उत्तरभागः।
Page #177
--------------------------------------------------------------------------
________________
तया गत्या गच्छतश्चातिमलिनपटच्चराच्छादितानसंस्कारमलिनकायाननेकोद्धाध्वधूलिपरुषमूर्धजान्, ध्वजानिवाध्वक्लेशस्य, आश्रयानिव श्रमस्य, पदन्यासानिव दौर्मनस्यस्य, आवासानिव प्रवासस्य, संदर्भानिव सर्वदुःखानाम्, दूरत एव त्वरितकसमेतांस्ताँल्लेखहारकान् । आलोक्य च तस्मिन्नेव मातृगृहाङ्गणे स्थिता तेषामाह्वानायादिदेश ।
अनन्तरं चातर्कितापतितदर्शनद्विगुणितदुःखावेगान्मुषितानिव, उन्मुक्तानिवेन्द्रियैः, दारुमयानिव शून्यशरीरान्, निर्जीवानिवोपसर्पतः पुरस्तात्पतन्तीव बाष्पान्धा साध्वसस्खलितचरणकमला कतिचिद्गत्वा पदानि, गद्गदतरमुच्चैरकृतप्रणामानेवावादीत् - 'भद्राः, कथयताशु वत्सस्य मे वार्तामात्रम् । इदं त्वन्यथैव किमपि कथयति मे हृदयम्, अप्रत्ययमेवाश्रयते । वत्सो दृष्टो वा न भवद्भिः ?' इत्येवं पृष्टास्तु ते सहसागतबाष्पवेगमवनिनिवेशितोत्तमाङ्गाः प्रणामापदेशेनोत्सृज्य कृच्छ्रादिवाभिमुखमुन्नमितवदना व्यज्ञापयन् - ‘देवि, दृष्टोऽस्माभिरच्छोदसरस्तीरे युवराजः । शेषमेष त्वरितको निवेदयिष्यति । इत्यभिवदत एव तानुद्वाष्पमुखी प्रत्युवाच -
***********
उद्योगस्तेनायासितयायासं प्राप्तया गत्या गच्छतो व्रजतोऽतिमलिनं यत्पटच्चरं जीर्णवस्त्रम् । 'पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ' इत्यमरः । असंस्कारेणानधिवासनेन मलिनो मलाक्रान्तः कायो येषां तान् । अनेका विविधा उत्प्राबल्येन बद्धा लग्ना अध्वधूलयो मार्गरणवस्ताभिः परुषाः कठिना मूर्धजाः केशा येषां ते तथा तान् । लग्नधूलिसाम्यादृप्रेक्षते - अध्वक्लेशस्य मार्गखेदस्य ध्वजानिव चिह्नानीव । 'ध्वजश्चिह्न पताकायां ध्वजः शौण्डिकशेफसोः' इति विश्वः । श्रमस्याश्रयानिवाधारानिव, दौर्मनस्यस्याप्रसन्नचित्तस्य पदन्यासानिव, प्रवासस्य परदेशगमनस्यावासानिवालयानिव, सर्वदुःखानां संदर्भानिव गुम्फानिव ।
अनन्तरं चेति । तदाह्वानानन्तरमतर्कितमचिन्तितमापतितं संजातं यद्दर्शनमवलोकनं तेन द्विगुणितो दुःखावेगो येषां ते तथा तान् । मुषितानिव चौटुंण्टितानिव, इन्द्रियैः करणैरुन्मुक्तानिव त्यक्तानिव, दारुमयानिव काष्ठनिर्मितानिव शून्यशरीरान्, निर्जीवानिव विगतात्मन इव, उपसर्पतः समीप आगच्छतः पुरस्तात्पतन्तीव संसन्तीव बाष्पेणाश्रुणान्धा गताक्षा साध्वसं भयं किं कथयिष्यन्त्येत इति वितर्कजनितं तस्मात्स्खलितं स्खलनां प्राप्तं चरणकमलं यस्याः सा तथा कतिचित्पदानि गत्वा गद्गदतरं यथा स्यात्तथा उच्चै ढस्वरेणाकृतप्रणामानेवाविहितनमस्कारानेव तानवादीत् । भद्राः, यूयमाशु शीघ्रं मे मम वत्सस्य वार्तामात्रं कथयत । इदं तु मे मम हृदयं चेतोऽन्यथैव किमपि कथयत्यप्रत्ययमेवाविश्वासमेवाश्रयते । मे मम वत्सो दृष्टोऽवलोकितो भवद्भिर्युष्माभिर्न वेति । इत्येवं पृष्टास्तु ते लेखहारकाः सहसैव सद्य एवागतो बाष्पवेगो यथा स्यात्तथावनौ निवेशितं स्थापितमुत्तमाङ्ग शिरो यैस्ते तथा प्रणामापदेशेन नमस्कृतिमिषेणोत्सृज्य कृच्छादिव कष्टादिवाभिमुखं संमुखमुत्रमितमुच्चैःकृतं वदनं यैस्ते तथा व्यज्ञापयन्विज्ञप्तिं चक्रुः । किं कथयामासुरित्याकाङ्क्षायामाह - देवीति । हे देवि, अच्छोदसरस्तीरेऽस्माभिर्युवराजो दृष्टः । शेषमवशिष्टमेष त्वरितको युवराजभृत्यो निवेदयिष्यति कथयिष्यति इत्यभिवदत एवेति ब्रुवत एव तानुदूर्ध्वं बाष्पो नेत्राम्बु यस्मिन्नेवंभूतं मुखमाननं यस्याः सा विलासवती प्रत्युवाच प्रत्यब्रवीत् ।
- - - - - - - - - - टिप्प० - 1 तेन आच्छादितान् संवीतानित्यर्थो बोध्यः । 2 सहसाऽऽगतं बाष्पवेगं प्रणामापदेशेनोत्सृज्य इत्यन्वयः ।
-
-
-
-
-
-
-
पाठा० - १ अनेकधैवोद्वद्धः. २ आश्रमानिव; श्रमस्यावासानिव. ३ अदूरतः. ४ पतन्ती. ५ चरणानि. ६ सगद्गदस्वरम्. ७ वार्ताम्. ८ कथमपि करोति मे हृदयम्. ९ ध्रियते गम वत्सो दृष्टो वा भवद्धिः, १० उपसृत्य उपसृज्य. ११ व्यज्ञापयन्.
(650
कादम्बरी।
कथायाम
Page #178
--------------------------------------------------------------------------
________________
'किमपरमयं तपस्वी निवेदयिष्यति ? दूरतः प्रभृत्यपसृतप्रहर्षेणैवोपसर्पणेन, प्रतिलेखमालिकाशून्यैः शिरोभिः, आविषण्णदीनैराननैः, प्रयत्नसंरक्षिताश्रुमोक्षदुःखिताभ्यां लोचनाभ्याम्, मन्मुखसमक्षमधारणेन च दृष्टेर्यदावेदितव्यं तद्भवद्भिरेवावेदितम् । हा वत्स, जगदेकचन्द्र, चन्द्रापीड, चन्द्रानन, चन्द्रशीतलप्रकृते, चन्द्राभिरामगुण, लोचनानन्दभूत, किंभूतं ते येन नांगतोऽसि ? तात चन्द्रापीड ! पीडिता ब्रवीमि न कोपादुपालभमाना - न युक्तमेतत्तव 'अम्ब, न परिलम्बं मनागपि करोमि इति तथा मे पुरः प्रतिज्ञायान्यत्र क्वाप्यवस्थातुम् । वत्स, गच्छत एव ते मयाऽस्य हतहृदयस्य शङ्कयैव ज्ञातं दुष्करं मे वत्सस्य पुनर्मुखावलोकनमिति । बलाद्गतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य । मन्दभाग्याया ममैवैतान्यपुण्यानां विलसितानि । भवन्त्यपुण्यवत्योऽपि लोके न पुनर्मया सदृशीपापकारिणी, यस्यास्त्वमेक एवमकाण्ड एवाच्छिद्य क्वापि नीतोऽसि । विप्रलब्धास्मि दग्धवेधसा । वत्स, सुदूरस्यापि पादयोः पतामि ते । निवर्तस्वैकवारम् । अम्बेत्यालपतस्ते वद -
***********
किमपरमन्यदयं तपस्वी वराकः । शोच्य इचि यावत् । निवेदयिष्यति । दूरतः प्रभृति दूरादारभ्यापसृतो दूरीभूतः प्रहर्षो यस्मादेवंभूतेनोपसर्पणेन समीपागमनेन प्रतिलेखानां ततः प्रहितपत्राणां मालिकाशून्यैः संग्रहितैः शिरोभिरुत्तमाङ्गरासमन्ताद्विषण्णानि विलक्षाणि च दीनानि दुःखितानि च विषण्णानि दीनान्येवंभूतैराननैर्मुखैः, प्रयत्नेनोद्यमेन संरक्षितमश्रुमोक्षणं तेन दुःखिताभ्यां लोचनाभ्यां नयनाभ्यां नेत्राभ्यां, दृष्टेशो मन्मुखसमक्षं यदधारणमस्थापनं तेन च यदावेदितव्यं निवेदनाहँ तत्सर्वं भवद्भिरावेदितं कथितम् । हा इति खेदे । हे वत्स हे पुत्र, हे जगति लोक एकोऽद्वितीयश्चन्द्र, हे चन्द्रापीड । चन्द्रवदाननं मुखं यस्य तस्य संबोधनम् । चन्द्रवच्छीतला शिशिरा प्रकृतिः स्वभावो यस्य तस्य संबोधनम् । चन्द्रवदभिरामा उज्ज्वला गुणा यस्य तस्य संबोधनम् । लोचनानां नेत्राणामानन्दभूतः । प्रमोदभूतस्तस्य संबोधनम् । ते तव किं भूतं किं जातं येन हे तात हे पुत्र, चन्द्रापीड, त्वं नागतोऽसि नायातोऽसि । 'तातः पितरि पुत्रे च' इत्यनेकार्थः । पीडिताहं ब्रवीमि । न कोपात्क्रोधादुपालभमानोपालम्भं ददाना । किं कथितवतीत्याह - न युक्तमिति । हे अम्ब हे मातः, न परिलम्बं विलम्ब मनागपि करोमीति तथा तेन प्रकारेण पुरोऽग्रे प्रतिज्ञाय प्रतिज्ञा कृत्वान्यत्रान्यस्मिन्स्थले क्वाप्येवमवस्थातुं न युक्तमेतत् । हे वत्स हे पुत्र, ते तव गच्छत एव व्रजत एव मयास्य हतहृदयस्य हतचेतसः शङ्कयैवारेकयैवेति ज्ञातमवगतम् । इतिज्ञाप्यमाह - दुष्करमिति । दुष्करं कठिनं मे वत्सस्य पुनर्मुखावलोकनमिति वक्त्रनिरीक्षणमपि । बलाद्धठात्त्वं गतोऽसि । किं करोम्यहम् । अत्र वत्सस्य पुत्रस्य को वा दोषोऽपराधः । मन्दभाग्यायाः स्वल्पदैवाया ममैवापुण्यानामश्रेयसामेतानि विलसितानि विचेष्टितानि । लोकेऽपुण्यवत्योऽपि भवन्ति नार्यः । न पुनर्मया सदृशी पापकारिणी । तत्रार्थे हेतुमाह - यस्या इति । यस्या विलासवत्यास्त्वमेक एवमकाण्ड एवाप्रस्ताव एवाच्छिद्योद्दाल्य क्वाप्यनिर्वचनीयस्थले नीतोऽसि प्रापितोऽसि । दग्धवेधसा ज्वलितविधानाहं विप्रलब्धास्मि वञ्चितास्मि । 'विप्रलब्धस्तु वञ्चितः इति हैमः । हे वत्स, सुदूरस्याप्यतिदविष्ठस्यापि ते तव पादयोश्चरणयोः पतामि पतनं करोमि नमस्करोमि । एकवारं निवर्तस्व पश्चादागच्छ । अम्बेत्यालपतो - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'आविषण्णदूनः (दुःखितैः), इति पाठः । 2 'किंभूतं ते येन नागतोसि । इति पृथग्वाक्यम् । 'तात चन्द्रापीड पीडिता ब्रवीमि न कोपाद्' इत्यादि पृथग्वाक्यम् । 3 'अपुण्यवत्योऽपि भवन्तु, न पुनर्मया सदृशी' इति पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ परतरम्. २ अकृत; अनुद्गत. ३ दुःखिताभ्याम्. ४ मन्मुखसमवधारणेन. ५ आयासि; आयातोऽसि. ६ अपुण्यवन्त्यः. ७ अवच्छिय. ८ दूरं गतस्यापि.
अशुभमनुमाय तस्या विलापः
उत्तरभागः।
Page #179
--------------------------------------------------------------------------
________________
नमवलोकयितुमुत्कण्ठितं मे हृदयम् । जात, दुर्लभक, न जानाम्येव किमाजन्मनः प्रभृति शैशवं ते स्मृत्वात्मानमनुशोचामि उत यौवनाभोगकारिणीं वर्तमानां रूपशोभाम्, आहोस्विदवष्टम्भधीरामुत्प्रेक्ष्योत्प्रेक्ष्यागामिनी प्रभुताम्' इति । एवं विलपन्ती मामवलोक्य हृदयस्थितो मैवं कृथाश्चेतसि पुत्र ! यथा विनापि मया जीवत्येव विलासवती । जात, त्वया विना जीवन्त्यापि पितरेव ते कथं मया वदनं दर्शितम् । न वेद्मि किमपि । प्रियतया ते, किमाकृतेः प्रत्ययात्, उत स्त्रीजनसहभुवो मूढभावादेव, इत्यद्यापि न श्रद्दधाति मे हृदयमनिष्टं ते । येन न सहसधा स्फुटति । स्फुटीकर्तुं च वार्ता भीता ते त्वरितकोपनीतामेव नेच्छामि । वरमनाकर्येवाश्रवणीयमुपरतास्मीति । तात, किं ब्रवीषि, यथा किममुना सुतस्नेहानुचितेन लोकलज्जाकरेण वैक्लव्येनेति । एषा स्थितास्मि ते वत्स, वचनात्तूष्णीम् । न रोदिमि ।' इत्यभिदधानैवासन्नसखीजनावलम्वितशरीरा मोहमगमत् ।
अथानेकसहससंख्येन प्रधावता विलासवतीपरिजनेनावेदिते तस्मिन्वृत्तान्ते, मन्दरास्फा -
***********
जल्पतस्ते तव वदनं मुखमास्यमवलोकयितुं वीक्षितुमुत्कण्ठितमुत्सुकं मे मम हृदयं चेतः । जात हे पुत्र, अपत्यादिषु दुर्लभो दुःप्रापस्तस्य संबोधनं हे दुर्लभक, अहं न जानाम्येव न वेम्येव । किमाजन्मनः प्रभृत्युत्पत्तेरारभ्य प्रारभ्य ते तव शैशवं बाल्यं स्मृत्वा स्मरणं कृत्वात्मानं स्वमनुशोचामि शोकविषयीकरोमि पश्चात्तापं करोमि । उतेति पक्षान्तरे । यौवनस्य तारुण्यस्याभोगो विस्तारस्तं करोतीत्येवंशीला सा तथा ता, वर्तमानां संप्रतिसमयवर्तिनी रूपशोभा सौन्दर्यश्रियं स्मृत्वानुशोचामि । तथा । आहोस्विदिति वितर्के । अवष्टम्भः प्रारम्भस्तेन धीरा स्थिरामागामिनीमेष्यत्कालभाविनी प्रभुतामैश्चर्यमुत्प्रेक्ष्य विमृश्य विमृश्यानुशोचामि । इत्येवं विलपन्तीं विलापं कुर्वन्तीं हृदयस्थितश्चित्तान्तर्गतो मां विलासवतीमवलोक्य निरीक्ष्य मामैवं चेतसि कृथा व्यधत्थाः । किं तदित्याह - यथेति । हे पुत्र, यथा मया विनापि चन्द्रापीडं विनापि विलासवती जीवत्येव । तर्हि मृता कथं नेत्याशङ्कायामाह - जातेति । जात हे पुत्र हे वत्स, त्वया विना भवद्व्यतिरेकेण जीवन्त्यापि जीवनं धारयन्त्यापि पितुरेव ते तव कथं मया वदनं मुखं दर्शितं दृग्विषयीकारितम् । अत्रार्थे हेतुमाह - न वेद्मीति । अहमत्र कारणं किमपि न वेद्मि न जाने संशयारूढत्वेन सम्यक्तया नावबुध्ये इत्यर्थः । एतदेव स्पष्टयन्नाह - प्रियतयेति । ते तव प्रियतया वल्लभतया किमाकृतेराकारस्य प्रत्ययाद्विश्वासादुत स्त्रीजनस्य सहभुवः सहोत्पन्नस्य मूढभावादेवाज्ञानभावादेवेत्यद्यापि सांप्रतमपि ते तवानिष्टमशुभं मे मम हृदयं न श्रद्दधाति न श्रद्धत्ते । येन कृत्वा सहसधा सहसप्रकारेण न स्फुटति न स्फोटं प्राप्नोति । अहं भीता सती ते तव त्वरितकेनोपनीता प्रापितामेव वार्ता प्रवृत्तिं स्फुटीकर्तुं प्रकटीकर्तुं नेच्छामि नाभिलषामि । अश्रवणीयं श्रवणायोग्यमनाकघैव वरमिति उपरतास्मि । हे तात, किं त्वमिति ब्रवीषि वदसि । यथा किं सतस्नेहस्यानचितेनायोग्येनामना वैक्लव्येन वैक्लव्यं विहलत्वं तेनेति । एषा विल तव वचनात्तूष्णीं मौनं स्थितास्मि । न रोदिमि । इत्यभिदधानैवेति ब्रुवाणैवासनः समीपवर्ती यः सखीजन आलिवर्गस्तेनावलम्बितमवधृतं शरीरं यस्याः सैवंविधा मोहं मूर्छामगमदन्वगात् ।
अथेति । मूर्छागमनानन्तरमनेकसहस्राणि संख्या यस्यैवंभूतेन प्रधावतेतस्ततस्त्वरितगत्या गच्छता विला - टिप्प० - 1 'आत्मनाऽनुशोचामि' इति पाठः । 2 अवष्टम्भो धैर्यावलम्बो लोकावलम्बो वा तेन स्थिराम्, इत्यर्थः ।
हे वत्स
ते
-
-
-
-
-
-
पाठा० - १ हरिणीम्. २ वर्तमानरूप, वर्तमानस्वरूप. ३ पुनरेवम्. ४ किमिति. ५ वार्ता ते त्वरितकाडीतेव. ६ ब्रवीमि. ७ तथा. ८ अनेन स्नेहानुचितेन.
1652
कादम्बरी ।
कथायाम
Page #180
--------------------------------------------------------------------------
________________
नोबेल इव महाम्भोधिरुद्भ्रान्तचेताः ससंभ्रममुत्थायार्यशुकनासद्वितीयो यामावस्थितां प्रजविनीं करेणुकामारुह्य रयादापिबन्निव पुरो राजमार्गं किं किमेतदित्युन्मुक्तार्तनादकलकलेन सर्वतः प्रधावता जनपदौघेनाकर्षन्निवोदैवासयन्निव पृष्ठतः सगोपुराट्टालकप्राकारभवनतोरणामुज्जयिनीं निर्जगाम नरपतिः । उपेत्य चौवन्तीमातृगृहमवतीर्य तिर्यग्विषण्णोद्वाष्पवदनेन, मलयजजलैश्च सिञ्चता, कदलीदलैश्च वीजयता, जलार्द्रैश्च पाणिपल्लवैः संवाहनं कुर्वता, कथंकथमपि चेतनामापाद्यमानां परिजनेनार्धोन्मीलितलोचनयुगामुष्णकालकमलिनीमिव विलासवतीमपश्यत् । दृष्ट्वा च सहसा प्रवृत्तेन नेत्राम्भसा मूर्च्छावशेषापनयनायेवं सिञ्चन्समुपविश्य पार्श्वे स्पर्शामृतवर्षिणा करेण ललाटे चक्षुषि कपोलयोरुरसि बाह्वोश्च स्पृशञ्छनैः शनैर्बाष्पगद्गदमवादीत् - 'देवि, यदि सत्यमेवान्यादृशं किमपि वत्सस्य चन्द्रा -
-
**
सवतीपरिजनेन तस्मिन्वृत्तान्त उदन्त आवेदिते ज्ञापिते सति, मन्दरस्य मेरोरास्फालनेनोदूर्ध्वं वेला यस्य स उद्वेलो योऽब्धिः समुद्रस्तद्वदिव । क्वचित् ‘आस्फालनेनोच्छलित इव' इति पाठः । उद्भ्रान्तं चेतो यस्य स तथा ससंभ्रमं सभयमुत्थायोत्थानं कृत्वा आर्यशुकनासो यस्य स तथा । राज्ञो विशेषणम् । यामावस्थितां चतुष्किकास्थितां प्रजविनीं प्रकृष्टवेगवतीं करेणुकां हस्तिनीमारुह्यारोहणं कृत्वा रयाद्वेगात्पुरोऽग्रे राजमार्गं श्रीपथमापिबन्त्रिवापानं कुर्वन्निव । किं किमेतदित्युत्क्रान्त उत्थि॑ितो य आर्तनादकलकलः शब्दः कोलाहलस्तेन सर्वतोऽभितः प्रधाव जनपदौघेन नरसमूहेनाकर्षन्निवाकृष्टिं विदधन्निव । 'भवेज्जनपदो देशे जने जनपदेऽपि च' इति विश्वः । पृष्ठतः सगोपुराट्टालप्राकार भवनतोरणाम् । तत्र गोपुरं प्रतोली, अट्टालकं प्राकाराग्रस्थितरणगृहम्, प्राकारो वरणः, भवनानि गृहाः, तोरणानि प्रतीतानि, एतैः सह वर्तते या सा तामुज्जयिनीं विशालामुदवासयन्निवोर्द्वशीकुर्वन्निवैवंविधो नरपतिस्तारापीडो निर्जगाम निर्ययौ | नगर्या इति शेषः । अवन्तीमातृगृहमुपेत्य समीपमागत्य तिर्यगवतीर्योत्तीर्य विलासवतीं राजापश्यद्ददर्श । अर्धोन्मीलितं लोचनयुगं नेत्रयुग्मं नयनद्वन्द्वं यया सा ताम् । अर्धोन्मीलनसाम्यादुत्प्रेक्षते - उष्णकालकमलिनीमिव ग्रीष्मसमयपद्मिनीमिव । पुनः किं क्रियमाणाम् । कथंकथमपि महता कष्टेन चेतनां चैतन्यं सजीवत्वमापाद्यमानामुत्पाद्यमानाम् । केन । परिजनेन परिच्छदेन परिवारेण । परिजनं विशिनष्टि - विषण्णेति । विषण्णानि विलक्षाण्युद्वापाण्युदश्रूणि मुखान्यास्यानि यस्य स तेन । किं कुर्वता । मलयजं मलयभवं चन्दनं तस्य जलैः पानीयैश्च सिञ्चता सेकं कुर्वता । पुनः किं कुर्वता । कदल्यो रम्भास्तासां दलैः पर्णैः पत्रैर्वीजयता वातं कुर्वता । पुनः किं विदधता । जलार्द्रैः पानीयोन्त्रैः पाणिपल्लवैः करकिसलयैश्च संवाहनमङ्गमर्दनं कुर्वता । दृष्ट्वा च विलोक्य च सहसा सद्यः प्रवृत्तेन प्रादुर्भूतेन प्रकटीभूतेन नेत्राम्भसा नयनाम्भसा नेत्राश्रुणा मूर्च्छाया अवशेष उर्वरितांशस्तस्यापनयनायेव दूरीकरणायेव सिञ्चन्पार्श्वे समीपे निकटेऽन्तिके समुपविश्यावस्थानं कृत्वा स्पर्श एवामृतं पीयूषं वर्षतीत्येवंशीलेन करेण हस्तेन पाणिना ललाटेऽलिके भालस्थले, चक्षुषि नेत्रे, कपोलयोर्गल्लात्परप्रदेशयोः उरसि हृदये वक्षसि बाह्वोश्च भुजयोश्च शनैः शनैः स्पृशन्स्पर्शं कुर्वन्बाष्पगद्गदं यथा स्यात्तथावादीदवोचदब्रवीत् - हे
1
तारापीडस्याऽऽगमनम्
**
टिप्प० - 1 वस्तुतस्तु - ‘उन्मुक्तार्तनादकलकलेन' इति पाठः । उन्मुक्तः प्रकटितः आर्तनादरूपः कलकलो येन तादृशेन । 2 जनपदौघेन सगोपुरेत्यादिविशेषणाम् 'उज्जयिनीम् आकर्षन्निव आवर्जयन्निव उद्वासयन्निव विपर्यासयन्निव नरपतिर्निर्जगाम', इति पाठोऽन्वयश्च । तत्र आवर्जयन्निव सहनयन्त्रिव, उद्वासयन्निव वसतिशून्यां कारयन्निव, विपर्यासयन्निव विपर्यस्तां कुर्वन्निवेत्यर्थः ।
पाठा० - १ उद्वेलितः २ आवर्जयत्रिव ३ उद्वास्यन्विपर्यासयन्निव ४ अवन्ति ५ एव.
उत्तरभागः ।
653
Page #181
--------------------------------------------------------------------------
________________
पीडस्य ततो न जीव्यन्त एव । किमर्थमयमात्मा वत्सस्य कृते सकललोकसाधारणेनामुना वैक्लव्योपगमेन तुच्छता नीयते । इयन्ति शुभान्युपात्तानि कर्माणि । किमपरं क्रियते । नौधिकस्य भाजनं सुखस्य वयम् । अनुपात्तं हि हृदयताडनमपि कुर्वद्भिर्न लभ्यत एवात्रात्मेच्छया । विधिर्नामापरः कोऽप्यत्रास्ते । यत्तस्मै रोचते तत्करोति । नासौ कस्यचिदप्यायत्तः । एवं च पराधीनवृत्तौ सर्वस्मिन्न किं वास्माभिर्लब्धम् । वत्सस्यातिदुर्लभो जन्मोत्सवः संभावितः । अङ्कगतस्य मुखमवलोकितम् । उत्तानशयस्योच्चुम्ब्य चरणावुत्तमाङ्गे कृतौ । जानुसंचारिणो रेणुधूसरशरीरस्याङ्के लुलतः स्पर्शसुखमनुभूतम् । अव्यक्तमनोहारीणि प्रथमजल्पितानि श्रोत्रे कृतानि । विचेष्टमानस्य बालचाटवो दृष्टाः । गृहीतविद्यस्य गुणवत्तयानन्दितं हृदयम् । उपारूढयौवनस्यामानुषी रूपशोभा शक्तिश्च प्रत्यक्षीकृता । अभिषिक्तस्य यौवराज्ये शिरः समाघ्रातम् । दिग्विजयागतस्य प्रणमतः परिष्वक्तान्यङ्गानि । एता -
***********
देवि, यदि सत्यमेवावितथमेव किमपि वत्सस्य चन्द्रापीडस्यान्यादृशं वैरूप्यं ततो न जीव्यन्त एव प्राणा न प्रियन्त एव । तर्हि किमर्थं निःप्रयोजनमयमात्मा जीवो वत्सस्य पुत्रस्य सूनोः कृते कार्ये सकललोकसाधारणेन प्राकृतजनानुचीर्णेन पामरजनव्याप्तेनामुनानेन प्रत्यक्षोपलभ्यमानेन वैक्लव्योपगमेन विह्वलतोपगमेन विकलभावोपनतेन तुच्छतां स्वल्पतां नीयते प्राप्यते नीचजनाचीर्णमार्गाश्रयणादिति भावः । इयन्त्येतावन्ति शुभानि कर्माण्युपात्तानि गृहीतान्यर्जितानि । अपरं द्वितीयमन्यत्किं क्रियते अस्माभिः, नाधिकस्य सुखस्य सौभाग्यस्य वयं भाजनमास्पदं पात्रम् । हृदयताडनमपि कुर्वद्भिरात्मेच्छया । हि यस्मात्कारणादनुपात्तमनागृहीतमनुपार्जितं न लभ्यत एव न प्राप्यत एव । नामेति कोमलामन्त्रणे । नाम निश्चयेन । विधिर्विधाता ब्रह्मा अपरो द्वितीयः कोऽप्यत्रास्ते । यत्तस्मै विधये प्रजापतये रोचते रुचिविषयीभवति तत्करोति विदधाति निष्पादयति । नासौ विधिर्ब्रह्मा कस्यचिदप्यायत्तः पराधीनः किन्तु स्वायत्त एव । एवं च सर्वस्मिञ्जने सर्वस्मिलोके पराधीनवृत्तौ सत्यामस्माभिः किं न प्राप्तं किं न लब्धम् । अपि तु सर्वमेव सर्वस्वमेव प्राप्तं लब्धम् । एतदेव प्रदर्शयन्नाह - वत्सस्येति । वत्सस्य पुत्रस्य सुतस्य चन्द्रापीडस्यातिदुर्लभोऽतिदुष्प्रापो जन्मोत्सव उत्पत्तिमहः संभावितो विहितो निष्पादितः । अङ्कगतस्य मुखमवलोकितं वीक्षितं निरीक्षितम् । उत्तानशयस्योर्ध्वाननस्योच्चास्यशयितस्योच्चुम्ब्योच्चुम्बनं कृत्वा चुम्बनं विधाय पादौ चरणावुत्तमाङ्गे शिरसि कृतौ विहितौ निष्पादितौ । जानुना नलकीलेन संचारिणो गमनशीलस्य गमनस्वभावस्य, अत एव रेणुधूसरस्य धूलिमलिनस्य धूलिकदमितस्याङ्के क्रोड उत्सङ्गे लुलतो लुठतः स्पर्शसुखं संश्लेषसातमालिङ्गनसुखमनुभूतम् । अव्यक्तेनाप्रकटत्वेनास्फुटत्वेन मनोहारीणि चारूणि प्रथमजल्पिता न्यायभाषितानि पूर्ववाक्यानि श्रोत्रे कर्णे कृतानि धारितानि । विचेष्टमानस्य क्रीडां कुर्वाणस्य बालचाटवः शिशुचाटूनि दृष्टा दृष्टिविषयीकृताः । 'चटु चाटु प्रियप्रायम्' इति हैमः । गृहीतविद्यस्य स्वीकृतकलाभ्यासस्य गुणवत्तया गुणस्वभावतया हृदयमानन्दितं प्रमुदितं हर्षितम् । उपारूढयौवनस्य प्राप्ततारुण्यस्य प्राप्तयौवनस्यामानुषी मनुष्येष्वसंभाविनी रूपशोभा सौन्दर्यश्रीर्मनोहरश्रीः शक्तिश्च तदनुयायि सामर्थ्य च प्रत्यक्षीकृता साक्षात्प्रत्यक्षादवलोकिता निरीक्षिता । यौवराज्ये कौमार्येऽभिषिक्तस्याभिषेकं -
- - - - - - - - - - - - - - - टिप्प० - 1 'न जीव्यत एव' इति पाठः । यदि वत्सस्य अशुभं तर्हि न जीव्यत एव, आवाभ्यामिति शेषः । 2 'सति' इति वक्तव्यम् ।
-
-
-
-
-
पाठा० -१ जीव्यते. २ नातोऽधिकस्य. ३ उपात्तम. ४ हृदयस्य. ५ वृत्ते. ६ च. ७ शरीरक. ८ ललतः; लगतः. ९ मनोहराणि.
654
कादम्बरी।
कथायाम्
Page #182
--------------------------------------------------------------------------
________________
वदेव मनोरथशतवाञ्छितस्य वस्तुनो न संपन्नं यद्वधूसमेतस्य निजपदे प्रतिष्ठां कृत्वा तपोवने न गतम् । सर्वाभिवाञ्छितप्राप्तिस्तु महतः पुण्यराशेः फलम् । अपरमपि किं वृत्तं वत्सस्यैतदद्याप्यपरिस्फुटं केनचिदेवे न कथितम् । एतावत्तु मयाऽव्यक्तमेव तदैव परिजनात्कथयतः कर्णे कृतम् । यथास्माहितैर्लेखहारिभिः सहापरो वत्सस्य मे बालसेवकस्त्वरितकनामायातः । स वेत्ति सर्ववृत्तान्तम् । सोऽपि त्वया न पृष्ट एवेति । तत्तं तु तावत्पृच्छामः । ततो जीवितमरणयोरन्यतरदङ्गीकरिष्यामः' इत्यभिवदत्येव राजनि परिजनान्तरितं त्वरितकमाहूय प्रतीहारः 'त्वरितमारान्महीतलनिवेशितोत्तमाङ्गमालोकयतु देवः' इति दर्शितवान् ।
राजा तु तथा तमालोक्य, चन्द्रापीडोहात् ‘एोहि' इत्याहूय, हस्तेनोत्तमाङ्गे स्पृष्ट्वाऽऽदिष्टवान् - 'भद्र, कथय किं वृत्तं वत्सस्य येनागमनाय मया तन्मात्राऽमात्येन च लिखितेऽपि नायातः ? ' अनागमनकारणं वा किंचिन्न प्रतिलेखितवान्' इति । स त्वेवमादिष्टो रोजागमनतः प्रभृति -
***********
कारितस्य शिरो मस्तकं समाघ्रातं चुम्बितम् । दिशामाशानां ककुभां विजय आत्मसात्करणमात्माधीनमात्मसात्तस्मादागतस्य प्रणमतः प्रणाम कुर्वतो नमस्कार क्रियमाणस्याङ्गानि परिष्वक्तान्यालिङ्गितानि संश्लेषितानि । परमेतावदेवैतदेव मनोरथशतेनाभिलाषशतेन वाञ्छितस्य वस्तुनो न संपन्न न जातम् । किं तदित्याह - यदिति । वधूसमेतस्यास्य निजपदे स्वपदे प्रतिष्ठां स्थापनां कृत्वा तपोवने मुनिजनाश्रमे न गतं न प्राप्तम् । सर्वं सकलं समग्रं यदभिवाञ्छितमभिलषितं तस्य प्राप्तिश्च महतो गरीयसः पुण्यराशेः सुकृतसमूहस्य फलं साध्यम् । अतः समग्रपुण्याभावात्तन्न प्राप्तमिति भावः । अपरमप्यन्यदप्यन्यतरदपि वत्सस्य पुत्रस्य चन्द्रापीडस्य किं वृत्तं किमाचरणं किं जातम् । एतदद्याप्यपरिस्फुटमप्रकटम् । यतःकेनचिदेव पुंसा मे मम न कथितं न निवेदितम् । तीबागतं कथमित्याशयेनाह - एतावदिति । एतावतु मयाऽव्यक्तमेवाप्रकटमेवास्फुटमेव तदैव परिजनात्परिवारलोकात्समस्तपरिच्छदलोकात्कथयतो निवेदयतोऽन्योन्यम् । परस्परमिति शेषः । कर्णे कृतं श्रवणे कृतं श्रोत्रे कृतम् । तदेव प्रदर्शयन्नाह - यथेति । अस्माहितैर्लेखहारिभिः सदेशहारकैः सहापरोऽन्यो मे मम वत्सस्य सुतस्य बालसेवक आ बाल्याङ्कृत्यतां गतस्त्वरितकनामायातः । सर्ववृत्तान्तं समग्रोदन्तं स वेत्ति स जानाति सोऽपि त्वया भवत्या न पृष्टो न प्रश्नित एवेति । तत् तं तु तावदादौ पृच्छामः प्रश्नयामः । ततस्तदनन्तरं जीवितमरणयोरन्यतरदगीकरिष्यामः स्वीकरिष्यामः । तज्जीविते जीवितं तन्मरणे मरणमिति भावः । इत्यभिवदत्येवेति कथयत्येव राजनि तारापीडे परिजनेन परिच्छदेनान्तरितं व्यवहितं त्वरितकनामानं कुमारभृत्यं कुमारसेवकमाहूयाह्वानं कृत्वा निमन्त्रणं कारयित्वा प्रतीहारो द्वारपालकस्त्वरितं शीघ्रमारात्समीपात् । 'आरादूरसमीपयोः' इति हैमः । महीतले वसुधाधोभागे निवेशितं स्थापितमुत्तमाङ्ग शिरो येनैवंभूतमालोकयतु पश्यतु देवो भवानिति दर्शितवानवलोकनं कारितवान् ।
राजा तु नृपस्त्ववनीपस्तु तथा तेन प्रकारेण तं त्वरितकनामानं सेवकमालोक्य विलोक्य निरीक्ष्य चन्द्रापीडस्य स्नेहाप्रेग्णः प्रीते । एह्यह्यागच्छागच्छेत्याहूयेति निमन्त्र्य हस्तेन करेणोत्तमाङ्गे मस्तके शिरसि स्पृष्ट्वा स्पर्श कृत्वादिष्टवान्कथितवानित्याह - हे भद्र, कथय ब्रूहि । वत्सस्य पुत्रस्य सूनोः किं वृत्तं किं जातं किमाचरणं निष्पन्नं येन कारणेनागमनाय मया तन्मात्रामात्येन सचिवेन शुकनासेन मन्त्रिणा च लिखितेऽपि लिपीकृतेऽपि नायातो नागतः । अनागमनकारणं वा न किंचित्पतिलेखितवानिति प्रतिलेखे लिपीकृतवानिति । स त्वेवमादिष्ट -
-
-
-
-
-
-
टिप्प० - 1 कुर्वत इति वाच्यम् । पाठा० - १ गन्तव्यम्. २ इत्येतत्. ३ अत्र कथितं मे. ४ तावत्. ५ तत्तु; तं तु. ६ त्वरितकम्. ७ वत्सस्य मे. ८ चामात्येन च. ९ लिखिते आदिष्टेऽपि. १० स नायातः. ११ राज्ञागमनतः.
राज्ञा विलासवत्याः सान्त्वनम्
उत्तरभागः।
1655)
Page #183
--------------------------------------------------------------------------
________________
यथावृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदाकातिक्षुभितशोकार्णवाक्रान्तिविक्लवः प्रसार्य करमार्तस्वरस्त्वरितकमवादीत् - 'भद्र, विरम संप्रति । कथितं त्वया कथनीयम् । मयापि श्रुतं यच्छ्रोतव्यम् । पूर्णो मे प्रश्नदोहदः । निवृत्तं श्रवणकौतुकम् । कृतार्थीभूता श्रुतिः । आनन्दितं हृदयम् । उत्पन्ना प्रीतिः । सुखं स्थितोऽस्मि । हा वत्स, त्वयैकाकिना स्फुटतो हृदयस्यानुभूता वेदना । नियूंढा त्वया वैशम्पायनस्योपरि प्रीतिः । वयं दुःखभागिनो निस्त्रिंशाः कर्मचाण्डालाः । येषां तवापीदं हृदयस्फुटने निर्विकारमेव । देवि, वज्रसारतोऽपि कठिनतरमेवेदमावयोर्हृदयम्, यन्न स्वयं सहसधा स्फुटति । न चापि मरणदुःखभीरवोऽमी वत्समनुगच्छन्ति स्वयं प्राणाः । तदुत्तिष्ठ । यावदेवातिदूरं न प्रयात्येकाकी वत्सस्तावदेवानुगमनाय प्रयतामहे । संशोक शुकनास, किमद्यापि तिष्ठसि । अयं स कालः स्नेहस्य । महाकालायतनसमीपे समादिश सपदि परिचारकांश्चितारचनाय । रंचयत झटिति -
***********
एवं कथितो राज्ञ आगमनं तस्मात्प्रभृति यथावृत्तं यथाचरणं यथाभूतं यज्जातं कथयितुं वक्तुमारेभे प्रारम्भं कृतवान् । राजा तु चन्द्रापीडहदयस्फुटनवृत्तान्तं यावदाकर्ण्य सम्यङ्निशम्य श्रुत्वातिक्षुभितः क्षोभं प्राप्तो यः शोकार्णवः शोकसमुद्रश्चिन्ताजलनिधिस्तस्याक्रान्तिराक्रमणं कम्पनं तेन विक्लवो विह्वलः करं हस्तं प्रसार्य विस्तार्य हस्तप्रसारणं कृत्वार्तस्वरः करुणस्वरो दीनस्वरस्त्वरितकं सेवकं प्रत्यवादीत् । हे भद्र, विरम विरतो भव । यत्कथनीयं कथनार्ह वक्तुं योग्यं तत्त्वया कथितमेव निवेदितमेव । यच्छ्रोतव्यं श्रवणाहँ श्रवणयोग्यं तन्मयापि श्रुतमेवाकर्णितमेव । मे मम प्रश्नदोहदोऽनुयोगश्रद्धा पूर्णः परिपूर्णो जात इत्यर्थः । श्रवणे श्रोत्र आकर्णने कौतुकमाश्चर्यं निवृत्तं स्थितम् । श्रुतिः श्रवणं कृतार्थीभूता कृतकृत्या जाता । निष्पादितानि समग्रकृत्यानि । 'कर्णशब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । आनन्दितं प्रमुदितं प्रहर्षितं हृदयं चेतः । उत्पन्ना संजाता प्रीतिः स्नेहः प्रेम । सुखं स्थितोऽहमस्मि । अभद्रमुखे भद्रमुख इतिवत्सर्वत्र लक्षणया विपरीतार्थो बोध्यः । हा वत्स हा पुत्र हा सूनो, त्वयैकाकिनाऽसहायेन स्फुटतो द्वैधीभवतो हृदयस्य वक्षसो वेदना पीडा बाधानुभूता सेवितानुभवविषयीकृता । त्वया भवता वैशम्पायनस्योपरि प्रीतिः स्नेहो नियूंढा निर्वाहिता । आमरणपर्यन्तं पालिता इत्यर्थः । वयं दुखभागिनः कृच्छ्रभजनशीलाः कष्टसेवनशीला निस्त्रिंशाः क्रूराः कर्मणा चाण्डालाः श्वपचाः । येषामस्माकं तवापि भवतोऽपि हृदयस्फुटनं इदमस्मद्वक्षो निर्विकारं विकाररहितं निरुपद्रवम् । हे देवि हे पट्टराज्ञि, वज्रसारतः पविमध्यतोऽप्यावयोरिदं हृदयं वक्षः कठिनतरमेव परुषतरमेव यनस्वयमात्मना सहसधा सहसप्रकारेण स्फुटति द्वैधीभवति । मरणदुःखाद्भीरवो भीरुका भयसहिता अमी प्राणा असवो वत्सं पुत्रं चन्द्रापीडं न स्वयं नात्मनानुगच्छन्त्यनुव्रजन्ति । तदिति हेत्वर्थे । उत्तिष्ठोत्थानं कुरु । यावदेवातिदूरमतिदविष्ठमनिकटं न प्रयात्येव न व्रजत्येव एकाकी वत्सस्तावदेवानुगमनाय पृष्ठे यानाय प्रयतामहे प्रयत्नं कुर्महे । सशोकं शोकेन सहवर्तमानं संशोकं यथा स्यात्तथा शुकनास, किमयापि तिष्ठस्यवस्थानं करोषि । अयं स कालः स्नेहस्य प्रीतेः । स्वयमात्मना महाकालायतनसमीपे महाकालनामेश्वरचैत्यं शिवालयं तस्य समी -
-
-
-
-
- - - - - - - - - - - - - - - - टिप्प० -1 'स त्वेवमादिष्टो राज्ञा, गमनतः प्रभृति (चन्द्रापीडस्य इतः प्रस्थानमारभ्य) यथावृत्तं कथयितुमारेभे' इति पाठः । 2 वस्तुतः - 'येषां तवापि हृदयस्फुटने निर्विकारमेवेदम्' (इदम्, हृदयम्) इति पाठः । 3 'प्रयतावहे' इत्येव पाठः । 4 'आः (हा) शुकनास' इति पाठः ।
पाठा० - १ आक्षुभित. २ हृदयस्फोटने. ३ निर्विकारत्वमेवेदम्. ४ प्रयतावहे. ५ हा शुकनास. ६ उपनयत.
656
कादम्बरी।
कथायाम्
Page #184
--------------------------------------------------------------------------
________________
काष्ठानि काष्ठिकाः । किं तिष्ठतैवं संकुचिताः कञ्चुकिनः ? गत्वा निष्कामयत हुताशनप्रवेशोपकरणानि । निष्कारणरुदितेन किमधुना ? उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्विजेभ्यः कोषम् । कस्य कृतेऽद्यापि पाल्यते ? पालनादिकं करणीयमधुना क्षीणं क्षीणपुण्यस्य मे । यात यथाभूमिं भूमिपतयः । उत्सृष्टाः स्थ, यथा च नाद्यैवास्य दुःखं जानन्ति प्रजास्तथा करिष्यथ । कथावशेषीभूतो ते वत्सः, कॅमपरं संविधाय यामि' एवमार्तप्रलापिनं तारापीडमचेतितात्मपीडया विलासवत्यैव धृतशरीरमार्ततरस्त्वरितको व्यज्ञापयत् - 'देव, स्फुटिते हृदये ध्रियते शरीरेण युवराजः । शापदोषाद्वैशम्पायनस्य च यथा जन्म तथा निरवशेषं श्रृणोतु तावद्देवः' इति ।।
तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकावेगो विगतनिमेषेण चक्षुषाऽऽविष्ट इव दत्तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेष सत्सर्वमश्रौषीत् । श्रुत्वा -
***********
पेऽभ्यणे निकटे सपदि शीघ्रं परिचारकान्भृत्यान्सेवकांश्चिताया रचनं करणं तदर्थमादिशाज्ञां कुरु । झटिति शीघ्रं भो काष्ठिका दारुरक्षकाः काष्ठरक्षणकारकाः, काष्टान्येधासि रचयत रचनां कुरुत गृहाकारेण गृहबद्रचनां कुरुत । भोः कञ्चुकिनः । 'सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते' इति कोशः । एवं संकुचिताः संकोचं प्राप्ता यूयं किं तिष्ठत स्थितिं कुरुत । गत्वा गमनं कृत्वा हुताशने वहावग्नौ यः प्रवेशः पतनं तत्रोपकरणानि यन्त्राणि निष्कामयत बहिःकर्षणं कारयत । गृहाद्वढेः पूजासामग्रीमानयत समानयतेत्यर्थः । निष्कारणं निष्प्रयोजनं रुदितेन विलपितेन किम् । न किमपीत्यर्थः । हे देवि, अमुनोपरोधेन यः परिलम्बो विलम्बस्तेन विनाशेष समग्रं कोशं भाण्डागारं द्विजा ब्राह्मणास्तेभ्यो दापय वितरणं कारय । अद्यापि कस्य कृते पाल्यते रक्ष्यते । अधुना सांप्रतं क्षीणपुण्यस्य क्षामश्रेयसो मे मम पालनादिक रक्षणादिकं क्षीणं रीणम् । भो भूमिपतयो वसुधाधीशा राजानः, यथाभूमिमात्मीयस्थलं यात व्रजत यूयमुत्सृष्टाः स्थ । लटि परस्मैपदे मध्यमपुरुषबहुवचनम् । यथा चाद्यैवास्य चन्द्रापीडस्य प्रजा दुःखं न जानन्ति नावबुध्यन्ते तथा यूयं करिष्यथ विधास्यथ । कथैव वार्तेवावशेष उर्वरितांशो यस्य स तथा एवंभूतो मे मम वत्सश्चन्द्रापीडः । ततः कमपरमन्यमधीशं संविधाय कृत्वा यामि व्रजामि । एवंप्रकारेणार्तं च प्रलापिन चार्तालापिनं तारापीडमचेतिताऽज्ञातात्मपीडा स्वपीडा ययैवंविधया विलासवत्यैव धृतं धारितं शरीरं विग्रहो यस्य स तं नृपमार्ततरोऽतिपीडितस्त्वरितकः सेवको व्यज्ञापयत् । किं तदित्याह - देवेति । हे देव, हृदये वक्षसि स्फुटितेऽपि पाटितेऽपि युवराजः शरीरेण ध्रियते धार्यते । वैशम्पायनस्य च शापदोषादाक्रोशवचनदोषायथा जन्म येन प्रकारेणान्यत्रोत्पत्तिस्तथा निरवशेषं सर्वं देवो भवास्तावदादौ पूर्व श्रृणोत्वाकर्णयत्विति ।
तारापीडस्त्वद्भुतं चित्रमाकर्ण्य श्रुत्वा कौतुकेनाश्चर्येणान्तरितो व्यवहितः शोकावेगो यस्य स तथा विगतनिमेषेण गतनिमेषोन्मेषेण चक्षुषा नेत्रेणात एवाविष्ट इव भूतग्रस्त इव दत्तमवधानं चित्तं येन सः । राज्ञो विशेषणम् । तेन त्वरितकेन कथ्यमानं निवेद्यमानं यथादृष्टं यथावीक्षितं निरीक्षितं यथाश्रुतं यथाकर्णितं यथानुभूतं साक्षा -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'पुरोधः ! (ह पुरोहित) परिलम्बात् (विलम्बात्) विना' इत्येव पाठः । 2 'यात यथाभूमि (अव्ययीभावः भूमिपतयः' इत्येव पाठः । नीचैःपाठो मध्यगतोस्ति । अर्थात् - 'देव यथा त्वं हृदये संभावयसि न तथा, स्फुटितेपि हृदये ध्रियते शरीरेण युवराजः' इति ।
पाठा० - १ अवरोधपटलं दापय, पुरोधःपरिलम्बाद्विना प्रविश्य दापय. २ काशम्. ३ करणीयमेव. ४ यात यथाभूमि भूमिपालः; यात यथाभूमिपतयः. ५ तथोत्सृष्टाः स्थ; दृष्टाः स्थ. ६ अस्य वा दुःखम्; अनाथतादुःखम्. ७ कथमपरं संविधाय यामि; कमपरं संविधापयामि. ८ आर्त प्रलपन्तं च. ९ आर्तः. १० व्यज्ञपत्. ११ देव, यथा त्वं हृदये संभावयसि न तथा.
(सर्वं वृत्तं श्रुत्वा राज्ञो मरणाध्यवसायः
उत्तरभागः।
Page #185
--------------------------------------------------------------------------
________________
च तमनेकचिह्नोत्पादितप्रत्ययमश्रद्धेयं च निरतिशयशोककारणं च विस्मयास्पदभूतं च दुःश्रवं च कौतुककरं च युवराजवैशम्पायनयोवृत्तान्तमीषदिव विवर्तिताननो विमर्शस्तिमिततारका दृष्टिं निर्विशेषावस्थे शुकनासमुखेऽभ्यपातयत् । सुहृदस्तु स्वयं दुःखिता अपि निधानीकृत्यात्मदुःखं सुहृदुःखापनोदायैव यतन्ते । यतः शुकनासस्तदवस्थोऽपि स्वस्थवदवनिपतिमुवाच
'देव, विचित्रेऽस्मिन्संसारे संचरत्सु सुखदुःखमयेषु देवासुरतिर्यग्योनिमानुषेषु, त्रिगुणात्मनः प्रधानस्यापि परिणामात्, परमाण्वादेर्ब्रह्माण्डपर्यन्तस्योत्पत्तिस्थितिप्रलयकारणस्येश्वरस्येच्छया, धर्माधर्मसाधनानामिष्टानिष्टफलसंबन्धकारिणां कर्मणां वा शुभाशुभानां विपीक -
***********
त्कृतं च निरवशेषं तत्सर्वमश्रौषीदाकर्णयामास । अनेकचिकैरनेकाभिज्ञानरुत्पादितो जनितो निष्पादितः प्रत्ययो विश्वासो यस्य स तम् । अश्रद्धेयं श्रद्धातुमयोग्यं च निरतिशयो भूयान्यः शोकः शुक् तस्य कारणं निदानं च विस्मयस्य कौतुकस्याश्चर्यस्यास्पदभूतं पात्रभूतं स्थानभूतं च दुःश्रवं च दुःखेन कष्टेनाकर्णनीयं च कौतुककरं च विस्मयकरं चाश्चर्यकरं चैवंविधमेतादृशं युवराजवैशम्पायनयोवृत्तान्तमुदन्तं श्रुत्वा चाकर्ण्य चेषदिव विवर्तितं पराङ्मुखीकृतं पश्चान्मुखीकृतमाननं मुखं येन सः । राज्ञो विशेषणम् । विमर्शो विचारो वितर्कस्तेन स्तिमिता निश्चला तारका कनीनिका यस्यामेवंविधामेतादृशीं दृष्टिं दृशम् । निर्गतो विशेषो यस्याः सा निर्गतविशेषा एवंविधावस्था दशा यस्य स तथा तस्मिन् । स्वसदृशावस्थ आत्मसदृशावस्थे शुकनासस्य मुख आननेऽभ्यपातयदस्थापयत् । यतः कारणात्सुहृदस्तु स्वयं दुःखिता अप्यात्मदुःखं निधानीकृत्यं सुहृदां मित्राणां दुःखस्य कष्टस्यापनोदायैव दूरीकरणायैव यतन्ते यत्नं कुर्वन्ति । अतः शुकनासस्तदवस्थोऽपि स्वस्थवनिःशोकवदवनिपतिं राजानमुवाच ।
किं तदित्याह - देवेति । हे देव, विचित्रे बहुविधेऽस्मिन्संसारे संचरन्ति परिभ्रमन्ति यानि यानि सुखदुःखानि तैर्निष्पन्नेषु तन्मयेषु देवा भवनपत्यादयः, असुरादयोऽधोवासिनः, तिर्यग्योनिकाः शुकादयः, मृत्युलोके मानवा मनुष्या नराः, एतेषां द्वंद्वः । तेषु त्रिगुणाः सत्वरजस्तमोरूपास्त एवात्मा स्वरूपं यस्यैवंभूतस्य प्रधानस्यापि मूलप्रकृतेराद्यस्वभावस्यापि परिणामात्मपरिणमनात्परमाणुर्निरवयवोऽवयवरहितः क्रियावान्स आदौ प्रथम यस्यैवंभूतस्य ब्रह्माण्डपर्यन्तस्योत्पत्तिर्जन्म । 'उत्पत्तिर्जन्मजनुषी' इति हैमः । स्थितिरवस्थान स्थिरीभवन प्रलयः क्षयो विनाश एतेषां सर्वेषां कारणस्य निदानभूतस्येश्वरस्य महादेवस्येच्छया कृत्या स्पृहया । धर्मोऽदृष्टं तद्विपरीतोऽधर्मस्तयोः साधनांना कारणानां निमित्तभूतानामिष्टानिष्टे ईप्सितानीप्सिते वाञ्छितावाञ्छितफले साध्ये तयोर्दयोः संबन्धकारिणां वा शुभाशुभानां कर्मणां विपाकभावाद्वा तदुदयावस्थानुभवनाद्वा, स्वयमेवात्मा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 द्विवचनमुचितम् । 2 'विस्मृत्याऽऽत्मदुःखम्' इत्येव पाठः । 3 वाक्यस्याशयं लिखामि पाठं च सूचयामि - संसारे संसरत्सु (कर्मबन्धाद्धमत्सु) देवादिमानुषान्तेषु प्रधानस्य (मूलप्रकृतेः, 'मूलप्रकृतिरविकृतिः०' इत्यादिसांख्यलक्षिताया) परिणामात् (विवर्तात्), परमाणुमारभ्य ब्रह्माण्डपर्यन्तस्योत्पादयितुरीश्वरस्येच्छया, धर्माधर्मेत्यादिविशेषितानां शुभाशुभकर्मणां विपाकात, स्वभावाद्वा (निसर्गादा) (ततश्च - 'विपाकात् स्वभावाद्वा इति पाठः । स्वयमनेकप्रकारैः उत्पत्तिस्थितिविनाशाननुभवतः स्थावरजङ्गमस्य सर्वाऽप्यवस्था संभवति ।
पाठा० - १ दृशम्. २ शुकनासे. ३ न्यपातयत्. ४ च. ५ दुःखं दुःखिताः. ६ विस्मृत्य. ७ वर्तन्ते. ८ संचरत्सुखदुःखमयेषु; चरत्सु सुखदुःखमोहमयेषु. ९ मनुष्येषु. १० प्रधानस्य. ११ परिणामादात्मन. १२ विपाकाद्वा; विभावाद्वा; विपाकात्स्वभावाद्वा.
658
कादम्बरी।
कथायाम्
ܡܡܡܡܡܡܡܡܡܡܡܡܡ
Page #186
--------------------------------------------------------------------------
________________
भावाद्वा, स्वयमेवानेकप्रकारमुत्पद्यमानस्य तिष्ठतो विनश्यतो वानियतवृत्तेः स्थावरजङ्गमस्य न कदाचिदवस्था सा या न संभवति । तत्कुतोऽयं देवस्यात्र वस्तुनि विमर्शः ? यदि युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितान्यागमप्रामाण्यादेवाभ्युपगतान्यपि संवादीनि दृश्यन्ते । मुद्राबन्धाढ्यानाद्वा विषप्रसुप्तस्योत्थापने कीदृशी युक्तिः । अयस्कान्तस्य चायसः समाकर्षणे भ्रमणे वा, मन्त्राणां वैदिकानामवैदिकानां वानेकप्रकारेषु कर्मसु सिद्धौ, नानाविधद्रव्यसंयोगानां वामरणं मान्याधुत्पादनापहरणवशीकरणविद्वेषणादिषु, शक्तेः समुत्पादनादन्येषां बहुतराणामेवंविधानां च तत्र तत्र सर्वस्मिन्नेवागमः प्रमाणम् । आगमेषु सर्वेष्वेव पुराणरामायणभारतादिषु सम्यगनेकप्रकाराः शापवार्ताः । तद्यथा । महेन्द्रपदवर्तिनो नहुषस्य राजर्षेरगस्त्यशापादजगरता । सौदासस्य च वसिष्ठसुतशापान्मानुषादत्वम् । असुरगुरुशापाच्च -
***********
नमेवानेकप्रकार बहुधा बहुप्रकारं बहुविधमुत्पद्यमानस्य जायमानस्य निष्पद्यमानस्य तिष्ठतः स्थितिं कुर्वतो विनश्यतो विनाशं प्राप्नुवतो वानियतवृत्तेरस्थिरवृत्तेरनिश्चितवर्तनस्यैवंभूतस्य स्थावरजङ्गमस्य चराचररूपस्य न कदाचित्कस्मिन्नपि काले सावस्था दशा या न संभवति न जायते न निष्पद्यते । तत्कुतोऽयं युक्तिविहितो देवस्य निर्जरस्यास्मिन्वस्तुनि विमर्शो विचारो वितर्कः । यदि युक्तेर्विचारात्कियन्त्यत्र युक्तिरहितानि तर्कवर्जितान्यागमप्रामाण्यादेवाभ्युपंगतान्यप्यङ्गीकृतान्यपि संवादीन्यव्यभिचारीणि दृश्यन्ते विलोक्यन्ते निरीक्ष्यन्ते । मुद्रा शरीरं तस्या बन्धान्मन्त्रेण बन्धप्रदानाद्ध्यानाद्वा तादृशनागमन्त्र (सर्पमन्त्र) चिन्तनाद्वा विषप्रसुप्तस्य गरलमूर्छितस्य विषधारितस्योत्थापने सज्जीकरणे निर्विषीकरणे कीदृशी युक्तिः । अयस्कान्तस्य दृषदश्चुम्बकप्रस्तरस्यायसो लोहस्य समाकर्षण आकृष्टौ भ्रमणे वा शक्तेः समुत्पादनानिष्पादनात् । तथा वैदिकानां वेदोक्तानामवैदिकानां शाबराणां वा मन्त्राणामनेकप्रकारेषु बहुविधेषु, बहुभेदेषु कर्मसु कृत्येषु सिद्धौ निष्पत्ती, शक्तेः समुत्पादनात् । तथा नानाविधा बहुप्रकारा बहुविधा ये द्रव्यसंयोगा द्रव्यसमुदायास्तेषां वामरणमामृत्युं मरणं मृत्युः, मदो दर्पः, अहंकारो गर्वः, मान्यमपाटवमकुशलमादौ यस्य स मान्यादिस्तस्योत्पादनं निष्पादनम्, अपहरणमपहतिः, वशीकरणं संवननम्, विद्वेषणं विद्वेषोत्पादनम्, एतेषां द्वन्द्वः । एतान्यादौ येषां कर्मणां तेषु शक्तेः समुत्पादनानिष्पादनादेवंविधानामेतादृशानामेवंप्रकाराणामन्येषां बहुतराणां तत्र तत्र स्थले सर्वस्मिनेवागमः प्रमाणम् । पुराणरामायणमहाभारतादिषु सर्वेष्वेवागमेषु शास्त्रेषु सम्यकप्रकारेणानेकप्रकारा बहुभेदभित्राः शापवार्ताः शापप्रदानकिंवदन्त्यः । श्रूयन्त इति शेषः । तदेव प्रदर्शयति - तद्यथेति । महेन्द्रपदवर्तिन इन्द्रस्थानस्थायिनः शक्रस्थानस्थायिनो नहुषनाम्नो राजर्षे राज्यावस्थायां मुनिकल्पस्य साधुसदृशस्यागस्त्यमुनेः कुम्भजन्मनः शापादाक्रोशवचनादजगरता पारीन्द्रता । जातेति शेषः । 'आक्रोशाभिषङ्गाक्षेपाः शापः साक्षारणा मता' इति हैमः । सौदासस्य च वसिष्ठस्यारुन्धतीजानेः सुतस्य पुत्रस्य शापान्मानुषादत्वं मनुष्यभक्षकत्वं नरादनत्वम् । असुरगुरुः शुक्रस्तस्य शापादाक्रोशाययाते राज्ञस्तारुण्य एव यौवन एव यौवनावस्थायामेव जरसा विस -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 भवत इत्यर्थो विद्यार्थिभिर्बोध्यः । 2 नानाविधद्रव्यसंयोगानां (संयोगस्य वैचित्र्यावहत्वात्) मरणमदमान्द्याद्युत्पादनादिषु या शक्तिः समुत्पद्यते एतस्मात् - कारणात् च, एवंविधानामन्येषां च बहुतराणामाश्चर्यकर्मणाम् तत्र तत्र स्थले आगमाः (शास्त्राणि) प्रमाणभूतानि सन्तीत्याशयः ।
पाठा०-१ तत्कि कुतो ऽयम्. २ मुक्तेः. ३ एव. ४ अविसंवादीनि; विसंवादरहितानि. ५ वा. ६ भ्रामणे. ७ संयोगद्रव्याणामु. ८ मरणामरणमदनादि; मरणमदमान्य. ९ तत्र. १० आगमाः. ११ रामायणमहाभारतादिषु. १२ नहुषस्य.
शुकनासस्य सान्त्वनम्
उत्तरभागः।
1659)
Page #187
--------------------------------------------------------------------------
________________
ययातेस्तारुण्ये एव जरसा भङ्गः । त्रिशङ्कोश्च पितृशापाच्चाण्डालभावः । श्रूयते च स्वर्गवासी महाभिषो नाम राजास्मिल्लोके शन्तनुरुत्पन्नः । तत्पत्नीत्वमुपगताया गङ्गायाः शापदोषादष्टानामपि वसूनां मनुष्येषत्पत्तिः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतामुपगतः । श्रूयते च पुनश्चतुर्धात्मानं विभज्य राजर्षेर्दशरथस्य तथैव मथुरायां वसुदेवस्य । तन्मनुष्येषु देवतानामुत्पत्तित्रैवासंभाविनी । न च पूर्वमनुष्येभ्यो गुणैः परिहीयते देव । न चापि भगवतः कमलनाभादतिरिच्यते चन्द्रमाः । किमत्रासंभावनीयम् । अपि च गर्भारम्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः, तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । तदुत्पत्तिं प्रति तयोस्त्येिव संदेहः । विनष्टयोः शरीरस्याविनाशः कथम्, कथं वा पुनर्जीवितप्रतिलम्भ इत्यत्राखिललोकप्रत्याख्यातप्रभावममृतमेवैकं कारणमावेदितम् । तच्चन्द्रमसि विद्यत इत्येषास्त्येव वार्ता । तत्सर्वमेतदित्थमेवावगच्छतु देवः । अन्यच्च तादृशाकारकान्तेरखिललोकाह्लादकारिणोऽन्यत्र संभव एव नास्ति । तत्कल्याणैर्नचिराच्छापावसाने निर्वर्तितगन्धर्वसुतोद्वाहमङ्गलस्य गलनयनपयसो वध्वा सह पादयोः -
***********
सया कृत्वा भङ्गो हानिः । त्रिशङ्कोच पितृशापाच्चाण्डालभावः । श्रूयते चाकर्ण्यते च स्वर्गवासी देवलोकवासी महाभिषो नाम राजास्मिल्लोक इहलोकेशन्तनुर्नाम राजोत्पन्नोऽवतरितोऽवतारं प्राप्तः । शापदोषाच्छापप्रभावात्तत्पत्नीत्वं तत्स्त्रीत्वमुपगतायाः प्राप्ताया गङ्गायाः शापदोषादष्टानामष्टसंख्यानामपि वसूनां मनुष्येषत्पत्तिर्जन्म प्रादुर्भावः प्रकटीभावः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतां पुत्रतां पुत्रभावमुपगतः प्राप्तो जातः । श्रूयते चाकर्ण्यते च पुनरात्मानं चतुर्धा चतुःप्रकारेण विभज्य विभागीकृत्य राजर्षेर्दशरथस्य तनयत्वमुपगतः प्राप्तः । तथैव मथुरायां मधुपुरि वसुदेवस्य तनयत्वमुपागतः पुत्रत्वं प्राप्तः । तदिति हेत्वर्थे । मनुष्येषु नरेषु देवतानां देवानामुत्पत्तिनिष्पत्ति३वासंभाविनी नासंभाव्यैव । न च पूर्वमनुष्येभ्यो देवो गुणैः परिहीयते परिहीनो भवति सामस्त्येन न्यूनो भवति । न चापि भगवतः कमलनाभात्सकाशाच्चन्द्रमाः शशाङ्कश्चन्द्रोऽतिरिच्यतेऽधिकीभवति । अतः किमत्रासंभावनीयमसंभाव्यम् । अपि चेति प्रकारान्तरे । गर्भस्यारम्भसंभवे च प्रारम्भसमये देवेन भवता देव्या विलासवत्या वदने मुखे विशन्प्रवेशं कुर्वंश्चन्द्रमा एव दृष्टोऽवलोकितः । तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । ततस्तदुत्पत्तिं प्रति तयोर्दयोः पूर्वोक्तयोर्नास्त्येव संदेहो द्वापरः । विनष्टयोः कथं शरीरस्याविनाशः । कथं वा पुनर्जीवितस्य प्रतिलम्भः प्राप्तिरिति । अत्रापीहाप्यखिललोकेषु समग्रलोकेषु प्रत्याख्यातः प्रसिद्धः प्रभावो यस्यैवंभूतममृतमेव पीयूषमेव एकं कारणं निदानमावेदितं कथितम् । तदमृतं चन्द्रमसि चन्द्रे विद्यत इत्येषा वार्ता प्रवृत्तिः किंवदन्त्यस्त्येव । तत्तस्मात्कारणादेतत्सर्वमित्थमेवेति देवोऽवगच्छतु जानातु । अन्यच्च तादृशाकारकान्तेर्युतेरखिललोकस्य समग्रजनस्याह्लादकारिणः प्रमोदजननस्यानन्दकारकस्यान्यत्र संभव एव नास्ति । तदिति हेत्वर्थे । कल्याणैर्मङ्गलैनचिरादल्पकालेन शापस्याक्षेपवचनस्यावसाने प्रान्ते सति विनिर्वर्तितं विहितं गन्धर्वसुतायाः कादम्बर्या उद्घाहमङ्गलं विवाहमाङ्गल्यं येन स तस्य गलत्क्षर -
- - - - टिप्प० -1 'प्रख्यात इत्युचितः पाठः । 2 'संभव एव तस्य (चन्द्रस्य) इति पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ चण्डालभावः. २ महाधिषः. ३ शान्तनुः; शान्तनुपत्नीत्वम्. ४ उपागतायां च गङ्गायाम्; उपागतायाः स्वर्गङ्गायाः, उपगतायां गङ्गायाम्. ५ जामदग्नेः. ६ उपागतः. ७ असंभाविता. ८ संभावनीयम्. ९ कथम्. १० प्रलम्भः. ११ प्रख्यात. १२ अमृतमनेककारणम्; अमृतमेव कारणम्. १३ सत्यमित्थमे. १४ ईदृशस्याकारस्य कान्तेः; ईदृशाकारकान्तेः. १५ अचिरात्. १६ निवर्तित.
1660
कादम्बरी।
कथायाम्
Page #188
--------------------------------------------------------------------------
________________
पततः पुत्रत्वमुपगतस्य चन्द्रापीडनाम्नान्तरितस्य लोकपालस्येव चन्द्रमसो दर्शनेनौजन्मकृतमेव संतापं परित्यक्ष्यति देवः । तयोरेवं शापोऽस्माकं पुनर्वर एव ।
तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्यः । मङ्गलान्यभिधार्यन्ताम् । अभिमतदेवताराधनेन धनातिसर्जनेन चान्यजन्मोपार्जितं कुशलमभिवर्थ्यताम् । अकुशलमपि यमनियमकष्टव्रतोपवासादिना तपःक्लेशेन क्षयमुपनीयताम् । अपरमपि यद्यदेवंगते श्रेयस्करं श्रूयते ज्ञायते वा तत्तदद्यैवारभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरीदृशेनैव प्रकारेणोपजाता ।
इत्युक्तवति शुकनासे सशोक एव राजा प्रत्यवादीत् - 'सर्वमेतद्यदार्येणाभिहितं कोऽन्योऽवबुध्यते ? केन वाऽपरेण वयं परिबोधनीयाः ? कस्य वापरस्यास्माभिर्वचनं करणीयम् ? किंतु तद्वत्सस्य मे वैशम्पायनदुःखात्स्फुटनं हृदयस्याग्रतो दृष्टिलग्नं सर्वमेवान्यदन्तरयति । तदेव पश्यामि । तदेव श्रृणोमि । तदेवोत्प्रेक्षे । तदेवमप्रत्यक्षिते वत्सस्य वदने -
***********
नयनयोर्लोचनयोः पयो जलं यस्य स तस्य वध्वा सह पादयोश्चरणयोः पततोऽभिवादनं कुर्वतः पुत्रत्वं सुततामुपगतस्य प्राप्तस्य चन्द्रापीडनाम्नान्तरितस्य व्यवहितस्य लोकपालस्येव सोमयमवरुणकुबेरस्येव चन्द्रमसचन्द्रस्य दर्शनेनावलोकनेन निरीक्षणेनाजन्मनः कृतं जन्ममर्यादीकृत्य कृतमाजन्मकृतमेव संतापहेतुत्वात्संतापं पापं देवः परित्यक्ष्यति दूरीकरिष्यति निष्पापो भविष्यति । विगतपापो भविष्यतीत्यर्थः । तयोर्बयोश्चन्द्रापीडपुण्डरीकयोरेवं शापोऽस्माकं पुनर्वर एव ।
तदस्मिन्वस्तुनि मनागपीषदपि स्वल्पमपि देवेन देव्या वा न शोकः कार्यः । मङ्गलानि श्रेयांस्यभिधार्यन्तामभिध्रियन्ताम् । युष्माभिरभिमतदेवताया इष्टवाञ्छितदेवताया आराधनेन सेवनेन धनस्य द्रव्यस्यातिसर्जनेनातिवितरणेन चान्यजन्मोपार्जितं परभवोपार्जितं गतभवनिष्पादित कुशलमभिवर्ध्यताम् । यमा अहिंसासत्यास्तेयब्रह्माकिंचनतालक्षणाः । 'अहिंसासत्यमस्तेयब्रह्माकिंचनता यमाः इति हैमः । कष्टव्रतं चान्द्रायणादि, उपवासा औपवस्तानि, एतान्यादौ यस्यैवंभूतेन तपःक्लेशेन कष्टेनाकुशलमप्यकल्याणमप्यशिवमपि क्षयं नाशमुपनीयतां प्राप्यताम् । अपरमप्यन्यदपि यद्यदेवंगते श्रेयस्करं कल्याणजनकं शुभकारणं श्रूयते आकर्ण्यते ज्ञायतेऽवबुध्यते वा, तत्तदद्यैवारभ्यायदिनात्प्रभृति क्रियता विधीयताम् । कार्यतां काराय्यतां च कर्म यज्ञादि शुभकर्मादि । खल्विति निश्चयेन निर्धारणेन । नामेति कोमलामन्त्रणे । वैदिकानामवैदिकानां वा कर्मणां किंचिदपि नासाध्यं वर्तते कष्टतरं वर्तते । अपि चेति युक्त्यन्तरे । तयोः कृच्छ्रलब्धयोः कष्टप्राप्तयोरुत्पत्तिरपीदृशेनैव प्रकारेण पूर्वोक्तहेतुना उपजातोत्पन्ना।
इत्युक्तवति शुकनासे सशोक एव राजा तारापीडः प्रत्यवादीप्रत्यब्रवीत् । सर्वमेतद्यदार्येण भवताभिहितं प्रतिपादितं तत्कोऽन्योऽवबुध्यते जानाति । केन वापरेण त्वदन्येन वयं परिबोधनीयाः परिबोधयितुं योग्याः समर्थाः । कस्य वापरस्य द्वितीयस्यास्माभिर्वचनं वाक्यं करणीयं निष्पादनीयम् । किंत्वित्यव्ययमङ्गीकारे स्वीकारे । तन्मे मम वत्सस्य वैशम्पायनदुःखावृदयस्य स्फुटनमग्रतो दृष्टिलग्नमन्यत्सर्वमेवान्तरयत्याच्छादयति व्यवहितं करोति । तदेव हृदयस्फुटनमेव पश्याम्यवलोकयामि । तदेव श्रृणोम्याकर्णयामि । तदेवोत्प्रेक्षे वितर्कयामि । तद -
पाठा० - १ एव. २ जन्म. ३ तत्तयोरयम्. ४ मङ्गलान्यभिध्यायन्ताम्. ५ अभिवर्धताम्; अभिवर्ध्यताम्. ६ उपार्जितेन कष्टतमेनोपवासादिधर्मनियमेन. ७ यद्देवगतेः; यादवगतम्. ८ कर्मणां खलु वैदिकानामवैदिकानां वासाध्यं नाम किंचिदपि नास्ति. ९ चोत्पत्तिः. १० अन्तरपतितम्. ११ तदेवमप्रत्यक्षमेव मद्वत्सस्य वदनम्.
(शुकनासस्य सान्त्वनम्
उत्तरभागः।
661
Page #189
--------------------------------------------------------------------------
________________
संस्तम्भमेवात्मनो न शक्नोमि कर्तुम् । यत्र च ममायमीदृशः प्रकारस्तत्र देव्याः परिबोधनं दूरापेतमेव । तद्गमनादृतेऽन्य उपाय एव नास्ति जीवितसंधारणायेत्येवमवधारयत्वार्यः । इत्युक्तवति तारापीडे चिरात्तनयपीडया तत्पुरः परित्याजितलज्जं विलासवती कृताञ्जलिरुच्चैर्जगाद - 'आर्यपुत्र, यद्येवं तथापि किमपरं विलम्बितेन । निर्गता एव वयम् । दीयतां प्रयाणम् । उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय । दुःखापनोदार्थं स्फुटनमङ्गीकृतमासीत् तदेपि संप्रति दर्शनकाङ्क्षया न रोचत एव । जानामि, वरं दीर्घकालमपि दुःखान्यनुभवन्ती सकृदपि वत्सस्य दर्शनाय जीवितास्मि, न पुनरसह्यदुःखोपशान्तये संप्रत्येव मृतास्मीति । तदस्य पुनराशानिबन्धनस्य सर्वात्ययनिवारणोपायस्य वत्साननावलोकनोत्सुकस्य गमनमपि हृदयस्य तावद्विनोदतां व्रजतु ।'
इति वदन्तीमेव विलासवतीमासाद्यान्यतमः शुकनासस्यात्मसमः परिणतवयाः षट्कर्मा समुपसृत्य स्वस्तिपूर्वक व्यज्ञापयत् - 'देवि, सर्वत एवापरिस्फुटेन वार्ताकलकलेनाकुलीकृतहृदया मनोरमा स्वयमेव धावन्त्यागता । राज्ञो लज्जमाना नोपगता स्थानमिदम् । तदेषा -
***********
.
प्रत्यक्षिते परोक्षे वत्सस्य वदने सत्यात्मनः संस्तम्भमेव कर्तुं न शक्नोमि न समर्थो भवामि । यत्र च ममायमीदृशः प्रकारस्तत्र देव्या विलासवत्याः परिबोधनं दूरापेतमेव । मय्यप्रबुद्धे तस्याः प्रबोधः कुतः स्यादित्यर्थः । जीवितसंधारणाय तत्र गमनादृतेऽन्योऽपर उपायो नास्ति । इत्येवमार्योऽवधारयतु निश्चिनोतु । इत्युक्तवति तारापीडे चिरादहुकालात्तनयपीडया सुता. तत्पुरस्तस्य राज्ञः पुरोऽग्रे परित्याजिता दूरीकृता लज्जा त्रपा यथा स्यात्तथा विलासवती कृताञ्जलिनियोजितकरकमलोच्चैर्जगादोवाच । हे आर्यपुत्र, यद्येवं वर्तते तथापि किमपरं विलम्बितेन विलम्बकरणेन । वयं निर्गता एवेतो निःसृता एव । यतः प्रयाणं प्रस्थानं दीयताम् । वत्सस्य दर्शनायालोकनाय मे मम हृदयं वक्ष उत्ताम्यति । उत्पत्तिदुःखस्यापनोदार्थ दूरीकरणार्थं स्फुटनमपि । हृदयस्येति शेषः । अङ्गीकृतं स्वीकृतमासीत् । तदपि संप्रति दर्शनकाङ्क्षया विलोकनलिप्सया न रोचत एव न रुचिविषयीभवति इच्छा न भवति । अहमेतद्वरं जानाम्येवावबुध्ये । दीर्घकालमपि दुःखान्यनुभवन्त्यनुभवविषयीकुर्वन्ती सकृदप्येकवारमपि वत्सस्य दर्शनाय जीवितास्मि न पुनरसह्यं सोढुमशक्यं यहुःखं तस्योपशान्तये निवृत्तये संप्रत्येवाधुनैवमृतास्मीति तदिति हेत्वर्थे अस्याशैव निबन्धनं कारणंयस्य तत्तथा तस्य सर्वात्ययः सर्वविनाशस्तस्य निवारण उपायस्य कारणस्य वत्साननस्यावलोकन उत्सुकस्य निरीक्षण उत्कण्ठितस्य हृदयस्य गमनमपि तावद्विनोदतां कौतुकतामाश्चर्यतां व्रजतु गच्छतु ।
इति वदन्तीमेवेति जल्पन्तीमेव विलासवतीमासाद्य प्राप्यान्यतमोऽपरोऽनिर्दिष्टनामा शुकनासस्यात्मसम आत्मतुल्यः परिणतवयाः परिपक्ववयाः षट्कर्मा विप्रः समुपसृत्य समागत्य स्वस्तिपूर्वकं यथा स्यात्तथा व्यज्ञापयत् । किं तदित्याह - देवीति । हे देवि, सर्वत एव परित एवापरिस्फुटेनाप्रकटेनाव्यक्तेन वार्ताकलकलेन प्रवृत्तिकोलाहलेन किंवदन्तीकोलाहलेनाकुलीकृतं व्याकुलीभूतं हृदयं यस्याः सा तथा मनोरमा वैशम्पायनप्रसूः स्वयमेव धावन्ती त्वरितगत्या शीघ्रगत्या आगच्छन्त्यागता । राज्ञस्तारापीडाल्लज्जमाना त्रपां कुर्वाणेदं स्थानं नोपगता ना- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 न प्रत्यक्षीकृते सति, इत्याशयः । 2 'पत्युः पुरः परित्यज्य लज्जाम् इति पाठः । 3 'दुराशानिबन्धनस्य (दुराशया नितरां बन्धन स्थितिर्यस्य) इत्युचितः पाठः । पाठा० - १ पत्युः पुरः. २ यदपि दुःखापनोदार्थं स्फुरितमस्याशंसितं हृदयमासीत्. ३ चिरम्. ४ दुराशा. ५ अभिबन्धनस्य. ६ उन्मुखस्य. ७ रुदन्तीम्. ८ आगत्य. ९ आत्मतमः. १० षट्कर्मवान्. ११ स्वस्तीत्युक्त्वा. १२ व्यज्ञपयत्. १३ सर्वत्रैव. १४ अमुना. १५ आकुलीक्रियमाण.
662
कादम्बरी।
कथायाम्
Page #190
--------------------------------------------------------------------------
________________
मातृगृहस्य पृष्ठतस्तिष्ठति । पृच्छति च देवीम् - 'किमेभिः कथितम् ? जीवति मे वत्सो वैशम्पायनः ? स्वस्थशरीरो वा ? ढौकितो वा पुनर्युवराजस्य । क्व वर्तते । तावागमिष्यतो वा कियद्भिर्दिवसैः' इति । राजा तु तदुपरतिवार्ताया अपि कष्टतममाकर्ण्य दीर्ण इव शुचा, शतगुणीभूतशोकोत्प्लुताङ्गी विलासवतीमवादीत् - 'देवि, न श्रुतं किंचिदपि वत्सयोः प्रियसख्या ते । अन्यतश्च श्रुत्वा कदाचिज्जीवितेनैव वियुज्यते । तदुत्तिष्ठ । स्वयमेव धैर्यमालम्ब्य सर्ववृत्तान्तानुकथनेन संस्थापय प्रियसखी तेथा यथार्यशुकनासेन सह यातव्यम्' इत्येवमुत्थाप्य सपरिजनां विलासवती व्यसर्जयत् । आत्मनापि शुकनासेन सह गमनसंविधानमकारयत् ।
अथ तथा प्रस्थिते राजनि राजानुरागाच्चन्द्रापीडस्नेहेन चाश्चर्यदर्शनकुतूहलाय प्रथमगतपितृपुत्रभ्रातृमित्रस्वजनदर्शनाय च गृहरक्षकवर्जमुज्जयिन्याः सकल एव लोको गन्तुमुदचलत् । राजा तु शीघ्रगमनविघातहेतून्समस्तानेव निवर्त्य प्रलघुपरिकरः पिबन्निव पन्थानम्, एकदिवसेनैव परापतितुमीहमानः, स्तोकत एवाध्वनः प्रभृत्युत्ताम्यता हृदयेन ‘कियत्यध्वन्ययापि वर्तामहे, कति -
***********
गता न प्राप्ता । तदेषा मनोरमा मातृगृहस्य पृष्ठतः सदनस्य पृष्ठिविभागतस्तिष्ठति स्थितास्ते । देवीं विलासवती च पृच्छति प्रश्नं करोति । एभिलेखहारिभिः किं कथितं किं प्रतिपादतं सदेशहारकैः किमुक्तम् । मे मम वत्सो वैशम्पायनो जीवति प्राणिति स्वस्थं नीरुजं शरीरं यस्यैवंभूतो वा ढौकितो वा मिलितो वा पुनर्युवराजस्य चन्द्रापीडस्य । क्व वर्तते तिष्ठति । कियद्भिर्दिवसैस्तौ द्वौ चन्द्रापीडवैशम्पायनावागमिष्यत आगमनं करिष्यत इति । राजा तु तदुपरतिवार्ताया मृत(ति)वार्तायाः किंवदन्त्या अपि केष्टतममतिकष्टं समाकर्ण्य शुचा दीर्ण इव शीर्ण इव शतगुणीभूतो यः शोकस्तेनोप्लुतं व्याप्तमग यस्याः सैर्वविधां विलासवतीमवादीदब्रवीत् । हे देवि, ते तव प्रियसख्या मनोरमया वत्सयोः पुत्रयोश्चन्द्रापीडवैशम्पायनयोः किंचिदपि न श्रुतं नाकर्णितम् । अन्यतः परेभ्यः श्रुत्वाकर्ण्य कदाचिज्जीवितेनैव प्राणितेनैव वियुज्यते मुच्यते । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुर्वभ्युत्थानं निष्पादय । स्वयमेवात्मनैव धैर्यमालम्ब्य सर्ववृत्तान्तस्य समग्रोदन्तस्यानुकथनेन पश्चात्कथनेन प्रियसखीं तथा संस्थापय संस्थापनां कुरु यथार्यशुकनासेन सह यातव्यं गन्तव्यं भवति । इत्येवंप्रकारेणोत्थाप्य सपरिजनां सपरिच्छदां सपरिवारां विलासवतीं व्यसर्जयत्तत्र गमनायाज्ञां दत्तवान् । आत्मनापि शुकनासेन सह गमनसंविधानं प्रयाणसामग्रीमकारयच्चलनविधिं व्यधापयनिष्पादयत् ।
अथ तथा प्रस्थिते तेन प्रकारेण चलिते राजनि नृपे, राज्ञोऽनुरागात्स्नेहाप्रीतेः, चन्द्रापीडस्य स्नेहेन प्रेम्णा चाश्चर्यस्य दर्शनमवलोकन तस्मिन्कुतूहलं कौतुकं तस्मै, प्रथममादौ गता ये पितरो जनकाः, पुत्राः सुताः, भ्रातरो बान्धवाः, मित्राणि सुहृदः, स्वजना ज्ञातयः, तेषां दर्शनायावलोकनाय च गृहरक्षकवर्जं सद्मरक्षकान्विहायोज्जयिन्या विशालायाः सकल एव लोको गन्तुं गमनायोदचलदुदपतत् । राजा तु नृपोऽपि शीघ्रं यद्गमनं तस्य विधातहेतगमनप्रतिबन्धकारिणः समस्तानेव सर्वानेव निवर्त्य विसW. प्रलघपरिकरः स्वल्पपरिवारः पन्थानं मागं पिबनिव पान कर्वन्निव । एकदिवसेनैव परापतितं प्राप्तमीहमानोऽभिलषमाणोऽभिवाञ्छमानः स्तोकत एवाध्वनो मार्गाप्रभृति च हृदयेनोत्ताम्यतोत्तपता वक्षसोत्तपताद्यापि कियत्यध्वनि वर्तामहे - - - - - - - - - - टिप्प० - 1 मरणवार्तातोऽपि अतिकष्टकरं मनोरमाया वाक्यं समाकयेत्यर्थः । उत, न केवलं वैशम्पायनस्य मरणमेव, परं ततोपि कष्टतरं महाश्वेतोपसर्पणादिकं समाकर्येत्यर्थः ।
-
-
-
-
-
-
-
पाठा० -१ का वार्ता क्व वा वर्तते. २ उत्प्लुताक्षीम. ३ वत्सयोः कृते किंचिदपि. ४ संस्तम्भय. ५ तथापि. ६ निर्वर्त्य.
(सपरिकरस्य राज्ञो गमनम् ।
उत्तरभागः।
Page #191
--------------------------------------------------------------------------
________________
पयैर्दिवसैः परापतामः' इति मुहुर्मुहुस्तुरंगमारोपितं त्वरितकमाहूय पृच्छन्नविच्छिन्नकैः प्रयाणकैर्वहन्नबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च विकल्पशतदोलाधिरोहणदुः स्थितेनान्तरात्मना दूरस्थित एव प्रथममाप्ततमानश्ववारान्वार्ता - न्वेषणाय त्वरितकेन सार्धं प्रहितवान् ।
अथ तैः सार्धमागच्छन्तम्, उज्झितात्मसंस्कारमैलिनकृशशरीरम्, अवनितलनिवेशितोत्तमाङ्गम्, उद्बाष्पदीनतरदृष्टिम्, जीवितलज्जया रसातलमिव प्रवेष्टुमीहमानम्, अहमहमिकया परस्परावरणेनैवात्मदर्शनमभिरक्षन्तम्, अक्षत - मपि हतमिव, सपरिच्छदमपि मुषितमिव, जीवन्तमपि मृतमिव, ससंभ्रमकृतागमनमपि प्रतीपमाकृष्यमाणचरणमिव, अङ्गैरेव सह गलितोत्साहम्, चोपेनैव सह मुक्तात्मानम्, वैक्लव्येनैव सहोपसर्पन्तं मेघनादपुरःसरं सकलमेव चन्द्रापीडचरणतलनिबद्धजीवितं राजपुत्रलोकमालोक्योलैसितनयनः शोकोर्मिवेगाक्रान्तोप्युच्छसित इव दृढीभूतचन्द्रापीडदेहाविनाशप्रत्ययेनान्तरात्मना निवृत्य सावरणपर्याणवर्तिनीं विलासवतीमवादीत् - 'देवि, दिष्ट्या वर्धसे । ध्रियते सत्यमेव शरीरेण वत्सः । येन सकल एवायं तच्चरणकमलानुजीवी राजपुत्रलोकस्तत्पादमूलादागतः' इति ।
***
कियति मार्गे वयं स्मः, कतिपयैर्दिवसैः परापतामो गच्छाम इति च मुहुर्मुहुस्तुरंगमारोपितं न्यस्तमारूढं त्वरितकनामानं सेवकमाहूयाह्वानं कृत्वामन्त्रणं विधाय पृच्छन्प्रश्नं कुर्वन्नविच्छिन्नकैर्निरन्तरैरन्तररहितैः प्रयाणकैर्गमनैर्वहन् चलन्नबहुभिरेव स्तोकैरेव दिवसैर्वासरैरच्छोदं सर आससाद प्राप्तवान् । आसाद्य च प्राप्य च विकल्पानां संकल्पानां शतं तदेव दोला प्रेङ्खा तदधिरोहणमवस्थानं तेन दुःस्थितेन दुःखितेनैवंविधेनान्तरात्मनान्तःकरणेन दूरस्थितो दविष्ठस्थितः प्रथममादावाप्ततमानतिशयेन यथार्थोपदेष्टृनश्ववारान्सादिनो वार्तान्वेषणाय वृत्तान्तज्ञप्त्यर्थं त्वरितकेन सार्धं प्रहितवान्प्रेषितवान् ।
अथेति । तैः पूर्वप्रेषितैः सार्धं समागच्छन्तमायान्तमुज्झितस्त्यक्त आत्मसंस्कारः क्षालनादिरूपो येन स तम् । मलिनं कश्मलं कृशं क्षामं शरीरं यस्य स तम् । अवनितले निवेशितानि स्थापितान्युत्तमाङ्गानि शिरांसि येन स तम् । उद्वाष्पेणोद्गतनेत्राश्रुणा दीनतरातिदुःखिता दृष्टिर्यस्य स तम् । जीवितलज्जया प्राणितत्रपया रसातलमिव पातालमिव प्रवेष्टुं प्रवेशं कर्तुमीहमानं स्पृहमानम् । अहमहमिकयाहं पूर्वमहं पूर्वमिति स्वरूपा । ' अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ' इत्यमरः । परस्परमन्योन्यमावरणमाच्छादनं तेनात्मदर्शनं स्वावलोकनमभिरक्षन्तं रक्षां कुर्वन्तम्, अक्षतमप्यखण्डमपि हतमिव कृतक्षतमिव, सपरिच्छदपि सपरिवारमपि सपरिस्कन्दमपि मुषितमिव लुण्ठितमिव, जीवन्तमप्यसुमन्तमपि मृतमिवोपरतमिव, ससंभ्रमं सादरं दरेण भयेन सहितं सभयं वा कृतं विहितमागमनं येनैवंविधमपि प्रतीषं विलोमम् । पश्चादिति यावत् । आकृष्यमाणौ चरणौ यस्य स तम् । सहाङ्गैरेव गलितश्च्युत उत्साहो यस्य स तम् । चापेन धनुषा सह मुक्तस्त्यक्त आत्मा येन स तम् । वैक्लव्येनैव विह्वलत्वेनैव सहोपसर्पन्तं गच्छन्तम्, मेघनादः पुरः सरोऽग्रगामी यस्य स तम् । सकलमेव समस्तमेव चन्द्रापीडस्य चरणतलं तत्र निबद्धं स्थापितं जीवितं येन स तम् । एवंविधं राजपुत्रलोकं नृपसुतजनमालोक्य वीक्ष्योल्लसिते नयने लोचने यस्य सः । शोकस्य शोचनस्योर्मयस्तरंगाः कल्लोलास्तेषां वेगो रयस्तेनाक्रान्तोऽपि व्याप्तोऽप्युच्छसित इवोल्लसित इव दृढीभूतः कठिनीभूतो निश्चितश्चन्द्रापीडदेहस्याविनाशप्रत्ययो यस्यैवंभूतेनान्तरात्मना निवृत्य सावरणं यत्पर्याणं पल्ययनं तत्र वर्तिनीं विलासवतीमवादीत् । किं तदित्याह - हे देवि, त्वं दिष्ट्या भाग्येनादृष्टेन वर्धस एधसे । येन कारणेन वत्सः सत्यमेव शरीरेण ध्रियते धार्यते । येन हेतुना सकल एव समग्र एवायं तस्य वत्सस्य चरणकमलं पादसरोजमनुजीवतीत्येवंशीलो राजपुत्रलोको नृपसुतजनस्तस्य चन्द्रापीडस्य चरणलाइ । टिप्प० 1 उद्बाष्पा दीनतरा च दृष्टिर्यस्य तमित्यर्थो योग्यः । 2 आगच्छन्तमित्यर्थो योग्यः ।
पाठा० - १ आहूयाहूय. २ अविच्छिन्नैश्च. ३ सह. ४ मलिनीकृत. ५ बाष्पेण. ६ नवीन. ७ तनय.
664
कादम्बरी ।
कथायाम्
Page #192
--------------------------------------------------------------------------
________________
सा तु तदाकर्ण्य किंचिदात्मपाणिनैवोत्सारितावरणसिचयाञ्चला निश्चलया दृष्ट्या चिरमिवालोक्य तनयनिर्विशेष राजपुत्रलोकर्मविच्छिन्नाश्रुधारापि धैर्यमुन्मुच्योच्चैरारटितवती - ‘हा वत्स, कथं सहपांसुक्रीडितस्यैतावतो राजपुत्रलोकस्य मध्ये त्वमेवैको न दृश्यसे' इति । तथा रटन्तीं तु तां समाश्चास्य, दूरत एव राजा समं सर्वलोकेनावनितलनिवेशितोतमाशं मेघनादम् ‘इतो ढौकस्व' इत्यादिश्योद्दिश्याप्राक्षीत् - 'मेघनाद, कथय को वृत्तान्तो वत्सस्य' इति । स तु व्यज्ञापयत् - 'देव, चेतनाविरहाच्चेष्टामात्रकमेवापगतम्, शरीरे पुनर्जायते दिवसे दिवसेऽप्यधिका कान्तिः समुपजायते इति । राजा तु तछ्रुत्वा जीवितप्रतिलम्भे समुपजातप्रत्याशः 'श्रुतं देव्या मेघनादस्य वचनम्, तदेहि, चिरात्पुनः कृतार्थयामो दर्शनेनात्मानम्, पश्यामो वत्सस्य वदनम् इत्यभिदधान एवाभिवर्धितगतिविशेषया करेवा महाश्वेताश्रममगमत् । अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य पुरः प्रकीर्णतारमुक्तानुकारिनयनबिन्दुस -
*********** सा त्विति । सा विलासवती किंचिदात्मपाणिनैव स्वकीयकरेणैवोत्सारितमूर्चीकृतमावरणसिचयस्याच्छादनस्य वस्त्रस्याञ्चलं प्रान्तं यया सा । 'सिचयो वसनं चीराच्छादौ सिक्वेलवाससि । पटप्रान्ताञ्चलस्यान्ते' इति हैमः । निश्चलया निर्निमेषया मेषोन्मेषरहितया दृष्ट्या दृशा चिरमिव बहुकालसदृशं तनयनिर्विशेष यथा स्यात्तथालोक्य निरीक्ष्याविच्छिन्नाऽत्रुटिताऽश्रुधारा यस्यामेवंविधापि धैर्यं साहसमुन्मुच्य संत्यज्योच्चैर्गाढस्वरेणात्यर्थमारटितवती रोदनं कृतवती, तदेव दर्शयन्नाह - हा इति । हा इति खेदे । हे वत्स हे पुत्र हे सुत, कथं सहपांसुक्रीडितस्य साधू रजःकालितस्यैतावत इयतो राजपुत्रलोकस्य नृपसुतजनस्य मध्येऽन्तरा त्वमेव भवानेवैको न दृश्यसे त्वत्सदृशो न दृश्यसे न दृग्विषयीभवसि इत्यमुना प्रकारेणानेकप्रकारेण तथा रटन्तीं रुदन्तीं तु तां विलासवतीं समाधास्यावासनां कृत्वा राजा तारापीडो दूरत एव दविष्ठ एव दूरस्थ एव सर्वलोकेन समं सर्वजनेन सार्धमवनितले वसुधातले निवेशितमुत्तमाङ्गं येनैवंभूतं मेघनादमितो ढौकस्वेति आनीहीत्यादिश्येत्युक्त्वोद्दिश्य नाममात्रग्रहणं कृत्वाप्राक्षीदपृच्छत् । तदेव दर्शयन्नाह - मेघेति । हे मेघनाद, कथय ब्रूहि वत्सस्य पुत्रस्य कः कीदृशो वृत्तान्त इति । स तु मेघनादो व्यज्ञापयद्विज्ञप्तिमकार्षीत् । हे देव हे स्वामिन, चेतनाविरहाज्ज्ञानाभावादज्ञानभावाच्चेष्टामात्रकमेव केवलं चलनादिक्रियामानं शरीरे देहें पुनरपगतं निवृत्तं ज्ञायते दिवसे दिवसेऽप्यधिका कान्तिः प्रचुरद्युतिः समुपजायते समुत्पद्यत इति । राजा तु तच्छ्रुत्वा तदाकर्ण्य जीवितप्रतिलम्भे जीवितप्राप्तौ समुपजाता प्रत्याशा स्पृहा यस्य स मेघनादस्य वचनं देव्या श्रुतमाकर्णितम् । तदेहि । चिराच्चिरकालेन प्रचुरकालेन पुनरात्मानं दर्शनेनावलोकनेन निरीक्षणेन कृतार्थयामः कृतार्थीकुर्मः । वत्सस्य वदनं पश्याम इत्यभिदधान एवेति कथयन्नेवेति वदन्नेवाभिवर्धितो वृद्धि प्रापितो गतिविशेषो यस्याः सा तया करेण्वा हस्तिन्या कृत्वा । तामारुह्येत्यर्थः । महाश्वेताश्रममगमत् । __ अथेति । तद्गमनानन्तरं सहसैवाकस्मादेव तच्चन्द्रापीडस्य गुरुजनस्य मातृपितृजनस्यागमनमाकर्ण्य श्रुत्वा पुरः प्रकीर्णा विक्षिप्तास्तारा उज्ज्वलानि यानि मुक्ताफलानि ता अनुकरोतीत्येवंशीलः प्रकीर्णतारमुक्तानुकार्येवं - - - - - -- - - - - - - - टिप्प०-1 'यस्याः' इत्युचितम् । 2 मार्गे गच्छतः । सर्वे दृश्यन्ते, त्वमेवैको न दृश्यसे, इत्येवार्थः । 3 ढौकस्व आगच्छ। 4 उद्दिश्येति पाठो भ्रष्टैः परिगृहीत एव । 5 चेष्टामात्रकमेवाऽपगतम्, शरीरे दिवसे दिवसेऽभ्यधिका कान्तिः समुपजायते इति ज्ञायते । अयमन्चयो योग्यः । 6 प्रकीर्णानि इत्यादि क्लीबत्वं वाच्यम्, लेखकदोषाद् अत्र प्रमादो दृश्यते ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ विलोक्य. २ अवच्छिन्न. ३ उद्दिश्योद्दिश्य; इत्यादिश्य. ४ व्यज्ञपयत्. ५ पुनः. ६ संदोहम्.
अच्छोदतीरे मेघनादस्याभिगमनम्
उत्तरभागः।
1665
Page #193
--------------------------------------------------------------------------
________________
दोहा 'हा, हतास्मि मन्दपुण्या दुःखैकभागिनी । न जानाम्येव विस्मृतमरणा कियद्यावदहमनेनानेकप्रकारं खलीकारदानैकपण्डितेन दग्धवेधसा परं दग्धव्या' इत्यभिदधानैव धावित्वा हिया महाश्वेता गुहाभ्यन्तरमविशत् । चित्ररथतनयापि सत्वरोपसृतसखीकदम्बकावलम्बितशरीरा तूष्णीमेव मोहान्धकारम् । तदवस्थयोश्च तयोः शुकनासावलम्बित शरीरो राजा विवेशाश्रमपदम् । तदनु मनोरमावलम्बिता पुरः प्रधावितोत्प्लुतायततरदृष्टिः 'क्व मे वत्सः' इति पृच्छन्ती विलासवती । प्रविश्य च सैह तयैव कान्त्याऽविरहितमुपरतसर्वप्रयत्नं सुप्तमिव तं पुत्रवत्सला तनयमालोक्य यावन्न परापतत्येव तारापीडस्तावद्विलासवती विधारयन्तीं मनोरमामप्याक्षिप्य दूरत एव प्रसारितबाहुलताद्वया रयोन्मुक्तजर्जराभिर्नयनजलधाराभिः प्रसवेण च सिञ्चन्ती महीतलम् 'एह्येहि जात दुर्लभक, चिराद्दृष्टोऽसि, देहि मे प्रतिवचनम् । आलोकय सकृदपि माम्, अनुचितं तात तवैतदवस्थानम् । उत्थायाकोपगमनेन मे संपादय तनयोचितं स्नेहम् । न चौनाकर्णितपूर्वं बाल्येऽपि त्वया मद्वचनम्, अद्य किमेवं विलपन्त्या
1
विधो नयनबिन्दुर्लोचनबिन्दुसंदोहो यस्याः सा तथा । हा अहं हतास्मि पीडितास्मि । कीदृशी । मन्दं स्वल्पं पुण्यं यस्याः सा । पुनः कीदृशी । दुःखमेकं केवलं भजतीत्येवंशीला सा तथा । अहं न जानाम्येव नावबुध्ये एव । विस्मृतं विस्मरणतां गतं मरणं मृत्युर्यस्याः सा । कियद्यावदहमनेन दग्धवेधसा ज्वलितब्रह्मणानेकप्रकारं यथा स्यात्तथा खलीकारस्य स्खलनविधेः प्रदान एकपण्डितेनात्यन्तचतुरेण दग्धव्या दहनीया ज्वालनीया । इत्यभिदधानैवेति कथयन्त्येव हिया त्रपया धावित्वा धावनं कृत्वा महाश्वेता गुहाभ्यन्तरमविशद्दरीमध्यमाविवेश । चित्ररथतनयापि कादम्बर्यपि सत्वरं शीघ्रमुपसृतं पार्श्वे समीप आगतं सखीकदम्बकं तेनावलम्बितं स्तम्भितं शरीरं यस्याः सा तूष्णीमेव मौनमेव मोहन्धकारमाविशन्मूर्च्छामगमत् । तदवस्थयोस्तादृशयोश्च तयोर्महाश्वेताकादम्बर्योर्द्वयोः सत्योः, शुकनासेनावलम्बितं धृतं शरीरं यस्यैवंभूतो राजाश्रमपदं विवेश प्राविशठप्रवेशं चकार । तदनु पश्चान्मनोरमयावलम्बिता, पुरोऽग्रे प्रधाविता चञ्चलायततरातिदीर्घा दृष्टिर्यस्याः सा व मम वत्स इति पृच्छन्ती प्रश्नयन्ती विलासवती तयैव मनोरमयैव सह प्रविश्य च प्रवेशं कृत्यैव सहजया स्वाभाविकया कान्त्याऽविरहितं दीप्त्या सहितं (कान्त्या सहित) मुपरतो निवृत्तः सर्वः प्रयत्न उद्यमो यस्मात्स तम् । अत एवोटप्रेक्षते । सुप्तमिव कृतनिद्रमिव निद्रावशमिव पुत्रे सुते नौ वत्सला हितकारिणी तनयं पुत्रं सुतमालोक्य यावन्न परापतत्येव पश्चादागच्छत्येव तारापीडस्तावद्विलासवती विधारयन्तीं देहावष्टम्भं कारयन्तीं मनोरमामप्याक्षिप्याक्षेपणं कृत्वा दूरत एव दविष्ठत एव प्रसारितं विस्तारितं बाहुलताद्वयं भुजवलीयुग्मं यया सा रयेण वेगेनोन्मुक्तात एव प्रान्ते जर्जराः शिथिलास्ताभिर्नयनयोर्जलधाराभिरश्रुसंतानैः प्रसवेण स्तनोद्गतदुग्धेन च महीतलं सिञ्चन्ती सेकं कुर्वन्ती सेचनं कुर्वन्ती जात हे पुत्र हे वत्स, एह्येह्यागच्छागच्छ । हे दुर्लभक हे दुष्प्राप, चिराच्चिरकालाद्बहुकालेन दृष्टोऽस्यवलोकितोऽसि निरीक्षितोऽसि । मे मम प्रतिवचनं प्रत्युत्तरं देहि । मां सकृदपि चैकवारमप्यालोकय दृग्विषयीकुरु दृष्ट्यावलोकनं कुरु । हे तात हे पिर्तः, तवैतदवस्थानमनुचितमन्याय्यम् । उत्थायोत्थानं कृत्वाङ्के क्रोडे उत्सङ्गे यदुपगमनं तेन मे मम तनयोचितं पुत्रन्याय्यं तनययोग्यं स्नेहं प्रेम संपादय विधेहि । बाल्येऽपि बाल्यावस्थायामपि त्वया भवता मद्वचनं मातृवचो न चानाकर्णितपूर्वं न चाश्रुतपूर्वम् । अद्य किं जातम् । एव -
टिप्प० - 1 ‘प्रविश्य च सहजयैव कान्त्याऽविरहितम्' इत्येव पाठः । 2 निवृत्तसर्वचेष्टमित्यर्थः । 3 उन्मुक्ताः अत एव इति शुद्धं बोध्यम् । 4 मन्ये, 'तातः पितरि पुत्रे च' इत्युक्त्याऽत्र तातशब्दस्य पुत्रार्थबोधकत्वम् ।
पाटा० - १ प्रकार. २ गृहा. ३ सहजया. ४ पुस्तमयमिव; प्रस्तरमयमिव ५ पुत्रवत्सलः ६ अनाक्रमितपूर्वम्; अनवकर्णितपूर्वम्.
666
कादम्बरी)
-
कथायाम
Page #194
--------------------------------------------------------------------------
________________
अपि च शृणोषि ? जात, केन रोषितोऽसि ? एषा तोषयामि वत्सं पादयोर्निपत्य । पुत्र चन्द्रापीड, प्रणम तावत्प्रत्युद्गम्य त्वत्स्नेहादेवातिदूरमागतस्यापि पितुः पादौ । क्व सा गता ते गुरुभक्तिः ? क्व ते गुणाः ? क्व स स्नेहः ? क्व सा धर्मज्ञता ? क्व तत्पितृपक्षपातित्वम् ? क्व सा बन्धुप्रीतिः ? क्व सा परिजनवत्सलता ? कथमभाग्यैर्मे सर्वमेकपद एवोत्सृज्यैवमौदासीन्यमवलम्ब्यावस्थितोऽसि । अथवा यथा ते सुखं तथा तिष्ठ । वैयमुदासीनहृदयास्त्वयि' इति कृतार्तप्रलापा समुपसृत्य पुनः पुनर्गाढमालिङ्ग्याङ्गानि, शिरः समाघ्राय, कपोलौ चुम्बित्वा, चन्द्रापीडस्य चरणावुत्तामाङ्गे कृत्वोन्मुक्तकण्ठमरोदीत् ।
तथा रुदन्तीं तु तामन्तरितनिजपीडस्तारापीडश्चन्द्रापीडमपरिष्वज्यैव सर्वप्रजापीडापहरणक्षमाभ्यां भुजाभ्यामवलम्ब्याब्रवीत् - ‘देवि, यैद्यथाऽऽवयोः सुकृतैरपत्यतामुपगतस्तथापि देवतामूर्तिरेवायमशोचनीयः । तन्मुच्यतामयमिदानीं मैनुष्यलोकोचितः शोचितव्यवृत्तान्तः । अस्मिञ्छोके कृते न किंचिदपि भवति । केवलं गल एव स्फुटति, रटतो न हृदयम् ।
****
ममुना प्रकारेण विलपन्त्या प्रलपन्त्या अपि न शृणोषि नाकर्णयसि । हे जात, केन रोषितः क्रोधं प्रापितोऽस्यसूयां प्रापितोऽसि । एषा विलासवती पादयोश्चरणयोर्निपत्य निपतनं कृत्वा प्रणामं कृत्वा वत्सं पुत्रं तोषयामि संतोषयामि तुष्टिमुत्पादयामि । हे पुत्र हे वत्स हे सूनो चन्द्रापीड, प्रत्युद्गम्य संमुखमागम्याभिमुखमागत्य तावदादौ त्वत्स्नेहात्तव प्रेम्णस्त्वत्प्रीतेरेवातिदूरमागतस्यातिदविष्ठमागतस्य पितुस्तारापीडस्य पादौ चरणौ प्रणम नमस्कुरु । सा ते तव गुरुभक्तिः पितर्याराध्यत्वेन ज्ञानं श्रद्धा वा वासना वा क्व गता कुत्र याता । ते तव गुणा भवद्गुणाः शौर्यादयः क्व । स प्राक्तनः स्नेहः प्रेम क्व । सानिर्वचनीया वक्तुमशक्या धर्मज्ञता वृषवेत्तृता धर्मज्ञातृता क्व । तत्सर्वप्रसिद्धं पितृपक्षपातित्वं क्व जनकमताश्रयित्वं क्व । सा बन्धुप्रीतिः क्व स्वजनेषु स्नेहः क्व स्वजनेषु प्रेम क्व । सा परिजने परिच्छदे वत्सलता हितकारिता क्व । ममाभाग्यैर्दुर्देवैर्मे ममैकपद एव सर्वमुत्सृज्यैव त्यक्त्वैव कथमौदासीन्यं माध्यस्थ्यमवलम्ब्यालम्बनीकृत्यावस्थितोऽसि । अथवेति पक्षान्तरे । यथा ते तव सुखं तथा तेन प्रकारेण तिष्ठावस्थानं कुरु । वयं तूदासीनमुदासतां गतं हृदयं चेतो येषां ते तथोक्तास्त्वयि विषये । इति कृत आर्तप्रलापो यया सैवंविधा विलासवती समुपसृत्य समीपे गत्वा पुनः पुनर्वारंवारमङ्गानि हस्तादीनि गाढं दृढमालिङ्ग्याश्लिष्य शिर उत्तमाङ्गं समाघ्रायाघ्राणं कृत्वा कपोलौ प्रसिद्धौ चुम्बित्वा चुम्बनं कृत्वा चन्द्रापीडस्य चरणौ पादावुत्तमाङ्गे शिरसि कृत्वोन्मुक्तकण्ठं यथा स्यात्तथारोदीद्रुदनं चकार ।
तथाप्रकारेण रुदन्तीं तु तामन्तरिता व्यवहिता निजपीडा येन स एवंभूतस्तारापीडश्चन्द्रापीडमपरिष्वज्यैवानालिङ्ग्यैव सर्वप्रजायाः समग्रलोकस्य सर्वप्रकृतेः सकलजनस्य पीडार्तिस्तस्या अपहरणे दूरीकरणे क्षमाभ्यां समर्थाभ्यां भुजाभ्यां बाहुभ्यामवलम्ब्यालम्बनीकृत्याब्रवीदभ्यधादवोचत् । किं तदित्याह - देवेति । हे देवि, यदिति हेत्वर्थे । यथा येन प्रकारेणावयोस्तारापीडविलासवत्योः सुकृतैः पुण्यैरपत्यतां प्रसूतितामुपगतः प्राप्तः । 'सुकृती पुण्यवान्धन्यः' इति कोशः । तथाप्ययं देवतामूर्तिरेव देवस्वरूप एवाशोचनीयो न शोचनीयः शुचं कर्तुमयोग्यः । तत्तस्माद्धेतोरिदानीं सांप्रतमयं मुच्यतां त्यज्यताम् मनुष्यलोकस्योचितो योग्यः शोचितव्यवृत्तान्तः
टिप्पo - 1 यस्य, स्वां पीडामगणयन्नित्यर्थः । 2 ' यद्यप्यावयोः सुकृतैरपत्यतामुपगतः' इति पाठो मनोरमः ।
पाटा० - १ औदासीन्य; अनुदासीन. २ दोर्भ्याम् ३ यद्यप्यावयोः ४ उपगतोऽपत्यताम् ५ तन्मुच्यताम् ६ मनुष्यस्नेहोचितशोचितव्यवृत्तान्तस्य; मनुष्यलोकोचितः परिशोचितव्यवृत्तान्त. ७ न शोके कृते.
विलासवत्याः शोकः
उत्तरभागः ।
667
Page #195
--------------------------------------------------------------------------
________________
निरर्थक प्रलपितमेव नियति वदनान जीवितम् । निरासङ्गं नयनजलमेव पतति न शरीरम् । अपि च वत्सस्यादर्शनमात्रमेवावयोः पीडाकरम् । तच्चैवमालोक्यमाने मुखेऽस्य दूरापेतम् । अपरमस्यामवस्थायामावाभ्यामपि तावत्परमवष्टम्भ कृत्वा मनोरमा शुकनासश्च संधारणीयौ ययोर्लोकान्तरितो वैशम्पायनः । तिष्ठतां तावदेतावपि । यस्याः प्रभावापुनरनुभवनीयो वैत्सस्य जीवितप्रतिलम्भाभ्युदयमहोत्सवः सैवैवं गन्धर्वराजतनया वधूस्तेऽस्मदागमनशोकोर्मिसंक्रान्तिमूढा सनामग्रहणमुन्मुक्ताक्रन्दाभिः प्रियसखीभिह्यमाणाऽद्यापि संज्ञा न प्रतिलभते । तदेनां तावदुत्थाप्याङ्के कृत्वा चेतना लम्भय । ततो यथेच्छं रोदिष्यसि ।
इत्यभिहिता राज्ञा विलासवती - 'क्व सा मे वत्सस्य जीवितनिबन्धनं वधूः' इत्यभिदधत्येव ससंभ्रममुपसृत्याप्रतिपन्नसंज्ञामेवाकेनादाय, कादम्बरी करेण, मूछनिमीलनाहितद्विगुणतरनयनशोभं वदनमालोक्य, अनवरतनयनसलिलस्नानामिन्दुशकलशीतलं स्वकपोलं कपोलयोः, ललाटे ललाटम्, लोचनयोश्च लोचने निवेशयन्ती, चन्द्रापीडस्पर्शशिशिरेण च पाणिना -
***********
शोचनार्हः शोचितव्यस्तस्य वृत्तान्त उदन्तः । अस्माकं शोके कृते न किंचिदपि भवति नाधिकं किमपि जायते । केवलं रटतो रुदतो गल एव निगरण एव स्फुटति स्फोटं प्राप्नोति न हृदयम् । वदनान्मुखान्निरर्थं व्यर्थं प्रलपितं जल्पितमेव निर्याति बहिरायाति न जीवितं न प्राणितम् । निरासङ्गं निःसंबन्धं नयनजलमेवाश्रुपानीयमेव पतति संसते न शरीरं न देहः । अपि चेति । वत्सस्य चन्द्रापीडस्यादर्शनमात्रमेवानवलोकनमात्रमेवानिरीक्षणमात्रमेवावयोः पीडाकरमार्तिजनकम् । अस्य चन्द्रापीडस्यैवमालोक्यमाने मुखे तरापेतं दविष्ठापेतं दुरापास्तम् । अपरमन्यदस्यामवस्थायां दशायामावाभ्यामपि दम्पतीभ्यामपि परममुत्कृष्टमवष्टम्भं प्रतिबन्धं कृत्वा मनोरमा शुकनासश्च संधारणीयौ । मृत्यो रक्षणीयावित्यर्थः । ययोर्दयोर्मध्ये लोकान्तरितो वर्तते वैशम्पायनः । तिष्ठतां वा तावदेतावपि मनोरमाशुकनासावपि तिष्ठतामित्यर्थः । यस्याः कादम्बर्याः प्रभावात्पुनर्वत्सस्य जीवितस्य प्रतिलम्भः प्रकर्षेण लाभस्तस्याभ्युदयस्तस्य मह उत्सवोऽनुभवनीयोऽनुभवविषयीकरणीयः । सैवेयं गन्धर्वराजतनया ते तव वधूरस्माकमागमनेन यः शोकः शुक् तस्योर्मयस्तरङ्गाः कल्लोलास्तेषां संक्रान्तिः संक्रमणं तेन मूढा अज्ञा सनामग्रहणं नामग्रहणपूर्वं यथा स्यात्तथोन्मुक्त आक्रन्दो याभिरेवंविधाभिः प्रियसखीभिग्राह्यमाणा ध्रियमाणा अयापि सांप्रतमपि संज्ञां चेतनां न प्रतिलभते । तत्तस्माद्धेतोस्तावदादावेनामुत्थाप्याङ्क उत्सङ्के कृत्वा चेतनां संज्ञा लम्भय प्रापय । ततो यथेच्छं इच्छा यथा स्यात्तथा रोदिष्यसि रुदनं करिष्यसि ।
इति राज्ञाभिहिता कथिता विलासवती मे मम वत्सस्य जीवितनिबन्धनं कारणं वधूः क्वेत्यभिदधत्येवेति कथयन्त्येव ससंभ्रमं संभ्रमेण सहितं ससंभ्रमं सादरं सभयं वोपसृत्य समीपे निकटे गत्वाप्रतिपन्नसंज्ञामेवाप्तचेतनामेवाकेनोत्सङ्गेनादाय कादम्बरी मूर्छानिमीलनेनाहिता स्थापिता द्विगुणतरनयनशोभा यस्मिन्नेतादृशं वदनं मुखमालोक्य निभाल्यानवरतं निरन्तरं नयनसलिलेन लोचनजलेन स्नानमाप्लवस्तेनार्द्रमुनमत एवेन्दुशकलवच्चन्द्रखण्डवच्छीतलं शिशिरं स्वकपोलं कपोलयोर्ललाटं ललाटे, लोचनयोश्च लोचने, निवेशयन्ती, स्थापयन्ती । 'अध - टिप्प० -1 ययोर्वर्तमानयोः, ययोर्वैशम्पायनः (यत्पुत्रो वैशम्पायनः, तथा च संबन्धे षष्ठी) इत्यर्थो वा योग्यः । 2 नीचैधृतः पाठोऽत्र परिग्रहीतव्यः, व्याख्या स्पष्टा, टीकयाऽनया सुगमा च ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ परं बदनात्. २ तिष्ठ; तिष्ठेताम्. ३ अस्य. ४ गृह्यमाणापि. ५ एताम्. ६ अङ्के कृत्वोत्थाप्य. ७ विलासवती तु तच्छ्रुत्वा ससंभ्रमोन्मुक्तचन्द्रापीडचरणा तत्क्व सा मे जीवितप्रतिलम्भहेतुर्वत्सस्य बघूरिति घावमाना चोपसृत्य तदवस्थां तु तामुत्थाप्याङ्के कृत्वा मूर्छानिमीलनाहितद्धिगुणतरनयनशोभं वदनमालोक्य. ८ अप्रतिपत्तिसंज्ञाम्. ९ निमीलित. १० ललाटेन.
668
कादम्बरी।।
कथायाम्
Page #196
--------------------------------------------------------------------------
________________
हृदये स्पृशन्ती 'समाश्वसिहि मातः, त्वया विनाऽद्य प्रभृति केन संधारितं वत्सस्य मे चन्द्रापीडस्य शरीरम् ? मातः, त्वममृतमयीव जातासि, येन वत्सस्य पुनर्वदनमालोकितम्' इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तैनिर्विशेषवृत्तिना विलासवतीशरीरस्पर्शेन लब्धसंज्ञापि लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाङ्कादवतार्य परवत्येव यथाक्रममकार्यत वन्दना गुरूणाम् । 'आयुष्मति, दीर्घकालमविधवा भव' इति कृताशीर्वादा च शनैरुत्थाप्यातिनिकटे विलासवत्याः पृष्ठतः समुपवेश्याधार्यत ।
अथ प्रत्यापन्नचेतनायां चित्ररथतनयायां चन्द्रापीडमेवोज्जीवितं मन्यमानो राजा चिरमिवास्य गाढमङ्गमालिङ्ग्य चुम्बंश्च पश्यश्च स्पृशंश्च स्थित्वा मदलेखामाहूयाहूयादिदेश - 'दर्शनसुखमात्रकमस्माकं विधीयमानम्, तँच्चास्माभिरासादितम् । तद्यादृशेनैवोपचारेणैतावतो दिवसानुपचरितवती वधूर्वत्सस्य शरीरम्, स एवोपचारो नास्मद॑नुरोधाल्लज्जया वा मनागपि परिहरणीयः । वयं निष्प्रयोजना द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा ।
*********** स्तात्तु स्याच्चिबुकं स्याद्गल्लः सृक्कणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः' इति हैमकोशः । चन्द्रापीडस्पर्शशिशिरेण शीतलेन च पाणिना करेण हृदये वक्षसि स्पृशन्ती स्पर्श कुर्वन्ती । हे मातः, यथा पुत्रे तात इति प्रयोगस्तथा पुत्रीसमायां सुतातुल्यायां स्नुषायामपि मातृशब्दप्रयोगः । त्वं समावसिह्याश्वासनां कुरु । यतस्त्वया भवत्या विनाद्यप्रभृत्येतद्दिनादारभ्य मे मम वत्सस्य सुतस्य चन्द्रापीडस्य शरीरं वर्ष केन संधारितं धृतम् । हे मातः, त्वममृतमयीव पीयूषनिर्मितेव संजाता । येन कारणेन वत्सस्य वदनं सुतस्य वदनं पुनर्वितीयवारमवलोकितं निरीक्षितमित्यवादीदित्यब्रवीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तस्माच्चन्द्रापीडस्पर्शानिर्विशेषवृत्तिना तत्सदृशेन विलासवतीशरीरस्पर्शेन (संज्ञां चेतना लेभे प्राप्तवती ।) लब्धसंज्ञापि प्राप्तचेतनापि लब्धा प्राप्ता संज्ञा चैतन्यं यया सैवंविधापि लज्जयावननं मुखं यस्याः सा प्रतिपतिः सेवा तस्यां मूढाज्ञाधोमुखी नीचैर्मुखी मदलेखयाकादुत्सङ्गादक्तार्यावतारणं कृत्वा परवत्येव परायत्तेव गुरूणां चन्द्रापीडमातृपितृणां यथाक्रममनुक्रमेण वन्दनामकार्यत व्यधाप्यत । 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । हे आयुष्पति हे चिरजीविते, दीर्घकालमविधवा वैधव्यरहिता भवेति कृत आशीर्वाद आशीःप्रदानं यस्याः सा तथा कृताशीर्वादा च शनैरुत्थाप्यातिनिकटेऽतिसमीपे विलासवत्याः पृष्ठतः पश्चाद्भागे समुपवेश्य सखीजनैरधार्यत ।
अथेति । तदनन्तरं प्रत्यापनचेतनायां प्राप्तचैतन्यायां तु चित्ररथतनयायां कादम्बर्यां चन्द्रापीडमुज्जीवितमेव मन्यमानो जानानः । तस्या उज्जीवनादिति भावः । राजा तारापीडश्चिरमिव चिरकालमिवास्य चन्द्रापीडस्य गाढं दृढमङ्गमालिङ्ग्य परिष्वज्य चुम्बंश्चुम्बनं कुर्वन्पश्यन्चिलोकयन्स्पृशन्स्पर्शं कुर्वंच स्थित्वा च कियत्कालं कतिपयकालं मदलेखामाहूयाह्वानं कृत्वादिदेशादिष्टवान् । दर्शनसुखमात्रक केवलमवलोकनसुखमस्माकं विधीयमानं क्रियमाणं तच्चास्माभिरासादितं प्राप्तम् । तदिति हेत्वर्थे । यादृशेन वोपचारेण प्रतिक्रिययैतावतो दिवसान्वधः स्नुषा वत्सस्य शरीरमुपचरितवत्युपचारं कृतवती स एवोपचारोऽस्मदनुरोधादस्मत्प्रतिबन्धाल्लज्जया त्रपया वा मनागपीषदपि न परिहरणीयो न परिहार्यः । वयं निष्प्रयोजना निरर्थकाः केवलं द्रष्टार एव विलोकयितार एव । अस्माभिरिह स्थले स्थितैरवस्थितैर्गतैर्वा किम् । यस्या भवत्याः करस्पर्शेनैतदविनाश्यविनश्वरमाप्या -
.- - - - - - - - - - - - - - टिप्प० - 1 व्याख्याया अस्या मूलाक्षराणि न प्राप्यन्ते । 2 प्रतिपत्तिमूढा किंकर्तव्यमिति ज्ञानविकला। पाठा० - १ हृदयम्. २ हेमातः. ३ निर्विशेष. ४ शनैः शनैस्तैरुत्थाप्य; तैरुत्थाप्यमाना; शनैरुत्थाप्यमाना. ५ आलिङ्गन्. ६ आहूय. ७ यत्. ८ उपरोधात्. ९ परिहारणीयः, १० वयं तु.
-
-
-
-
- --
-
-
-
-
-
-
कादम्बर्या दर्शनमालापश्च
उत्तरभागः।
669
Page #197
--------------------------------------------------------------------------
________________
यस्याः करस्पर्शेनाप्यायितमेतदविनाशि सैव वधूः पार्थेऽस्य तिष्ठतु' इत्यादिश्य निर्जगाम । निर्गत्य चोपकल्पितं निजावासमगत्वैव तपस्विवासोचितेऽन्यतमस्मिन्नासन्न एवाश्रमस्य शुचिशिलातलसनाथे तरुलतामण्डपे समुपविश्य निर्विशेषदुःखं सकलमेव राजचक्रमाहूयाहूय सबहुमानमवादीत् -
'न, भवद्भिरवगन्तव्यं यथाद्य शोकावेगादेवैतदहमङ्गीकरोमि' इति । पूर्वचिन्तित एवायमों यथा वधूसमेतस्य चन्द्रापीडस्य वदनमालोक्य संक्रामितनिजभरेण मया क्वचिदाश्रमपदे गत्वा पश्चिमं वयः क्षपयितव्यमिति । स चायं मे भगवता कृतान्तेन, पुराकृतैः कर्मभिर्वा विरूपैरेवं समुपनमितः । किमपरं क्रियते ? अनतिक्रमणीया नियतिः । अप्रापणीयं नानुभूतमात्मचेष्टाकृतं वत्सस्य सुखम् । प्रजापरिपालनफेलं तु पुनर्भवद्धजेष्वेवमक्षतेष्व॑विरहितमस्त्येव । अन्यथापि हि चेष्टमानेष्वस्मासु सर्वमेष्वेवावस्थितम् । तदिच्छामि चिरकाङ्कितं मनोरथं पूरयितुम् । धन्याश्च जरापीतसारतनवस्तनयेष्वात्मभरमासज्य लघुशरीराः परलोकगमनं साधयन्ति । येच्च बलाद्गले पादमाधाय यदा तदानिच्छतोऽप्या -
*********** यितं शीतलीभूतं सैव वधूः स्नुषास्य चन्द्रापीडस्य पार्थे तिष्ठत्ववस्थानं करोतु । इत्यादिश्याज्ञां दत्त्वा निर्जगाम निर्ययौ । निर्गत्य च निर्गमनं कृत्वा चोपकल्पितं विहितं निजावासं स्वकीयसौधमगत्वैव तत्र गमनमविधायैव तपस्विवासोचिते मुनिजननिवासयोग्य आश्रमस्य महाश्वेताया आसन्न एव समीपवर्तिनि शुचिभिः पवित्रैः शिलातलैः सनाथे सहितेऽन्यतमस्मिंस्तरुलतामण्डपे तरूणां लता एव वल्ली एव मण्डपाकारेण मण्डपसदृशाकारेण व्यवस्थितास्तरवश्च लताश्च छत्राकारेण स्थिता रोहितास्तरुलतामण्डपा वा तस्मिन्समुपविश्यास्थाय निर्गतो विशेषो यस्मादेतादृशं दुःखं यस्मिन्नेवंभूतं सकलमेव समग्रमेव राजचक्रं नृपसमूहमाहूयाहूय सबहुमानं ससत्कारमवादीदब्रवीत् । ।
भवद्भिर्नावगन्तव्यं न ज्ञातव्यम्, यथाद्य शोकावेगादेतद्वनवासलक्षणमहमङ्गीकरोमि स्वीकुर्व इति । अयमर्थः पूर्वं चिन्तित एव प्रागालोचित एव प्रथममालोचित एव । तदेव विशदयति प्रकटयति - यथेति । यथा वधूसमेतस्य चन्द्रापीडस्य वदनमाननमास्यं आलोक्य निरीक्ष्य संक्रामितोऽन्यत्र स्थापितो निजभरो राज्यभारो येनैवभूतेन मया क्वचिदनिर्दिष्टनामन्याश्रमपदे मुनिस्थानस्थले गत्वा पश्चिमं प्रान्तं वयः क्षपयितव्यं परिपूर्णतां नेयमिति । स चायमर्थः कृतान्तेन यमेन लोकपालत्वाद्भगवता ज्ञानवता पूज्येन, पुराकृतैः पूर्वभवाचीणैर्विरूपैरशुभैः कर्मभिर्वैवं पूर्वोक्तप्रकारेण समुपनमितोऽधरीकृतः । अपरं द्वितीयं किं क्रियते, यतोऽनतिक्रमणीयानुल्लङ्घनीया नियतिर्ब्रह्मनिर्मितिरदृष्टं वा । आत्मचेष्टात्मप्रयत्नस्तेन कृतं वत्सस्य चन्द्रापीडस्य सुखमप्रापणीयं प्राप्तुमयोग्यं नानुभूतं नानुभवविषयीकृतम् । प्रजापरिपालनसुखफलं तु पुनरक्षतेष्वखण्डितेषु भवद्भुजेष्वेव सत्स्वविरहितं न वियोगमापनमस्त्येव । अन्यथापि ह्यस्मासु चेष्टमानेषु क्रियमाणेषु सर्वमेतेष्वेव भवद्भुजेष्वेवावस्थितं स्थितिमापनम् । तदिति हेत्वर्थे । इच्छामि चिरकाङ्कितं चिरवाञ्छितं मनोरथं पूरयितुं परिपूर्णीकर्तुम् । धन्याश्च कृतकृत्याच जरया विससया पीतं गृहीतं सारं बलं यासामेवंभूतास्तनवो येषां ते तथा तनयेषु पुढेष्वात्मभरमासज्य न्यस्य अत एव लघुशरीराः परलोकगमनं भवान्तरगति साधयन्ति निष्पादयन्ति । यच्च बलाद्धठाद् गले निगरणे पादं चरणमाधाय स्थापयित्वा दत्त्वा यदा तदा यस्मिंस्तस्मिन्कालेऽनिच्छतोऽप्यनभिलषतोपि कृतान्तेन
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अस्मासु अन्यथा चेष्टमानेष्वपि (इत्थं सर्वपरित्यागेन आश्रमपदमधितिष्ठत्स्वपि) सर्वं प्रजारक्षणादिकम्, एषु (भवद्भुजेषु, एवावस्थितम्) भवद्धलायत्तमिति स्पष्टोऽर्थः ।
-
पाठा० - १ अविनाशि शरीरम्. २ मुखम्. ३ फलं बल. ४ अविहतम्. ५ अन्यत्. ६ तच्च.
(670
कादम्बरी।
कथायाम्
Page #198
--------------------------------------------------------------------------
________________
च्छिद्यत एव कृतान्तेन, तद्यदि पाने क्वचिदपि स्थापयित्वा निजपदं जरापरिभुक्तायुःशेषेण निष्प्रयोजनस्थितिना सर्वसुखबाह्येन मांसपिण्डेन परलोकसुखान्युपाय॑न्ते, लाभ एवायम् । तदस्य वस्तुनः कृते भवन्तो मया प्रत्यर्थिताः' -
इत्युक्त्वा संनिहितान्यपि परित्यज्योचितानि सर्वसुखान्यनुचितान्यङ्गीकृत्य वैन्यानि । तथा हि - हHबुद्धिं वृक्षमूलेषु, अन्तःपुरस्त्रीप्रीतिं लतासु, संस्तुतजनस्नेहं हरिणेषु, निवसनरुचिं चीरवल्कलेषु, कुन्तलरचनाभियोगं जटासु, आहारहार्द कन्दमूलफलेषु, शस्त्रधारणव्यसनमक्षसूत्रेषु, प्रजापरिपालनशक्ति समित्कुशकुसुमेषु, नालापं धर्मसंकथासु, समररसमुपशमे, जयेच्छां परत्र, कोशस्पृहां तपसि, आज्ञां मौने, सर्वोपभोगरागं च वैराग्ये, तनयस्नेहं तरुषु संक्रमय्य, यास्तपस्विजनोचिताः क्रियाः कुर्वन्, गन्धर्वलोकोचितानहरहरुपचारान्कादम्बर्या कथमपि समुत्सृष्टलज्जया महावेतया च क्रियमाणाननिच्छन्, अविच्छेदात्सायं प्रातश्चानुभूतचन्द्रापीडदर्शनसुखो दुःखान्यगणयन्नरपतिः सपरिवारः समं देव्या शुकनासेन च तत्रैवातिष्ठत् ।"
***********
यमेनाच्छिद्यत एवाकृष्यत एव । तत्ततो यदि पात्र आप्ते क्वचिदपि निजपदं स्वस्थानमात्मभारं स्थापयित्वा स्थापनां कृत्वा जरया परिभुक्त आयुषः शेषो यस्य स तेन, निष्प्रयोजना निरर्थका स्थितिरवस्थानं यस्य स तेन, सर्वसुखात्समग्रसौख्याबाह्येन बहिर्भूतेन मांसपिण्डेन पललसंघातेन परलोकसुखानि पारभविकसौख्यान्युपाय॑न्त उपार्जनाविषयीक्रियन्ते । अयमेव लाभः फलप्राप्तिः । पुरुषार्थ इति यावत् । तत्तस्मात्कारणादस्य बस्तुनः कृते भवन्तो मया प्रार्थिता अभ्यर्थिताः।
इत्युक्त्वेत्यभिधाय संनिहितान्यपि समीपवर्तीन्यप्युचितानि योग्यानि सर्वसुखानि परित्यज्य विहाय त्यक्त्वानुचितान्ययोग्यानि अनर्हाणि वन्यानि वनसंबन्धीनि सुखान्यङ्गीकृत्य स्वीकृत्य च । तदेव दर्शयति - तथाहीति । तस्य राज्ञो हर्म्यबुद्धिं गृहधियं वृक्षमूलेषु पादपबुध्नेषु, अन्तःपुरस्त्रीप्रीतिमवरोधस्त्रीस्नेहं लतासु वल्लीषु, संस्तुतजनस्नेहं परिचितजनप्रीतिं हरिणेषु कुरङ्गेषु, निवसनरुचिं वस्त्राभिलाषं चीरवल्कलेषु, कुन्तलरचनाया अभियोगमुद्यमं जटासु, आहारहार्द भोजनप्रेमाभिप्रायो वा कन्दश्च मूलं च फलानि च कन्दमूलफलानि तेषु, शस्त्रधारणव्यसनमक्षसूत्रेषु जपमालिकासु, प्रजापरिपालनशक्ति समिध एधासि कुशा दर्भाः कुसुमानि पुष्पाणि तेषु, नर्मालापं क्रीडालापं हास्यालापं धर्मसंकथासु सुकृतप्रबन्धेषु, समररसं सङ्ग्रामरसं युद्धरसमुपशमे शान्तरसे, जयेच्छां जयस्पृहां परत्र लोके परलोके, कोशस्पृहां धनभाण्डागारवाञ्छां तपसि व्रते, आज्ञामनुशासनं मौनेऽभाषणे, सर्वः समग्रः सकलो य उपभोगोऽङ्गनादिकस्तत्र रागं च वैराग्ये विरक्ततायाम्, तनयस्नेहं पुत्रप्रेम सूनुस्नेहं तरुषु वृक्षेषु संक्रमय्य संक्रमणं कृत्वा, यास्तपस्विजनोचितास्तपस्विजनयोग्याः क्रिया अनुष्ठानविशेषाः कुर्वन्विदधन्गन्धर्वलोकस्योचितान्योग्यानहरहः प्रतिदिनं कथंकथमपि महता कष्टेन समुत्सृष्टलज्जया त्यक्तत्रपया विगतलज्जया कादम्बर्या महाश्वेतया च क्रियमाणान्विधीयमानानुपचारान्भक्तिप्रकाराननिच्छन्नवाञ्छननभिलषन्नविच्छेदादव्यवधानात्सायं प्रातश्चानुभूतं चन्द्रापीडदर्शनसुखं येनैवंभूतो नरपतिस्तारापीडो दुःखान्यगणयनजानन्सपरिवारः सपरिजनः सपरिस्कन्दः समं देव्या विलासवत्या शुकनासेन मन्त्रिणा च तत्र तस्मिन्स्थलेस्थानेऽतिष्ठत् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 'याः' इत्यपपाठः, तत्पदसापेक्षत्वात् । तस्मात् 'तथा तपस्विजनोचिताः क्रियाः कुर्वन्' इत्युचितः पाठः 1 2 'विशेषान् इति द्वितीया योग्या । 3 'समुत्सृष्टलज्जया' इति विशेषणं केवलं महाचेताया एव, 'हा हतास्मी त्यादिना तस्या एव गुहाप्रवेशस्य वर्णितत्वात् ।
पाठा० - १ मुक्तशेषेण. २ शरीरकेण. ३ तस्य. ४ प्रार्थनीयाः. ५ उपयोगसुखानि. ६ च वन्यानि तपोवनदुःखानि च. ७ तत्र. ८ अक्षसूत्रे. ९ परलोके. १० यथा; तथा.
10
तारापीडस्य परिशमः
उत्तरभागः।
(671)
Page #199
--------------------------------------------------------------------------
________________
इत्येवं च कथयित्वा भगवाञ्जाबालिर्जराभिभवविच्छायं स्मितं कृत्वा हारीतप्रमुखान्सर्वानेव तापसाञ्छ्रावकानवादीत् - 'दृष्टमायुष्मद्भिरिदमन्तःकरणापहारिणः कथारसस्याक्षेपसामर्थ्यम्, यत्कथयितुं प्रवृतोऽस्मि तत्परित्यज्यैव कथारसात्कथयन्नतिदूरमतिक्रान्तोऽस्मि । तद्यः स कामोपहतचेताः स्वयंकृतादेवाविनयाद्दिव्यलोकतः परिभ्रश्यन्मर्त्यलोके वैशम्पायननामा शुकनाससूनुरभवत्, स एवैष पुनः स्वयंकृतेनाविनयेन कोपितस्य पितुराक्रोशान्महाश्वेताकृताच्च सत्याधिष्ठानादस्यां शुकजातौ पतितः
इत्येवं वदत्येव भगवति जाबालौ बाल्येऽपि मे सुप्तप्रबुद्धस्येव पूर्वजन्मान्तरोपात्ताः समस्ता एव विद्या जिह्वाग्रे - भवन् । सकलासु च कलासु कौशलमुपजातम् । उपदेशाय मनुजस्येव चेयं विस्पष्टवर्णाभिधाना भारती च संवृत्ता । विज्ञानं च सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना । मनुष्यशरीरादृते सर्वमन्यत्तत्क्षणमेव मे (संवृत्तम् ।) वैशम्पायनस्य स एव चन्द्रापीडस्योपरि स्नेहः, सैव कॉमपरवशता, स एव महाश्वेतायामनुरागः, -
***********
इत्येवं च कथयित्वाख्याय भगवाजाबालिर्जराया अभिभवेन विससापराभवेन विच्छायं वैलक्ष्यं स्मितं हास्यं कृत्वा हारीतकप्रमुखान्, सर्वानेव तापसाश्रावकानवादीदब्रवीत् । आयुष्मद्भिरिदमन्तःकरणं मनोऽपहरतीत्येवंशीलः स तथा तस्य कथायाः प्रबन्धस्य रसस्तस्याक्षेप आकर्षस्तस्य सामर्थ्य बलं दृष्टम् । यदिति हेत्वर्थे । कथयितुं वक्तुं प्रवृत्तो वक्तुमुधुक्तोऽस्मि । तत्परित्यज्यैव विहायैव कथारसात्कथयन्ब्रुवन्नतिदूरमतिदविष्ठमतिक्रान्तोऽतिवाहितोऽस्मि । तत्तस्मात्कारणाद्यः कामेन कंदर्पणोपहतं पीडितं चेतो यस्य सः स्वयंकृतादेव स्वाचीदिवाविनयाप्रातिकूल्यादिव्यलोकतः सुरसद्मतः परिभ्रश्यन्निपतन्मर्त्यलोके मनुष्यलोके वैशम्पायननामा शुकनाससूनुरभवत् । स एवैष वैशम्पायनः . स्वयंकृतेनात्मना विहितेनाविनयेन कोपितस्य रोषितस्य पितुर्जनकस्याक्रोशादाक्षेपात्कठिनवचनान्महाश्वेता गन्धर्वपुत्री तया कृताद्विहिताच्च सत्यं सूनृतमेवाधिष्ठानमाश्रयो यस्यैवंभूताच्छापाच्चास्यां शुकजातौ पतितः सस्तः । अवतीर्ण इत्यर्थः ।
इत्येवं वदति ब्रुवत्येव भगवति जाबालौ बाल्येऽपि शैशवेऽपि सुप्तः शयितः पश्चाप्रबुद्धो जागरितस्तस्येव पूर्वजन्मनि भवान्तर उपात्ता गृहीताः समस्ताः समग्रा एव विद्याः सकला एव विद्याश्चतुर्दश जिह्वाग्रे रसनाग्रेऽभवन्बभूवुः । सकलासु समग्रासु च कलासु विज्ञानेषु कौशलं दक्षत्वमुपजातं संभूतम् । उपदेशाय कथनाय मनुजस्येव मनुष्यस्येव चेयं विस्पष्टवर्णाभिधाना प्रकटवर्णाभिधाना प्रकटाक्षरनाम्नी भारती सरस्वती च संवृत्ता संजाता । सर्ववस्तुविषयं स्मरणं च संवृत्तम् । किं बहुना कथितेन । मनुष्यशरीरादृते मनुष्यशरीरं विहाय नरविग्रहं त्यक्त्वान्यदपरं सर्वमेव तत्क्षणमेव तत्समयमेव वैशम्पायनस्योपनतम् । स एव चन्द्रापीडस्योपरि स्नेहश्चन्द्रापीडस्योपरि प्रेम, सैव पूर्वानुभूतैव कामपरवशता मदनायत्तता कंदर्पपरवशता, स एव पूर्वप्रतिपादित एव - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 विगता छाया कान्तिर्यस्य तादृशम् । 2 शुकनासस्य, दृश्यतां चन्द्रापीडोपगमे शुकनासस्य कोपावेशो यस्तारापीडेनोपशमितः । 3 'सत्याभिध्यानात्' इत्येव पाठः । सत्यमभभिध्यानं च 'हे भगवन्, यदि मया देवस्य पुण्डरीकस्य दर्शनाप्रभृति मनसा नापरः पुमांश्चिन्तितस्तदाऽयमलीककामी मदुदीरितायामेव जातौ पततु' इति पूर्वोक्तम् । 4 प्रकटाक्षरेति न तस्या नाम ! प्रकटाक्षरम् (सुस्पष्टानि अक्षराणि यस्मिन्) अभिधानं कथनं यस्यामीदृशी (वाणी) इत्यर्थः । 5 'सर्वमन्यत्तत्क्षणमेव मे संवृत्तम्' इत्युचितः पाठः ।
पाठा० - १ एवम्. २ जाबालिः. ३ तान्. ४ तदयं सः. ५ अभूत; उत्पन्नः. ६ स एव; स एष. ७ सत्याभिध्यानात्. ८ उपदेशकौशलम्. ९ मनुजस्येव. १० इयं. ११ संपना. १२ बहुबस्तु; यत्सर्ववस्तु. १३ वैशम्पायनस्यैव. १४ कामपरता.
(672
कादम्बरी।
कथायाम
Page #200
--------------------------------------------------------------------------
________________
सैव तदवाप्तिं प्रत्युत्सुकतेत्युपगतं सकलमेव । केवलमसंजातपक्षतया मे तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा नासीत् । तथा चाविभूतसकलान्यजन्मवृत्तान्तः समुत्सुकान्तरात्मा किं मातापित्रोः, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य चन्द्रापीडस्य, उत प्रथमसुहृदः कपिजलस्य, आहोस्विन्महाश्वेताया इति. नाज्ञासिषमेवं कस्य कस्य कथं वा स्मृतवानस्मीति । तथा चोत्सुकान्तरात्मा महीतलनिवेशितशिराश्चिरमिव स्थित्वा भगवन्तं जाबालिं निजाविनयश्रवणलज्जया विलीयमान इव विशन्निव पातालतलं कथमपि शनैःशनैर्व्यज्ञपयम् - 'भगवन्, त्वत्प्रसादादाविर्भूतज्ञानोऽस्मि संवृत्तः । स्मृताः खलु मया सर्व एव पूर्वबान्धवाः । मूढतायां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि । अधुना पुनस्तान्स्मृत्वा स्फुटतीव मे हृदयम् । न च तान्स्मृत्वापि तथा, यथा चन्द्रापीडम्, यस्य मदुपरतिश्रवणमात्रकात्स्फुटितं हृदयम् । तत्तस्यापि जन्माख्यानेन प्रसादं करोतु भगवान् । येनायं तिर्यग्योनिवासोऽपि मे तेन सहैकत्र वसतो न पीडाकरः संजायते इति ।
***********
प्रथमप्रतिपादित एव महाश्वेतायामनुरागोऽनुरतिरनु पश्चात्प्रेम, सैव तस्या महाचेताया अवाप्तिं प्राप्तिं प्रत्युत्सुकतौत्सुक्यमिति सकलमेव समग्रमेवोपगतं प्राप्तम् । असंजातपक्षतयाऽप्रादुर्भूतवाजतया मे मम तस्मिन्समये पूर्वजन्मोपात्ता शरीरचेष्टा चलनादिका नासीत्राभवत् । तथा चाविर्भूतः प्रकटीभूतः प्रादुर्भूतः सकलः समस्तोऽन्यजन्मवृत्तान्तो भवान्तरोदन्तो यस्यैवंभूतः समुत्सुकान्तरात्मोत्कण्ठितान्तरात्मा किं शुकनासमनोरमयोर्मातापित्रोः, किं तातस्य तारापीडस्य, किमम्बाया विलासवत्याः, किं वयस्यस्य मित्रस्य चन्द्रापीडस्य, उत प्रथमसुहृद आद्यमित्रस्य कपिजलस्य आहोस्विन्महाचेताया इत्येवं कस्य कस्यैतन्मध्यवर्तिनः कथं वा केन प्रकारेण वा स्मृतवानस्मि स्मरणं कृतवानस्मीति नाज्ञासिषं नावबोधिषम् । तथा चोत्सुकान्तरात्मा महीतले पृथ्वीतले निवेशितं शिरो येन स चिरमिव बहुकालमिव स्थित्वास्थाय भगवन्तं जाबालिं निजस्य स्वस्याविनयस्य श्रवणमाकर्णनं तस्माद्या लज्जा त्रपा तया विलीयमान इव लीनतामापाद्यमान इव पातालतलं रसातलं विशनिव प्रवेश कुर्वनिव कथंकथमपि महता कष्टेन शनैःशनैर्व्यज्ञपयं विज्ञप्तिमकार्षम् । हे भगवन्, त्वत्प्रसादात्त्वदनुग्रहादाविर्भूतं प्रकटीभूतं ज्ञानं यस्यैवंभूतोऽहं संवृत्तो निष्पन्नोऽस्मि । खलु निश्चयेन मया सर्व एव पूर्वबान्धवाः स्मृताः प्रथमस्वजनाः स्मृताः स्मरणविषयीकृताः । मूढतायां मूर्खतायामज्ञानतायां च यथैव तेषां स्मरणं नासीत्तथैव विरहपीडापि वियोगबाधापि नासीत् । अधुना पुनस्तान्पूर्वोक्तान्स्मृत्वा मे मम हृदयं वक्षः स्फुटतीव स्फोटं प्राप्नोतीव । नच तान् मत्पूर्वबान्धवान् स्मृत्वापि स्मरणविषयत्वेऽपि तथा । स्फुटतीति शेषः । यथा चन्द्रापीडं । स्मृत्वेति योज्यम् । यस्य चन्द्रापीडस्य मदुपरतिश्रवणमात्रकात् मत्संबन्धिनी या उपरतिः स्नेहोपरमस्तस्याः केवलश्रवणेनैव हृदयमन्तःकरणं स्फुटितं शकलायितम् । तत्तस्मात्कारणात्तस्यापि चन्द्रापीडस्यापि जन्माख्यानेन भवान्तरकथनेन भगवान्प्रसादमनुग्रहं करोतु विदधातु । येन कारणेनायं तिर्यग्योनिवासोऽपि मे मम तेन सहैकत्रैकस्मिन्स्थले वसतो न पीडाकरो न व्यथाकृत्संजायते भवतीति ।
-
-
-
-
-
-
-
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 सर्वत्र मातुः स्मरतीतिवत् शेषे षष्ठी । 2 मम उपरतिः मृत्युः तस्य श्रवणमात्रकात्, इत्यर्थः ।
पाठा० - १ कस्य कथं वा; कस्य कस्य कथं कथं वा. २ च मे. ३ स्मृत्वा स्मृत्वा. ४ तथान्यत्. ५ मात्रात्. ६ दयां करोतु भगवांस्तस्यापि जन्माख्यानप्रसादप्रदानेन.
चन्द्रापीडादीनां जन्मप्रश्नः
उत्तरभागः।
Page #201
--------------------------------------------------------------------------
________________
एवं च विज्ञापितो मया सासूयमिव मामवलोक्य भगवाजाबालिः सस्नेहकोपग प्रत्यवादीत् - 'दुरात्मन्, ययैतावती दशामुपनीतोऽसि कथं तामेव तरलहृदयतामनुबध्नासि । अद्यापि पेक्षावपि नोद्भिद्यते । तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि' इत्येवमुक्ते भगवता, समुपजातकुतूहलो हारीतः पप्रच्छ - 'तात, महानयं विस्मयो मे । कथय कथमस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता ? यया जीवितमपि न संधारयितुं पारितम् । कथं च दिव्यलोकसंभूतस्य तथा स्वल्पमायुः संवृत्तम् ? इत्येवं च पृष्टः सूनुना भगवाजाबालिरमलाभिः पापमलमिव प्रेक्षालयन्दशनदीधितिसलिलधाराभिः प्रत्यवादीत् - 'स्पष्टमेवात्र कारणम् । वत्स, अयं हि कामरागमोहमयादल्पसारात्स्त्रीवीर्यादेव केवलादुत्पन्नः । श्रुतौ च पठ्यत एतद्यादृशाद्वै जायते तादृगेव भवतीति । लोकेऽपि च प्रायः कारणगुणभाज्येव कार्याणि दृश्यन्ते । तथा चैतदायुर्वेदेऽपि श्रूयते - यः किलाल्पसारास्त्रीवीर्यादेव केवलाजन्तुर्भवति स खल्वभावात्सारभूतस्य स्थैर्यहेतोः पुरुषवीर्यस्य, यथासारं गर्भे वा विलयमापद्यते, मृतो वा जायते, जातो वा न दीर्घकालं जीवतीति । तदयमुत्पन्न एवेदृशो येनास्य तादृशी -
***********
एवं च विज्ञापितो मया सासूयमिव सेय॑मिव मामवलोक्य निरीक्ष्य वीक्ष्य भगवाजाबालिः सह लेहेन वर्तते यत्तत्सरोह कोपगर्भं च सस्नेहकोपग प्रत्यवादीप्रत्यब्रवीत् - हे दुरात्मन् हे दुष्टात्मन्, ययैतावती दशामवस्थां त्वमुपनीतः प्रापितोऽसि कथं तामेव तरलहृदयतां चञ्चलचित्ततामनुबध्नासि करोषि । अद्यापि पक्षावपि वाजावपि नोद्भिद्यते नोद्गच्छतः । तत्तस्मात्कारणात्संचरणक्षमस्तु गमनसमर्थस्तु तावद्भव । ततस्तदनन्तरं मां प्रक्ष्यसि प्रश्नयिष्यसि । इत्येवं भगवतोक्ते कथिते समुपजातं कुतूहलमाश्चर्यं यस्यैवंभूतो हारीतः पप्रच्छ प्रश्नमकार्षीत् ।। हे तात हे पितः, महानयं मे मम विस्मयो वर्तते । अस्य पुण्डरीकस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता कंदर्पपरवशता जाता । तत्कथय कथम् । यया कामपरतया जीवितमपि संधारयितुं धर्तुं न पारितं न शक्तम् । कथं च दिव्यलोके संभूतस्य तथा स्वल्पमायुः स्तोकमायुः संवृत्तम् । इत्येवं पृष्टश्च सूनुना भगवाजाबालिरमलाभिर्निर्मलाभिर्दशनदीधितिसलिलधाराभी रदनकान्तिधाराभिः पापमलमिव प्रक्षालयन्नुज्ज्वलीकुर्वन्प्रत्यवादीप्रत्यब्रवीत् । किं तदित्याह - स्पष्टमिति । अत्र कारणं निदानं स्पष्टमेव प्रकटमेव । हे वत्स हे पुत्र, अयं हि पुण्डरीकः कामरागो रताभिलाषो मोहो मौढ्यं ताभ्यां निष्पन्नस्तन्मयस्तस्मादल्पसारादल्पबलात्स्त्रीवीयदिव केवलात्पुरुषवीर्यासंभिन्नादुत्पन्नः प्रादुर्भूतः प्रकटीभूतः, तत्पूर्वखण्डे व्याख्यातमेव नेहोच्यते । इत्येतच्छ्रुतौ च वेदे च पठ्यते भण्यते । तदेवाह - यादृशादिति । यादृशादै निश्चयेन जायते उत्पद्यते तादृगेव तादृश एव भवत्युत्पद्यते । लोकेऽपि च प्रायो बाहुल्येन न सर्वत्र, कारणं समवायिकारणमिह गृह्यते न निमित्तकारणं व्यभिचारात्तस्य गुणाः शुक्लादयस्तान्भजन्तीत्येवंशीलानि कार्याणि जन्यानि दृश्यन्तेऽवलोक्यन्ते । तथा चैतदायुर्वेदेऽपि वैद्यकशास्त्रेऽपि श्रूयत आकर्ण्यते । किलेत्याप्तवचने । योऽल्पसारास्त्रीवीयर्यादव केवलाजन्तुः प्राणी संभवत्युत्पद्यते स खल्विति पूर्ववत् निश्चये वा । सारभूतस्य बलभूतस्य स्थैर्यहेतोः स्थिरताकारणस्य पुरुषवीर्यस्याभावात् यथासारं यथाबलं स्यात् । गर्भे वा विलयं विलीनतामापद्यते, मृतो वा जायते, जातो वोत्पन्नो वा न दीर्घकालं बहुकालं जीवति प्राणिति । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'पापमलमिव प्रक्षालयन्मे इत्युचितः पाठः । 'मे' इत्यस्याऽऽवश्यकता च, अन्यथा कस्य तत्र पापप्रक्षालनम् ? 2 तात्पर्यमत्र ग्राह्यं सहृदयैः । 3 यथासारं सारानुसारं गर्भे विलयमापद्यत इत्यर्थः ।
पाठा० - १ हृदयतरलताम्. २ पक्षावेव. ३ मे प्रक्षालयन्. ४ यादृशात्. ५ चेति. ६ गर्भे.
lllllllllllll
(674
कादम्बरी।
कथायाम्
Page #202
--------------------------------------------------------------------------
________________
कामपरता जाता । मरणं च मदनवेगसंज्वरासहिष्णोस्तथोपनतम् । अधुनापि तादृश एवाल्पायुरयम् । शापावसानानन्तरकालं यदस्याक्षयेणायुषा योगो भविष्यति' इति ।
एतच्छ्रुत्वा पुनरवनितलनिवेशितशिराः प्रणम्य भगवन्तं व्यज्ञापयम् - 'भगवन्, अहमपुण्यवानस्यां तिर्यग्योनौ वर्तमानः स्वयं सर्वस्यैवाक्षमः । वागपि मे भगवतः प्रसादात्संप्रत्येवानने संभूता । भूतपूर्वं च ज्ञानमन्तरात्मनि । शरीरं पुनरायुःसंवर्धककर्मयोग्यं भगवतः प्रसादादन्यस्मिञ्जन्मनि यदि भवेत्, तत्केन प्रकारेणाक्षयं तन्मे महाकर्मसाध्यमाविर्भविष्यतीत्येतदाज्ञापयतु भगवान्' इत्येवं विज्ञापितस्तु मया, दिक्षु विक्षिप्य चक्षुर्भगवानाज्ञापितवान् ‘एतदपि यथा, तथा ज्ञास्यस्येव । तावदियं कथास्ताम् । रसाक्षेपादचेतितैवास्माभिः प्रभातप्राया रजनी । प्रभाविरहादनुन्म॒ष्टरजतकुंम्भाभमिदर्मपरान्तावलम्बि वर्तते रजनिकरबिम्बम् । यथायथोद्गमविस्तारिणी जरत्तामरसपत्रारुणा पाण्डुच्छविरुल्लसति सीमन्तयन्ती तमःकेशसंघातमिव पूर्वस्याः ककुभोऽरुणाग्रकरालोकततिः । इमाः सशेषतिमिरत -
***********
तत्तस्मात्कारणादयमीदृश एवोत्पन्नो येन कारणेनास्य पुण्डरीकस्य तादृशी कामपरता मदनायत्तता जाता । मरणं च मृत्युं च मदनवेगात्कदर्परयायः संज्वरः संतापस्तस्यासहिष्णोरसहनशीलस्य तथाप्रकारेणोपनतं प्राप्तम् । अधुनापि सांप्रतमपि तादृश एव तथावस्थ एवायं शुकोऽल्पायुः स्वल्पजीवितः । शापस्यावसानं प्रान्तस्तस्मादनन्तरं कालमव्यवहितकालं यदस्याक्षयेणायुषा सह योगो भविष्यतीति ।
एतच्छ्रुत्वा पुनरवनितलनिवेशितशिरा भगवन्तं प्रणम्य व्यज्ञापयं विज्ञप्तिं कृतवान्विज्ञप्तिं चकार अहम् । किं तदित्याह - भगवनिति । हे भगवन्, अहं त्वपुण्यवान् । अस्यां तिर्यग्योनौ वर्तमानः स्वयमात्मना सर्वस्यैव कार्यस्याक्षमोऽसमर्थः । वागपि वाचापि मे मम भगवासादात्संप्रत्येव सांप्रतमेवानने संभूता जाता । पूर्वं भूतं भूतपूर्वं क्वचिदमान्यं तस्य परत्वमिति पूर्वशब्दस्य परप्रयोगः । एतादृशं ज्ञानमन्तरात्मनि संभूतम् । शरीरं पुनरायुषः संवर्धकानि यानि कर्माणि कृत्यानि तेषु योग्यं समर्थं भगवतः प्रसादान्माहात्म्यादन्यस्मिञ्जन्मनि यदि भवेत्स्यात्तत्तस्मात्कारणान्मे मम महाकर्मभिः साध्यं महाकर्माणि साध्यानि यस्मिन्निति वा आयुर्जीवितं केन प्रकारेणाक्षयं भविष्यतीत्येतदाज्ञापयतु कथयतु भगवान् । इत्येवं मया विज्ञापितो विज्ञप्तिविषयीकृतः । तु पुनरर्थे । दिक्षु चक्षुर्विक्षिप्य प्रेर्य भगवानाज्ञापितवान् । किं तदित्याह - एतदिति । एतदपि त्वदुक्तमपि यथा वर्तते तथा त्वं ज्ञास्यस्येवाग्रे, त्वया ज्ञातं भविष्यत्येव । इयं कथा तावदास्तां तिष्ठतु । रसाक्षेपाद्रसाकर्षादस्माभिः प्रभातप्राया रजनी निशाऽचेतितैवाज्ञातैव । प्रभाविरहाद्युतेविरहात्कान्तेरभावादनुन्मृष्टोऽसमार्जितो न स्फोटितो यो रजतकुम्भो रौप्यघटस्तद्वदाभा श्रीर्यस्य तत्तथा । 'आभा राढा विभूषा श्रीः' इति हैमः । इदमपरान्तावलम्बि पश्चिमान्तावलम्बि पश्चिमाशावलम्बि रजनिकरबिम्ब निशाकप्रतिबिम्ब शशाङ्कमण्डलं वर्तते । यथायथमिति । यथा च यथा च यथायथम् । 'नित्यवीप्सयोः' इति द्वित्वम् । यथाप्रकारमुद्गमेनोदयेन विस्तारिणी विस्तरणशीला जरत्पक्वं परिपक्वं यत्तामरसं पद्मम् । रक्तकमलमित्यर्थः । तस्य पत्राणि दलानि पनि तद्वदरुणा रक्ता आ ईषत्पाण्डुच्छविः । 'रक्तोत्पलं तामरसम्' इति हैमः । पूर्वस्याः ककुभ एन्त्र्या दिशस्तमोलक्षणं केशसंघातमलकसमूह सीमन्तयन्तीव सीमन्तं कुर्वन्तीवोल्लसत्युल्लासं प्राप्नोति । अरुणस्य रविसारथिनोऽग्रकरा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 कस्य अपरान्तम् ? इति सापेक्षमेव । अतः 'अपराम्बरान्तावलम्बि (पश्चिमाकाशविलम्बि) इति पाठो योग्यः ।
पाठा० - १ उपगतम्. २ अस्य. ३ संवर्धनीयम्. ४ अस्मिन्. ५ केनचित्. ६ आस्तां तावदियं कथा. ७ उन्मृष्ट. ८ दर्पणाभम्. ९ अम्बरान्तरावलम्बि. अपराम्भरान्तावलम्बि. १० यथायथोद्गमन. ११ आलोकवर्ति; आलोकान्तरिताः.
(पुनः पूर्वावस्थाप्राप्तिप्रश्नः
उत्तरभागः।
Page #203
--------------------------------------------------------------------------
________________
याम्बराकाण्डकलुषं भास्वत्प्रभालोकमारब्धाः क्रमेण यथासूक्ष्मं तारकाः प्रवेष्टुम् । एष पम्पासरःशायिनां प्रबोधाशंसी समुच्चरति कोलाहलः श्रोत्रहारी विहंगमानाम् । एते च निशीथिनीपरिमलशीतलाश्चलितवनकुसुमपरिमलग्राहिणो वातुं प्रवृत्ताः । प्रभातपिशुना वायवः । प्रत्यासन्नाग्निविहारवेला' इत्यभिदधान एव गोष्ठी भक्त्वोदतिष्ठत् ।
अथोत्थिते भगवति जाबालौ वीतरागापि निष्कौतुकापि मोक्षमार्गावस्थानापि समस्तैव सा तपस्विपरिषत्कथारसाद्विस्मृतगुरूचितप्रतिपत्तिः शृण्वतीवोत्कण्ठिततया विस्मयोत्फुल्लमुखी -
***********
णामालोकः प्रकाशस्तस्य ततिः पङ्क्तिः । श्रेणिरित्यर्थः । 'राजितेखा ततिर्वीथिः' इति हैमः । इमाः प्रत्यक्षदृश्याः सह शेषेण वर्तते तत्सशेषम् । स्वल्पमित्यर्थः । एतादृशं यत्तिमिरं ध्वान्तं तस्य भावस्तत्ता तयाम्बरे व्योम्न्याकाशेऽकाण्डकलुषमप्रस्तावमलिनमसमयमलिन भास्वाभालोक सूर्यदीप्तिप्रकाशं सहसदीधितिकान्ति उद्योतं तारकास्ताराः क्रमेण यथासूक्ष्मं सूक्ष्मं यथा स्यात्तथा प्रवेष्टुं प्रवेशं कर्तुमारब्धाः प्रारब्धा आरम्भं कृतवत्यः । एषोऽसौ पम्पाभिधानं सरः पम्पा नाम सरोवरं तत्र तस्मिशायिनां सुप्तानां विहंगमानां पक्षिणां श्रोत्रयोः कर्णयोर्हारी मनोहरः, प्रबोधो विनिद्रत्वं तदाशंसति कथयतीत्येवंशीलः स तथैवंविधः कोलाहलः कलकलः समुच्चरति सम्यक्प्रसरति विस्तरति । एते च प्रत्यक्षगम्या निशीथिन्यां त्रियामायां परिगतो मलो यस्मात्स परिमलोऽङ्गरागस्तेन शीतलाः शिशिराः । माघकाव्य उक्तमस्ति - 'नवपरिमलगन्धः केन शक्यो वरीतुम्' इत्यत्र परिमलशब्देनाङ्गराग एव विवक्षितः । अन्यथा गन्धशब्दस्य वैयर्थ्यं स्यात् । चलितानि कम्पितानि यानि वनानि तेषां कुसुमानां परिमलो गन्धस्तं गृह्णन्तीत्येवंशीलास्ते तथा प्रभातस्य प्रत्यूषस्य पिशुनाः सूचका एवंविधा वायवः पवनाः समीरणा वातुं यातुं प्रवृत्ताः प्रवर्तितवन्तः । 'व्युष्टं विभातं प्रत्यूषम् इति हैमः । प्रत्यासना समीपवर्तिनी निकटस्थायिनी । पदैकदेशे पदसमुदायोपचारात् अग्निशब्देनाग्निहोत्रं तत्र विहारो विहरणम् । गमनमिति यावत् । तस्य वेलावसरः प्रस्तावसमयः । 'वेला वारामवसरे' इति कोशः । इत्यभिदधान एवेतिब्रुवाण एव गोष्ठी श्रवणार्थमिलितजनसमूहात्मिकां भक्त्वा दूरीकृत्योदतिष्ठदुत्थितो बभूव । 'समज्या परिषद्गोष्ठी सभासमितिसंसदः' इत्यमरः ।
अथोत्थिते भगवति जाबालौ वीतरागापि नीरागापि निष्कौतुकापि विगतकुतूहलापि गताश्चर्यापि मोक्षमार्गे निर्वाणमार्गेऽवस्थानमवस्थितिर्यस्या एवंविधाप्येतादृश्यपि समस्तैव सर्वापि तपस्विपरिषन्मुनिजनसभा कथाया वार्ताया रसाद्विस्मृता विस्मरणं प्राप्ता । गुरावुचिता योग्या प्रतिपत्तिः सेवा यस्याः सा तथा । श्रृण्वतीवाकर्णयन्तीवोत्कण्ठिततया रणरणकतया विस्मयेनाश्चर्येणोत्फुल्लं विकसितं मुखं यस्याः सा तथा । युगपदेकवारमा - - टिप्प० - 1 अरुणा सूर्यस्याऽऽलोकराजिः तमोरूपं केशसंचयं सीमन्तयन्तीव (सीमान्त (केशपाश) रूपे परिणमयन्तीव) उल्लसतीत्यर्थः । वास्तवे तु भागद्वयविभाजितस्य केशपाशस्य मध्यवर्तिनी रेखा सीमन्तः । अत एव हि तत्र सिन्दूरारुणतास्पर्शाय तामरसपत्रारुणेति विशेषणम् । एवं सत्त्वे-तमः केशसंघात सीमन्तयन्तीति कवेरुक्तिः - तमःकेशपाशं (प्रति) सीमन्तयन्ती (सीमन्तमिवात्मानमाचरन्ती) इति यथा कथंचित्संगमनीया स्यादिति मार्मिकैर्विमृश्यम् । 2 अकाण्डे कलुषो भास्वत्प्रभालोकः ? किमिति ? 'अम्बरैककाण्डपटकलुषम् इति पाठः । ततश्च - तिमिरावशेषसहिततया अम्बरस्य (आकाशस्य) एककाण्डपट (तिरस्करिणी) वत् कलुषो (मलिनो) यः सूर्यप्रभालोकः तं तारकाः यथासूक्ष्मं प्रवेष्टुमारब्धाः । किञ्चिदन्धकारसहिते सूर्यालोके स्वल्पप्रकाश प्रथम, ततः परमधिकप्रकाशमिति क्रमेण नक्षत्राण्यदृश्यान्यभवन्नित्याशयः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अङ्ककलुषम्; एककाण्डपटकलुषम्. २ परिमलने; परिमलम्. ३ विहरण. ४ निष्कामुकापि. ५. उत्कण्टकिततया; उत्कण्टकितकाया.
प
(676
कादम्बरी।
कथायाम्
Page #204
--------------------------------------------------------------------------
________________
युगपदागलितशोकानन्दजन्मनयनसलिला हाकष्टशब्दानुबन्धिनी स्तम्भितेव चिरमिव स्थित्वा यथास्थानं जगाम । हारीतस्तु मां संनिहितेऽपि मुनिकुमारकजने निजकरेणैवोत्क्षिप्यात्मपर्णशालां नीत्वा शनैः शनैःस्वशयनीयैकदेशे स्थापयित्वा प्राभातिकक्रियाकरणाय निर्ययौ ।
निर्गते च तस्मिंस्तेन सर्वकार्याक्षमेण तिर्योतिपतनेन देहेन पीडितान्तरात्मा चिन्ता प्राविशम् । अत्र तावदनेकभवसुकृतसहसाधिगम्यं मानुष्यमेव दुर्लभम् । तत्राप्यपरं सकलजातिविशिष्टं ब्राह्मण्यम् । ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्यापि विशेषान्तरं किमपि दिव्यलोकनिवासित्वम् । तद्ये नैतावतः स्थानात्स्वदोषैरात्मा पातितस्तेन कथमधुना सर्वक्रियाविहीनेनास्यास्तिर्यग्जातेः समुद्धतः स्यात् । कथं वा पूर्वजन्माहितस्नेहैः सह समागमसुखमनुभूतम् । अननुभवतश्च तन्निष्प्रयोजनेनामुना जीवितेन किं मे परिरक्षितेन । पततु यत्र तत्र क्वापि यातनाशरीरम् । सुखं तु नानुभवितव्यममुना दुःखैकभाजनेन । तत्परित्यजाम्येनम् । पूर्यतामस्मद्व्यसनदानैकचिन्तादुःस्थितस्य विधेर्मनोरथः' इत्येवं च जीवि -
***********
गलितं पतितं शोकानन्दाभ्यां जन्म यस्यैवंभूतं नयनसलिलं यस्याः सा तथा । हाकष्टमिति यः शब्दस्तमनुबन्धितुं शीलं यस्याः सा तथा स्तम्भितेव कीलितेव चिरमिव स्थित्वा बहुकालमिव स्थित्वा यथास्थानं यथास्थलं जगामागमत् । हारीतस्तु मां मुनिकुमारकजने तापसशिशुजने संनिहितेऽपि समीपवर्तिन्यपि सति निजकरेणैवात्मपाणिनेवोत्क्षिप्योत्पाट्यात्मपर्णशाला स्वकीयतृणकुटी नीत्वा प्रापय्य शनैः शनैर्मन्दं मन्दं शयनीयस्य शय्याया एकदेशेन्यतरप्रदेशे स्थापयित्वा संस्थाप्य प्राभातिकक्रियाकरणाय प्रत्यूषविधिविधानाय निर्ययौ निरगात् ।
तस्मिन्हारीतमुनौ निर्गते च सति तेन सर्वाणि समग्राणि यानि कार्याणि कृत्यानि तेष्वक्षमेणासमर्थेन तिर्यग्जातिपतनेन पक्षिजात्यन्तर्गतेन देहेन विग्रहेण शरीरेण पीडितोऽन्तरात्मा यस्यैवंभूतोऽहं चिन्तामार्तिं प्राविशं प्रविष्टोऽभूवम् । अत्रेति । अस्मिल्लोके तावदादावनेकभवानामसंख्यजन्मनां सुकृतसहसैः पुण्यसहसैरधिगम्यं प्राप्यमेवंविधं मानुष्यमेव मनुजत्वमेव मनुष्यत्वं दुर्लभं दुष्प्रापम् । तत्रापि मनुष्यत्वेऽप्यपरमन्यत्सकलजातिषु समग्रवर्णेषु विशिष्टं विशेषेणाधिकं ब्राहाण्यं ब्राह्मणत्वं सारमधिकतरम् । ततोऽपि ब्राह्मण्यतोऽप्यतिशयेन विशिष्टं श्रेष्ठ विशिष्टतरं किंचिदाधिक्यमासनं समीपवर्ति निकटवर्त्यमृतपदं मोक्षपदम् । 'महानन्दोऽमृतं सिद्धिः' इति हैमः । यस्मिन्नेतादृशं मुनित्वं यतित्वमधिकतरम् । तस्यापि मुनित्वस्यापि यतित्वस्यापि किमपि विशेषान्तरं किंचिदाधिक्यं दिव्यलोकनिवासित्वं स्वर्गलोकस्थायित्वम् । तत्तस्मात्कारणायेनैतावतः पूर्वोक्तस्थानात्स्वदोषैर्निजदूषणैरात्मा पातितस्तेन मया सर्वाः समग्राः क्रियाः स्नानादिकास्ताभिर्विहीनेन रहितेनाधुना सांप्रतमिदानीमस्यास्तिर्यग्जातेः कथमात्मा समुद्धृत उद्धारं प्रापितः । स्यादिति शेषः । पूर्वजन्मनि पूर्वभवे गतजन्मन्याहितः स्थापितः स्नेहः प्रीतिर्येषु तैः सह समागमसुखं मेलापकसौख्यं कथमनुभूतं साक्षात्कृतम् । भवतीति शेषः । तत्समागमसुखमननुभूतवतः साक्षादकृतवतश्च मे मम निष्प्रयोजनेन निरर्थकेनामुना जीवितेन परिरक्षितेन किम् । न किंचिदित्यर्थः । यत्र तत्र क्वापीदं यातनाशरीरम् । 'यातना नरकवेदना' इति हैमः । नरकदेहम् । तीव्रवेदनाक्षममित्यर्थः । पततु पतनं करोतु । सुखं तु नानुभवितव्यममुनानेन दुःखस्य कष्टस्यैकभाजनेनैकपात्रेण शरीरेण । अत एतत् शरीरं परित्यजामि मुञ्चामि । अस्माकं व्यसनदानं कष्टप्रदानं तस्यैकाद्वितीया या चिन्ता तया दुःस्थितस्य दुःखितस्य विधेर्विधातुर्मनोरथोऽभिलाषः । पूर्यता परिपूर्णीभूयताम् । चेत्येवं इत्येवं प्रकारेण या जीवित -
-- - टिप्प० . 1 अत्रः 'तिर्यग्रजातिपतितेन' इत्युचितः पाठः । 2 'स्यात्' इत्येव पूर्वानुषङ्गः ।
-
-
-
-
-
-
-
पाटा० - १ अनुबन्धिनी पराधीनेव. २ वेदिदेशे. ३ तीर्यग्जातिपतितेन. ४ परम्. ५ तत्रापि. ६ तत्रापरत्र क्यापि यातु यत्र शरीरम्.
(गोष्ठी भङ्क्त्वा जाबालेरुत्थानम्
उत्तरभागः।
677
Page #205
--------------------------------------------------------------------------
________________
तपरित्यागचिन्तानिमीलितं मां समुच्छासयन्निव विकासहासिना मुखेन सहसा प्रविश्य हारीतोऽभ्यधात् - 'भ्रातर्देशम्पायन, दिष्ट्या वर्धसे । पितुस्ते भगवतः श्वेतकेतोः पादमूलात्कंपिञ्जलस्त्वामेवान्विष्यन्नायात' इति ।
अहं तु तछ्रुत्वा तत्क्षणेनोत्पन्नपक्ष इवोत्पत्त्य तत्समीपमेव प्राप्तुमभिवाञ्छनुग्रीवावलोकी 'क्वासौ' इति तमप्राक्षम् । स त्वकथयत् - 'एष तातपादमूले वर्तते' इति । एवंवादिनं तु तमहं पुनरवदम् - ‘ययेवं ततः प्रापयतु मां तत्रैव भगवान् । उत्ताम्यति मे हृदयं तदर्शनाय' इत्येवं वदन्नेवाग्रतो गगनागमनवेगादयथास्थितजटाकलापम्, अनिलपथसंचरणचलितैकाञ्चलोत्तरीयम्, तरुत्वचा दृढाबद्धपरिकरम्, अर्धत्रुटितयज्ञोपवीतसनाथास्थिशेषोरस्कम्, निःशेषसुरपथावतरणश्रमोच्छसितशरीरम्, समीरणापहतमपि मरुत्पथोत्पतनखेदसंभृतम्, उदकप्रवेशान्निस्यन्दमानस्वेदमाननेन मेंदवलोकनदुःखोद्गतं च बाष्पजललवविसर -
***********
परित्यागचिन्ता तया निमीलितं मुद्रितं मां विकासेन हसतीत्येवंशीलेन विकासहासिना मुखेनाननेन समुच्छासयनिवाश्चासयन्निव सहसातर्कितः प्रविश्य प्रवेशं कृत्वा हारीतकोऽभ्यधादवोचत् । किं तदित्याह - भ्रातरिति । हे भ्रातर्हे बन्धो वैशम्पायन, त्वं दिष्ट्या भाग्येन वर्धसे । ते तव भगवतो महाश्वेतकेतोः पितुः पादमूलाज्जनकचरणसमीपात्त्वामेवान्विष्यन्गवेषयन्कपिजल आयात इति । ___ अहं तच्छ्रुत्वाकर्ण्य तत्क्षणेन तत्कालेनोत्पन्नपक्ष इव संजातवाज इवोत्पत्त्योड्डीय तस्य कपिजलस्य समीपमभ्यर्णं निकटं प्राप्तुमासादयितुमभिवाञ्छन्नभिलषनुग्रीवः सबवलोकत इत्येवंशील उद्ग्रीवावलोकी क्वासाविति तं हारीतकमप्राक्षम् । स तु हारीतक एव तातस्य पादमूले वर्तत इत्यकथयदित्यभ्यधात् । एवंवादिनमेवंब्रुवाणं तु हारीतमहं पुनरवदमकथयम् । यद्येवं वर्तते ततो भगवान्मां तत्र प्रापयतु नाययतु । तद्दर्शनाय तदवलोकनाय मे मम हृदयमुत्ताम्यत्युत्पततीत्येवं वदन्नग्रतः पुरो दुरात्माहं कपिज्जलमद्राक्षं व्यलोकयमिति दूरेणान्वयः । इतः कपिञ्जलं विशिनष्टि - गगनेति । गगने व्योम्न्याकाश आगमनं यानं तस्य वेगाद्रयादयथास्थितोऽस्थानस्थितो जटाकलापो यस्य स तम् । 'जटा लग्नकचे मूले प्लक्षमासिकयोर्जटा' इति विश्वः । अनिलपथ आकाशे संचरणं संचलनं गमनं तेन चलितः कम्पित एकोऽञ्चलो वस्त्रप्रान्तो यस्यैवंभूतमुत्तरीयं संव्यानं यस्य स तम् । 'प्रच्छादनं प्रावरणं संव्यामं चोत्तरीयकम्' इति हैमः । तरूणां वृक्षाणां त्वचा कृत्वा दृढ आबद्धः परिकरो येन स तम् । 'भवेत्परिकरो व्राते पर्यङ्कपरिवारयोः । प्रगाढगात्रिकाबन्धे विवेकारम्भयोरपि' इति विश्वः । अर्धत्रुटितं यद्यज्ञोपवीतं यज्ञसूत्रं तेन सनाथं सहितमस्थिशेष कीकसावशेषमुरो यस्य स तम् । निःशेष समग्रं यत्सुरपथमाकाशं तस्मादवतरणं तस्माद्यः श्रमः खेदस्तेनोच्छसितं शरीरं यस्य तम् । 'नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्' इत्यमरः समीरणेन वायुनापहतमपि पीडितमपि मरुत्पथे यत्पतनं तस्मायः खेदस्तेन संभृतं निचितम् । जलप्रवेशाद् व्योमगङ्गाजलान्तर्गमनादाननेन मुखेन निस्यन्दमानः क्षरन्त्स्वेदो धर्मो यस्य स तम् । किं कुर्वन्तम् । बाष्पजललवविसरं नेत्रजलकणस -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 'उदकप्रवेशादिव निस्यन्दमानं स्वेदम् आननेन, बाष्पलवविसरं ईक्षणाभ्यां युगपदुत्सृजन्तम् इति प्रत्यक्षं दृष्ट्वापि अत्र बहुव्रीहिः क्रियते । अत्र 'निस्यन्दमानं स्वेदम्' इत्युचितः पाठो बोध्यः ।
पाठा० -१ कपिजलकः. २ तत्क्षणोत्पन्न. ३ तत्समीपं विहाय सहसैव प्राप्तुमभिवाञ्छन्; समीपं विहायसैव प्राप्तुमभिवाञ्छन्. ४ उद्धेगादव्यवस्थित. ५ संचरणविघटितचरणैकाञ्चलोत्तरीय तरुत्वचा; संचरणवेगचलितैकाञ्चलयोत्तरीयतरुत्वचा. ६ आयासित. ७ अपहृतम्. ८ उत्पन्न. ९ मद्विलोकन. १० दुःखागतम्.
(678
कादम्बरी।
कथायाम्
Page #206
--------------------------------------------------------------------------
________________
मीक्षणाभ्यां युगपदुत्सृजन्तम्, मुमुक्षुमपि मत्स्नेहेनामुक्तम्, वीतरागमपि मत्प्रियहितरतम्, निःसङ्गमपि मत्समागमोत्सुकम्, निःस्पृहमपि मदर्थसंपादनपर्याकुलम्, निर्मममप्युपारूढस्नेहम्, निरहंकारमप्यहमेवायमिति मां मन्यमानम्, समुज्झितक्लेशमपि मदर्थे क्लिश्यन्तम्, समलोष्टकाञ्चनतासुखितमपि महुःखदुःखितम्, कृतज्ञमकृतज्ञः, स्नेहलप्रकृति रुक्षचेताः, सुकृतिनमपुण्यवान्, अनुगतं वामस्वभावः, भावार्द्रहृदयमेकान्तनिष्ठुरः, मित्रं वैरी, वचनकरमनाश्रवः, महात्मानं दुरात्मा, कपिञ्जलमहमद्राक्षम् । दृष्ट्वा च निर्भरगलितनयनपयास्तादृशोऽपि कृताभ्युद्गमनप्रयत्नः पूत्कृत्य तमवदम् - 'सखे कपिञ्जल, एवं जन्मद्वयान्तरितदर्शनमपि त्वां दृष्ट्वा किं सरभसमुत्थाय दूरत एव प्रसारितभुजद्वयो गाढालिङ्गनेन सुखमनुभविष्यामि । किं करं करेणावलम्ब्यासनपरिग्रहं कारयिष्यामि । किं सुखासीनस्य गात्रसंवाहनं कुर्वञ्छ्रममपनेष्यामि' इत्येवमात्मानमनुशोचन्तमेव मां कपिञ्जलः करेणोत्क्षिप्य -
***********
मूहमीक्षणाभ्यां लोचनाभ्यामुत्सृजन्तं त्यजन्तम् । कीदृशं जललवविसरम् । ममावलोकनं तस्माद्यदुःखं तस्मादुद्गतं प्रादुर्भूतं प्रकटीभूतम् । मोक्तुमिच्छुर्मुमुक्षुरेवंभूतमपि मत्स्नेहेन मत्रीत्याऽमुक्तमत्यक्तमखण्डितम् । वीतो गतो रागोऽनुरागो यस्मादेतादृशमपि मत्प्रिय इष्टे रतमासक्तम् । निर्गतः संगोऽन्यजनसंपर्कः परजनसंयोगो यस्य स तमेतादृशमपि मम समागमो मेलापस्तत्र तस्मिन्नुत्सुकमुत्कण्ठितम् । निर्गता स्पृहा वाञ्छा यस्मादेवंभूतमपि ममार्थो मदर्थस्तस्य संपादनाय निष्पादनकरणाय परि सामस्त्येनाकुलं व्याकुलम् । निर्मममपि निर्गतममत्वमपि ममत्वभावो नास्ति । मयि विषय उपारूढः स्थापितः स्नेहः प्रेमा येन स तम् । निर्गतोऽहंकारो गर्यो यस्मादेतादृशमप्यहमेवायं कपिञ्जल इति मन्यमानं ज्ञायमानम् । समुज्झितस्त्यक्तः क्लेशो येनैवंभूतमपि मदर्थे मत्कृतेक्लिश्यन्तं क्लेशं प्राप्नुवन्तम् । समे सदृशे तुल्ये लोष्टकाञ्चने यस्य स समलोष्टकाञ्चनस्तस्य भावस्तत्ता तया सुखितं संजातसौख्यमेवंविधमेतादृशमपि मम दुःखेन दुःखितं संजातदुःखम् । कृतं जानातीति कृतज्ञस्तं कृतज्ञमकृतज्ञः । स्नेहला प्रकृतिः स्वभावो यस्य स तं रूक्षं स्नेहवर्जितं प्रेमरहितं चेतो यस्य स तथा । सुकृतिनं सुकृतवन्तं पुण्यवन्तं न विद्यते पुण्यं यस्य सोऽपुण्यवान् । अनुगतमनुकूलं वामः प्रतिकूलो वक्रः स्वभावो यस्य सः । भावेनाध्यवसायेनाद्रमुन्नं हृदयं चेतो यस्य स तमेकान्तेन निष्ठुरः । मित्रं सुहृद् वैरी शत्रुः । वचनं करोतीति वचनकरस्तमनाश्रवोऽवचनेस्थितः । 'वचनेस्थित आश्रवः' इत्यमरः । महात्मानं महापुरुष दुरात्मा दुष्टात्मा । द्वितीयान्तं कपिजलस्य विशेषणम्, प्रथमान्तं पुण्डरीकस्येति स्वयं बोध्यम् । दृष्ट्वा च विलोक्य च निर्भर परिपूर्णं संपूर्णं गलितं नयनयोः पयो यस्य स तादृशोऽप्यसमर्थोऽपि कृतोऽभ्युद्गमे प्रत्युत्थाने प्रयत्नो येन सः । पूत्कृत्य पूत्कारं कृत्वा तं कपिजलमवदमब्रवम्, हे सखे कपिजल, एवं जन्मद्वयान्तरितदर्शनमपि भवान्तरव्यवहितावलोकनमपि त्वां दृष्ट्वा विलोक्य निरीक्ष्य सरभसं सवेगमुत्थायोत्थानं कृत्वा दूरत एव दविष्ठ एव प्रसारितं विस्तारितं भुजद्वयं बाहुद्वयं येन सः । गाढालिङ्गनेन तीव्रसंश्लेषण किं सुखमनुभविष्यामि साक्षात्प्रत्यक्षं करिष्यामि । करं हस्तं करेण पाणिना हस्तेनावलम्ब्यासनपरिग्रह विष्टरस्वीकारं किं कारयिष्यामि किं विधापयिष्यामि किं निष्पादयिष्यामि । सुखासीनस्य सुखोपविष्टस्य गात्रसंवाहनमङ्गमर्दनं कुर्वश्रमं खेदं परिश्रममपनेष्यामि दूरीकरिष्यामि । 'संवाहनं मर्दन स्यात्' इत्यमरः । इत्येवमात्मानं स्वमनुशोचन्तमेव मां कपिञ्जलः करेण पाणिनोत्क्षिप्योत्पाट्य मम विरहो वियोगस्तेन दुर्बले कृशे वक्षसि चिरमिव निवेश्य संस्थाप्यान्तर्मध्ये - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अयं पुण्डरीकोपि मदभिन्न इति मन्यमानमित्याशयः ।
-
- -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ क्लिश्यमानम्. २ सुखम्. ३ दुःखितम्. ४ रूक्षात्मा. ५ फूत्कृत्य. ६ गाढालिङ्गनसुखम्.
(शुक०पुण्ड०सह कपिञ्जलसमागमः
उत्तरभागः।
679
Page #207
--------------------------------------------------------------------------
________________
मद्विरहदुर्बले वक्षसि निवेश्य चिरमिवान्तःप्रवेशयन्निवालिङ्गनसुखं किल तथा मेऽनुभूय भूयसा मन्युवेगेनोत्तमाङ्गे कृत्वा मच्चरणावितरवदरोदीत् ।
तथा रुदन्तं च तं वाङ्मात्रप्रतीकारः पुनरवदम् - 'सखे कपिजल, सकलक्लेशपरिभूतस्य पापात्मनो ममेदं युज्यते यत्त्वया प्रारब्धम् । त्वं पुनर्बालोऽप्यस्पृष्ट ऍवामीभिः संसारबन्धात्मकैर्निर्वाणमार्गपरिपन्थिभिर्दोषैः । तत्किमधुना मूढजनगतेन वर्त्मना । समुपविश्य तावत्कथय यथावृत्तं तस्य वार्ताम् । अपि कुशलं तातस्य ? स्मरति वा माम् ? दुःखितो वा मदीयेन दुःखेन ? मवृत्तान्तमाकर्ण्य किमुक्तवान् ? कुपितो न वा' इति । स त्वेवमुक्तो मया हारीतशिष्योपनीते पल्लवासने समुपविश्याङ्के मां कृत्वा हारीतोपनीतेनाम्भसा प्रक्षाल्य मुखमाख्यातवान् - 'सखे, कुशलं तातस्य । अयं चास्मवृत्तान्तः प्रथमतरमेव तातेन दिव्येन चक्षुषा दृष्टः । दृष्ट्वा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एव कर्मणि तुरगभावाद्विमुक्तो गतोऽस्मि तातस्य पादमूलम् । गतं च मां दूरत एवोद्वाष्पदृष्टिर्विषण्णदीनवदनं भयादनुपसर्पन्तमालोक्याहूयाज्ञापितवान् - 'वत्स कपिञ्जल, परित्यज्यतां स्वदोषशङ्का । ममैवायं -
*********** प्रवेशयन्निव प्रवेशं कारयन्निव मे ममालिङ्गनसुखम् । किलेति सत्ये । तथानुभूय साक्षात्कृत्य मन्युः शोकः । 'मन्युशोकौ तु शुक्स्त्रियाम् इत्यमरः । भूयसा बहुलेन वेगेन रयेण मच्चरणौ मत्पादौ मदङ्ग्री उत्तमाने मस्तके कृत्वा इतरवत्प्राकृतजनवत् । ‘इतरः प्राकृती नीचः' इति हैमः । अरोदीद्रुदनमकार्षीत् । 'विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः' इत्यमरः ।
तथा रुदन्तं च तथा विलपन्तं च वाङ्मात्र एव प्रतीकारः प्रतिक्रिया यस्य सः । पुनरवदमब्रुवम् । सखे कपिञ्जल, सकलक्लेशेन समग्रदुःखेन कष्टेन परिभूतस्याभिभूतस्य पराभवितस्य पापात्मनो मे ममेदं युज्यत इदं घटते यत्त्वया भवता प्रारब्धम् । रुदनमित्यर्थः । त्वं पुनर्बालोऽप्यमीभिः संसारबन्धात्मकैः संसृतिबन्धस्वरूपैर्निर्वाणमार्गस्य मोक्षमार्गस्य परिपन्थिभिः शत्रुभिर्दोषैर्दूषणैरस्पृष्ट एव । तत्तस्माद्धेतोर्मूढजनगतेन मूर्खजनाचीर्णेन वर्मना मार्गेण रुदनलक्षणेन । अधुना किम् । न किमपीत्यर्थः । उपविश्यास्थाय तावत्पूर्वमादौ यथावृत्तं यथोपनतं तथा तस्य वार्ता किंवदन्ती कथय ब्रूहि । अपि तातस्य पितुः कुशलं कल्याणम् । मां पुण्डरीकं स्मरति स्मृतिगोचरीकरोति न वा । मदीयेन मामकीनेन दुःखेन दुःखितो वा । मदृत्तान्तं मदुदन्तमाकर्ण्य श्रुत्वा किमुक्तवान्किं कथितवान् । कुपितो न वा रोपं गतो न वा इति । स तु कपिजल एवं मयोक्तः कथितः सन्हारीतस्य शिष्येण विनेयेनोपनीत आनीते समानीते पल्लवासने नवीनपत्रविष्टरे समुपविश्य मां वैशंपायनाभिधानं शुकमङ्क उत्सङ्गे क्रोडे कृत्वा हारीतोपनीतेन हारीतानीतेनाम्भसा पानीयेन जलेन मुखं वदनं प्रक्षाल्य प्रक्षालनं कृत्वा धावनं कृत्वाख्यातवान्कथितवान् । किं तदित्याह - सखे इति । हे सखे पुण्डरीक, तातस्य महाश्वेतकेतोः कुशलं वर्तते । अयं चास्मवृत्तान्त एतदुदन्तः प्रथमतरमेवादावेव तातेन जनकेन पित्रा दिव्यचक्षुषा ज्ञाननेत्रेण दृष्टोऽवलोकितो निरीक्षितः । दृष्ट्वा च तत् प्रतिक्रियायै कर्म प्रारब्धं कर्तुमारब्धम् । समारब्धे एव कर्मणि तुरगभावादश्वशापाद्विमुक्तोऽहं तातस्य जनकस्य पादमूलं चरणमूलं गतोऽस्मि । गतं च मां दूरत एवोद्धाष्पदृष्टिरुद्गताश्रुनयनो भयाद्रीतेविषण्णं विलक्ष दीनं दुःखितं वदनं मुखं यस्यैवंभूतं मामुपसर्पन्तमागच्छन्तमालोक्य निरीक्ष्याहूयाह्वानं कृत्वाज्ञापितवान्कथितवान् । हे वत्स कपि -
--------------------- टिप्प० - 1 अनुपसर्पन्तम् (न अभिसरन्तम) इत्युचितम् ।
पाठा० - १ तु. २ मन्दात्मनः. ३ न युज्यते. ४ अमीभिः रागादिभिः. ५ अमुना. ६ यथावृत्तम्. ७ अयि. ८ न दुःखितः. ९ त्वरितोपनीतेन..
680
- कादम्बरी।।
कथायाम्-)
Page #208
--------------------------------------------------------------------------
________________
खलु शठमतेः सर्व एव दोषः, येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमायुष्करं कर्म निर्वर्तितम् । अधुना सिद्धप्रायमेवेदम् । न दुःखासिका भावनीया । मत्पादमूले तावत्स्थीयताम्' इत्येवमाज्ञापितस्तु तातेन विगतभीर्व्यज्ञोपयम् -
'तात यदि प्रसादोऽस्ति ततो यत्रैवासावुत्पन्नस्तत्रैव गमनायाज्ञापयतु मां तातः इत्येवं विज्ञापितस्तु मया पुनराज्ञापितवान् - 'वत्स, शुकजातावसौ पतितः । तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति । तत्तिष्ठतु तावत् इति । अद्य च प्रातरेवाहूय मामाज्ञापितवान् - 'वत्स कपिजल, महामुनेर्जाबालेराश्रमपदं सुहृत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्तव्योऽसौ - वत्स, यावदिदं कर्म परिसमाप्यते तावत्त्वयास्मिन्नेव जाबालेः पादमूले स्थातव्यमिति । अपि च त्वदुःखदुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपाघ्रायैतदेव पुनःपुनः संदिष्टम् । एवमुक्त्वाऽकठोरशिरीषकुसुमशिखासूक्ष्माग्रोब्रेदपक्ष्मलानि गात्राणि पुनःपुनः पाणिना परामृश्यान्तर्हदयेनादूयत । तथा दूयमानहृदयं च तमवदम् -
*********** जल, स्वदोषस्य निजदूषणस्य शङ्कारेका परित्यज्यतां मुच्यताम् । खल्विति निश्चयेन । शठमतेर्मूर्यबुद्धेर्ममैवायं दोषः, येन कारणेन जानताप्यवबुध्यतापि मया श्वेतकेतुनोत्पत्तिसमय एव वत्सस्य पुण्डरीकस्य कृत आयुष्करं दीर्घजीवितकारि कर्म न निर्वर्तितं न कृतम् । अधुना सांप्रतमिदानीमिदं कार्यं सिद्धप्रायमेव संजातमेव । अतो दुःखासिका न भावनीया । मनसि दुःखं नानेयमित्यर्थः । मत्पादमूले मच्चरणतले तावदवस्थीयतामवस्थानं क्रियतामित्येवं तातेनाज्ञापितस्तु कथितस्तु विगतभीरहं व्यज्ञापयं विज्ञप्तिमकरवम् ।
हे तात हे पितः, यदि प्रसादः प्रसन्नतास्ति ततो यत्रैव यस्मिन्स्थलेऽसौ पुण्डरीक उत्पन्नस्तत्रैव तस्मिन्स्थले गमनाय मामाज्ञापयत्वाज्ञां ददातु तातः इत्येवं विज्ञापितस्तु मया पुनर्मामित्याज्ञापितवानाज्ञां दत्तवान् । इतियोत्यमाह - वत्स इति । हे वत्स हे पुत्र हे सूनो, शुकजातावसौ पतितस्तस्माद्धेतोगत्वापि तत्र तमय त्वं नैव वेत्सि । नाप्यसौ शुकस्त्वां भवन्तं वेत्ति । तावत्सांप्रतं तद्गमनं तिष्ठत्वास्ताम् । अद्य च प्रातरेव प्रत्यूष एवाहूय मामाज्ञापितवानाज्ञां दत्तवान् । हे वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सुहृन्मित्रं ते तव प्राप्तः । अस्य शुकस्य जन्मान्तरस्य स्मरणं च भवान्तरज्ञानं चोपजातम् । संप्रतीदानीं तद्गच्छ व्रज तं शुकं द्रष्टुं विलोकयितुम् । मदीययाशिषाऽऽशीवदिनानुगृह्यानुग्रहविषयीकृत्यासौ शुक इति वक्तव्यो भणितव्यः । इतिद्योत्यमाह - हे वत्सेति । हे वत्स, यावदिदं पूर्वोक्तं कर्म परिसमाप्यते परिपूर्णीक्रियते तावत्कालमस्मिन्नेव जाबालेः पादमूले त्वया स्थातव्यं स्थेयम् । अपि च तव दुःखेन दुःखिता पीडिता ते तवाम्बा माता श्रीरप्येतस्मिन्नेव कर्मणि परिचारिका सपर्याकारिणी वर्तते । तयाप्यम्बयापि शिरस्युत्तमाङ्गे मस्तक उपाघ्राय चुम्ब्यैतदेव पूर्वोक्तं पुनः पुनः संदिष्टं कथितमुक्तम् । इत्येवमुक्त्वा प्रतिपाद्याऽकठोराण्यकठिनानि कोमलानि मृदूनि यानि शिरीषकुसुमानि तेषां शिखा तस्याः सूक्ष्मोऽणुरग्रस्य य उद्भेदस्तद्वत्पक्ष्मलानि कोमलानि गात्राणि शरीराणि पुनः पुनः पाणिना हस्तेन परामृश्य परामर्शनं कृत्वा हृदयेन चेतसादूयताखिद्यत । तथा दूयमानहृदयं खिद्यमानचेतसं च - - - -
-- - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 दुःखपूर्विका आसनक्रिया (धात्वर्थनिर्देशे ण्वुल), दुःखेनाऽवस्थानमित्याशयः । 2 यदा 'अस्मिन्नेव' इति विशेष्यते तर्हि 'पादमूले' इति न युज्यते । अत एव 'आश्रमे इत्येव पाठो योग्यः । 3 अनुपपदात् ल्यब् न युज्यते .
-
-
पाठा० - १ आयुःकामं कर्म. २ निवर्तितम्. ३ व्यज्ञपयम्. ४ तदा. ५ न परिसमाप्यते. ६ आश्रमे. ७ गात्राणि मे.
(कपिज्जलस्य श्वेतकेत्वादिवृत्तनिवेदनम्
उत्तरभागः।
Y681)
Page #209
--------------------------------------------------------------------------
________________
'सखे कपिजल, किं दूयसे ? त्वयापि मन्दपुण्यस्य मम कृते तुरंगमतामापनेन पराधीनवृत्तिना बहुतराण्येव दुःखान्यनुभूतानि । कथं सोमपानोचितेनामुनाऽऽस्येन समुत्पादितसफेनरक्तसवाः खरखलीनक्षतयो विसोढाः ? कथमयमकठोरकिसलयशयनीयैकसेवासुकुमारः सदा पर्याणितस्य न शीर्णः पृष्ठवंशः ? कथमेषु कुसुमोच्चयापतितबालवनलतास्पर्शमात्राक्षमेषु गात्रेषु कशाभिघाता निपतिता ? कथं च ब्रह्मसूत्रोद्वाहिनि देहेऽस्मिन्वध्रोत्पीडनकृताः पीडाः समुपजाताः ?' इत्येभिरन्यैश्च पूर्ववृत्तान्तालापैस्तत्कालविस्मृततिर्यग्जातिदुःखः सुखमतिष्ठम् ।
उपारोहति च मध्याह्न सवितरि हारीतः सह कपिञ्जलेन मां यथोचितमाहारमकारयत् । कृताहारश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीत्- “अहं हि तातेन त्वां समाचासयितुम्, 'जाबालिपादमूलादाकर्मपरिसमाप्तेन त्वया चलितव्यम्' इत्येतच्चादेष्टुं विसर्जितः । अन्यदहमपि तत्रैव कर्मणि व्यग्रतर एव । तद्ब्रजामि संप्रति । अहं तु तछ्रुत्वा विषण्णवदनस्तं प्रत्यवदम् - 'सखे कपिञ्जल, एवंगते किं ब्रवीमि । किं च तातस्याम्बाया वा संदिशामि । सर्वं त्वमेव वेत्सि' इति । स त्वेवमुक्तो मया, पुनःपुनस्तत्रावस्थानाय मां संविधाय हारीतं -
*********** तं कपिञ्जलमहमवदमकथयम् । किं तदित्याह - सखे इति । हे सखे कपिञ्जल, किं दूयसे किं खिद्यसे । त्वयापि भवतापि मन्दपुण्यस्य स्वल्पसुकृतस्य मम कृते तुरंगमतामधतामापनेन प्राप्तेन पराधीनवृत्तिना परायत्तवृत्तिना परवशवृत्तिना बहुतराण्येवानेकान्येव दुःखानि कृच्छ्राण्यनुभूतानि साक्षात्कृतानि । कथं केन प्रकारेण सोमः सोमवल्ली तस्याः पानं तत्रोचितेन योग्येनामुनास्येन मुखेन समुत्पादितो विहितः सफेनः सडिण्डीरो रक्तसावो रुधिरच्युतिर्याभिरेवंविधाः खरं कठिनं यत्खलीनं कविका कवियं मुखयन्त्रणं तस्य क्षतयो व्रणा विसोढाः क्षान्ताः । कथमकठोरं सुकुमारं यत्किसलयशयनीयं तस्यैकसेवयैकसपर्यया सुकुमारः सुकोमलः सदा पर्याणितस्य संजातपल्ययनस्यायं पृष्ठवंशो रीढकः । ‘रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः' इति हैमः । न शीर्णः शटितः । कथं कुसुमानामुच्चयोऽवचयस्तस्मादापतिताः सस्ता बालवनलतास्तासां स्पर्शमात्रेणाक्षमेष्वसमर्थेष्वेषु गात्रेषु कशाभिघाता वर्मदण्डप्रहारा निपतिताः । कथं च ब्रहासूत्रोद्वाहिनि यज्ञोपवीतधारकेऽस्मिन्देहे शरीरे वधं चर्म तेन यदुत्पीडनं बन्धनं तेन कृता विहिताः पीडा बाधाः समुपजाताः समुत्पन्नाः इत्येभिरन्यैश्च पूर्ववृत्तान्तालापैः प्राचीनोदन्तसंभाषणैस्तत्कालं तदात्वं विस्मृतं विस्मरणतामापन्न तिर्यग्जातिदुःखं यस्यैवंभूतोऽहं सुखमन्वतिष्ठमस्थाम् ।
सवितरि सूर्ये मध्याह्नमहो मध्यमुपारोहत्यधिरोहणं कुर्वति सति हारीतः कपिञ्जलेन सह मां वैशम्पायनं यथोचितं योग्यमाहारं भोजनमकारयदकल्पयत् । कृताहारश्च विहितभोजनश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीदवोचत् । अहं हि कपिञ्जलस्तातेन पित्रा त्वां भवन्तं समाचासयितुमाश्वासनां कर्तुं जाबालिपादमूलादाकर्मपरिसमाप्तेः कृत्यपरिपूर्ति मर्यादीकृत्य न त्वया चलितव्यं नान्यत्र गन्तव्यम् । अन्यत्र गमनं न करणीयम् । इत्येतच्चादेष्टुं कथयितुं विसर्जितो विसृष्टस्त्यक्तः । अन्यदहमपि तत्र कर्मणि पूर्वोक्तकृत्ये व्यग्रतरोऽतिशयेन व्याकुल एव । तत्तस्माद्धेतोः संप्रतीदानी व्रजामि गच्छामि । अहं तु वैशम्पायनस्तछ्रुत्वा समाकर्ण्य सम्यगाकर्ण्य विषण्णवदनो विलक्षास्यस्तं कपिञ्जलमवदमब्रवम् । हे सखे कपिञ्जल, एवंगते एवंप्राप्तेऽहं किं ब्रवीमि किं वमि । किंच तातस्य पितुर्जनकस्याम्बाया मातुः सवितुः किं संदिशामि किं कथयामि किमाज्ञापयामि । सर्वं समस्तं त्वमेव भवानेव वेत्सि जानासीति । स तु मयैवमुक्तो भणितः पुनःपुनर्मां तत्रावस्थानाय हारीतं संवि
. - - - - - - - - - - - - - - टिप्प० - 1 तत्रावस्थानाय माम्, हारीतं च संविधाय अनुरुध्य (सावधानीकृत्य), इत्यन्वयो योग्यः । पाठा० - १ तुरंगताम्. २ एकमुखसेवा. ३ पातित; पतित. ४ मात्रक्षमेषु. ५ निपातिताः. ६ बद्ध. ७ अन्वतिष्ठम्. ८ उपरोहति. ९ अहमपि; अस्मि तदहमपि. १० संनिधाय.
-
-
-
-
-
-
-
-
-
-
-
-
-
- -
- -
-- - -
-
-
-
-
-
-
--
682
कादम्बरी।
कथायाम
Page #210
--------------------------------------------------------------------------
________________
च, अनुभूतास्मदालिङ्गनसुखो विस्मयोन्मुखेन मुनिकुमारकजनेनेक्ष्यमाणोऽन्तरिक्षमतिक्रम्यक्वाप्यदर्शनमगात् । गते च तस्मिन्हारीतः समाश्चास्य मां शारीरस्थितिकरणायोदतिष्ठत् । उत्थाय चान्यं मुनिकुमारक मत्पार्धे स्थापयित्वा निरगमत् । निर्वर्तितस्नानादिक्रियाकलापश्चात्मनैव सहापराह्नसमये पुनर्मामाहारमकारयत् ।
एवं चावहितचेतसा हारीतेन संवय॑मानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् । उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम् - 'गमनक्षमस्तु संवृत्तोऽस्मि, तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किमुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमेषमपि दुःखं स्थापयामि । भवतु । तत्रैव गत्वा तिष्ठामि' इति निश्चित्यैकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त इव मेऽङ्गानि श्रमेण । शुष्यच्चञ्चुपुटः पिपासया, नाडिंधमेनाकम्पितकण्ठः श्वासेन, तद -
***********
धाय नियुज्य चानुभूतं मदालिङ्गनसुखं येनैवंभूतो विस्मयोन्मुखेन कौतुकोज़कृताननेन मुनिकुमारकजनेन तापसशिशुजनेनेक्ष्यमाणो विलोक्यमानोऽन्तरिक्षमाकाशमतिक्रम्योल्लङ्ग्य क्वाप्यदर्शनमनवलोकनमगाद्ययौ । गते च तस्मिन्कपिञ्जले हारीतो मां समाधास्यावासनां दत्त्वा शारीरस्थितिकरणाय स्नानादिकृत उदतिष्ठदुत्थितो बभूव । उत्थाय चान्यं मुनिकुमारकं तापसकुमारकं मत्पार्धे मदभ्यणे मत्समीपे स्थापयित्वा संन्यस्य निरगमनिर्ययौ निर्जगाम । निर्वर्तितो विहितः स्नानादिकायाः क्रियायाः कलापः समुदायो येनं सोऽपराह्नसमये तृतीयप्रहरे पुनरात्मनैव सह स्वेनैव समं मामाहारमशनमकारयद् व्यधापयत् ।।
एवं चावहितचेतसा सावधानचित्तेन हारीतेन संवद्यमानो वृद्धिं प्राप्यमाणः कतिपयैः कियद्भिरेव दिवसैः संजातो सुनिष्पन्नौ पक्षौ वाजौ यस्यैवंभूतोऽभवमजनिषम् । 'पक्षो गरुच्छदश्चापि पिच्छं वाजस्तनूरुहम्' इति हैमः । उत्पन्नं संजातमुत्पतनस्योड्डयनस्य सामर्थ्य बलं यस्मै एवंविधश्च चेतसीत्यकरवमरचयम् । गमने चलने क्षमः समर्थस्त्वहं संवृत्तो निष्पन्नोऽस्मि । नामेति कोमलामन्त्रणे । चन्द्रापीडस्योत्पत्तिर्जन्म तस्य परिज्ञानमवबोधः । चन्द्रापीडोत्पत्तिपरिज्ञानं तु जातमेवास्तीत्यर्थः । महाश्वेता च पुनः सैवास्ते विद्यते । तत्तस्मात्कारणादुत्पन्नज्ञानोऽपि संजातजातिस्मरणोऽपि तस्या दर्शनेनावलोकनेन विनात्मानं किं किमर्थं निमेषमप्यक्षिस्पन्दमात्रमपि दुःखं स्थापयामि । भवतु जायताम् । तत्रैवाच्छोदोपान्ते गत्वा तिष्ठाम्यवस्थानं करोमीति निश्चित्य निर्णयं कृत्वैकदैकस्मिन्समये प्राप्तः प्रभाते विहारार्थं यात्रार्थं निर्गत एवोत्तरामुदीची ककुभं दिशं गृहीत्वावहमचलम् । अबहुदिवसैः स्तोकदिनैरभ्यस्तं प्रारब्धं गमनं येन स तस्य भावस्तत्ता तया, स्तोकमेव स्वल्पमेव गत्वा मे ममाङ्गानि हस्तपादादीनि श्रमेण प्रयासेनावशीर्यन्त इव स्फुट्यन्त इव । पिपासयोदन्यया शुष्यशोषं प्राप्नुवच्चञ्चुपुटं बोटिपुटं यस्य सः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । नाडिं धमतीति नाडिंधम एवंविधेन श्वासेन वस -
-- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - -टिप्प० - 1 तत्र नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् ? किमग्रे विवक्षितम् ? (उत्पत्तिपरिज्ञानं तु जातमेवास्तीति किमाधारादुच्यते, क्योत्पत्तिरस्मै सूचिता ?) । 'तत्र न मे चन्द्रापीडोत्पत्तिपरिज्ञानम्, (तत्र गमनक्षमावस्थायामपि चन्द्रापीडोत्पत्तिपरिज्ञानं न मे जातम्)' इत्युचितः पाठः । 2 'अवशीर्यन्त इव मेऽङ्गानि इतिरूपेण पूर्ववाक्ये यदा तत्तत्क्रियाया एव प्राधान्येन निर्देशः प्रक्रान्तस्तर्हि अग्रेपि सोयमेव प्रक्रमो निर्वाह्यः । ततश्च - 'अशुष्यच्चञ्चुपुटं पिपासया, नाडिन्धमेन आध्मायत कण्ठः श्वासेन,' इत्येव पाठो ग्रन्थाभिमतः ।
-
-
-
-
पाठ० - १ अदर्शनपथम्. २ अन्यतमम्. ३ निवर्तित. ४ अपराह्नसमये; सायाह्नसमये. ५ आहित. ६ नाम तावत्. ७ दुःखे. ८ अशुष्यत्. ९ चञ्चुपुटम्. १० अकम्पत; अध्यायत.
(जाबाल्याश्रमं त्यक्त्वा शुकस्योड्डयनम् ।
उत्तरभागः।
683
Page #211
--------------------------------------------------------------------------
________________
वस्थश्च शिथिलायमानपक्षतिरत्र पताम्यत्र पतामीति परवानेवान्यतमस्य तमस्विनीतिमिरसंघातस्येवार्ककरतिरस्कारिणो घनहरितपल्लवभरावनम्रस्यासन्नतरस्य सरस्तीरतरुनिकुञ्जस्योपर्यात्मानममुञ्चम् । चिरादिवोन्मुक्ताध्वश्रमक्लमोऽवतीर्य शीतलतरुतलच्छायास्थितो दलगहनसंरोधशिशिरमरविन्दकिंजल्करजोवाससुरभि बिसरसर्कैषायमापीयमानमेवोत्पादितर्पुनरुत्कपानस्पृहमा तृप्तेः पयो निपीय, यथाप्राप्तैरकठोरकमलकर्णिकाबीजैर्वीरैतरुपर्णाङ्कुरर्फलैश्च कृत्वा क्षुधः प्रतीकारम्, अपराह्णसमये पुनः कियन्तमप्यध्वानं यास्यामीति मनसि कृत्वा, अध्वश्रमनिः सहान्यङ्गानि विश्रामयितुमन्यतमामविच्छिन्नच्छायां शाखामारुह्य तरोर्मूलभाग एवावातिष्ठम् । तथास्थितश्चाध्वश्रमसुलभां निद्रामगच्छम् । चिरादिवं च लब्धप्रबोधो बद्धमात्मानमनुन्मोचनीयैस्तन्तुपाशैरपश्यम् । अग्रतश्च पाश -
-
***
1
नेनकम्पितः प्रचलितः कण्टो निगरणो यस्य स तादृश्यवस्था यस्य सः । तदवस्थश्च शिथिलायमाना श्लथायमाना पक्षतिः पक्षमूलं यस्यैवंभूतः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । अत्र पतामि अत्र पतामीति परवानेव परायत्त एव सरस्तीरे यस्तरुनिकुञ्जस्तस्योपर्यात्मानं स्वममुञ्चं मुक्तवान् । 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । इतो निकुञ्ज विशेषयन्नाह - अन्येति । अन्यतमस्यानिर्दिष्टनामकस्य तमस्विनी यामिनी तस्यास्तिमिरसंघातस्येव ध्वान्तसमूहस्येवार्ककरतिरस्कारिणो रविकिरणन्यक्कृतिविधायिनो घनो निबिडो हरितो नीलो यः पल्लवभरः किसलयसंभारस्तेनावनम्रस्यावनतस्यासन्नतरस्यातिसमीपवर्तिनोऽतिनिकटवर्तिनः । चिरादिव चिरकालेनं बहुवर्षेण दिवसेोन्मुक्तो गतः अध्वश्रमक्लमः प्रवासखेदो यस्य सोऽवतीर्यावरोहणं कृत्वा शीतला शिशिरा या तरोश्छाया आतपाभवस्तस्यां स्थितः कृतावस्थानः । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । दलैः पत्रैर्गहनं निबिडम् । अर्थाद्वनान्तरस्य संरोधेनावरणेन शिशिरं शीतलम् अरविन्दं कमलं तस्य किंजल्कं केसरं तस्य रजः परागस्तस्य वासो गन्धस्तेन सुरभि सुगन्धं बिसरसेन तन्तुलमधुना कषायं वरसम् । ‘तुवरस्तु कषायोऽस्त्री' इत्यमरः । आपीयमानमेवास्वाद्यमानमेवोत्पादिता पुनरुत्कयोर्कण्टया पानस्पृहा वाञ्छा येन तत् । यद्वानुत्पादिता पुनः पानस्पृहा वाञ्छा येन तदित्यर्थः । आ तृप्तेः सौहित्यपर्यन्तं पयो जलं निपीय पानं कृत्वा जलं पीत्वा, यथाप्राप्तैर्यथालब्धैरकटोरा सुकुमाराऽकठिना या कमलकर्णिका वराटकस्तस्या बीजैः फलैर्वीरतरुररुष्करः । 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु' इत्यमरः । तस्य पर्णानि पत्राण्यङ्कुराः प्ररोहा नवाङ्कुराः फलानि सस्यानि च तैः क्षुधो बुभुक्षायाः प्रतीकारं तत्प्रशमनोपायं कृत्वा विधायापराह्नसमये तृतीयप्रहरे पुनः कियन्तमप्यध्वानं मार्गं यास्यामि गमिष्यामीति मनसि कृत्वेति चित्ते विचिन्त्य विचारयित्वाध्वश्रमेण मार्गखेदेन निःसहान्यशक्तान्यसमर्थान्यङ्गानि विश्रामयितुं विश्रामं कारयितुमन्यतमामन्यतरामविच्छिन्नात्रुटिता छाया यस्यां निरन्तरा छाया यस्यामेतादृशीं शाखामारुह्यारोहणं कृत्वा तरोर्मूलभाग एवावातिष्ठैमुपाविशम् । तथास्थितश्च तथावस्थश्चाध्वश्रमेण मार्गखेदेन सुलभां सुप्रापां निद्रां प्रमीलामगच्छमप्रापम् ।
चिरादिव च चिरकालसदृशमिव बहुकालसदृशमिव । अत्रेवशब्दः सदृशार्थे । लब्धः प्रातः प्रबोधो जागरो येन सोऽनुन्मोचनीयैरुन्मोचयितुमशक्यैस्तन्तुपाशैरात्मानं स्वं बद्धं संयमितमपश्यं व्यलोकयम् । अग्रतश्च पुर
-
टिप्पo - 1 दलगहन (निबिड ) तया यः सूर्यरश्मीनां संरोधस्तेन शिशिरम्, इति स्पष्टोर्थः । 2 उत्कण्ठापर्याय उत्काशब्दो न प्रसिद्धः ( उत्कण्ठितापर्यायोस्ति) तस्मात् 'पुनरुक्तपानस्पृहम्' (पुनरुक्ता द्विरावृत्ता) ( अधिका) पानस्पृहा येन) इति पाठः । 3 अतिष्ठमित्येव ग्रन्थपाठः । 'अवपूर्वकत्वे तु आत्मनेपदं स्यात् ।'
पाठा० - १ पतन्नेवाहितगमनप्रयत्नः २ दृष्टिहारिणां हरितघननिबिडपलब भरावनप्रासन्नतरस्य सरस्तीरजम्बूनिकुञ्जस्य. ३ निबिड ४ कषायमधुरम् ५ अपुनरुक्तः ६ निपीयमानप्राप्तैः. ७ तीरतरु. ८ अङ्कुरपत्रैश्च; अङ्कुरैः फलैश्च ९ विश्रमयितुम्. १० इव.
684
कादम्बरी ।
कथायाम्
Page #212
--------------------------------------------------------------------------
________________
विरहितमिव कालपुरुषम्, अतिकठिनतया कालिम्ना च वपुषः कालायसपरमाणुभिरिव केवलैर्निर्मितम्, प्रेतपतिमिवापरम्, प्रतिपक्षमिव पुण्यराशेः, आशयमिव पाप्मनः, विनापि क्रोधकारणादाबद्ध भीषणभृकुटिरौद्रतरेणाननेनौरक्तकेकरतरकनीनिकेन च चक्षुषा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिवोपजनयन्तम्, आशये केशेषु चास्निग्धम्, आनने ज्ञाने चान्धकारितम्, वर्णे चरिते च कृष्णम्, निवसने कर्मणि च मलिनम्, वचसि वपुषि च पूरुषम्, अदृष्टाश्रुतानुरूपमप्याकारप्रत्ययादेवानुमीयमानक्रौर्यदोषं पुरुषमद्राक्षम् । आलोक्य च तं तादृशमात्मन निष्प्रत्याश एवापृच्छम् - ‘भद्र कस्त्वम् ? किमर्थं वा त्वया बद्धोऽस्मि । यद्यामिषतृष्णया, तत्किमिति सुप्त एव न व्यापादितोऽस्मि । किं मया निरागसा बन्धदुःखमनुभावितेन । अथ केवलमेव कौतुकात् । ततः कृतं कौतुकम् । मुञ्च मामिदानीं त्वं भद्रमुखः । मया खलु वल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकालक्षेपक्षमं वर्तते मैं हृदयम् । भवानपि प्राणिधर्मे वर्तते' एवमुक्तः स मामुक्तेवान् -
तश्च पाशविरहितं कालपुरुषमिव यममिवातिकठिनतयातिकठोरतया वपुषो देहस्य कालिम्ना कृष्णत्वेन च केवलैः कालायस परमाणुभिर्लेहाणुभिरिव निर्मितं रचितमपरं प्रेतपतिं यममिव पुण्यराशेः सुकृतसङ्घातस्य प्रतिपक्षमिवासहनमिव पाप्मनः पापिष्ठस्याशेयमिवाभिप्रायमिव । क्रोधकारणाद्विनापि मन्युहेतुं विनाप्याबद्धा या भीषणा भैरवा भृकुटयस्ताभिः रौद्रतरेण भीषणतरेणाननेन मुखेनारक्ता लोहिता केकरतरा अतिवक्रा कनीनिका यस्यैवंभूतेन च चक्षुषा नयनेन कृत्वा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिव भीतिमिवोपजनयन्तमुत्पादयन्तं निष्पादयन्तम्, आशयेऽभिप्राये केशेषु चालकेषु चास्निग्धं रूक्षमानने मुखे ज्ञाने चावबोधे चान्धकारितं प्राप्तान्धकारम्, वर्णे देणे चरित आचरणे च कृष्णं श्यामम्, निवसने वस्त्रे कर्मणि क्रियायां च मलिनं कश्मलम्, वचसि वाचि वपुषि शरीरे च परुषं कठिनम्, अदृष्टश्रुतमनुरूपं स्वैरूपं यस्यैवंभूतमप्याकारप्रत्ययादाकृतेर्ज्ञानादेवानुमीयमानमनुमानेन ज्ञायमानं क्रौर्यदोषं क्रूरतादूषणं यस्य स तमेवंविधं पुरुषं नरमद्राक्षं व्यलोकयम् । आलोक्य च निरीक्ष्य च तं तादृशमात्मनः स्वस्योपरि निष्प्रत्याशी निराश एवाहमपृच्छमप्रश्नयम् । हे भद्र, कस्त्वम् । किमर्थं किंप्रयोजनं वाहं बद्धोऽस्मि । यद्यामिषतृष्णया मांसलिप्सया तत्तस्माद्धेतोः सुप्त एव निद्रां गत एव किमिति न व्यापादितो न हतोऽस्मि । किं बन्धदुःखमनुभावितेन प्रापितेन मया निरागसा निरपराधिना । अथ केवलमेव कौतुकादाश्चर्यादिति चेत्कृतं कौतुकं विहितं कुतूहलम् । 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः । भद्रमुखः कल्याणकृद्वदनस्त्वमिदानीं सांप्रतं मां मुञ्च त्यज । वल्लभजने प्रणयिनि जन उत्कण्ठितेन मयोत्केन मया वैशम्पायनेन दूरं दविष्ठं गन्तव्यं गमनीयं चलनीयम् । मम हृदयं चेतो मानसमकालक्षेपक्षमं कालविलम्बे समर्थं न वर्तते । भवानपि प्राणिधर्म एव वर्तते मनुष्योऽसीति तद्धर्मान्वेत्सि । एवमुक्तः कथितो मामित्युक्तवान्भणितवान् । टिप्प० - 1 आश्रयमित्येव पाठः । 2 'अदृष्टाश्रुताननुभूतमपि आकारप्रत्ययादेवानुमीयमानक्रौर्यदोषम्' इत्युचितः पाठः । न दृष्टं न श्रुतं न अनुभूतमपि, इति तदर्थः ।
पाटा० - १ आश्रयम्. २ भ्रुकुटी. ३ आरक्तकेकरतल; रक्ततर. ४ चक्षुषा च ५ अदृष्टश्रुतानुरूपम्; अदृष्टश्रुतानुभूतम्. ६ च ७ अनुभावितेनापि. ८ जनदर्शन. ९ मद्धृदयम्. १० प्राणिधर्मे प्रवर्तते; प्राणिधर्मेषु वर्तत एवेति ११ स त्वेवमुक्तः. १२ प्रत्यवादीत्.
(वृक्षे निद्रितस्य तस्य चण्डालहस्ते गमनम्
उत्तरभागः ।
685
Page #213
--------------------------------------------------------------------------
________________
'महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलुब्धेन कुतूहलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिरितो नातिदूरे मातङ्गकप्रतिबद्धायां भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरात्मना कथितो यैथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुकस्तिष्ठतीति । तया च श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय बहेव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादितोऽसि । तदहं तत्पादमूलं त्वां प्रापयामि । बन्धमोक्षे चाधुना सा ते प्रभवति' इति ।
अहं तच्छ्रुत्वा मुक्ताशनिनेव ताडितः शिरसि, संविग्नान्तरात्मा चेतस्यकरवम्- 'अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया सुरासुरशिरः शेखराभ्यर्चितचरणसरसिजायाः श्रियो जातेन, जगत्त्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन, दिव्यलोकां श्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पक्कणं 'प्रवेष्टव्यम् ।'
किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठिनकर्मा जात्या जन्मना । ‘जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिषलुब्धेन मांसगृधुना कुतूहलेन कौतूहलेन वा त्वं बद्धः संदानितः । खलु निश्चये । मम स्वामी पक्कणाधिपतिः पक्कणः शबरावासस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठे मातङ्गकैरन्त्यजैः प्रतिबद्धायां कृतगृहादिरचनायां भूमौ कृतमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कणः शबरावासो घोषस्त्वाभीरपल्लिका' इति हैमः । तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्यद्भुतरूपवत्त्वाठप्रथम आद्ये वयसि दशायां वर्तते । केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहितायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो महाश्चर्यकारी महाकौतुककृच्छुकस्तिष्ठत्यास्त इति । तया च पक्कणाधिपतिसुतया श्रुत्वाकर्ण्योत्पन्नकौतुकात्संजातकुतूहलात्त्वद्ग्रहणाय त्वदानयनाय बहव एवापरे मादृशा मत्सदृशाः समादिष्टा आज्ञापिताः । तदिति हेत्वर्थे । अद्य पुण्यैः सुकृतैस्त्वं समासादितः प्राप्तोऽसि तत्तस्माद्धेतोस्तस्याः पादमूलं चरणसमीपमहं श्वपचस्त्वां प्रापयामि नयामि । अधुना सांप्रतमिति हेतोस्ते तव बन्धमोक्षे सैव चाण्डालसुतैव प्रभवति समर्था भवति । नाहम् ।
अहं वैशम्पायनस्तच्छ्रुत्वाकर्ण्य मुक्तो योऽशनिर्वज्रं तेन शिरस्युत्तमाङ्गे ताडित इव संविग्न उद्विग्नोऽन्तरात्मा यस्यैवंभूत इति चेि चित्तेऽकरवं व्यथामन्वतिष्ठम् । अहो इति खेदे । मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदैत्यानां शिरः शेखरैर्मौलिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवंविधायाः श्रियो लक्ष्म्या जातेनोत्पन्नेन जगत्त्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं प्रापितेन दिव्यो देवयुक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनावस्थानशीलेन भूत्वा 'पुलिन्दा नाहला निष्ठा शबरा बरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥' एतैर्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्त्रेतादृशमधुना सांप्रतं पक्कणं प्रवेष्टव्यं तत्र -
टिप्प० - 1 पूर्वं धर्मिनिर्देशादत्रापि समविशेष्यः 'कुतूहलिना (कौतुकयुक्तेन ) ' इत्येव पाठः सम्यक् । 2 कौतुकमये कौतुकबहुले । प्रथमे वयसि (कौमारे ) सर्वस्य कि कौतुकानि प्रतिपदं भवन्ति । 3 विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् । 4 'उत्पन्नकौतुकया' इत्येव पाठः । 5 बन्धे मोक्षे चेत्येव पाठः ।
पाठा० - १ कुतूहलिना. २ मातङ्ग ३ यथा किल. ४ तिष्ठतीति. ५ बहब एवापरेऽपि; अपरिमिता. ६ नयाम्यहम् ७ बन्धमोक्षे च ८ शुष्काशनिना. ९ सुरासुरशिखराभ्यर्चिते चरणसरसिजया श्रिया जनित्वा. १० आश्रय ११ द्रष्टव्यम्.
686
कादम्बरी ।
कथायाम्
Page #214
--------------------------------------------------------------------------
________________
चण्डालैः सहैकत्र स्थातव्यम् । जेरन्मातङ्गाङ्गनाकरोपनीतैः कवलैरात्मा पोषणीयः । चण्डालबालकजनस्य क्रीडनीयेन भवितव्यम् । दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते, यस्य कर्मणामयमीदृशः परिणामः, किमर्थं प्रथमगर्भ एव न सहस्रधा शीर्णोऽसि ? मातः श्रीः, अशरणजनशरणचरणपङ्कजेऽतिगहन भीषणाद्रक्ष मामस्मान्महानरकपातात् । तात भुवनत्रयत्राणक्षम, त्रायस्व कुलतैन्तुमेकम् । त्वयैव संवर्धितोऽस्मि । वयस्य कपिञ्जल, यदि परापत्य त्वयास्मात्पापान्न मोचितोऽस्मि तदा जन्मान्तरेपि पुनर्मा कृथा मत्समागमप्रत्याशाम्' इति । एतानि चान्यानि च चेतसा विलप्य पुनस्तमभ्यर्थनादीनमवदम् - ‘भद्रमुख, जातिस्मरो मुनिरस्मि जात्या । तत्तवापि मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो भवत्येवादृष्टसुखहेतुः । दृष्टेऽपि च केनचिदपरेणादृष्टस्य मन्मुक्तिकृतः प्रत्यवायो नास्त्येव । तन्मुञ्चतु मां भद्रमुखः ' इत्यभिदधानश्च पादयोरपतम् । स तु विहस्य मामब्रवीत् -
प्रवेशः कर्तव्यः । चण्डालैरन्तेवासिभिः सहैकत्रैकस्मिन्स्थाने स्थातव्यमवस्थानं कर्तव्यम् । जरत्यश्च ता मातङ्गानामङ्गनाः स्त्रियो युवत्यश्च तासां करोपनीतैर्हस्तानीतैः कवलैर्गण्डोलकैरात्मा पोषणीयः । चण्डालबालकजनस्य क्रीडनीयेन क्रीडां कर्तुं योग्येन भवितव्यम् । हे दुरात्मन् हे पापात्मन्, हे पुण्डरीकहतक हे पुण्डरीकमारक, ते तव जन्मलाभं धिगस्तु । यस्य कर्मणामयमीदृशः परिणामो विपाकः । प्रथमगर्भे एव सहस्रधा सहसंप्रकारेण किमर्थं न शीर्णः शटितोऽसि । हे मातः श्रीः, अशरणजनानां शरणमाश्रयं चरणपङ्कजं चरणकमलं यस्यास्तस्याः संबोधनम् । अतिगहनं दुरवगाहनं च तद्भीषणं चेति कर्मधारयः । अतिगहनं भीषणं तस्मादस्मान्महानरकपातान्महादुर्गनिपतनात्त्वं मां वैशम्पायनं रक्ष पाहि त्राहि । तस्मात्कारणाद्धे तात हे पितः हे जनक, भुवनत्रयस्य विष्टपस्य त्राणं रक्षणं तत्र क्षम समर्थ, एकं कुलतन्तुं कुलपांसुल वा मां त्रायस्व रक्ष । 'पांसुलः पुंश्चले शंभो: खट्वाङ्गे पांसुला भुवि' इति विश्वः । त्वयैव भवतैव संवर्धितोऽस्मि वृद्धिं प्रापितोऽस्मि । हे वयस्य कपिञ्जल, यदि परापत्यागत्य त्वयास्मात्पापान्न मोचितोऽस्मि न त्याजितोऽस्मि तदा जन्मान्तरेऽपि भवान्तरेऽपि गतजन्मन्यपि पुनर्मत्समागमप्रत्याशां मन्मेलापकस्पृहां मा कृथा मा व्यधत्था इत्येतानि चान्यानि च चेतसा मनसा विलप्य विलापं कृत्वा पुनस्तमभ्यर्थना प्रार्थना तया दीनं यथा स्यात्तथावदमवोचम् । हे भद्रमुख हे कल्याणमुख, जातिस्मरो निजजातिस्मरणवानहं जात्या मुनिरस्मि जन्मना यतिरस्मि । तत्तस्मात्कारणाज्जात्या कृत्वा मामस्मात्पापसंकटात्पापकष्टादंहः कष्टादुद्धृत्योद्धारं कृत्वा तवाप्यदृष्टश्चासौ सुखहेतुश्चेति कर्मधारयः । एवंविध धर्मो भवत्येव । दृष्टेऽपि दूषणं नास्तीत्याशयेनाह - दृष्टेऽपीति । अदृष्टस्यानवलोकितस्य मन्मुक्तिकृतो मन्मोचनकर्तुरपरेण केनचिद्दृष्टेऽपि वीक्षितेऽपि प्रत्यवायः प्रायश्चित्तं नास्त्येव । 'धर्मः क्षरति कीर्तनात्' इति स्मृतेः । तेन दृष्टादृष्टसुकृतसमाचरणेऽपि न दोष इति ध्वनितम् । तदिति हेत्वर्थे । एष भद्रमुखो मां मुञ्चतु त्यजत्वित्यभिदधान इतिब्रुवाणश्चाहं पादयोश्चरणयोरपतं पतितवान् । स तु भद्रमुखो -
टिप्प० - 1 आगामिजन्मन्यपीति योग्यम् । 2 अदृष्टसुखहेतुर्धर्मस्तु भवेदेव, किन्तु दृष्टेऽपि दर्शनविषयेऽस्मिन् लोकेपि, केनचिदन्येन अवीक्षितस्य मम मोचनं कुर्वतस्ते दोषो नास्ति । पूर्वं मां निबद्ध्य ततो मुक्तवानिति न त्वं केनचिदृष्टः । अतो न ते स्वामिदुहितुः सविधे दोषोद्घोषः स्यादित्याशयः । 'मामुद्धृत्य ते धर्मो भवेत्' इति यदि ग्रन्थस्य यथास्थितं वाक्यं ? तर्हि समाधानसापेक्षम्, उद्धृत्य इति उद्धारस्य त्वं कर्ता, भवेत् इत्यस्य च धर्मः कर्ता । क्त्वाप्रत्यये च द्वयोरेककर्तृकत्वमपेक्षितमित्यलं पौरोभाग्येन ।
पाठा० - १ जनगमानां करोपनीतैः; जनङ्गमाङ्गनयोपनीतैः २ कर्मणः ३ पांशुलम्. ४ भवेत्. ५ ते; च ते. ६ पुनः पुनः पादयोः.
दीनप्रार्थनोत्तरमपि पक्कणे नयनम्
उत्तरभागः ।
687
Page #215
--------------------------------------------------------------------------
________________
'र मोहान्ध, यस्य शुभाशुभक्रमसाक्षिभूताः पञ्च लोकपालास्तवैवात्मशरीरस्थिता न पश्यन्ति सोऽन्यस्य भयादकार्य नाचरति । तन्नीतोऽसि मया स्वाम्याज्ञया' इत्येवमभिदधान एव मामादाय पक्षणाभिमुखमगच्छत् ।
अहं तु तेन तद्वचसाभिहत इव मूर्ध्नि, मूकतामापन्नः केषां पुनः कर्मणामिदं मे फलमित्यन्तरात्मनाभिध्यायन्प्राणपरित्यागं प्रति कृतनिश्चयोऽभवम् । नीयमानश्च तथा तेन तन्मोचनप्रत्याशयैवाग्रतो दत्तदृष्टिराविष्टैरिव बीभत्सविन्यासै
या॑वृत्तैश्चावर्तकानायपरिभ्रमणानिभृतैश्च मृगावपाटितजीर्णवागुरासंग्रन्थनव्यग्रैश्चोत्रुटितकूटपाशसंग्रन्थनायस्तैश्च हस्तस्थितकाण्डकोदण्डैश्च प्रासप्रचण्डपाणिभिश्च सेलग्राहिभिश्च नानाविधग्राहकविहंगवाचाल -
***********
विहस्य स्मितं कृत्वा माब्रवीदभ्यधात् । किं तदित्याह - रे इति । मोहान्ध हे मोहेन गताक्ष, शुभाशुभकर्मणोधर्माधर्मयोः साक्षिभूताः स्थेयीभूता इन्द्रयमवरुणसोमकुबेराख्याः पञ्च लोकपालास्तवैवात्मशरीरस्थिता यस्य न पश्यन्ति नावलोकयन्ति स पुमानन्यस्य भयादकार्यमकृत्यं नाचरति न करोति । अहं तु पञ्चभिर्विलोक्यमानोऽप्यकृतं करोमीति भावः । अतो मम दोषो नास्तीत्याशयेनाह - तदिति । तत्तस्मात्कारणान्मया स्वामिनोऽधीशस्याज्ञया निदेशेन न स्वातन्त्र्येण नीतोऽस्यत्र प्रापितोऽसि । अतो न दूषणं ममेति भावः । इत्येवमभिदधान एवेत्येवं ब्रुवाण एव मामादाय गृहीत्वा पक्कणस्य शबरावासस्याभिमुखमगच्छदगमत् । ___ अहं तु तेन भद्रमुखेन तद्वचसा तद्वाक्येन मूर्ध्नि शिरस्यभिहत इव ताडित इव मूकतामापन्नो मूकभावं प्राप्तः । इदं केषां कर्मणा फलमित्यन्तरात्मनाभिध्यायन्विचारयन्प्राणपरित्यागमसुमोक्षणं प्रति कृतनिश्चयो विहितनिर्णयोऽभवम् । तथा तेन प्रकारेण तेन चाण्डालेन नीयमानश्च तस्माद्यन्मोचनं मोक्षणं तस्य प्रत्याशा वाञ्छा तयैवाग्रतः । पुरो दत्ता दृष्टिर्येन सोऽहं दूरत एव पक्कणं शबरनिवेशमपश्यं व्यलोकयमिति दूरेणान्वयः । इतः पक्कणं विशिनष्टि - आवेष्ट्यमानमिति । आवेष्ट्यमानं परिवेष्टनविषयीक्रियमाणम् । कैस्तदेवाह - आविष्टैरिव भूतग्रस्तैरिव । बीभत्सो रोद्रौ विन्यासो रचना येषां तैः । व्यावृत्तैश्च आखेटकानिवृत्तैः । आवर्त एवावर्तकः । 'आवर्तः पयसां भ्रमः' इत्यमरः । तत्रानायस्य मत्स्यबन्धनस्य परिभ्रमणमितस्ततः परिक्षेपणं तेनानिभृतैश्चञ्चलैः । 'आनायो मत्स्यबन्धनम्' इत्यमरः । मृगैर्हरिणैरवपाटिता विदारिता द्विधाकृता जीर्णवागुरा मृगबन्धनी तस्याः संग्रन्थनं गुम्फनं तेन व्यग्रैक्कुलैः । उत्रुटित उच्छिन्नो यः कूटपाश उन्माथस्तस्य संग्रन्थनं गुम्फनं तेनायस्तैर्व्यग्रैश्च । 'उन्माथः कूटयन्त्र स्यादागुरा मृगबन्धनी' इत्यमरः । हस्तस्थितानि सकाण्डानि सबाणानि कोदण्डानि धषि येषां तैश्च । प्रासैः कुन्तैः प्रचण्डा रौद्राः पाणयो हस्ता येषां तैः । सेलं गृह्णन्तीत्येवंशीलाः सेलग्राहिणस्तैश्च । नानाविधा अनेकप्रकारा ये ग्राहकविहंगाः शिजनैकप्रमुखास्तेषां वाचाल -
- - - - - -- टिप्प०-1 'तवेव.. अन्यस्य कस्य... इत्युचितः पाठः । तव शरीरे स्थिताः पञ्च लोकपाला यथा अकार्यं न पश्यन्ति (अत एव त्वया दुष्कृतं कृत्वा फलमिदं भुज्यत इत्याक्षेपो ध्वन्यते) तथा यस्य न पश्यन्ति सः अन्यस्य कस्य वा भयात् अकार्यं नाचरति ? अपि तु अन्यस्य भयनिवृत्तौ अकार्यमाचरत्येव । (मा मुञ्चन् न त्वं विलोकित इति कुतो दोष इत्यस्य प्रत्युत्तरमिदम्) । 2 भाषायां प्रसिद्ध स्यान संस्कृते, 'भल्लग्राहिभिश्च' इत्येव पाठः । 3 मध्यगतानि 'लगुडिभिश्च' इत्यादीनि विशेषणान्यपि नीचैः पाठान्तरे द्रष्टव्यानि ।
-
-
-
-
-
पाटा० - १ तथैव. २ आत्मशरीरे स्थिताः; आत्मस्थिताः. ३ अन्यस्य कस्य. ४ आत्मनो मोचन. ५ बीभत्सविन्यासैावृत्तैश्च वर्तकानादाय परिभ्रमणानिवृत्तैश्च; बीभत्सुविन्यासैावृत्तैश्च वर्तकानामुपरि भ्रमणनिभृतेश्च. ६ निग्रन्थन; ग्रन्थन. ७ पाशप्रचण्डदण्ड; प्रसरद्दण्डप्रचण्ड. ८ भल्लग्राहिभिश्च लगुडिभिश्च लासकग्राहिभिश्च. ९ सेलग्राहक. १० वाचालकुशलैः; वाचालनाकुशलैः.
688
कादम्बरी।
कथायाम्-)
Page #216
--------------------------------------------------------------------------
________________
नकुशलैः कौलेयकमुक्तिसंचारणचतुरैश्चण्डालशिशुभिर्वृन्दशो दिशि दिशि मृगयां क्रीडद्भिर्दूरत ऐवावेष्ट्यमानम्, इतस्ततो विस्रगन्धिधूमोद्गमानुमीयमानसान्द्रवंशवनान्तरितवेश्मसंनिवेशम्, सर्वतः करङ्कप्रायवृत्तिवटम्, अस्थिप्रायरथ्यावकरकूटम्, उत्कृत्तमांसमेदोवैसासृक्कर्दमप्रायकुटीराजिरम्, आखेटप्रायाजीवम्, पिशितप्रायाशनम्, वसाप्रायस्नेहम् कौशेयप्रायपरिधानम्, चर्मप्रायास्तरणम्, सारमेयप्रायपरिवारम्, धवलीप्रायवाहनम्, स्त्रीमद्यप्रायपुरुषार्थम्, असृक्प्रायदेवताबलिपूजम्, पशूपहारप्रायधर्मक्रियम्, आकारमिव सर्वनरकाणाम्, कारणमिव सर्वाकुशलानाम्, संनिवेशमिव सर्वश्मशानानाम्, पत्तनमिव सर्वपापानाम्, आयतनमिव सर्वयातनानाम्, स्मर्यमाणमपि भयंकरम्, श्रूयमाणमप्युद्वेगकरम्, दृश्यमानमपि पापजननम्, जन्मकर्मतो मलिनतरजनम्, जनतो निस्त्रिंशतरलोकहृदयम्, -
नमभिवादनं तत्र कुशलैश्चतुरैः । कौलेयकानां शुनां मुक्तौ जीवोपरि मोचने संचारण इतस्ततः परिभ्रमणे चतुरैरभिज्ञैः । ‘कौलेयकः सारमेयः कुक्कुरो मृगदंशकः' इत्यमरः । एतादृशैश्चण्डालशिशुभिः श्वपचदारकैः । वृन्दैश्च वृन्दैश्च वृन्दशः । दिशि दिशि मृगयामाखेटकं क्रीडद्भिः क्रीडां कुर्वद्भिः आवेष्ट्यमानमित्यनेन संबन्धः । पुनः प्रकारान्तरेण विशेषयन्नाह - इतस्तत इति । इतस्ततो यत्र तत्र विसगन्धिरामगन्धो यो धूमोद्गमो दहनकेतनस्तस्योद्गमेनोर्ध्वगमनेनानुमीयमानं सान्द्रं निविडं वंशवनं वेणुकाननं तेनान्तरितो व्यवहितो वेश्मसंनिवेशो यस्य स तम् । करङ्कप्राया शरीरास्थिबहुला या वृतिरावेष्टकस्तस्यां वाटो निःसरणमार्गो यस्मिन्स तथा । 'बाटो वृतौ च मार्गे च वाटी च गृहनिष्कुटे' इति विश्वः । अस्थीनि प्रायो बाहुल्येन यस्यामेवंविधा रथ्या मार्गस्तस्यामैवकरकूटः संकरसमूहो यस्मिन् । 'संकरावकरौ तुल्यौ' इति हैमः । उत्कृत्तमुत्कल्पितं यन्मांसं पललं मेदोऽस्थिकृद्वसा शुद्धमांसस्य स्नेहोऽसूयुधिरमेतेषां कर्दमः पङ्कः प्रायो बाहुल्येन यस्मिन्नेवंभूतं कुटीराणामजिरमङ्गणं यस्मिन्स तम् । ‘अजिरं चत्वराङ्गणम्' इति हैमः । आखेटकप्रायं आजीवो जीवनं यस्मिन्स तम् । 'आजीवो जीवनं वार्ता जीविका वृत्तिचेतनम्' इति कोशः । पिशितं मांसं प्रायो बाहुल्येनाशनं भोजनं यस्मिन्स तथा तम् । वसा मांसस्नेहः सैव प्रायः स्नेहो यस्मिन्स तथा तम् । कौशेयं कृमिकोशोत्थं तदेव प्रायः परिधानमधोंशुकं यस्मिन्स तथा तम् । 'कौशेयं कृमिकोशोत्थं परिधानं त्वधोंशुकम्' इति हैमः । चर्माजिनं प्रायो बाहुल्येनास्तरणं यस्मिन्स तम् । सारमेयाः कुक्कुरास्त एव प्रायः परिवारो यस्मिन्स तम् । धवली गौः सैंव प्रायो वाहनं युग्यं यस्मिन्सतम् । स्त्रीम एव प्रायः पुरुषार्थः पुरुषप्रयत्नसाध्यः पदार्थो यस्मिन्स तम् । असृग्रुधिरं तदेव प्रायो देवतानां बलिपूजा यस्मिन्स तम् । पशूनामुपहारो बलिः स एव धर्मक्रिया सुकृताचरणं यस्मिन्स तम् । सर्वनरकाणां सर्वदुर्गतानामाकारमिव स्वरूपमिव । सर्वेषामकुशलानामश्रेयसां कारणमिवाकल्याणानां कारणमिव निदानमिव । सर्वेषां श्मशानानां पितृतर्पणानां संनिवेशमिव स्थानकमिव । सर्वेषां पापानामधर्माणामंहसां पत्तनमिव पुटभेदनमिव । सर्वासां यातनानां तीव्रवेदनानामत्यन्तकष्टानामायतनमिव गृहमिव । स्मर्यमाणमपि स्मृतिगोचरीक्रियमाणमपि भयंकरं प्रतिभयावहम् । श्रूयमाणमप्याकर्ण्यमानमप्युद्वेगकरमरतिजनकमसुखनिष्पादकम् । दृश्यमानमप्यालोक्यमानमपि पापजननमंहसामुत्पादकम् । जन्मतः कर्मतश्चातिशयेन मलिना मलिनतरा जना यस्मिन्स तम् । जनतो नीचजनेभ्यः । 'जनो लोके
टिप्प० - 1 'क्रीड' धातुरकर्मकः । अत एव 'मृगया' इत्युचितः पाठः । 2 धूमेन वनस्य किमनुमानम् । धूमोद्गमेन अनुमीयमानः सान्द्रवंशवनान्तरितः वेश्मसंनिवेशो यस्मिन् इत्येव विग्रहः । 3 अस्थिप्रायाः ( अस्थिबहुलाः) रथ्यासु अवकरकूटाः ( संमार्जनीक्षिप्त 'जञ्जाल ' राशयः) यस्मिन् तथोक्तम् । एवं व्याख्यातव्यम् ।
पाठा० - १ संवरण. २ मृगया; मृगयया. ३ आवेद्यमानम् ४ वंशी. ५ वादम्. ६ वसाकर्दम. ७ निःस्पर्शतर.
दीनप्रार्थनोत्तरमपि पक्कणे नयनम्
-
उत्तरभागः ।
689
Page #217
--------------------------------------------------------------------------
________________
लोकहृदयेभ्योऽपि निघृणतरसर्वसंव्यवहारसमस्तपुरुषम्, अविशेषाचारवालयवस्थविरम्, अव्यवस्थितगम्यागम्याङ्गनोपभोगम्, अपुण्यकर्मैकोपणं पक्कणमपश्यम् ।
दृष्ट्वा च तं तादृशं नरकवासिनोऽप्युद्धेगकरं समुत्पन्नघृणोऽन्तरात्मन्यकरवम् - 'अपि नाम सा चाण्डालदारिका दूरत एव मामालोक्योत्पन्नकरुणा मोचयेत् ? न जातिसदृशमाचरिष्यति ? भविष्यन्त्येवंविधानि मे पुण्यानि ? न निमेषमप्यत्र पदं कुर्याम्' इत्येवं कृताशंसमेव मां नीत्वा स चण्डालस्तदा दुर्दर्शनाकारवेषायै दूरतः स्थितः प्रणम्य 'एष स मया प्राप्तः' इति तस्यै चण्डालदारिकायै दर्शितवान् । सा तु प्रहृष्टतरवदना 'शोभनं कृतम्' इति तमभिधाय तत्करात्स्वकरयुगेनादाय माम् ‘आः पुत्रक, प्राप्तोऽसि । सांप्रतं क्वापरं गम्यते । व्यपनयामि ते सर्वमिदं कामचारित्वम्' इत्यभिदधानैव धावमानचण्डालबालकोपनीतेऽर्धाश्यानलोमशदुर्गन्धिगोचर्मवध्रिकावनद्धे दृढबद्धदारुमयपानभोजनपात्रे मनागुद्घाटितद्वारे -
***********
महर्लोकात्परलोके च पामरे' इति विश्वः । अतिशयेन निस्त्रिंशं निस्त्रिंशतरमतिक्रूर लोकानां हृदयं यस्मिन्स तथा तम् । 'क्रूरे नृशंसनिस्त्रिंश-' इति हैमः । लोकहृदयेभ्य इतरजनचित्तेभ्योऽपि निघृणतरो निर्दयतरः सर्वः संव्यवहारो व्यवहृतिर्येषामेवंविधाः समस्ताः समग्रा : पुरुषा यस्मिन्स तम् । अविशेषो विशेषवर्जित आचारो येषामेवंभूता बालयुवस्थविराः पाकतरुणज्यायांसो यस्मिन्स तम् । अव्यवस्थितोऽनिश्चितो गम्यागम्याङ्गनायाः सेव्यासेव्यस्त्रिय उपभोगो यस्मिन्स तम् । अपुण्यकर्मणामश्रेयसकृत्यानामेकमद्वितीयमापणं हट्टमहं पक्कणमपश्यमित्यन्वयस्तु
पूर्वमुक्तः।
नरकवासिनोऽपि दुर्गतिस्थायिनोऽप्युद्धेगकरमरतिकरं तं तादृशमुक्तस्वरूपं दृष्ट्वा निरीक्ष्य च समुत्पन्नघृणः संजातजुगुप्सोऽन्तरात्मनि चित्तेऽकरवमकल्पयम् । किं तदित्याह - अपीति । अपि नाम कोमलामन्त्रणे । सा चाण्डालदारिका म्लेच्छबालिका दूरत एव दविष्ठत एव मामालोक्योत्पन्नकरुणा संजातकारुण्या मोचयेन्मुक्ति कुर्यात् ? जातिसदृशं कुलतुल्यं नाचरिष्यति न करिष्यति । एवंविधानि मे मम पुण्यानि श्रेयांसि भविष्यन्ति । निमेषमप्यक्षिस्पन्दनमात्रमप्यत्र पदं स्थानं न कुर्यां न विदध्याम् । इत्येवंप्रकारेण कृता विहिताशंसा स्पृहा वाञ्छा येनैवंभूतमेव मां नीत्वा स चण्डालो दुर्दर्शन आकारो वेषश्च यस्याः सा तस्यै दूरतः स्थितः प्रणम्य नमस्कृत्य स एष मया प्राप्त इति तस्यै चण्डालदारिकायै दर्शितवान्दृग्गोचरीकारितवान् । सा तु चण्डालदारिका प्रहृष्टतरं प्रमुदिततरं वदनं मुखं यस्याः सा, शोभनं शुभं कृतमिति तं भद्रमुखमभिधाय तत्करात्तत्पाणेस्तद्धस्तात्स्वकरयुगेनात्महस्तयुगेन स्वीयपाणिद्वयेनादाय गृहीत्वा माम् । आः पुत्रक सुत, त्वं प्राप्तोऽसि । अतोऽस्मात्स्थानादिति गम्यम् । सांप्रतं क्वापरमग्रे गम्यते गमनं क्रियते । ते तव सर्वं कामचारित्वं स्वेच्छाविहारित्वं व्यपनयामि दूरीकरोमि । इत्यभिदधानैवेति ब्रुवाणैव धावमानस्त्वरितगत्या गच्छमानो यश्चण्डालबालकस्तेनोपनीत आनीतेऽर्धमाश्यानं शुष्कं लोमशं लोमयुक्तं दुर्गन्धि विसगन्धि यद्गोचर्म तस्य वधिका नथ्रीतयावनद्धे बद्धे । 'पूतिगन्धिस्तु दुर्गन्धो विसं स्यादामगन्धि यत्' इत्यमरः । दृढं बद्धानि दारुमयानि काष्ठम
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'नाचरेत् ?' इत्युचितः पाठः, पूर्वप्रयुक्तेन लिङा समन्वयात् । सर्वत्र च आरम्भोपात्तेन अपिना सूचितः प्रश्नो वाक्यार्थः । 2 अग्रे सेयं शापभ्रष्टा लक्ष्मीः संपत्स्यते । नास्या वैरूप्यं कवेरभिप्रेतम्, अत एव 'अनुद्धततरवेषायै (न उग्रतरः 'सौम्यः वेषो यस्याः) इति पाठः ।
पाठा० - १ व्यवहार. २ समस्तपुरुष एककारणम्. ३ नरकवासिनाम्. ४ अशुद्धतरवेषायै. ५ दूरस्थितः; दूरत एवावस्थितः. ६ युगलेन. ७ बहुलबालक. ८ अर्घश्यान.
690
कादम्बरी।
कथायाम्
Page #218
--------------------------------------------------------------------------
________________
दारुपञ्जरे समं महाश्वेतावलोकनमनोरथैराक्षिप्यार्गलितद्वारा सा मामवदत् - 'यथात्र निर्वृतः संप्रति तिष्ठ' इत्यभिधाय तूष्णीमस्थात् ।
अहं तु तथा संरुद्धश्चेतस्यकरवम् - ‘महासंकटे पतितोऽस्मि । यदि तावदावेदितात्मावस्थः शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनां तदा य एव मे गुणो दोषतामापद्य बन्धायोपजातः स एव संवर्धितो भवति । साधु जल्पतीत्येवाहमनया ग्राहितः । कास्या मदीयया बन्धपीडया पीडा । नाहमस्यास्तनयो न भ्राता न बन्धुः । अथ मौनमालम्ब्य तिष्ठामि, तंत्रापि शाठ्यप्रकुपिता कदाचिदतोऽप्यधिकामवस्थां प्रापयति माम् । नृशंसतमा हि जातिरियम् । अथवा वरमितोऽप्यधिकमुपजातं न पुनश्चाण्डालैः सह वागपि विमिश्रितो । अपि च गृहीतमौनं निर्वेदात्कदाचिन्मुञ्चत्येव । वदंस्तु पुनर्न मोक्तव्य एवाहमनया । अपि च यदिव्यलोकभ्रंशः, यन्मर्त्यलोके जन्म, यत्तिर्यग्जातौ पतनम्, यच्चाण्डालहस्तागमनम्, यच्चेदमेवंविधं पञ्जरबन्धदुःखम्, सर्व एवायमनियतेन्द्रियत्वस्यैव दोषः । तत्किमेकयो वाचा, -
***********
यानि पानभोजनपात्राणि यस्मिन्मनागीषदुद्घाटितमुन्मुद्रित द्वारं यस्मिन्नेतादृशे दारुपञ्जरे काष्ठनिर्मितविहंगरक्षणे महाचेतावलोकनमनोरथैः महाश्वेतानिरीक्षणमनोरथैः सममाक्षिप्य निवेश्य स्थापयित्वार्गलितं द्वारं यया सा मामवददवोचत् । यथा अत्र स्थलेऽत्र स्थाने संप्रतीदानीमधुना निर्वृतः सुखी तिष्ठ । इत्यभिधायेत्युक्त्वा तूष्णीं जोषं मौनमस्थात्तस्थौ ।
अहं तु तथाप्रकारेण संरुद्धो निरुद्धश्चेतसि मनस्यन्तःकरणेऽकरवं व्यधाम् । महासंकटे महाकष्टे पतितोऽस्मि निक्षिप्तोऽस्मि । यदि तावदादावावेदिता निवेदिता कथिता आत्मनोऽवस्था दशा येनैवंभूतोऽहं शिरसा प्रणिपत्य मस्तकेन नमस्कृत्यैनां चण्डालदारिका विज्ञापयामि विज्ञप्ति करोमि तदा य एव मे मम गुणो वक्तृत्वलक्षणो दोषतां दूषणतामापद्य प्राप्य बन्धाय बन्धहेतुरुपजात उत्पनः प्राप्तः स एव दोषतां दूषणत्वं प्राप्तो गुणः संवर्धितो वृद्धिं नीतो भवति । तदेव दर्शयति - साध्विति । साधु जल्पति शुभं वदतीत्येवं हेतोरनयाहं ग्राहितो ग्रहणं कारितः । अस्याश्चण्डालदारिकाया मदीयया बन्धपीडनया का पीडा । एतदेव विशेषतो दर्शयन्नाह - नेति । अहमस्यास्तनयः सुतो न, न भ्राता सहोदरः, न च बन्धुः स्वजनः । अथेति प्रकारान्तरे । यदि मौनमालम्ब्य तूष्णीं भूत्वा तिष्ठामि तत्रापि तत्कृतेऽपि शाठ्येन प्रकुपिता रोषिता सती अतोऽप्यधिकां विशेषाधिकामवस्थां दशां कदाचिन्मां प्रापयति नयति । हि यस्मात्कारणादियं नृशंसतमा क्रूरतमा जातिः । अथवेति पक्षान्तरे । इतोऽप्यस्मादप्यधिकमुपजातं वरं शुभम् । तत्रार्थे हेतुमाह - न पुनरिति । चाण्डालैः सह वागपि विमिश्रिता प्रत्युत्तरप्रदानेन संसक्तीकृता । मौनावस्थायां गुणं प्रदर्शयन्नाह - अपि चेति । कदाचिदिति संभावनायाम् । निर्वेदात्स्वावमानाद् गृहीतमौनं स्वीकृतावचनव्यापार मां मुञ्चत्येव मोचनं विदधात्येव । वदस्तु जल्पस्त्वहमनया चण्डालदारिकया न मोक्तव्य एव न त्यजनीय एव । अपि चेति युक्त्यन्तरे । यद्दिव्यलोकाद् भ्रंशः पातः, यन्मर्त्यलोके मनुष्यलोके जन्मोत्पत्तिः, यत्तिर्यग्जातौ पक्षिजातौ पतनं पातः, यच्चाण्डालस्य श्वपचस्य हस्ते गमनं यानम्, यदेवंविधमेतादृशं पञ्जरबन्धदुःखम् । यत्तदोर्नित्याभिसंबन्धादाह - सर्वेति । स सर्वोऽयमनियतेन्द्रियत्वस्यैवानियन्त्रितेन्द्रियस्यैव दोषो दूषणम् । तत्किमेकया वाचा स्यात् । सर्वाण्येवेन्द्रियाणि -
पाटा० - १ द्वारपिधाना. २ समवदत्; समावेदयत्. ३ संनिवृत्ता. ४ पञ्जरे संरुद्धः. ५ अहो संकटे. ६ संजल्पति. ७ कस्याः. ८ तत्रापि; तथापि. ९ प्रकोपिता. १० अतोऽभ्यधिककष्टतरम्. ११ उपनतम्. १२ मिश्रिता. १३ दिव्यलोकतो भ्रंशः. १४ तिर्यग्योनौ. १५ तत्किं मम.
चण्डालकन्यकया पजरबन्धः
उत्तरभागः।
Page #219
--------------------------------------------------------------------------
________________
'सर्वेन्द्रियाण्येव नियमयामि' इति निश्चित्य मौनग्रहणमकरवम् । आलप्यमानोऽप्यातर्ण्यमानोऽप्याहन्यमानोऽपि त्रुट्यमानोऽपि च बलान किंचिदप्यवदम् । केवलमुच्चैचीत्कारमेवामुञ्चम् । उपनीतेऽपि च पानाशने तं दिवसमनशनेनैवात्यवाहयम् ।
अन्येाश्चातिक्रामत्यशनकाले मे दूयमाने हृदये च सा स्वपाणिनोपनीय नानाविधानि पक्वान्यपक्वानि च फलानि, सुरभि शीतलं च पानीयमप्रतिपन्नतदुपभोगं मामारोपितलोचना स्निह्यन्तीवावोचत् - 'क्षुत्पिपासार्दितानां हि पशुपक्षिणा निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न संभवत्येव । तद्यद्येवंविधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजातिस्मरोऽस्मदीयमाहारं परिहरसि, तथापि तावद्भक्ष्याभक्ष्यविवेकरहितायां तिर्यग्जातौ वर्तमानस्य ते किं वाऽभक्ष्यं यन्न भक्षयसि ? येन चोत्कृष्टतमा जातिं प्राप्यात्मनैवेदृशं कर्म कृतं येन तिर्यग्योनौ पतितः, स किमपरं विचारयसि ? प्रथममेवात्मा न विवेके स्थापितः । अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येव दोषः । अपि च येषामपि भक्ष्याभक्ष्यनियमोऽस्ति, तेषामप्यापत्काले प्राणानां संधारणमभक्ष्योपयोगेनापि तावद्विहितम्, किं पुनस्त्वा -
***********
करणानि नियमयामि नियन्त्रयामीति निश्चित्येति निर्णयं कृत्वा मौनग्रहणमकरवम् । आलप्यमानोऽपि संभाष्यमाणोऽप्यातय॑मानोऽपि तर्जनां क्रियमाणोऽप्याहन्यमानोऽपि ताड्यमानोऽपि बलाद्धठात्रुट्यमानोऽपि छिद्यमानोऽपि च न किंचिदप्यहमवदमब्रुवम् । केवलमुच्चैस्तारस्वरं चीत्कार पूत्कृतिविशेषममुञ्चम् । उपनीतेऽपि चानीतेऽपि च पानाशने जलप्राशने तं दिवसमशेषं समग्रमनशनेनैवाभोजनेनैवात्यवाहयं व्यतिक्रामम् ।
अन्येयुश्चेति । अन्यस्मिन्नहन्यशनकाले भोजनकालेऽतिक्रामति सति, मे मम हृदये चित्ते दूयमाने पीड्यमाने सति च, सा चण्डालदारिका स्वपाणिना निजहस्तेनोपनीयानीय नानाविधान्यनेकप्रकाराणि पक्वानि परिणतान्यपक्वान्यपरिणतानि च फलानि सस्यानि सुरभि सुगन्धं शीतलं शिशिरं च पानीयं जलं चाप्रतिपन्नोऽस्वीकृतस्तेषां फलजलानामुपभोगो ग्रहणं येन स तथैवंभूतं मामारोपितलोचना संस्थापितनयना स्निह्यन्तीव स्नेहं कुर्वन्तीवावोचदब्रवीत् । किं तदित्याह - क्षुदिति । क्षुत्पिपासाभ्यामर्दितानां पीडितानाम् । हीति निश्चितम् । पशुपक्षिणां निर्गतो विचारो वितर्को यस्या एवंविधा चित्तवृत्तिर्येषां ते तथा तेषामुपनतेष्वानीतेष्वाहारेष्वनुपयोगोऽनाभोगो न संभवत्येव नास्त्येव । तद्यदि त्वं भवानेवंविध एतादृशः कोऽप्यनिर्वचनीयस्वरूपो भोज्याभोज्ययोर्भक्ष्याभक्ष्ययोविवेकः पृथगात्मता तं करोतीत्येवंशीलः पूर्वजातिस्मरोऽस्मदीयमास्माकीनमाहार भोज्यं परिहरसि त्यजसि, तथापि तथात्वेऽपि तावद्भक्ष्याभक्ष्याविवेकरहितायां भोज्याभोज्यविवेचनवर्जितायां तिर्यग्जातौ वर्तमानस्य स्थितवतस्ते तवाभक्ष्यमभोज्यं किं किमिव, यद्यस्मात्कारणान भक्षयसि नात्सि ? येन च कारणेनोत्कृष्टतमा प्रकृष्टतरामुत्कृष्टतरां जाति प्राप्यासाद्यात्मनैवेदृश कर्म कृतं येन कर्मणा तिर्यग्योनौ पतितः, स त्वमपरमन्यत्किं विचारयसि किं विमर्शयसि ? प्रथममेवादावेवात्मा न विवेके तत्त्वातत्त्वविचारे स्थापितः । अधुना सांप्रतं स्वकर्मणोपात्ता प्राप्ता या जातिस्तस्याः सदृशमनुकूलमाचरतः कुर्वतस्ते तव नास्त्येव दोषः । अपि चेति युक्त्यन्तरे । येषामपि पुरुषाणां भक्ष्याभक्ष्ययो ज्याभोज्ययोर्नियमो विरतिरस्ति, तेषामपि जनानामापत्काले विपत्समये प्राणानां संधारणं रक्षणमभोज्योपयोगेनाप्यभक्ष्यग्रहणेनापि तावद्विहितं तदा त्वादृशस्य भवत्सदृशस्य किं -
-- - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 त्रुट्यतिरकर्मकः, अत एव 'तुद्यमानः' (पीड्यमानः) इत्युचितः पाठः । 2 पानं च अशनं च पानाशनम् (समाहारः) तस्मिन् । 3 'आलोहितलोचना' इति पाठः ।
-
-
पाठा० - १ अपरेयुश्च. २ दूयमानहृदयेव. ३ उपयोगम्. ४ आरोषित; आरोधित. ५ अर्चितानाम्. ६ निर्विकार. ७ परिहासि. ८ त्वम्, ९ विवेकेन. १० येषां च..
[692
कादम्बरी।
कथायाम्
Page #220
--------------------------------------------------------------------------
________________
दृशस्य । न चेदृशं किंचिदप्याहाराय मयोपनीतं यादृशेन चाण्डालाशनशङ्का समुत्पद्यते । फलानि तु ततोऽपि प्रतिगृह्यन्त एव । पानीयमपि चाण्डालभाण्डादपि भुवि पतितं पवित्रमेवेत्येवं जनः कथयति, तत्किमर्थमात्मानं क्षुधा पिपासया वा पातयैसि ? यन्न भक्षयस्यमूनि मुनिजनोचितानि वनफलानि, न पिबसि वा पानीयम्' इति । अहं तु तेन तस्याश्चाण्डालजात्यनुचितेन वचसा विवेकेन च विस्मितान्तरात्मा तथेति प्रतिपद्य, शापनिघ्नो घृणां परित्यज्य जीविततृष्णया क्षुत्पिपासोपशमायाऽशनक्रियामङ्गीकृतवानस्मि, मौनं तु पुनर्नात्याक्षम् ।
एवमतिक्रामति च काले क्रमेण तरुणतामापत्रे मय्येकदा प्रभातायां च यामिन्यामुन्मीलितलोचनोऽद्राक्षमस्मिन्कनकपञ्जरे स्थितमात्मानम्, चौण्डालदारिकामीदृशीं यादृशी देवेनापि दृष्टैव । सकलमेव तत्पक्कणममरपुरसदृशमालोक्य चापगतचाण्डालवसतिसंवेगो विस्मितान्तरात्मा किमेतदिति कुतूहलात्प्रष्टुकामो यावन्न परित्यजाम्येव मौनम्, तावदेषा मामादाय देवपादमूलमायाता । तत्केयम् ? किमर्थमनया चाण्डालताऽऽत्मनः ख्यापिता ? किमर्थं वाऽहं बद्धः ? बद्ध्वा वा किमर्थमिहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतकुतूहल एव' इति ।
***********
पुनर्भण्यते । ईदृशं किंचिदपि ते तवाहाराय भक्षणाय मया नोपनीतं नानीतम्, यादृशेन चाण्डालस्याशनशङ्का श्वपचभक्ष्यारेका समुत्पद्यते संजायते । फलानि तु ततो गृह्यन्त एवादीयन्त एव । पानीयमपि जलमपि चाण्डालभाण्डादपि श्वपचपात्रादपि भुवि पतितं भूक्षिप्तं पवित्रं पावनमेवेत्येवं जनः कथयति वक्ति । तदिति हेत्वर्थे । किमर्थं किंप्रयोजनं क्षुधा बुभुक्षया पिपासयोदन्यया वात्मानं स्वं पातयस्यात्मपातं करोषि । अमूनि मुनिजनोचितानि तापसयोग्यानि वनफलानि न भक्षयसि नात्सि । पानीयं जलं वा न पिबसि नास्वादयसि । अहं तु वैशम्पायनस्तस्याश्चाण्डालजातेरनुचितेनायोग्येन तेन पूर्वोक्तेन वचसा वाक्येन विवेकेन च विस्मितान्तरात्मा कौतुकापन्नचेतस्कः । तथेति यद्भवत्या उक्तं तत्तथेति प्रतिपद्याङ्गीकृत्याङ्गीकारं कृत्वा शापनिघ्नः शापायत्तो घृणां जुगुप्सां परित्यज्य विहाय त्यक्त्वा जीविततृष्णया प्राणितवाञ्छया क्षुत्पिपासोपशमाय क्षुत्तृषोपशमार्थमशनक्रियां भक्षणक्रियामङ्गीकृतवानस्मि । मौनं तूष्णीं पुनर्नात्याक्षं नामुचम् ।
एवमतिक्रामति च गच्छति च काले क्रमेण परिपाट्या तरुणतां यूनतामापत्रे प्राप्ते मय्येकदा प्रभातायां विभातायां यामिन्यां रजन्यामुन्मीलितलोचनो विकसितनयनोऽहमस्मिन्कनकपञ्जरे स्थितमात्मानमद्राक्षं व्यलोकयम् । चाण्डालदारिकामीदृशीं यादृशी देवेनापि भवता दृष्टैवावलोकितैव निरीक्षितैव । सकलमेव समग्रमेव तत्पक्कणममरपुरसदृशं देवनगरतुल्यमालोक्य निरीक्ष्य चापगतो दूरीभूतश्चाण्डालेषु वसतिर्निवासस्तस्याः सवेगः संभ्रमो यस्य स विस्मितो विस्मयं प्राप्तोऽन्तरात्मा मनो यस्य सः । किमेतद् दृश्यमानमिति कुतूहलात्प्रष्टुकामः प्रश्नं कर्तुमना यावन्न परित्यजाम्येव न दूरीकरोम्येव मौनम्, तावदेषा मामादाय गृहीत्वा देवस्य पादमूलमायाता । तत्तस्मात्कारणात्केयम् । किमर्थं किंप्रयोजनमनयात्मनः स्वस्य चाण्डालता ख्यापिता कथितोक्ता । किमर्थं वाहं बद्धः संदानितः । बद्ध्वा वा बन्धनं कृत्वा किमर्थमिहानीत इत्यत्र वस्तुन्यहमपि देव इवानपगतं कुतूहलं यस्मात्स एवेति ।
टिप्प० - 1 ‘आयासयसि (क्लेशयसि ) ' इति पाठः सम्यक् । 2 युवतामापत्रे, इत्युचितम् ।
पाठा० - १ अपरिहाराय २ चण्डालाशनेन शका; चण्डालाशनाशङ्का. ३ आयासयसि. ४ स्थितिमापन्नमात्मानम् ५ सापि चाण्डालदारिका यादृशी तादृशी देवेनापि दृष्टैव; चाण्डालदारिकामीदृशी सापि चाण्डालकन्यका यादृशी देवेन दृष्टैव. ६ कौतुक.
(निर्वेदात् शुकस्य भोजनादित्यागः
उत्तरभागः ।
693
Page #221
--------------------------------------------------------------------------
________________
राजा तु तच्छ्रुत्वा समुपजाताभ्यधिककुतूहलस्तदाबानाय पुरःस्थितां प्रतीहारीमादिदेश । नचिरादेव तयोपदिश्यमानमार्गा प्रविश्य सा, पुरस्तादूर्ध्वस्थितैव राजानमभिभवन्ती धाम्ना, प्रागल्भ्येन बभाषे - 'भुवनभूषण, रोहिणीपते, तारारमण, कादम्बरीलोचनानन्द, चन्द्र, सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषिद्धोऽपि पित्रा, कामरागान्धः पितुराज्ञामुल्लङ्घय वधूसमीपं प्रस्थितस्तथाप्यनेन स्वयमेव कथितम् । तदहमस्य दुरात्मनो जननी श्रीस्तथा प्रस्थितमेनं दिव्येन चक्षुषा दृष्ट्वाऽस्य पित्राहं समादिष्टास्मि - ‘सर्व एव ह्यविनयप्रवृत्तोऽनुतापाद्विना न निवर्तते । तदयं ते तनयः कदाचिदस्या अपि तिर्यग्जातेरधस्तानिपतति । तद्यावदिदं कर्म न परिसमाप्यते तावदेनं मर्त्यलोक एव बद्ध्वा धारय । यथा चानुतापोऽस्य भवति तथा प्रतिविधेयमस्य इति । तदस्य विनयायेदं विनिर्मितं मया । सर्वमधुना तत्कर्म परिसमाप्तम् । शापावसानसमयो वर्तते । शापावसानेन च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डालजातिः ख्यापिता तल्लोकसंपर्कपरिहाराय । तदनुभवतां संप्रति द्वावपि सममेव -
***********
राजा तु नृपोऽपि तछ्रुत्वा समुपजातमभ्यधिकं कुतूहलमाश्चर्यं यस्य स तस्याश्चाण्डालदारिकाया आह्वानायामन्त्रणं कृत्वाहूतिकृते पुरःस्थितामग्रस्थितां प्रतीहारी द्वारपालिकामादिदेशाज्ञां दत्तवान् । नचिरादेव स्तोककालेनैव तयोपदिश्यमानमार्गा कथ्यमानपथा सा प्रविश्य प्रवेशं कृत्वा पुरस्तादूर्ध्वस्थितैव धाम्ना तेजसा राजानमभिभवन्ती तिरस्कुर्वन्ती प्रागल्भ्येन धाष्टर्येन बभाषेऽवोचत् । किं तदित्याह - भुवनेति । हे भुवनभूषण हे जगद्विभूषण हे विष्टपश्रृङ्गार, हे रोहिणीपते हे रोहिणीनाथ हे चन्द्र, हे तारारमण हे तारकाविनोदक, हे कादम्बरीलोचनानन्द हे गन्धर्वकन्यकानयनप्रमोदक, हे रजनिकर हे चन्द्र कुमुदबान्धव, सर्वः समग्रस्त्वयास्य दुर्मतेः पुण्डरीकस्यात्मनः स्वस्य च पूर्वजन्मवृत्तान्तः पूर्वभवोदन्तः श्रुत एवाकर्णित एव । अत्रापि जन्मनि यथायं पित्रा जनकेन निषिद्धोऽपि प्रतिषिद्धोऽपि कामरागान्धः कन्दर्परागान्धः पितुराज्ञां जनकादेशमुल्लङ्ख्यातिक्रम्य वधूसमीपं पत्नीपार्धं युवतीनिकटं प्रस्थितश्चलितः, तथाप्यनेन स्वयमेव कथितमात्मनैव निवेदितम् । तत्तस्मात्कारणादस्य दुरात्मनः पुण्डरीकस्य जननी माता दिव्येन चक्षुषा ज्ञानदृशा तथा प्रस्थितं तथा चलितमेनं वैशम्पायनं दृष्ट्वा विलोक्यास्य पुण्डरीकस्य पित्रा घेतकेतुना समादिष्टा दत्ताज्ञाहं श्रीरस्मि । सर्व एव हि जनोऽविनयेन प्रवृत्तोऽनुतापात्पश्चात्तापाद्विना न निवर्तते न निवृत्तो भवति । तत्तस्माद्धेतोरयं ते तव तनयोऽसौ भवदीयसुतः कदाचिदस्या अपि तिर्यग्जातेर्विहंगमजातेरधस्तानिपतत्यधः प्रयाति । तद्यावदिदं कर्म न परिसमाप्यते न परिपूर्णीभवति, न संपूर्णीभवति, तावदेन वैशम्पायनं मर्त्यलोक एव बद्ध्वा बन्धनं कृत्वा धारयावस्थापय । यथा चानुतापः पश्चात्तापोऽस्य भवति, तथा प्रतिविधेयं तथा करणीयमिति । तदस्य वैशम्पायनस्य विनयाय मर्यादायै इदं मया सर्वं विनिर्मितं विहितम् । अधुना सर्वं तत्कर्म तत्कृत्यं परिसमाप्तं परिपूर्णीकृतम् । शापस्यावसानसमयः प्रान्तकालो वर्तते । शापावसानेन च युवयोर्भवतोः सममेव सुखेन सातेन भवितव्यमित्यतस्त्वत्समीपं त्वदभ्यर्णं मयायमानीतः प्रापितः । अत्रापि यच्चाण्डालजातिः ख्यापिता कथितोक्ता तल्लोकानां जनानां संपर्कः संबन्धस्तस्य परिहाराय दूरीकरणाय । तत्संप्रतीदानी द्वावपि शूद्रकवैशम्पाय - टिप्प० -1 'तदप्यनेन इत्यपि पाठः । 2 पञ्जरबन्धनादिकम् । 3 'शापावसाने' इत्युचितः पाठः ।
------------
-
-
-
-
-
-
-
पाठा० - १ अदिशत्. २ अचिरात्. ३ अभिभवन्तीव. ४ स्वधाम्ना. ५ प्रागल्भ्येन च. ६ तदपि. ७ स्वावियन. ८ समाप्यते. ९ च निर्मितम्. १० मया सर्वं कृतम्; अधुना तु तत्कर्म समाप्तम्.
694
कादम्बरी।
कथायाम्
Page #222
--------------------------------------------------------------------------
________________
जन्मजराव्याधिमरणादिदुःखबहुले तनू परित्यज्य यथेष्टजनसमागमसुखम्' इत्यभिदधानैव सा झटिति रणभूषणारवबैधिरितान्तरिक्षमुत्फुल्ललोकलोचनोदीक्षिता क्षितेर्गगनमुदपतत् ।
अथ राज्ञस्तद्वचनमाकर्ण्य संस्मृतजन्मान्तरस्य ‘सखे वैशम्पायनाख्यपुण्डरीक, दिष्ट्या तुल्यकालक्षयमेवावयोः शापावसानं संजातम्' इत्यभिदधत एवाकर्णाकृष्टकार्मुको मकरकेतुरग्रतः परमास्त्रं कादम्बरी कृत्वा जीवितापहरणाय प्रतिरोधक इव निरुद्धसर्वांशोऽऽन्तरा पदं चकार । तत्पदाक्रान्तिनिर्वासितमिव कादम्बरीशरणमुपजगामान्तःकरणम् । तन्मार्गणाभिहतिभीता इव देहमुत्सृज्य निर्जग्मुरजडाः धासमरुतः । तद्धाणपक्षवाताहतमिवाकम्पत तरलं शरीरम् । तच्छरशल्यभरालसोत्कण्टकिनी तनुरजायत । तद्विशिखरजोरूषितमिव नयन -
*********** नावपि सममेव समकालमेव जन्मोत्पत्तिर्जरा विससा व्याधिरामयो मरणं मृत्युरेवंभूतं दुःखं तेन बहुले दृढेऽस्मिल्लोके तनू शरीरे परित्यज्यानुभवता यथेष्टजनानां समागमो मेलापकस्तस्मात्तस्य वा सुखं सातम् । इत्यभिदधानेतिब्रुवाणैव सा चाण्डालदारिका झटिति शीघ्रं रणन्ति यानि भूषणान्याभरणानि तेषां रवः शब्दस्तेन बधिरीकृतमन्तरिक्षमाकाशं यथा स्यात्तथोत्फुल्लानि विकसितानि यानि लोकलोचनानि जननयनानि तैरुप्राबल्येन वीक्षितावलोकिता निरीक्षिता क्षितेः पृथिव्याः सकाशाद्गगनमाकाशमुदपतदुत्पतिता बभूव ।।
अथेति । तदनन्तरं तद्वचनमाकर्ण्य श्रुत्वा संस्मृतं स्मृतिगोचरीभूतं जन्मान्तरं भवान्तरं यस्य स तथा तस्य । हे सखे वयस्य हे भ्रातः, वैशम्पायन इत्याख्ययेतिनाम्ना पुण्डरीक, दिष्ट्या भाग्येन पुण्येनावयोः पुण्डरीकचन्द्रमसोः तुल्यकालक्षयमेव समकालमेव युगपदेवैककालमेव शापावसानं संजातं शापमुक्तिः संजातेत्यभिदधत एवेति कथयत एव राज्ञः शूद्रकस्य मकरकेतुः कामः कन्दर्पोऽन्तरा मध्ये । अर्धाद्धृदयस्येति बोध्यम् । पदं निवासं चकार निर्ममे । कीदृशो मकरकेतुः । आकर्णं कर्णं यावदाकृष्टं कर्षितं कार्मुकं धनुर्येन सोऽग्रतः पुरः परमास्त्रमत्युत्कृष्टशस्त्र कादम्बरी कृत्वा विधाय शापावसानत्वाद्यजीवितस्यापहरणं ग्रहणं तस्मै प्रतिरोधक इव प्रतिबन्धक इव निरुद्धा आवृताः सर्वे अंशा अवयवा येन सः । अथवा संरुद्धा आशा दश दिशो येनेत्यर्थः । मकरकेतुरन्तः पदं चकारेत्यन्वयस्तु प्रागेवोक्तः । तस्य कामस्य पदं स्थानं तेनाक्रान्तिराक्रमणं तेन निर्वासितमिव बहिःकृतमिवान्तःकरणं मनः कादम्बर्याः शरणं त्राणमुपजगामोपागमत् । 'शरणं गृहरक्षित्रोः' इत्यमरः । तस्य कामस्य मार्गणास्तेषामभिहतिरुपघातस्तस्या भीताः त्रस्ता इव देहं शरीरमुत्सृज्य त्यक्त्वाऽजडाः सचेतनाः श्वासमरुतः वसितवायवो निर्जग्मुर्निर्गतवन्तः । तस्य कन्दर्पस्य बाणाः शरास्तेषां पक्षवातास्तैराहतमिव ताडितमिव तरलं चञ्चलं शरीरमकम्पतावेपत । तस्य शरस्य बाणस्य शल्यं तस्य भरस्तेनालंसेव मन्थरेवोत्कण्टकिनीरोमाञ्चिनी तनुरजायताभूत । तस्य कामस्य विशिखा बाणास्तेषां रजो धूलिस्तेन रूषितमिव रुक्षमिव नयनयुगलं - टिप्प० - 1 जन्म-जरादिदुःखं बहुलम् (अधिकम्) ययोः ईदृश्यौ नरतन परित्यज्य, इत्यर्थः । 2 प्रतिरोधकः मार्गमवरुध्य स्थितो दस्युरिव निरुद्धाः सर्वा आशाः दिशो जीवनप्रत्याशाश्च येन ईदृशो मकरकेतुरित्युभयपक्षेऽर्थः । 3 'कादम्बरीं शरणमुपजगाम करणम्' इत्युचितः पाठः । करणं शरीरम् इन्द्रियं वा, कादम्बरी शरणम् (रक्षकत्वेन) उपजगाम इत्यर्थः । 'करणं साधकतम क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः । 4 शल्याऽऽघाते सति कस्यचिदालस्यं भवति ? अत एव - 'तच्छरशल्यनिकरकीलितेवोत्कण्टकिनी तनुरजायत' इत्येव पाठः । तस्य शराणां शल्यनिकरैः (फलकनिचयैः) कीलितेव (संजातकीलकेव, शकुनिचितेव) उत्कण्टकिनी रोमाञ्चवतीत्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा०- १ बहुलां तनुम्. २ झगिति; झणिति. ३ रोघत. ४ आकर्णयतस्तदैवाकृष्टकार्मुकः, ५ अन्तः पदम्. ६ करणम्. ७ तच्छल्य. ८ भरालसेवोत्कण्टकिनी; निकरकीलितेवोत्कण्टकिनी.
(राज्ञो जन्मान्तरस्मरणम् ।
उत्तरभागः।
695
Page #223
--------------------------------------------------------------------------
________________
युगलमश्रुजलमुत्ससर्ज । पाण्डुतां च वेदनलावण्यमयासीत् । तद्धनुर्गुणध्वानाकर्णनोवेजितमिव हृदयवेदनाकूणितत्रिभागं नयनयुगलमभवत् । अन्तर्चलिष्यतो मदनदहनस्य धूमोपहतमिव वेपमानमधरकिसलयं शोषमगात् । तत्तापविरसमाननानिष्पीडितं सरागं हृदयमिव ताम्बूलमपतत् । आर्द्रस्य दारुण इव दह्यमानस्याङ्गेभ्यो निरगमत्स्वेदः । मदनशरकीलितानीव तावतैव क्षणेनाङ्गानि परवशान्यजायन्त । तथा च कादम्बरी पुरस्कृत्य कुसुमधन्वनायास्यमानस्य तदवयवरूपशोभाविनिर्जितानि तापापहरणक्षमाण्यपि तस्याकिंचित्कराण्यभवन् । तथाहि । कमलकिसलयानि पाणिपादेन, कुवलयदलसजो दृष्ट्या, मणिदर्पणाः कपोलेन, मृणालानि बाहुलतिकया, शशाङ्करश्मयो नखमयूखैः, घनसारधूलिः स्मितप्रभया, मुक्तादामानि दशनकिरणैः, अमृतकरबिम्बं मुखेन, ज्योत्स्ना लावण्येन, मणिवेदिकाकुट्टिमानि नितम्बेन ।
***********
नेत्रयुग्ममश्रुजलं नेत्रपानीयमुत्सस|प्राबल्येन तत्याज । वदनलावण्यं च पाण्डुतामीषच्छुक्लतां चायासीदगात् । तस्य कामस्य धनुश्चापं तस्य गुणः शिञ्जिनी तस्य ध्वानः शब्दस्तस्याकर्णनं श्रवणं तेनोद्वेजितमिवोद्वेगं प्रापितमिव हृदयवेदनया कूणित ईषद्वक्रीकृतस्विभागस्तृतीयांशो यस्य तदेवंभूतं नयनयुगलं नेत्रयुग्ममभवद्धभूव । अन्तर्मध्ये ज्वलिष्यतः प्रचलिष्यतो मदनदहनस्य कामवढेधूमोपहतमिव दहनकेतनोपहतमिव वेपमानं कम्पमानमधरकिसलयं दन्तच्छदपल्लवं शोषमगाज्जगाम । तस्य कामस्य तापस्तेन विरसमानं विरसतां भजमानमतिनिष्पीडितं सरागं हृदयमिव ताम्बूलमपतदसंसत । आर्द्रस्योन्नस्य दारुण इव काष्ठस्येव दह्यमानस्य ज्वलमानस्याङ्गेभ्यो हस्तपादादिभ्यः स्वेदो धर्मजलं निरगमनिरगात् । मदनशरेण कामबाणेन कीलितानीव यन्त्रितानीव तावतैव क्षणेन स्वल्पकालेनाङ्गानि परायत्तान्यजायन्त समपद्यन्त । तथा चेति । कादम्बरी पुरस्कृत्याग्रे कृत्वा कुसुमधन्वना कामेनायास्यमानस्य पीड्यमानस्य । तस्यावयवा हस्तपादादयस्तेषां रूपं सौन्दर्यं तस्य शोभा श्रीस्तया विनिर्जितान्यभिभूतान्यत एव तापस्य तप्तेरपहरणे दूरीकरणे क्षमाण्यपि समर्थान्यपि निर्जितत्वात्तस्याकिंचित्कराणि निष्प्रयोजनान्यभवन्नासन् । तदेव दर्शयति - तथेति । कमलकिसलयानि पद्मनवपत्राणि । पाणी च पादौ च पाणिपादम् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् इत्येकवद्भावः । तेन निर्जितानीति सर्वत्र संबन्धः । कुवलयानामुत्पलानां दलानि पत्राणि तेषां सजो माला दृष्ट्या दृशा । मणिदर्पणा रत्नादर्शाः कपोलेन गल्लात्परप्रदेशेन । मृणालानि तन्तुलानि बाहुलतिकया भुजवल्लया । शशाङ्करश्मयश्चन्द्रकिरणा नखमयूखैः पुनर्भवरश्मिभिः । घनसारधूलिः कर्पूररजः स्मितप्रभया हास्यकान्त्या । मुक्तादामानि मुक्ताकलापा दशनकिरणैर्दन्तरश्मिभिः । अमृतकरबिम्बं चन्द्रमण्डलं मुखेनास्येन । ज्योत्स्ना चन्द्रिका लावण्येन कान्तिविशेषेण । 'मुक्ताफलस्य छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ॥ इत्येके । 'सद्गमनसनिरीक्षणसज्जल्पनमिति वदन्ति लाव -
- टिप्प०-1 तापेन विरसं शुष्कं निष्पीडितं व्यथितं चर्वितं च सराग सलोहितवर्णं सानुरागं च हृदयमिव ताम्बूलम् आननात् अपरात् । इत्यर्थः । 2 अयमर्थः, कुसुमधन्वना आयास्यमानस्य तस्य (शूद्रकरूपधारिणश्चन्द्रापीडस्य), तदवयवशोभाविनिर्जितानि । (तस्याः कादम्बर्याः अवयवानां रूपशोभया विनिर्जितानि) तापापहरणक्षमाणि (कमल-मृणालादीनि वस्तूनि) अकिञ्चित्कराणि व्यर्थान्यभवन् । निर्जितो हि पदार्थो निष्प्रयोजनो भवति । तथा च निःसारैरेभिस्तापप्रतिक्रियारहितः सोयं दशमी दशामगमदित्यर्थः । केन किं निर्जितमित्याह - पाणिपादेन कमलकिसलयानि । इत्यादि ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा०-१ आपाण्डुताम्. २ यौवनलावण्यम्. ३ तत्तापविरसमानमतिनिःपीडितम् तत्तापविरसमाननिःपीडितम्. ४ दारुणो द्रव इव. ५ कुसुमधन्वनः. ६ अस्य. ७ पाणिना पादेन. ८ मणिकुट्टिमवेदिका.
696
कादम्बरी।
कथायाम्
Page #224
--------------------------------------------------------------------------
________________
एवं च विहतसर्वबाह्यप्रतिक्रियस्य हृदयेऽप्यसुखायमानसकलान्यविनोदस्य तामेवाभिध्यायतस्तामेवोठप्रेक्षमाणस्य तामेवाभिलषतस्तामेव पश्यतैस्तामेवालपतस्तामेवालिङ्गतस्तया सह तिष्ठतस्तां प्रकोपयतस्तामनुनयतस्तस्याः पादयोः पततस्तया सह केलिं कुर्वतस्तां रममाणस्य मुक्तसर्वान्यक्रियस्य दिवाप्यनुन्मीलितलोचनस्य रात्रावप्यनुपजातनिद्रस्य सुहृज्जनमर्यैसंभाषयतः कौर्योपगतानप्यजानतो गुरुजैनमप्यनमस्यतो धर्मक्रियामप्यकुर्वाणस्य सुखादप्यनर्थिनो दुःखादप्यनुद्विजमानस्य मरणादप्यबिभ्यतो गुरुभ्योऽप्यपेतलज्जस्यात्मन्यपि विगलितस्नेहस्य किं बहुना कादम्बरीसमागमेऽप्यनुद्यमस्य केवलर्मस्य मुहुर्मुहुर्मूर्च्छार्पेगमच्छलेन जीवितोत्सर्गयोग्यांमिव कुर्वतो विहस्तेनापि प्रतिपन्नविविधोपकरणेन, गलितनयेनपयसाप्युच्छु -
ण्यम्` इत्यन्ये । मणिवेदिकायाः कुट्टिमानि बद्धभूमयो नितम्बेनारोहेण । एवं चेति । एवममुना प्रकारेण विहता निराकृता सर्वबाह्या बहिर्भूता · प्रतिक्रिया प्रतीकारो यस्य स तस्य । पुनः कीदृशस्य । राज्ञो हृदयेऽपि चित्तेऽप्यसुखायमानो दुःखवदाचरमाणः सकलः समग्रोऽन्यविनोदोSन्यक्रीडा यस्य स तस्य । तां कादम्बरीमेवाभिध्यायतश्चिन्तयतः । तामेवोठप्रेक्षमाणस्योत्प्रेक्षाविषयीक्रियमाणत्योट्याबल्येन विलोकमानस्य । तामेवाभिलषतोऽभिवाञ्छतः स्पृहयतः । तामेव पश्यतो विलोकयतः । तामेवालपतः संभाषणं कुर्वतस्तामेवालापं कुर्वतः । तामेवालिङ्गतः परिष्वजत आलिङ्गनं कुर्वतः । तया गन्धर्वराजपुत्र्या सह तिष्ठतः स्थितिं कुर्वतः । तां प्रकोपयतो रोषयतः । तामनुनयतः प्रसन्नीकुर्वतः । तस्या गन्धर्वपुत्र्याः पादयोः क्रमयोश्चरणयोः पततः पतनं विदधतः । तया सह केलिं रतिक्रीडां कामकेलिं प्रेमक्रीडां कुर्वतः । रममाणस्य क्रीडां कुर्वतः । मुक्तास्त्यक्तास्त्याजिताः सर्वाः समग्रा अन्यक्रिया इतरव्यापारा येन स तस्य मुक्तसर्वान्यक्रियस्य । दिवापि वासरेऽपि दिवसेऽप्यनुन्मीलिते मुद्रिते लोचने यस्य स तथा तस्य । रात्रावपि निशायामपि यामिन्यामप्यनुपजाताऽप्राप्ता नागता निद्रा प्रमीला यस्य स तथा तस्य । सुहृज्जनमपि मित्रजनमपि वल्लभजनमप्यसंभाषयतोऽनालापयतः । कार्यार्थमुपगतं प्राप्तमप्यजानतोऽज्ञातवतः । गुरुजन पूज्यजनमपि वृद्धजनमप्यनमस्यतो नमस्कारमकुर्वतः । धर्मक्रियामपि सुकृतकृत्यान्यपि पुण्यकृत्यान्यप्यकुर्वाणस्याविदधानस्य । सुखादपि सौख्यादप्यनर्थिनोऽनभिलाषुकस्य । दुःखादपि कृच्छ्रादपि कष्टादप्यनुद्विजमानस्यानुद्वेगं प्राप्यमाणस्य । मरणादपि मृत्योरप्यबिभ्यतो भयमकुर्वतः । गुरुभ्योऽपि धर्मोपदेशकेभ्योऽप्यपेतलज्जस्य विगतत्रपस्य त्यक्तलज्जस्य । आत्मन्यपि स्वस्मिन्नपि विगलितो गतः स्नेहो हार्दं यस्य स तथा तस्य । किं बहुना कथनेन । कादम्बरीसमागमेऽप्यनुद्यमस्यानुद्यतस्य गतोद्यमस्य केवलमस्य राज्ञो मुहुर्मुहुवारंवारं मूर्च्छाया मोहस्योपगमच्छलेनागमनमिषेण जीवितस्योत्सर्गस्त्यागस्तस्य योग्यामिव कुर्वतो विहस्तेनापि व्याकुलेनापि प्रतिपन्नमङ्गीकृतं विविधमुपकरणं तन्त्रं येन स तेन । अत्रापिशब्दो विरोधालंकृतिद्योतनार्थः । यो विहस्तो भवति स प्रतिपन्नोपकरणो न स्यादिति विरोधः । तत्परिहारस्तु विहस्तो व्याकुल इत्यर्थात् । ‘विहस्तव्याकुलौ व्यग्रे' इति हैमः । गलितं सस्तं नयनपयो नेत्रजलं यस्यैवंभूतेना
टिप्पo - 1 ल्यब्लोपे पञ्चमी । सुखजनकं प्राप्यापि अनर्थिनः अर्थमभिलाषं न वहतः, इत्यर्थः । 2 जीवितोत्सर्गयोग्यां कां कुर्वतः ? 'मुहुर्मूर्च्छापगमनच्छलेन जीवितोत्सर्गयोग्यामिव तनुं कुर्वतः' इति पाठः । अस्य बाह्यस्तापप्रतीकारो विहतोभवत्, तथा आन्तरिकश्चापि लज्जानमनादिको व्यापारो निवृत्तः । किं बहुना, कादम्बरीप्राप्त्युद्य मोपि विगतः । ततश्च शून्यात्मकस्यास्य तनुः त्यागयोग्या जातेत्यर्थः । अत एव विहस्तेत्यादिविशेषितेन आप्तपरिजनेन उपचर्यमाणस्यापि देहः काष्ठमयो जातः, यस्य हि कामानलो दाहहेतुर्बभूव, कथाशेषतां जगामेति सर्वस्याशयः ।
-
पाठा० - १ उत्प्रेक्ष्यमाणस्य २ लिखतः ३ तामेव लपतः; तामालपतः ४ असंभाषितः. ५ कार्यापगतमपि ६ गुरून्. ७ अस्नेहस्य. ८ एव. ९ उपगमन. १० इव तनुम्. ११ सलिलेन.
शुकस्य राज्ञश्च शरीरत्यागः
उत्तरभागः ।
697
Page #225
--------------------------------------------------------------------------
________________
ष्काननेन, मुषितवचनावकाशेनापि वैशम्पायनंक्रोशनपरेण, अनवरतमा चरणाद्विकीर्णचन्दनचर्चेन, चरणतलनिवेशितार्द्रारविन्दिनीदलेन, करार्पितकर्पूरक्षोददन्तुरतुषारखण्डेन, हृदयविनिहितहिमार्द्रहारदण्डेन, कपोलतलस्थापितस्फेटिकमणिदर्पणेन, ललाटतटघटितचन्द्रमणिना, अंसदेशावस्थापितर्मृणालनालेन, कदलीदलव्यजनवाहिना, आनर्तित - तालवृन्तेन, जलार्द्रानिलसंचारिणा, कुसुमतल्पकल्पनाकुलेन, धारागृहजलयन्त्रप्रवर्तनाहृतार्तिना, मणिकुट्टिमक्षालनाग्रहस्तेनं च, 'संजलकिञ्जल्कजलजोपचारप्रकरसंभ्रान्तेन च शिशिर भूगृहाभ्यन्तरप्रत्यवेक्षणदक्षेण चोद्यानदीर्घिकातटलतागहनमण्डपसेकैतापहारिणा च मैलयजरसचन्द्रार्द्रजलचन्द्राश्रयावधानदानोद्यतेन चाप्तपरिजनेनोपचर्यमाणस्यापि काष्ठीभूतदेहस्य दाहक्षमो झटित्येवारुरोह परां कोटिं कामानलः । राज्ञ एव तुल्यावस्थस्य महाश्वेतोत्कण्ठया पुण्डरीकात्मनो वैशम्पायनस्य च ।
प्युच्छुष्कमाननं मुखं यस्य स तेन । मुषितो गृहीतो वचनस्यावकाशोऽवगाहः प्रवेशस्थलं यस्यैवंभूतेनाप्याक्रोशनं तत्र परेणासक्तेनानवरतं निरन्तरमाचरणाच्चरणौ मर्यादीकृत्य विकीर्णा विक्षिप्ता चन्दनचर्चा मलयजपूजा येन स तेन । चरणतले निवेशितानि स्थापितान्यार्द्रायुन्नान्यरविन्दिनीनां दलानि कमलिनीनां पत्राणि येन स तथा तेन । करे हस्तेऽर्पितः प्रदत्तो वितरितः कर्पूरक्षोदेन घनसारचूर्णेन दन्तुरो विषमोन्नतस्तुषारखण्डो हिमशकलं यस्य स तथा तेन । हृदये वक्षसि विनिहितः स्थापितो हिमेनार्द्रा हारदण्डो येन स तथा तेन । कपोलतले स्थापितो विधृतः स्फटिकमणिदर्पणो येन स तथा तेन । ललाटतटेऽलिकतटे घटितः संघट्टितश्चन्द्रमणिश्चन्द्रकान्तो येन स तथा तेन । अंसदेशे स्कन्धप्रदेशेऽवस्थापितं न्यस्तं मृणालनालं बिसनालं येन स तथा तेन । कदलीदलानां रम्भापत्राणां व्यजनं वहतीत्येवंशी - नानर्तितो भ्रमं नीतस्तालवृन्तो येन स तथा तेन । जलेनाम्भसार्द्रा योऽनिलो वायुस्तं संचारयति प्रवर्तयतीत्येवंशीलः स तथा तेन । कुसुमैः पुष्पैर्या तल्पकल्पना शय्याविरचना तेनाकुलेन व्याकुलेन । धारागृहस्य जलयन्त्राणां प्रवर्तनात्प्रक्षरणादा ईषद्धेता दूरीकृतार्तिर्यस्य स तेन । मणिकुट्टिमस्य क्षालना धावनं तत्राग्रहस्तो यस्य स तेन । 'आयस्तेन' इति पाठ आयस्तेन खिन्नेनेत्यर्थः । सजलानि जलसहितानि किञ्जल्कजलजानि केसरोपयुक्तकमलानि तेषामुपचारः प्रकार उपचरणं तेन संभ्रान्तेन मूढेन । शिशिरं शीतलं यद्भूगृहं भूमिस्थं सदनं तस्य अभ्यन्तरं मध्यं तस्य प्रत्यवेक्षणं गवेषणं तत्र दक्षेण चतुरेण । उद्यानस्य दीर्घिका वापी तस्यास्तटं तीरं तस्य लतागहनमण्डपो जनाश्रयस्तत्र यः सेकः सिञ्चनं तेन तापमपहरतीत्येवंशीलः स्वभावः स तथा तेन । मलयजरसश्चन्दनद्रवश्चन्द्रः कर्पूर आर्द्रं जलं चन्द्रस्य शशाङ्कस्याश्रय आश्रयणमेतैरवधानदानं समाधिदानं तत्रोद्यतेनोद्युक्तेन । 'अवधानसमाधानप्रणिधानानि तु समाधौ स्युः' इति हैमः । आप्तो विश्वस्तो यः परिजनः परिच्छदस्तेनोपचर्यमाणस्योपचारविषयीक्रियमाणस्यापि काष्ठीभूतदेहस्य दारुसादृश्यमापन्नशरीरस्य दाहे क्षमः समर्थः कामानलो मदनवह्निः क्षणेन परां कोटिं झटित्येव तत्कालमेवारुरोहारूढवान् । राज्ञ एव तुल्यावस्थस्य सदृशावस्थस्य महाश्वेताया उत्कण्ठयोत्कलिकया पुण्डरीकात्मनो वैशम्पायनस्य च । मदनानलः परां कोटिमारुरोहेत्यत्रापि संयोज्यम् । तृतीयान्तानि सर्वाण्याप्तपरिजनस्य विशेषणानि ।
टिप्प० - 1 वैशम्पायनस्य आक्रोशस्तिरस्कारस्तत्र तत्परेण, शुकरूपेण तेनैवागत्य कथाकीर्तने कृते अस्येयं दशा जातेति । 2 मृतस्य तापदूरीकरणे का शक्तिः ? धारागृहात् जलयन्त्रप्रवर्तनयापि आहृता (समन्ततः प्रवर्तिता) आर्तिर्येन, इत्यर्थः ।
पाठा० - १ दुःखित. २ क्रोशपरेण. ३ वितीर्णं. ४ विनिहितार्द्र. ५ स्फाटिकस्फुटित; स्फाटिक. ६ मृणालेन. ७ सकुसुमतल्प. ८ आहत; आहित; अकृत. ९ आयस्तेन. १० सजलपङ्कजकिञ्जल्ककह्लारप्रकरप्रचारणसंभ्रान्तेन. ११ अन्धकारशिशिर १२ संतापापहारिणा; संतापकारिणा. १३ मलयजरसचन्द्रार्द्रजलार्द्रचन्द्राश्रय; मलयजजलार्द्रचन्द्राश्रय. १४ दाहहेतुः ..
698
कादम्बरी ।
कथायाम्
Page #226
--------------------------------------------------------------------------
________________
तस्मिन्नेव चान्तरे तत्संधुक्षणायेव प्रवर्तयन्सरसकिसलयलतालास्योपदेशदक्षं दक्षिणानिलम्, आलोलरक्तपल्लवप्रालम्बान्कम्पैयन्नशोकशाखिनः, वाञ्छितमुकुलमञ्जरीभरेण नम्रयन्बालसहकारान्, उत्कोरकयन्कुरुबकैः सह बकुलतिलकचम्पकनीपान्, आपीतयन्किकिरातैः ककुभान्, विकिरन्नतिमुक्तकामोदम्, उद्दामयन्किंशुकवनानि, निरङ्कुशयन्कामिजनमनांसि, निर्मूलयन्मानम्, अपमार्जयँल्लज्जाम्, अपाकुर्वन्कोपम्, अपनयन्ननुनयव्यवस्थाम्, व्यवस्थापयन्हेंठचुम्बनालिङ्गनरतस्थितिम्, समुल्लासयन्मकरध्वजरक्तध्वजानिव किंशुकानि, सकलमेव महारजतमयमिव रागमयमिव मदनमयमिवोन्मादमयमिव प्रेममयमिवोत्सवमयमिवौत्सुक्यमयमिव जनयञ्जीवलोकम्, किसलयितसकलकान्तारकाननोपवनतरुरुत्फुल्लचूतडुमामोदवासितदशाशान्तरो मधुमदमधुरकोकिलापदुःखिताध्वगजनश्रुतिरनवरतमकरन्दसीकरासार -
***
तस्मिन्नेव चान्तरे विचाले तस्य॑ संधुक्षणायेव तदुद्दीपनायेव सुरभिमासो वसन्तः प्रावर्तत प्रवृत्तो बभूव । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः । सुगन्धे च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्' इति विश्वः । किं कुर्वन् । प्रवर्तयन्प्रवृत्ति कारयन् । कम् । दक्षिणानिलं मलयमारुतम् । कीदृशम् । सरसानि रसोपयुक्तानि किसलयानि यासामेवंविधा लता वल्ल्यस्तासां लास्योपदेशो नृत्योपदेशस्तत्र दक्षं चतुरम् । आलोलाश्चपलाश्चञ्चला रक्तपल्लवा लोहितकिसलयास्तेषां प्रालम्बाः समूहा येषु तानशोकशाखिनः केसरवृक्षान्कम्पयन् । वाञ्छिते मुकुलमञ्जर्यौ कुड्मलवल्लर्यौ तयोर्भरण बालसहकारान्नवीनचूतान्नम्रयन्नम्रतां नयन् । कुरबकैर्वृक्षविशेषैः सह बकुलः केसरः, तिलको वृक्षविशेषः, चम्पको हेमपुष्पकः, नीपः कदम्बः, एतानुट्याबल्येन कोरकयन्कलिकामुत्पादयन् । 'कलिका कोरकः पुमान्' इत्यमरः । किंकिरातैः कुरण्टकैः सह ककुभानर्जुनवृक्षानापीतयन्पीतान्कुर्वन् । 'ककुभो वीणाप्रसवे रागभेदेऽर्जुनद्रुमे' इत्यनेकार्थः । अतिमुक्तकस्य माधवीलताया आमोदं परागं विकिरन्विक्षिपन् । किंशुका ब्रह्मपादपास्तेषां वनान्युद्दामयन्नुत्कटयन् । कामिनो जनास्तेषां मनांसि चेतांसि निरङ्कुशयनुच्छृङ्खलयन् । मानं गर्वं निर्मूलयन्बुध्नत उत्पाटयन् । लज्जां त्रपामपमार्जयन्फोटयन् । कोपं क्रोधम् । अर्थात् कामिजनकृतम् । अपाकुर्वन्दूरीकुर्वन्निराकुर्वन् । अनुनयव्यवस्थां प्रणिपातमर्यादामपनयन्निराकुर्वन् । हठेन बलेन चुम्बनमास्यलेहनम्, आलिङ्गनमुपगूहनम्, रतिः संभोगः, एतासां स्थितिं मर्यादां व्यवस्थापयन्व्यवस्थां कुर्वन् । मकरध्वजस्य कामस्य रक्तध्वजानिव किंशुकानि किंशुकपुष्पाण्यरुणवैजयन्त्य इव समुल्लासयन्प्रकाशयन् । महारजतमयमिव सुवर्णमयमिव, रागमयमिवानुरागमयमिव मदनमयमिव कंदर्पमयमिव, उन्मादमयमिव चित्तविप्लवमयमिव, प्रेममयमिव स्नेहमयमिव, उत्सवमयमिव महोमयमिव, औत्सुक्यमयमिव रणरणकमयमिव, एवंविधं सकलमेव समग्रमेव जीवलोकं विष्टपं जनयन्विदधन् । किसलयिताः संजातकिसलयाः सकलाः समग्राः कान्तारकाननोपवनतरवो येन सः । तत्र कान्तारं शून्याटवी काननं निर्मानुषं वनमुपवनं नगरसमीपवर्तिवनम् । उत्फुल्लाः प्रफुल्ला ये चूतडुमा आम्रवृक्षास्तेषामामोदः परिमलस्तेन वासितं सुरभीकृतं दशदिशामन्तरं विचालं येन सः । मधुनो यो मदस्तेन मधुरो मिष्टो यः कोकिलालापस्तेन दुःखिता अध्वगजनाः पान्थजनास्तेषां श्रुतिः श्रवणं -
टिप्पo - 1 कामानलस्य । 2 'विकसितमुकुलमञ्जरीभरेण' इत्येव । 2 वसन्ते हि मानशैथिल्ये सति अनुनय ( मानमोचन) व्यवस्था क्रियते, न त्वपनीयते । अतएव - 'उपनयन्त्रनयव्यवस्थाम् (अविनीतचेष्टाम्) ' इति पाठः । 4 उत्सववाचको 'मह' शब्द एव दृष्टः । 5 दुःखिता अध्वगजनानां कर्णा यत्र ।
पाठा० - १ तत्क्षणमेव. २ प्रलम्बान्. ३ स्तबकयन्. ४ विकसित ५ आनम्रयन्; आनंमयन्. ६ आपातयन्. ७ ककुभः ८ उपनयन्. ९ उपस्थापयन्; आस्थापयन्. १० दृढ. ११ रक्तध्वजांशुकानि रक्तांशुकानि. १२ रतिमयमिवोत्सवमयमिव दानमयमिव प्रेममयमिव कलिमयमिवौत्सुक्य. १३ मधुकर. १४ उल्लाप.
(वसन्तागमने कादम्बर्युत्कण्
उत्तरभागः ।
699
Page #227
--------------------------------------------------------------------------
________________
दुर्दिनोन्मादितसकलजीवलोकहृदयो मदाकुलंभ्रमद्भ्रमरझंकारकातरितविरहातुरमनोवृत्तिरात्मसंभवैकोल्लासकारी भराव्यावर्तत सुरभिमासः ।
येन च कुसुमधन्वनः परमास्त्रेण मधुना पर्याकुलितहृदया कादम्बरी, संप्राप्ते भगवतः कामदेवस्य मैहे, महता प्रयत्नेन कथंकथमप्यतिवाहितदिवसा, श्यामायमानदशदिशि सायाह्ने स्नात्वा, निर्वर्तितकामदेवपूजा तस्य पुरश्चन्द्रापीडमतिसुरभिशीतलैः स्नापयित्वाम्भोभिरा चरणाद्विलिप्य मृगमदामोदिना हरिचन्दनेन, सुरभिकुसुमसग्भिरुग्रथितं कुन्तलकलापं कृत्वा, एककर्णार्पितैसत्किंसलयाशोकस्तबककर्णपूरं कर्पूरकुसुमप्रचुरैः प्रसाध्याभरणविशेषैः, विस्मृतनिमेषा पिबन्तीव भावार्द्रया दृशा सुचिरमालोक्य, उत्कण्ठानिर्भरा, पुनः पुनर्निश्वस्योत्कम्पमाना साध्वसेन स्विन्नसर्वाङ्गी, समुत्कण्टकिततनूरुच्छुष्यदधरवदना महाश्वेतावलोकन भयान्मुहुर्मुहुर्दिक्षु विक्षिप्तोच्चकितदृष्टिः, अतिचिरमिवोपसृत्य, पुनः पुनः स्थित्वाविष्टेव पर
-
यस्मिन्सः । अनवरतं निरन्तरं यो मकरन्दसीकरासारो मकरन्दवातास्तबिन्दुवेगवदृष्टिस्तदेव दुर्दिनं मेघजं तमस्तेनोन्मादितान्युन्मादं प्रापितानि सकलजीवलोकहृदयानि येन सः, मदाकुला ये भ्रमन्तो भ्रमराः शिलीमुखास्तेषां झंकारा झंकृतयस्तैः कातरिता कातरीकृता विरहातुरजनानां मनोवृत्तिर्येन सः । आत्मसंभवस्य कामस्यैकोऽद्वितीय उल्लासकारी प्रकाशकारी सुरभिमासः प्रावर्ततेत्यन्वयस्तु प्रागुक्त एव ।
येन कुसुमधन्वनः । कंदर्पस्य परमास्त्रेणात्युत्कृष्टशस्त्रेण मधुना वसन्तेन पर्याकुलितहृदया व्याकुलितचित्ता कादम्बरी भगवतः कामदेवस्य मह उत्सवे संप्राप्ते समागमे सति महता प्रयत्नेनोद्यमेन कथंकथमपि महता कष्टेनातिवाहितदिवसा अतिक्रान्तवासरा । श्यामायमानाः कृष्णायमानाः दशदिशो यस्मिन्नेवंभूते सायाह्ने संध्यायां स्नात्वा स्नानं कृत्वा निर्वर्तिता विहिता कामदेवस्य पूजार्चा यया सा, तस्य कामदेवस्य पुरोऽग्रे चन्द्रापीडमतिसुरभिशीतलैरतिसुगन्धिशिशिरैरम्भोभिः पानीयैः स्नापयित्वा स्नानं कारयित्वा चरणाच्चरणावभिव्याप्य मृगमदः कस्तूरिका तस्या आमोदः परिमलो विद्यते यस्मिन्नेवंभूतेन हरिचन्दनेन विलिप्य विलेपनं कृत्वा । 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे । ज्योत्स्नायां कुङ्कुमे च' इति विश्वः । सुरभीणि यानि कुसुमानि तेषां सग्भिर्मालाभिरुद्ग्रथित उद्बद्धः कुन्तलकलापः केशसमूहो यस्य स तं कृत्वा विधायैककर्णेऽर्पितो न्यस्तः सन्ति शोभनानि किसलयानि यस्मिन्नेवंभूतोऽशोकस्तबकः कङ्केलिगुच्छकः स एव कर्णपूरो यस्य स तम् । कर्पूरकुसुमप्रचुरैराभरणविशेषैः प्रसाध्य प्रसाधनं कृत्वा विस्मृतनिमेषा त्यक्तनिमेषोन्मेषा पिबन्तीव । अत्यादरेणावलोकनं पानमुच्यते । भावेन चित्तसमुद्भवेनार्द्रया सजलया दृशा सुचिरं बहुकालं चिरकालमालोक्य निरीक्ष्योत्कण्ठाया निर्भरोऽतिशयो यस्यां सा । पुनः पुनर्निश्वस्य निश्वासं मुक्त्वोव्प्राबल्येन कम्पमानातिवेपमाना साध्वसेन भयेन स्विन्नं प्रस्विन्नं सर्वाङ्गं यस्याः सा । समुत्कण्टकिता तनूः शरीरं यस्याः सा । उच्छुष्यन्ती शोषं प्राप्यमाणेऽधेरा वदने दन्तच्छदमुखे यस्याः सा । महाश्वेताया अवलोकनं तस्माद्भयं भीतिस्तस्मान्मुहुर्मुहुर्वारंवारं दिक्षु विक्षिप्तप्रेरितोच्चकितोत्त्रस्ता दृष्टिर्यया सा । अतिचिरमिव बहुकालमिवोपसृत्य समीपमागत्य पुनः पुनः स्थित्वावस्थानं -
टिप्पo - 1 उच्छुष्यन्त्रधरो यस्मिन्नीदृशं वदनं यस्याः सा, इति बहुव्रीहिगर्भो बहुव्रीहिः । अन्यथा वदनस्य शोष एवाधरस्यापि शोषो निरूपितो भवेत्, अधरस्य वदनान्तर्गतत्वात् ।
पाठा० - १ भ्रमयन्. २ चकित. ३ महोत्सवे. ४ निवर्तित. ५ कृत्वैव कर्णा. ६ आरोपित ७ प्रसरत्किसलय सकिसलय. ८ दृष्ट्या ९ तनुः १० परवतीव.
700
कादम्बरी ।
कथायाम्
Page #228
--------------------------------------------------------------------------
________________
वती, परित्याजिता बलाल्लज्जया सहाबलाजनसहजां भीतिं भगवता भुवनत्रयोन्मादकारिणा मन्मथेन, आत्मानमपारयन्ती संधारयितुमेकान्ते निःसहा सहसा तमभिपद्य मुकुलितनयनपङ्कजा जीवन्तमिव निर्भरं कण्ठे जग्राह ।
चन्द्रापीडस्य तु तेनामृतसेकाह्लादिना कादम्बरीकण्ठग्रहेण सद्यः सुदूरगतमपि कण्ठस्थानं पुनर्जीवितं प्रत्यपद्यत । दिर्वसक्लमामीलितं कुमुदमिव शरज्ज्योत्स्नानिपातादुच्छसितमा बन्धनाद्धृदयम् । उषः परामृष्टेन्दीवरमुकुललीलयोदमीलत्कर्णान्तायतं चक्षुः । अम्भोरुहविभ्रमेण वाजृम्भत वदनम् । एवं च सुप्तप्रतिबुद्ध इव प्रत्यापन्नसर्वाङ्गचेष्टश्चन्द्रापीडस्तथा कण्ठलग्नां कादम्बरीं चिरविरहदुर्बलाभ्यां दोर्भ्यां गाढतरं कण्ठे गृहीत्वा, वाताहतां बालकदलीमिव भयोत्कम्पमानाङ्गयष्टिम्, उद्गाढतरामीलिताक्षीं वक्षस्येव प्रवेष्टुमीहमानाम्, न मोक्तुं न ग्रही -
कृत्वाविष्टा भूतग्रस्तेव । परवती परायत्ता बलाद्धटाल्लज्जया त्रपया परित्याजिता परित्यक्ता अबलाजनः स्त्रीजनस्तस्य सहजा सहोत्पन्नां भीतिं भगवता माहात्म्यवता भुवनत्रयस्योन्मादकारिणा चित्तविप्लवजनकेन मन्मथेन कंदर्पेणात्मानं संधारयितुं धारणां कर्तुमपारयन्त्यसमर्था एकान्ते विजने निःसहा परिश्रान्ता सहसा एकपदे तमभिपद्य गत्वा मुकुलिते संकुचिते नयनपङ्कजे यस्याः सा । जीवन्तमिव श्वसन्तमिव निर्भरं यथा स्यात्तथा कण्ठे निगरणे जग्राह गृहीतवती ।
I
चन्द्रापीडस्य तु तेनामृतस्य सेकः सिञ्चनं तद्वदाह्लादिना प्रमोदजनकेनैवंविधेन कादम्बरीकण्ठग्रहेण सद्यस्तत्कालं सुदूरगतमपि दविष्ठदेशप्राप्तमपि जीवितं प्राणितं पुनः कण्ठस्थानं निगरणदेशं प्रत्यपद्यत स्वीचक्रे । दिवसक्लमं वासरसंबन्धिश्रमस्तेनामीलितं संकुचितं शरत्कालीना या ज्योत्स्ना चन्द्रिका तस्या निपातात्पतनादाबन्धनादावृन्तात्कुमुदमिव कैरवमिवोच्छ्रसितमुल्लसितं हृदयं भुजान्तरम् । उषसा प्रत्यूषेण परामृष्टं कृतस्पर्शं यदिन्दीवरमुकुलं नीलसरोजकुडुमलं तस्य लीलयेवेति लुप्तोपमा । कर्णं यावदायतं विस्तीर्णं चक्षुः । जात्येकवचनम् । उदमीलद्विकस्वरं बभूव । 'व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः' इति हैमः । अम्भोरुहं कमलं तस्य विभ्रमेण विलासेनेव अत्र वाशब्द इवार्थे । वदनमजृम्भत विकसितमभूत् । एवं चादौ सुप्तः पश्चाप्रतिबुद्धो जागरित इव प्रत्यापन्ना सर्वाङ्गचेष्टा येनैवंभूतश्चन्द्रापीडस्तथा तेन प्रकारेण कण्ठलग्नां कादम्बरी चिरकालीनो यो विरहस्तेन दुर्बलाभ्यां कृशाभ्यां दोर्भ्यां भुजाभ्यां गाढतरं कण्ठे गृहीत्वा, वाताहतां समीरान्दोलितां बालकदलीमिव भयेनोत्कम्पमाना वेपमानाङ्गयष्टिर्यस्याः सा । उत्प्राबल्येन गाढतरं दृढतरमामीलिते संकोचिते अक्षिणि यया सा । वक्षसि भुजान्तरे प्रवेष्टुं प्रवेशं कर्तुमीहमाना स्पृहमाना न मोक्तुं न ग्रहीतुमादातुमात्मना स्वेनापारयन्तीमप्रभवतीं श्रोत्रे कर्णे हृदयं भुजान्तरं ताभ्यां गृह्यत -
टिप्प० - 1 मन्मथेन लज्जया सह अबलाजनसहजां भीतिं बलात् परित्याजिता ( कादम्बरीकर्तृके भीतिकर्मकपरित्यागे मन्मथः प्रयोजकः कर्ता, मन्मथः कादम्बरीद्वारा भीतिं परित्याजितवान् इति तात्पर्यम्), अत एव आत्मानं संधारयितुमपारयन्ती । 2 वस्तुतस्तु 'उच्छसितमाबबन्ध हृदयम्' इति पाठः । हृदयम् (कर्तृ) शरज्ज्योत्स्नाऽभिपातात्कुमुदमिव, उच्छ्रासं निश्वासम् आबबन्ध तत्याज | 3 वेपमाना अङ्गयष्टिर्यस्यास्ताम्, आमीलिते आक्षिणी यया ताम्, प्रवेष्टुम् ईहमानाम्, चन्द्रापीडं न मोक्तुम् (उत्कण्ठावशात्), न च ग्रहीतुम् ( लज्जावशात) आत्मना स्वेन पारयन्तीम्, इति सर्वत्र द्वितीया ।
पाटा० - १ लोचन. २ दिवसनिमीलितम्; दिवसक्लमनिमीलित. ३ आ निबन्धनात्; आबध्नन्. ४ लोचनाभ्यां पिबन्निव.
चन्द्रापीडस्योज्जीवनं पुण्डरीकस्यागमनं च
उत्तरभागः ।
701
Page #229
--------------------------------------------------------------------------
________________
तुमात्मना पारयन्तीम्, श्रोत्रहृदयग्राहिणाऽनुभूतपूर्वेण स्वरेणानन्दयन्नवादीत् - 'भीरु, परित्यज्यतां भयम् । प्रत्युज्जीवितोऽस्मि तवैवामुना कण्ठग्रहेण । त्वं खल्वमृतसंभवादप्सरसां कुलादुत्पन्ना । किं न स्मरसि तन्मे वचनमिदम् । तत्तेजोमयं वपुः स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितमिति । तदेतावन्त्येव दिनानि पाणिना ते स्पृश्यमानोऽपि न यत्प्रत्युज्जीवितोऽस्मि तच्छापदोषात् । अद्य स तु मे द्वितीयवारं त्वदर्थमेवानुभूतदुःसहमदनज्वरदाहवेदनापरमदुःखस्य व्यपगतः शापः । परित्यक्ता सा मया त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः । एषापि च तवास्यां रुचिरुत्पन्नेति त्वत्प्रीत्या प्रतिपन्ना प्रतिपालिता च । तदयं लोकश्चन्द्रलोकश्च ते द्वावप्यधुना चरणतलप्रतिबद्धौ । अपि च प्रियसख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतशापः ।' इत्यभिदधत्येव चन्द्रापीडशरीरान्तरितवपुषि चन्द्रमसि, चन्द्रलोकावस्थानलग्नममृतपरिमलमेव केवलमधिकमुदहन, अगैरन्यतमस्तादृशेनैव वेषण यादृशेन महावेतौत्कण्ठ्योपरतः, तथैव कण्ठेनैकावली धार -
***********
इत्येवंशीलेनानुभूतपूर्वेणाकर्णितपूर्वेण स्वरेण शब्देनानन्दयन्प्रमोदयन्नवादीदवोचत् । किं तदित्याह - भीविति । हे भीरु हे कातरे, भयं त्रास परित्यज्यतां दूरीक्रियताम् । तवैवामुना कण्ठग्रहेणाहं प्रत्युज्जीवितः पुनर्जीवनं प्रापितोऽस्मि । खल्विति निश्चये । त्वममृतसंभवात्पीयूषोत्पन्नादप्सरसामुर्वशीप्रभृतीनां कुलादभिजनादुत्पन्ना संजाता । इदं तन्मे मम वचनं किं न स्मरसि न स्मृतिगोचरीकरोषि । इदं किमित्याशयेनाह - तदिति । तच्चन्द्रापीडवपुस्तेजोमयं ज्योतिर्मयं स्वत एव स्वभावत एवाविनाश्यविनश्वरम् । विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितं शीतलीकृतमिति । तत्तस्मात्कारणादेतावन्त्येव दिनानि ते तव पाणिना करेण स्पृश्यमानोऽप्याश्लिष्यमाणोऽपि कृतदर्शनोऽपि यन्न प्रत्युज्जीवितोऽस्मि तच्छापदोषादेवेति मन्तव्यम् । अद्य त्वस्मिनहनि द्वितीयवारं त्वदर्थमेवानुभूतं दुःसह उत्कटो यो मदनचरदाहस्तस्य वेदना पीडा तस्याः परमदुःखं येनैवंभूतस्य मे मम स शापो व्यपगतो नाशं गतो दूरं गतः । त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः सा मया परित्यक्तोज्झिता । तव भवत्या अस्यां चन्द्रापीडतनौ रुचिरुत्पन्ना । अत एषा मया प्रतिपन्नाङ्गीकृता प्रतिपालिता च रक्षिता च । तदिति हेत्वर्थे । अयं लोको मर्त्यलोकश्चन्द्रलोकश्च द्वावपि लोकावधुना सांप्रतं ते तव चरणतलप्रतिबद्धौ पादतलाश्रितौ । अपि चान्यच्च ते तव प्रियसख्या वल्लभवयस्यया अपि महाश्वेतायाः प्रियतमो वल्लभो मयैव चन्द्रापीडेनैव सह विगतशापः संजात इत्यभिदधत्येव कथयत्येव चन्द्रापीडशरीरेणान्तरित व्यवहितं वपुर्यस्य स तस्मिंश्चन्द्रमसि सति, चन्द्रलोके यदवस्थानं गतं तेन लग्नमासक्तममृतपरिमलमेव पीयूषामोदमेव केवलमधिकमुखहन्धारयन् । तादृशेनैव वेषेण नेपथ्येन यादृशेन वेषेण महाचेताया उत्कण्ठयोत्कलिकयोपरतो मृतस्तथैव पूर्वोक्तप्रकारेणैव कण्ठेन निगरणेनैकावलीमेकयष्टिकां धारय -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०.1 'किं न स्मरसि तत् मे (चन्द्ररूपस्य) वचनम् ? 'इदं तत्तेजोमयं वपुः स्वतः' इति वाक्यविभागः । परोक्षे भूतकालिके चन्द्रवचने तदिति विशेषणस्यैव, तस्मिन् काले प्रत्यक्षं वर्तमानस्य चन्द्रेणाङ्गल्या निर्दिश्यमानस्य वपुषः कृते तु 'तदिदम्' इति परामर्शस्यैवौचित्यात् । 2 'अद्य तु स मे व्यपगतः शापः' इत्येव सुस्पष्टः पाठः । 3 मूले स्वयं स्वीकृतम् 'अङ्गः 'अन्यतमः' इतिपदद्वयम् । ततश्च - 'अमृतपरिमलमेव केवलमुबहनङ्गः, अन्यतमः (भित्ररूपः, पूर्वतोप्यधिकसौन्दर्यशाली) तादृशेनैव वेषेण०' इत्यादिरन्वयो व्याख्यार्थश्च बोध्यः ।
702
कादम्बरी।
कथायाम्
Page #230
--------------------------------------------------------------------------
________________
यन्, तथैवाकल्पनिःसहैरङ्गः, तथैवापाण्डुक्षामकपोलवाहिना मुखेनाम्बरतलादवतरन्नदृश्यत कपिञ्जलकरावलम्बी पुण्डरीकः ।
दृष्ट्वा च तं दूरत एवोन्मुक्तचन्द्रापीडवक्षःस्थला कादम्बरी स्वयमेव धावित्वा देत्तकण्ठग्रहा महाश्वेतां पुण्डरीकागमनमहोत्सवेन यावन्न वर्धयत्येव, तावदवतीर्य पुण्डरीकः परमोपकारिणे चन्द्रापीडवपुषे शशाङ्कायाढौकत । चन्द्रापीडस्तु तं कण्ठे गृहीत्वाब्रवीत् - 'सखे पुण्डरीक, यद्यपि प्राग्जन्मसंबन्धाज्जामातासि तथाप्यनन्तरजन्माहृतसुहृत्स्नेहसद्भावेनैव मया सह वर्तितव्यं भवता' इत्येवं च वदत्येव चन्द्रापीडे चित्ररथहसौ दिष्ट्या वर्धयितुं केयूरको हेमकूटमगमत् । मदलेखापि धावमाना निर्गत्य मृत्युंजयजपव्यग्रस्य तारापीडस्य विलासवत्याश्चपादयोः पतित्वा ‘देव, देव्या सह दिष्ट्या वर्धसे । प्रत्युज्जीवितो युवराजः समं वैशम्पायनेन' इत्यानन्दनिर्भरमुच्चैर्जगाद ।
राजा तु तच्छ्रुत्वा शरीरसंस्कारविरहोद्गताविरलदीर्घपरुषपलितलोमशप्रकोष्ठाभ्यां दो -
***********
विभ्रत् । तथैव पूर्वोक्तप्रकारेणैव ईषत्पाण्डू शुक्लौ क्षामौ कृशौ कपोलौ बहतीत्येवंशीलेन मुखेनाननेन कपिञ्जलकरं कपिञ्जलहस्तमवलम्बत इत्येवंशीलः पुण्डरीकोऽम्बरतलाद् व्योमतलादाकाशतलादवतरनवतरणं कुर्वनदृश्यतावालोक्यत । जनैरिति शेषः ।
दूरत एव दविष्ठ एव दृष्ट्वा च निरीक्ष्य च तं पुण्डरीकमुन्मुक्तं त्यक्तं च चन्द्रापीडवक्षःस्थलं यया सैवंभूता कादम्बरी स्वयमेवात्मनैव धावित्वा धावनं कृत्वा दत्तः कण्ठग्रहो यस्या एतादृशीं महाश्वेतां पुण्डरीकस्यागमनमहोत्सवस्तेन यावन्न वर्धयत्येव वर्धापनं न करोत्येव तावत्तस्मिन्समये पुण्डरीकोऽवतीर्योत्तरणं कृत्वा परमोपकारिणे परमोपकृतिविधायिने चन्द्रापीडस्येव वपुः शरीरं यस्य स तथा तस्मै शशाकाय चन्द्रमसे चन्द्रायाढौकत । चन्द्रापीडस्तु तं पुण्डरीकं कण्ठे गृहीत्वा कण्ठग्रहं कृत्वा कण्ठाश्लेषं गृहीत्वाब्रवीदवोचत् । एतदेव दर्शयन्नाह - सखे इति । हे सखे हे वयस्य पुण्डरीक, यद्यपि प्राग्जन्मसंबन्धाद्भवान्तरसंबन्धात्त्वं जामातासि । महाचेतायाश्चन्द्रवंशोत्पन्नत्वेन चन्द्रमसः पुत्रीत्वादस्याः पतित्वेन चास्य जामातृत्वमिति भावः । तथाप्यनन्तरजन्मनि शुद्रकभव आहृतोऽर्जितो यः सुहृत्स्नेहो मित्रप्रेम तस्य सद्भावेनैव मया सह वर्तितव्यं चलितव्यं भवता । एवं च वदति कथयति चन्द्रापीडे चित्ररथहंसौ कादम्बरीमहाश्वेतापितरौ दिष्ट्या भाग्येन वर्धयितुं वर्धापनं कर्तुं केयूरको हेमकूटमगमद्ययौ । मदलेखापि निर्गत्य धावमाना धावनं कुर्वाणा मृत्युञ्जयो महादेवस्तस्य जपो जापस्तेन व्यग्रस्य व्याकुलस्य तारापीडस्य विलासवत्याश्च पादयोश्चरणयोः पतित्वाभिवादनं कृत्वा हे देव, देव्या सह दिष्ट्या वर्धसे । समं वैशम्पायनेन युवराजः प्रत्युज्जीवित इत्यानन्दनिर्भरं यथा स्यात्तथोच्चैर्गाढस्वरेण जगादात्यर्थमवोचत ।
तच्छ्रुत्वाकर्ण्य शरीरस्य संस्कारविरहोऽधिवासनराहित्यं तेनोद्गतानि प्रादूर्भूतानि प्रकटीभूतान्यविरलानि निबिडानि दीर्घाण्यायतानि परुषाणि कठिनानि यानि पलितानि तैलॊमशौ प्रकोष्ठौ ययोरेवंभूताभ्यां दोऱ्यां -
- - - - - - -- -- - - - - - - - - - - - टिप्प० - 1 शशाङ्काय अढौकत, शशाङ्कमुपागमत् इत्यर्थः । 'गत्यर्थकर्मणी त्यादिना कर्मणि चतुर्थी ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ समुत्सृष्टशुकशरीरः पुण्डरीकः. २ दत्तकण्टग्रहम्; दत्तकण्टग्रहा.
चन्द्रापीडस्योज्जीवन-पुण्डरीकस्यागमन
उत्तरभागः।
1703)
703
Page #231
--------------------------------------------------------------------------
________________
परिष्वज्य ताम्, तदनु हर्षपरवशो विलासवती कण्ठेऽवलम्ब्य, जराभङ्गवलिपरिशिथिलितमूलेन बाहुनोत्क्षिप्तोत्तरीयांशुकाञ्चलः, स्वयमेवाशिक्षितलयविसंष्ठुलैः पदैर्नृत्यन्निवोत्फुल्लवदननरपतिसहसपरिवृतोऽम्भोजाकर इव मलयमारुतप्रे
खोलनाविवर्तितः, मदलेखां 'क्वासौ क्वासौ' इति पुनः पुनः पृच्छन्पुनःपुनर्निर्विशेषहर्षवृत्तिं शुकनासं कण्ठे संभावयस्तत्रैवागच्छत् । दृष्ट्वा च तथा पुण्डरीककण्ठे लग्नं चन्द्रापीडमानन्दनिर्भरः शुकनासमवादीत्-'दिष्ट्या, मया नैकाकिना तनयप्रत्युज्जीवनोत्सवसुखमनुभूतम्' इति । चन्द्रापीडस्तु तथा हर्षपरवशं पितरमालोक्य ससंभ्रमोन्मुक्तपुण्डरीकः पुरेव पृथ्वीतलनिवेशितशिराश्चरणयोरपतत् । अथ सत्वरोपसृतस्तं तथा प्रणतमुन्नमय्य तारापीडोऽभ्यधात् - 'पुत्र, यद्यपि पिताहं तव शापदोषात्स्वपुण्यैर्वा संजातः, तथापि जगद्वन्दनीयो लोकपालस्त्वम् । अपि च मय्यपि नमस्यो योंऽशः सोऽपि मया त्वय्येव संक्रामितः । तदुभयथापि त्वमेव नमस्कार्यः' इत्यभिदधदेव समं राजपुत्रलोकसहसैः प्रतीपमस्य पादयोरपतत् । विलासवती तु तथा पित्रा प्रणते तस्मिन्परितोषेण स्वाङ्गेष्विवासंमान्ती, तं पुनः शिरसि पुनर्ललाटे पुनश्च कपोलयो -
***********
-
-
-
-
-
बाहुभ्यां तां परिष्वज्याश्लिष्य तदनु पश्चाद्धर्षपरवशः प्रमोदपरतन्त्रः कण्ठे विलासवतीमवलम्ब्यावलम्बनं कृत्वा
....... हे पुत्र हे सुत, यद्यपि शापदोषात्स्वपुण्यैर्वाहं तव पिता संजातः, तथाप्येव सत्यपि त्वमेव जगतां वन्दनीयो नमस्कार्यः । यतो लोकपालस्त्वम् । अपि युक्त्यन्तरे । मय्यपि मयि विषयेऽपि नमस्यो योंऽशः । जात्येकवचनम् । सोऽपि मया त्वय्येव संक्रामितस्तदुभयथापि लोकपालत्वेन मदंशसंक्रमणेन च त्वमेव भवानेव नमस्कार्यो नमस्करणीय इत्यभिदधदेवेति कथयन्नेव राजपुत्रलोकसहसैः समं प्रतीपं विलोममस्य चन्द्रापीडस्य पादयोरपतत्पतितवान् । विलासवती तु तथा तेन प्रकारेण पित्रा तारापीडेन प्रणते नते तस्मिंश्चन्द्रापीडे परितोषेण हर्षेण स्वाङ्गेष्विवासमान्ती प्रवेशमलभमाना । एतेन प्रमोदातिरेकः सूचितः । तं सुतं पुनः शिरस्युत्तमाङ्गे, पुनर्ललाटेऽलिके भालस्थले, पुनः -
- - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 टीकासापेक्षोंऽशः - जरसा भङ्गेन (अभिभवेन) या वल्यः चर्मसंकोचलहर्यः ताभिः शिथिलितं मूलं यस्य, ईदृशेन बाहुना उत्क्षिप्तः (स्कन्धोपरि निहितः) उत्तरीयाञ्चलो येन सः । उत्फुल्लनयनेन नरपतिसहसेण परिवृतः । न शिक्षितः (अनुवर्तितुं नाऽभ्यस्तः) यो लयः (वायादिगत्या सह स्वरस्य साम्यम्) तेन विसंस्थुलैः विषमगतिभिः पदैः (पदन्यासैः) नृत्यनिव, अत एव मलयमारुतद्वारा या प्रेखोलना (संचालनम्) तेन विवर्तितः (क्षोभं प्रापितः) अम्भोजाकर इव कमलखण्ड इव, (नृत्यन् राजा पवनतरलजलाशयस्थानीयः, उत्फुल्लानि नरपतिमुखानि कमलस्थानीयानि, इति कमलाकरसाम्यम) । हर्षेण निर्विशेषा (अभिना, समाना) वृत्तिर्यस्य ईदृशं शुकनासं पुनः पुनः कण्ठालिङ्गनेन समानयन् । दिष्ट्या (भाग्याभिनन्दनस्यावसरः) तनयप्रत्युज्जीवनस्य सुखं न मया एकाकिना, अपि तु त्वयाप्यनुभूतम् । ससंभ्रमम् उन्मुक्तः (कण्ठग्रहात् दूरीकृतः) पुण्डरीको येन । पुरेव पूर्वमिव (उज्जयिन्यां तारापीडं पितरं मत्वा यथा प्राणसीत्तथा) भूतलन्यस्तमस्तकः । सत्वरं शीघ्रम् उपसृतः (समीपमागतः) तारापीडः अभ्यधात् अभाषत । 2 तव शापदो पिता जातः) 3 अहं नरपाल इति यो नमनीयत्वांशः - 'अष्टानां लोकपालानां मात्राभिर्निर्मितो नृपः' इति, सोपि त्वयि संक्रमितः, राज्यं दत्तमित्यर्थः । 4 अवकाशमलभमाना, इत्यर्थ उचितः ।
पाठा० - १ जरामित्यारभ्य-तारापीडोऽभ्यधादित्यन्तं व्याख्यायां त्रुटितोंऽश इति ज्ञेयम्.
704
कादम्बरी।
कथायाम्
Page #232
--------------------------------------------------------------------------
________________
चुम्बित्वा गाढतरं सुचिरमालिलिङ्ग । उन्मुक्तश्च मात्रोपसृत्य पुनः पुनः कृतनमस्कारः शुकनासं प्रणनाम । आशीःसहसाभिवर्धितश्च तेनात्मनोपसृत्य यथानुक्रम पित्रोः शुकनासस्य मनोरमायाश्चैष वो वैशम्पायन इति पुण्डरीक विनयविलक्षावनम्रवदनमदर्शयत् ।।
तस्मिन्नेव च प्रस्तावे समुपसृत्य कपिञ्जलः शुकनासमवादीत् - ‘एवं संदिष्टमार्यस्य भगवता श्वेतकेतुना । अयं खलु पुण्डरीकः संवर्धित एव केवलं मया । आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन एवायमित्येवमवगत्याविनयेभ्यो निवारणीयः । परोऽयमिति कृत्वा नोपेक्षणीयः । यच्चापगतशापोऽप्यात्मसमीपं नानीतस्तत्तवैवायम्, इति । अन्यच्चात्मानमस्मित्राचन्द्रकालीनायुषि स्थापयित्वा कृतार्थः । संप्रत्यस्मादिव्यलोकादप्युपरिष्टाद्गन्तुमुद्यतं मे सत्त्वाख्यं ज्योतिः' इति । शुकनासस्तु विनयावनतं पुण्डरीकं पाणिनांऽसेऽवलम्ब्य कपिञ्जलं प्रत्यवादीत् - 'कपिञ्जल, सकलजगदाशयज्ञेन सता भगवता किमित्यादिष्टम् । सर्वथा स्नेहस्यायमसंतोषः' इति । — एवंविधैश्च पूर्वजन्मवृत्तान्तानुस्मरणालापैः परस्परावलोकनसुखोत्फुल्ललोचनानां सर्वेषा -
***********
कपोलयोर्गलात्परप्रदेशयोश्चुम्बित्वा चुम्बनं कृत्वा गाढतरमतिदृढं सुचिरं बहुकालमालिलिङ्ग । आलिङ्ग्य उन्मुक्तश्च मात्रा विलासवत्या, उपसृत्य समीपे गत्वा पुनः पुनः कृतनमस्कारो विहितनमस्कृतिः शुकनासं प्रणनाम नमस्कृतिं चक्रे । तेन शुकनासेनाशीःसहसैर्माङ्गल्याभिवादनसहसैरभिवर्धितोऽभिनन्दितश्चात्मना स्वयमुपसृत्योपसरणं कृत्वा यथानुक्रम यथाक्रम पित्रोः शुकनासस्य मनोरमायाश्चैष वो युष्माकं वैशम्पायन इति पुण्डरीक विनयेन विलक्षं विस्मयान्वितम् । 'विलक्षो विस्मयान्विते' इत्यमरः । अवनम्रमवनतं वदनं यस्य स तमदर्शयद्दर्शयामास ।
तस्मिन्नेव प्रस्तावे समये समुपसृत्य पार्थे समागत्य कपिञ्जलः शुकनासमवादीदवोचत् । आर्यस्य भवतः श्वेतकेतुना भगवतैव संदिष्टं कथित वर्तते । खल्विति निश्चये । अयं पुण्डरीकः केवलं मया संवर्धित एव वृद्धि प्रापित एव । आत्मजः पुत्रः पुनः पुनस्तव भवतः । अस्यापि पुण्डरीकस्यापि भवत्स्वेव स्नेहो लग्नः संबद्धः । तदिति हेत्वर्थे । वैशम्पायन एवायं पुण्डरीक इत्येवमवगत्य ज्ञात्वाऽविनयेभ्यो निवारणीयो दूरीकार्यः । अयं परोऽन्य इति ज्ञात्वा नोपेक्षणीयो नोपेक्षाविषयीकर्तव्यः । यच्चापगतशापोऽप्यात्मसमीपं स्वसविधं नानीतो न प्रापितस्तस्मात्तवैव भवदीय एवायमिति । अन्यच्च चन्द्रकालश्चन्द्रापीडावस्थानलक्षणस्तत्र भवमायुस्तस्मिन् । 'आत्मा वै जायते पुत्रः' इति श्रुतेः । आत्मानं पुत्रं स्थापयित्वा यावत्कालं चन्द्रापीडः स्थास्यति तावत्कालमयमिति भावः । अत एव कृतार्थः कृतकृत्यः । संप्रतीदानीमस्माद्दिव्यलोकादप्युपरिष्टाद् गन्तुं मे मम सत्त्वाख्यं ज्योतिरुद्यतं कृतप्रयत्नमिति । शुकनासस्तु सुष्टु विनयादवनतं नम्रीभूतं पुण्डरीकं पाणिना हस्तेनांसे स्कन्धेऽवलम्ब्य कपिजलं प्रत्यवादीप्रत्यवोचत् । तदेव दर्शयन्नाह - कपिजलेति । हे कपिञ्जल, सकलजगतः समग्रविश्वस्याशयज्ञेनाभिप्रायवेदिना सता भगवता पूज्येन किमित्यादिष्टं कथितम् । सर्वथा स्नेहस्यायं पुण्डरीकोऽसंतोषोऽधृतिस्थानम् । कदाचिदस्मिन्स्नेहो न निवर्तित इति भावः ।
इत्येवंविधैच पूर्वजन्मवृत्तान्तस्य भवान्तरोदन्तस्यानुस्मरणानि तेषामालापैः संभाषणैः परस्परमन्योन्यमवलोकनं वीक्षणं तस्य सुखं तेनोत्फुल्ललोचनानां संफुल्लनेत्राणाम् । 'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः' इत्यमरः । टिप्प० - 1 आशीर्वचनसहसैः । 2 आचन्द्रकालिकम् आयुर्यस्य ईदृशे अस्मिन् (पुण्डरीके) आत्मानं निजस्वरूपम् (निजतत्त्वम्) स्थापयित्वा, इत्यर्थः । 3 स्नेहस्य अपरितृप्तिः । सर्वज्ञतया ममाशयं जानतापि महर्षिणा यदेतत्संदिष्टं तत् केवलमस्मासु स्नेहप्रकटनमिति भावः । पाठा० - १ सविनयवैलक्ष्य. २ एव. ३ आचन्द्रसमकालीनायुषि. ४ अस्मत्. ५ संस्मरण.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
(कपिञ्जलद्वारा श्वेतकेतुसंदेशः
उत्तरभागः।
705
Page #233
--------------------------------------------------------------------------
________________
मेव तेषामचेतितैव सा क्षणदा प्रयाता । प्रातरेव च सकलगन्धर्वलोकानुगतौ सममेचिरागौरीभ्यां चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः । आगतयोश्च तयोर्लज्जितात्मजोपगममुदितहृदययोर्जामातृदर्शनसमुत्फुल्लनयनयोस्तारापीडशुकनासाभ्यां सहानुभूतसंबन्धकोचितसंवादकथयोः सहस्रगुण इव महोत्सवः प्रावर्तत ।
1
अथ प्रवर्तमान एव तस्मिंश्चित्ररथस्तारापीडमवादीत् - 'विद्यमाने स्वभवने किमर्थमयमरण्ये महोत्सवः क्रियते ? अपि च यद्यप्यस्माकमयमेव परस्पराभिरुचिनिष्पन्नो धर्म्याविवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव । तद्गम्यतां तावदस्मदीयमवस्थानम् । ततः स्वभूमिं चन्द्रलोकं वा गमिष्यथ ।' तारापीडस्तु तं प्रत्यवादीत् - 'गन्धर्वराज, यत्रैव निरतिशयं संपत्सुखं तदेव वनमपि भवनम् । तदीदृशं क्वापरत्र संपत्सुखं प्राप्तम् ? अन्यच्च संप्रति सैर्वगृहाण्येव मया जामातरि ते संक्रामितानि । तद्वयस्य, वधूसमेतं तमेवादाय गम्यतां गृहसुखानुभवनाय' इति । चित्ररथस्तु तथाभिहितः ‘रौजर्षे, यथा ते रोचते' इत्युक्त्वा चन्द्रापीडमादाय हेमकूटमगात् । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । पुण्डरीकायापि समं महाश्वेतया निजपदं हंसो न्यवेदयत् । तौ तु हृदयरुचितवधूलम्भमात्रकेणैव कृतार्थो न किंचिदप्यपरं प्रत्यपद्येताम् ।
**:
*****
सर्वेषामेव तेषामचेतितैवाज्ञातैव सा क्षणदा रात्रिः प्रयाता गता । प्रातरेव च प्रत्यूषे च सकलगन्धर्वलौकैः समग्रदेवगायनजनैरनुगतौ सहिता - वचिरागौरीभ्यां महाश्वेताकादम्बरीजननीभ्यां समं चित्ररथहंसौ कादम्बरीमहाश्वेतापितरौ गन्धर्वराजौ गन्धर्वनायकावपि तत्रैवाजग्मतुराययतुः । आगतयोश्च तयोर्लज्जिते त्रपिते ये आत्मजे पुत्र्यौ तयोरुपगमः प्राप्तिस्तेन मुदितं हर्षितं हृदयं ययौस्तौ तयोर्जामातृदर्शनेन दुहितुः पत्यवलोकनेन समुत्फुल्ले विकसिते नयने ययोस्तौ तयोः । क्वचित् 'वदनयोः' इति पाठः । तारापीडशुकनासाभ्यां सहानुभूतः संजातो यः संबन्धकस्तस्योचिता योग्याः संवादकथा ययोस्तौ तयोः सहसगुण इव महोत्सवः प्रावर्तत प्रवृत्तोऽभूत् ।
अथेति । तदनन्तरं प्रवर्तमाने संजायमान एव तस्मिन्महोत्सवे चित्ररथस्तारापीडमवादीदब्रवीत् । तदेवाह - विद्यमान इति । स्वभवने स्वकीय विद्यमाने वर्तमानेऽयं महोत्सवः किमर्थं किंप्रयोजनमरण्ये क्रियतेऽटव्यां विधीयते । अपि च प्रकारान्तरे । यद्यप्यस्माकमयमेव परस्परमन्योन्यं याऽभिरुचिरभिलाषस्तया निष्पन्नो धर्म्या विवाहस्तथापि लोकसंव्यवहारोऽनुवर्तनीय एव रक्षणीय एव । तदस्मदीयमास्माकीनमवस्थानमास्पदं तावद्गम्यताम् । ततस्तदनन्तरं स्वभूमिं चन्द्रलोकं वा गमिष्यथ यास्यथ । तारापीडस्तु तं चित्ररथं प्रत्यवादीव्प्रत्यवोचत् । हे गन्धर्वराज, यत्रैव निरतिशयमधिकं संपत्सुखं तदेव वनमपि भवनं गृहम् । तदीदृशमपरत्रान्यत्र क्व कुत्र मया संपत्सुखं प्राप्तं लब्धम् । अन्यच्च संप्रतीदानीं सर्वगृहाण्येव मया ते तव जामातरि दुहितुः पत्यौ संक्रामितानि संकल्पितानि । तत्तस्माद्धेतोर्हे वयस्य हे मित्र, वधूसमेतं तमेव वरमेवादाय गृहीत्वा गृहसुखस्यानुभवनं साक्षात्करणं तस्मै गम्यतां व्रज्यताम् । चित्ररथस्तु तथाभिहितस्तेन प्रकारेणोक्तः राजर्षे, यथा ते तुभ्यं रोचते इत्युक्त्वा चन्द्रापीडमादाय हेमकूटमगाद्ययौ । गत्वा च चित्ररथः कादम्बर्या सह समग्रमेव सकलमेव स्वमात्मीयं राज्यं चन्द्रापीडाय न्यवेदयन्निवेदितवान् । पुण्डरीकायापि महाश्वेतया समं निजपदं हंसो न्यवेदयत् । तौ तु चन्द्रापीडपुण्डरीकौ तु हृदये चित्ते रुचिते ईप्सिते ये वध्वौ तयोर्लम्भमात्रकेणैव प्राप्तिमात्रकेणैव कृतार्थी कृतकृत्यौ न किंचिदप्यपरमन्यव्यत्यपद्येतां स्वीकुर्वाताम् ।
टिप्प० - 1 'मदिरा' इत्यभिधाऽत्र परिभावनीया ।
पाठा० - १ प्रभाता. २ मदिरा. ३ सर्वगृहसुखान्येव. ४ राजर्षिणा.
706
कादम्बरी ।
कथायाम्
Page #234
--------------------------------------------------------------------------
________________
अन्यदा जन्माभिवाञ्छितहृदयवल्लभलाभमुदितसर्वस्वजनमध्योपगमननिर्वृतापि कादम्बरी बाष्पोत्तरललोचना विषण्णमुखी . वासभवनागतं चन्द्रापीडमूर्ति चन्द्रमसमप्राक्षीत् - 'आर्यपुत्र, सर्वे खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परं संघटिताश्च । सा पुनर्वराकी पत्रलेखास्माकं मध्ये न दृश्यते । न विद्मः किं तस्याः केवलाया वृत्तम् ?' इति । चन्द्रापीडमूर्तिः प्रीतान्तरात्मा तां प्रत्यवादीत् - "प्रिये, कुतोऽत्र सा हि खलु मदुःखदुःखिनी रोहिणी शप्तं मामुपश्रुत्य 'कथं त्वमेकाकी मर्त्यलोकनिवासदुःखमनुभवसि' - इत्यभिधाय निवार्यमाणापि मया प्रथमतरमेव मच्चरणपरिचर्यायै मर्त्यलोके जन्माग्रहीत् । इतश्च जन्मान्तरं गच्छता मया मदुपरमसममुन्मुक्तशरीरा पुनरपि मर्त्यलोकमवतरन्ती बलादावयात्मलोकं विसर्जिता तत्र पुनस्तां द्रक्ष्यसि" इति । कादम्बरी तु तच्छ्रुत्वा रोहिण्यास्तदोदारतया स्नेहलतया महानुभावतया संपतिव्रततया पेशलतया च विस्मितहृदया परं लज्जिता न किंचिदपि वक्तुं शशाक ।
अत्रान्तरे जन्मद्वयाकाङ्कितं कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमिवोपपादयितुम -
***********
अन्यदान्यस्मिन्काले जन्मन्यभिवाञ्छितो यो हृदयवल्लभलाभस्तेन मुदिता हर्षिताः सर्वे ये स्वजनाः कुटुम्बिनस्तेषां मध्योपगमनं मध्ये समागमनं तेन निर्वृतापि सुखं प्राप्तापि च कादम्बरी बाष्पेणाश्रुणोप्राबल्येन तरले चञ्चले लोचने यस्याः सा । विषण्णं खेदाकुलं मुखं यस्याः सा । वासभवनागतं वसतिसद्मागतं चन्द्रापीडमूर्तिं चन्द्रापीडशरीरं चन्द्रमसं शशाङ्कमप्राक्षीलप्रश्नं कृतवती । इतिद्योत्यमाह - आर्येति । हे आर्यपुत्र, सर्वे खलु वयं मृताः सन्तः प्रत्युज्जीविताः परस्परमन्योन्य संघट्टिताः मिलिताश्च । सा पुनराकी तपस्विनी पत्रलेखैकास्माकं मध्ये न दृश्यते न दृग्गोचरीक्रियते । न विद्मो न जानीमस्तस्याः केवलाया एकाकिन्याः किं वृत्तं किं जातम् । चन्द्रापीडमूर्तिः प्रीतान्तरात्मा संतुष्टात्मा तां कादम्बरी प्रत्यवादीप्रत्यवोचत् - हे वल्लभे, अत्र सा पत्रलेखा कुतः स्यात् । हि यस्मात्कारणात् । खल्विति निश्चये । मम दुःखेन दुःखिनी एवंविधा रोहिणी ब्राह्मी शप्तं शापग्रस्तं मामुपश्रुत्याकर्ण्य कथं त्वमेकाक्यसहायो मर्त्यलोकनिवासदुःखं मनुष्यनिवसनकष्टमनुभवस्यनुभवविषयीकरोषीत्यभिधायेत्युक्त्वा निवार्यमाणापि प्रतिषिध्यमानापि मया चन्द्रमसा प्रथमतरमेवादावेव मम चन्द्रमसश्चरणपरिचर्यायै पादसेवाय मर्त्यलोके मनुष्यक्षेत्रे जन्माग्रहीत् । इतश्च जन्मान्तरं भवान्तरं गच्छता व्रजता मया चन्द्रमसा मदुपरमेण सममुन्मुक्तं शरीरं यया सा पुनरपि द्वितीयवारमपि मर्त्यलोकमवतरन्त्यवतारं गृह्णन्ती बलाद्धठादावावर्जनां कृत्वात्मलोकं चन्द्रलोकं विसर्जिता । प्रेषितेत्यर्थः । तत्र संप्रति पुनस्तां द्रक्ष्यसि विलोकयिष्यसीति । कादम्बरी तु तछ्रुत्वा तदाकर्ण्य रोहिण्यास्तदोदारतया स्नेहलतया वत्सलतया महानुभावतया महाप्रभावतया सपतिव्रततया एकपतितया पेशलतया सहृदयतया च विस्मितहृदया चमत्कृतचित्तापरमत्यन्तं लज्जिता लज्जा प्राप्ता न किंचिदपि वक्तुं कथयितुं शशाक समर्था बभूव । __ अत्रान्तरेऽस्मिन्समये जन्मद्वयाकाङ्कितं भवान्तरद्वयाभिलषितं कालं प्रभोश्चन्द्रमसः कादम्बरीसंभोगसुखमि -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 हृदयवल्लभलाभः कादम्बर्या न तु सर्वेषाम् । अतएव - 'जन्माभिवाञ्छितहृदयवल्लभलाभमुदिता सर्वस्वजनमध्योपगमननिर्वृतापि' इत्युचितः पाठः । 2 संभोगसुखमुपपादयितुमिव वासरः अपससार, तर्हि 'कालम्' किं कर्तुम् ? तस्मात् 'कालप्रभोः' इत्युचितः पाठः । कालप्रभोः कालनियन्तुश्चन्द्रमसः जन्मद्वयाकाङ्कितं कादम्बरीसंभोगसुखमुपपादयितुमिव वासरोऽपससारेत्यन्वयः ।
पाठा० - १ उपयमन. २ वयं खलु. ३ अर्दित. ४ दुःखिता. ५ प्रथमम्. ६ दिवश्च. ७ आतw. ८ अमरलोकम्. ९ तया; तथा. १० सपतिव्रतया; पातिव्रततया. ११ कालप्रभोः.
(चन्द्रापीडपुण्डरीकयोर्विवाहः ।
उत्तरभागः।
707)
Page #235
--------------------------------------------------------------------------
________________
पससार वासरः । अनुरागपताकेवोल्लेसदपरसंध्यावधूत्रपावरणायेव वितस्तार वासतेयी । चन्द्रोदयाभिरामं च समग्रमेव जंगदभवत् । एवं च भरेणावतीर्णायां रजन्यां चन्द्रापीडश्चिराभिलषितमुन्मीलितनयनकुवलयमुत्सस्तनीवीप्रसृतकरनिवारणानुबन्धमनुभूतप्रत्यालिङ्गनसुखर्मभिप्रार्थितसुरतपरिसमाप्तित्रपासुभगं कादम्बरीप्रथमसुरतसुखमनुभूयैकदिवसमिव दशरात्रं स्थित्वा परितुष्टहृदयाभ्यां श्वशुराभ्यां विसर्जितः पितुः पादमूलमाजगाम ।
आगत्य च समकालमेवानुभूतक्लेशं राजलोकमात्मसमं कृत्वा, समारोपितराज्यभारः पुण्डरीके, परित्यक्तसर्वस्वकार्ययोः पित्रोः पादावनुचरन् कदाचिदत्यद्भुतोत्फुल्लनयननैगमजनावलोकितो जन्मभूमिस्नेहादुज्जयिन्याम्, कदाचि द्गन्धर्वराजगौरवेणानुपमरमणीयतममहिम्नि हेमकूटे, कदाचिदमृतपरिमलाधिवाससुरभिशिशिरसर्वप्रदेशहारिणि रोहिणीबहुमानेन चन्द्रलोके, कदाचिदहर्निशोत्फुल्लसहसपत्रनिर्वहोदवाहिनि पुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि,
*****
वोपपादयितुं निष्पादयितुं वासरो दिवसोऽपससारापसृतो बभूव । अनुरागस्यानुरतेः पताकेव वैजयन्तीवोल्लसन्ती यापरसंध्या पश्चिमसंध्या सैव वधूः स्त्री तस्यास्त्रपा लज्जा तस्या आवरणायाच्छादनायेव वासतेयी रात्रिर्वितस्तार प्रससार । चन्द्रोदयेन शशाङ्कप्रकाशेनाभिरामं मनोहरं च समग्रमेव सकलमेव जगदभवत्संजज्ञे । एवममुना प्रकारेण भरेण संभारेणावतीर्णायां संजातायां रजन्यां त्रियामायां चन्द्रापीडश्चिरकालं यावदभिलषितं वाञ्छितमुन्मीलितानि विकसितानि नयनकुवलयानि नेत्रोत्पलानि यत्र तत् । उत्सस्ता शिथिलिता श्लथीजाता या नीव्युच्चयस्तस्यां प्रसृतो विस्तृतो यः करो हस्तस्तस्य निवारणं दूरीकरणं तदेवानुबन्धः प्रतिबन्धो यत्र तदनुभूतं साक्षात्कृतं प्रत्यालिङ्गनसुखं तया दीयमानोपगूहनसातं यस्मिंस्तत्तथा अभिप्रार्थिताभियाचिता सुरतस्य संभोगस्यापरिसमाप्तिर्यस्यामेवंविधा या त्रपा लज्जा तया सुभगं मनोहरमेतादृशं कादम्बर्याः प्रथमं सुरतस्य सुखं सातमनुभूय साक्षात्कृत्यैकदिवसमिव दशरात्रं दशदिवसं स्थित्वास्थाय परितुष्टहृदयाभ्यां संतुष्टचित्ताभ्यां वराभ्यां चित्ररथहंसाभ्यां विसर्जितो दत्ताज्ञः पितुस्तारापीडस्य पादमूलं चरणसमीपमाजगामाययौ ।
आगत्य चागमनं कृत्वा च समकालमेवैकवारमेवानुभूतः क्लेशो दुःखं यैरेवंभूतं राजलोकं नृपजनमात्मसमं निजसदृशं स्वतुल्यं कृत्वा विधाय पुण्डरीके समारोपितो न्यस्तो राजभार आधिपत्यधूर्येन सः । परित्यक्तमुज्झितं सर्वं स्वकार्यं सांसारिककृत्यं याभ्यां तौ माता च पिता च पितरौ । एकशेषः । तयोः पित्रोः पादौ चरणावनुचरन्सेवयन् । कदाचित्कस्मिंश्चिदवसरेऽत्यद्भुतोत्फुल्लनयना विकसितनेत्रा ये नैगमजना वणिग्जनास्तैरवलोकितो वीक्षितो जन्मभूमिस्नेहादुत्पत्तिवसुधाप्रीतेरुज्जयिन्यां विशालायाम् । कदाचित्कस्मिंश्चित्प्रस्तावे गन्धर्वराजस्य गौरवेणात्यादरेणानुपमो मनोहरो रमणीयतमोऽतिशयेन रन्तुं योग्यो महिमा माहात्म्यं यस्मिन्नेतादृशे हेमकूटे । कदाचिद्रोहिणीबहुमाननेन ब्राह्मी.... कारेणामृतस्य पीयूषस्य परिमल आमोदस्तस्याधिवासेन संस्कारेण सुरभिः सुगन्धो यः शिशिरः शीतलः सर्वप्रदेशः समग्रस्थलं तेन हारिणि मनोहरे चन्द्रलोके । कदाचिदहर्निशमहोरात्रमुत्फुल्लानि विस्मेराणि सहसपत्राणि तेषां निवहः समूहो यस्मिन्नेतादृशमुदं जलं वहतीत्येवंशीले । उदकस्योदादेशः । पुण्डरीकप्रीत्या पुण्डरीकस्नेहेन लक्ष्म्या रमाया निवाससरस्यवस्थानसरसि कासारे । क्वचित्
708
-
-
टिप्प० 1 वस्तुतस्तु - 'अनुरागकवोष्णतया (अनुरागेण च अस्तकालिकलौहित्येन च, ईषदुष्णतया च ईषदविनयोन्मुखतया च ) अपरसन्ध्यावधूत्रपावरणायेव वितस्तार तमोवासो वासवी ।' इत्युचितः पाठः । सन्ध्यया सह स्नेहवशात् वासवी (प्राची) अन्धकाररूपं वसनं विस्तारितवती । अन्धकाराविभविन अविनयोन्मुखायाः सन्ध्याया लज्जां निवारयामासेत्याशयः । 2 द्विवचनमुचितम् । 3 प्राप्तसुखं समृद्धियुक्तं च । 4 उदकं जलं वहतीत्येव वक्तव्यम्. पेषंवासेत्यादिना उदकस्योदादेशः ।
पाटा० - १ उल्ललास. २ वा रजनी; तमोवासो वासवी. ३ अप्रार्थित. ४ रमणीयतर; रमणीयता. ५ मोद; निवहौध.
कादम्बरी ।
कथायाम्
Page #236
--------------------------------------------------------------------------
________________
कादम्बरीरुच्या च सर्वत्रैवापरेष्वपि रम्यतरेषु तेषु तेषु स्थानेषु तया सह जन्मद्वयाकाङ्क्षयैवापरिसमाप्तान्यपुनरुक्तानि च तानि तानि न केवलं चन्द्रमाः कादम्बर्या सह, कादम्बरी महाश्वेतया सह, महाश्वेता तु पुण्डरीकेण सह, पुण्डरीकोऽपि चन्द्रमसा सह, परस्परावियोगेन सर्व एव सर्वकालं सुखान्यनुभवन्तः परां कोटिमानन्दस्याध्यगच्छन् ॥
***********
'सहसपत्रामोदवाहिनि' इति पाठः । कादम्बरीरुच्या च कादम्बर्याः स्पृहया चापरेष्वपीतरेष्वपि रम्यतरेष्वतिमनोहरेषु तेषु तेषु स्थानेषु स्थानेषु प्रदेशेषु । सर्वत्रैव तया कादम्बर्या सह जन्मद्वयाकाङ्क्षयैव भवान्तरद्वयवाञ्छयैवापरिसमाप्तान्यपरिपूर्णान्यपुनरुक्तानि च कदाचिदसेवितानि । प्रतिदिननवीनानीत्यर्थः । तानि तानि च वक्तुमशक्यानि न केवलं चन्द्रमाः कादम्बर्या सह, किं तु कादम्बरी महाश्वेतया सह, महाश्वेता पुण्डरीकेण, पुण्डरीकोऽपि चन्द्रमसा सह, परस्परमन्योन्यमवियोगेनाप्रलम्भेन सर्व एव सर्वकालं समग्रसमयं सुखानि सातान्यनुभवन्तोऽनुभवविषयीकुर्वन्त आनन्दस्य प्रमोदस्य परां कोटिं परमामवस्थामध्यगच्छन्प्राप्तवन्तः ॥ ' इति श्रीपादशाहश्रीअकब्बरजलालदीनसूर्यसहसनामाध्यापकश्रीशत्रुजयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणितच्छिष्याष्टोत्तरशतावधानसाधकप्रमुदितपादशाहश्रीअकब्बरप्रदत्तषुस्युहदमापराभिधानमहोपाध्यायश्रीसिद्धचन्द्रगणिविरचितायां कादम्बरीटीकायामुत्तरखण्डटीका समाप्ता ॥
पाटा० - १ रम्यवनेषु तेषु तेषु. २ सुखम्; सर्वसुखानि.
समाप्ता सटीका कादम्बरी
___(चन्द्रापीडादीनां सुखलाभः)
(चन्द्रापीडादीनां सुखलाभः)
( उत्तरभागः । । ।
उत्तरभागः।
709
Page #237
--------------------------------------------------------------------------
________________
| | પરિશિષ્ટ |
(અત્રે પૂ. મહોપાધ્યાય શ્રી સિદ્ધિચંદ્ર ગણિવર દ્વારા વિનિર્મિત ગુજરાતી કાદંબરી' રજૂ કરવામાં આવે છે. પ્રાચીન હસ્તપ્રતોમાં સચવાયેલી જૈન ઉપાધ્યાયજીની આ કૃતિ ક્યાંથી અને કઈ રીતે પ્રાપ્ત થઈ એનો ઈતિહાસ પ્રારંભમાં આલેખવામાં આવ્યો છે. એ સાથે કુતિકાર મહાપુરુષનો પરિચય પણ આ ઉપોદઘાતમાંથી પ્રાપ્ત થાય છે.
આટલી ભૂમિકા પૂર્ણ થયાં બાદ વિક્રમના અઢારમાં સૈકામાં જેવી ગુર્જરગિરા પ્રચલિત હતી તેવી પ્રાચ્ય ગુજરાતી ભાષામાં ગુંથાયેલું “ગુજરાતી કાદંબરી' કાવ્યનું ગઘ યથાવત્ પ્રકાશિત કરવામાં આવ્યું છે.
આ ઉપઘાત તેમજ ગુજરાતી કાદંબરી' બન્નેય પુરાતત્વ સામયિકના વિ.સં ૧૯૮૩ના ચોથા અંકમાંથી સાભાર અવતરણ કરીએ છીએ.
- સંપાદક)
( संक्षिप्त गूजराती कादंबरी कथानक)
(આચાર્ય : શ્રીજિનવિજય) પાલણપુરમાં ડાયરાના જૈન ઉપાશ્રયમાં એક જૂનો ગ્રંથ ભંડાર છે. તેમાંથી આ નીચે આપેલા સંક્ષિપ્ત કાદમ્બરી કથાનકની પ્રતિ મળી આવી છે. મુનિવર શ્રી ધીરવિજયજીની કૃપાથી એ પ્રતિની પ્રાપ્તિ થઈ એને પ્રકટ કરવાનો યોગ મળ્યો. પ્રતિના પાનાની સંખ્યા ૮ છે. વિ.સં. ૧૭૪૭ના પોષ વદિ-૧૩ શનિવારના દિવસે પાટણમાં લખવામાં આવેલી છે. લખનારનું નામ નથી. લહિયાના અક્ષરો સુંદર અને સ્પષ્ટ છે.
મહાકવિ બાણભટ્ટની મૂળ કાદમ્બરી કથા ઘણી વિસ્તૃત અને બહુ કઠિણ છે તેથી એ કવિની કથા કલ્પનાનો ટુંકમાં પરિચય થાય તેટલા માટે સંસ્કૃતમાં અને બીજી દેશ ભાષાઓમાં એના અનેક સંક્ષેપો અને સારાંશો રચાયા-લખાયા છે. આપણી ગુર્જરગિરામાં કવિ ભાલણે પદ્યબંધ કાદમ્બરીની રચના કરીને ગુજરાતના કથારસિક મુગ્ધ શ્રોતાઓને, લગભગ ૪૦૦ વર્ષ ઉપર એ કથાનું મધુર શ્રવણ કરાવ્યું છે. ભાલણની કૃતિ પદ્યબદ્ધ હોવાથી તેમજ પ્રમાણમાં મોટી અને જરા કાવ્યગાંભીર્યવાળી હોવાથી સર્વસાધારણ-આબાલ-ગોપાલને તેનું વાચન-શ્રવણ વધુ સુલભ ન જણાય એ દેખીતું છે અને તેથી તેવા વર્ગને માટે મહોપાધ્યાય સિદ્ધિચંદ્ર સરલ ગદ્યમાં આ સંક્ષિપ્ત કાદમ્બરી કથાનકની રચના કરી હોય એમ લાગે છે. જેમ બાલવર્ગના બોધને માટે બાલ મહાભારત, બાલ રામાયણ વગેરે પ્રબંધોની રચના થયેલી છે તેવી જ આ કાદમ્બરીની રચના છે અને તેથી એને આપણે બાલ કાદમ્બરીનું ઉપનામ આપીએ તો તે વધુ યોગ્ય જણાશે.
આના કર્તા મહોપાધ્યાય સિદ્ધિચંદ્ર જૈન વિદ્વાન છે અને તે મહોપાધ્યાય ભાનુચંદ્રના પ્રધાન શિષ્ય થાય છે. આ બંને ગુરુ-શિષ્યો તે જ છે જેમણે બાણની મૂળ કાદમ્બરી કથા ઉપર વિસ્તૃત અને ઉત્કૃષ્ટ સંસ્કૃત ટીકા લખી છે. મહોપાધ્યાય સિદ્ધિચંદ્ર બહુ મોટા વિદ્વાન્ હતા. સંસ્કૃત ભાષાના તે પારગામી પંડિત હતા. એની પ્રતીતિ તો એમની રચેલી કાદમ્બરીની ટીકા જોવાથી જ થઈ જાય તેમ છે; પણ એ ઉપરાંત એ ફારસી ભાષાના પણ બહુ સારા અભ્યાસી હોય એમ, એમણે કરેલા, પોતાની કૃતિઓમાંના ઉલ્લેખો પરથી જણાય છે. ભાનચંદ્ર અને સિદ્ધિચંદ્ર બંને અકબર બાદશાહના દરબારમાં ઘણાં વર્ષો સુધી રહ્યા હતા. અકબરને સૂર્ય તરફ ઘણી ભક્તિ હતી અને તેથી તેની ઈચ્છાથી ભાનુચંદ્રજીએ સૂર્યના એક હજાર નામવાળું એક સંસ્કૃત સ્તોત્ર બનાવ્યું અને દરરોજ તેનો પાઠ અકબરને તે સંભળાવતા. આથી એમના માટે પ્રસ્તુત કથાનકની છેવટે, તેમજ બીજા પણ ઘણા ગ્રંથોમાં પતશાહ અવર નાજુકુલીન શ્રીસૂર્યસહનામાથ્થાપવા એવું વિશેષણ વાપરવામાં આવે છે. આ ભાનુચંદ્રના નામનો નિર્દેશ, અકબરના મુખ્ય પ્રધાન શેખ અબુલફજલે પોતાના આઈન-એ-અકબરી નામના ગ્રંથમાં, અકબરના દરબારના એક ઉલ્લેખ યોગ્ય વિદ્વાન તરીકે કર્યો છે. તેમજ જહાંગીર બાદશાહે જાતે લખેલા જહાંગીરનામામાં પણ કર્યો છે. કાદંબરીની ટીકા લખવાની મૂળ શરૂઆત ભાનુચંદ્રજીએ કરેલી; પણ કવિ બાણની માફક એ ટીકાનો પૂર્વભાગ જ એ લખી રહ્યા
&ાવવી
N રશિષ્ટ)
Page #238
--------------------------------------------------------------------------
________________
અને પછી સ્વર્ગસ્થ થયા તેથી ઉત્તર ભાગની ટીકા સિદ્ધિચંદ્રજીએ લખીને પૂરી કરી. કાદંબરી મૂળની પૂરી રચના જેમ પિતા અને પુત્રના હાથે થઈ તેમ એની ટીકાની પૂર્તિ પણ ગુરુ અને શિષ્યના હાથે થઈ એ પણ એક દૈવી વિધાન જ નહિં? સિદ્ધિચંદ્ર એ ટીકામાં પોતાનો નીચે પ્રમાણે પરિચય આપે છે.
जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवान् । दृष्ट्वानेकविधानवैभवकलां चेतश्चमत्कारिणी सिद्धाद्रेः करमोचनादिसुकृतं योऽकारयच्छाहिना । चक्रे खुस्फहमेति सर्वविदितं गोत्रं यदीयं पुनः ॥ जीवानामभयप्रदानमपि यः सर्वत्र देशे स्फुटं
प्रोच्चैः पञ्चसहसतुङ्गतुरगाश्रीसिन्धुरान्दुर्धरान् श्रीमत्पाठकपुंगवः स जयताच्छ्रीभानुचन्द्राभिधः ॥
दत्त्वा प्राग्भवसंभवप्रणयतो धृत्वा करे यं जगौ । तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी
शाहिश्रीमदकब्बरक्षितिपतिस्त्यक्त्वा व्रतं दुष्करं शाहिस्वान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्राभिधः । श्रीमत्संयमयामिनीश वसुधाधीशोऽधुना त्वं भव ॥ पूर्वे श्रीविमलाद्रिचैत्यरचनां दूरीकृतां शाहिना
साक्षात्कन्दर्परूपः क्षितितलविदितो वाचकवातशक्रः विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत्तां पुनः ॥
स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्वानगर्वात् । यावन्या किल भाषया प्रगुणितान् ग्रन्थानशेषांश्च तान् धीमान् षट्शास्त्रवेत्ता रचयति रुचिरां सज्जनैः श्लाघनीयां विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छाहिराट् । टीका कादम्बरीयां निजगुरुघटितां किञ्चिदूनस्थितां सः॥ આ પદ્યનો સારાંશ એ છે કે શ્રી ભાનુચંદ્ર નામના ઉપાધ્યાય કે જેઓ બાદશાહ અકબરની પાસે રહ્યા હતા અને જેમણે અકબર પાસેથી સિદ્ધાચલ (જૈનોના શત્રુંજય પર્વત) ઉપરનો યાત્રાવેરો બંધ કરાવ્યો તથા દેશમાં જીવદયાની પ્રવૃત્તિ કરાવી, તેમના સિદ્ધિચંદ્ર પોતે શિષ્ય થાય. એમણે બાદશાહના મનને ખૂબ રંજિત કર્યું હતું અને બાદશાહે આગળ ઉપર સિદ્ધાચલમાં જે મંદિરો બંધાવવાનો નિષેધ કર્યો હતો તે નિષેધ તેની પાસેથી ફરીથી દૂર કરાવ્યો હતો. યાવની એટલે ફારસી ભાષામાં બનાવેલા જે પ્રસિદ્ધ ગ્રંથો છે તેમનો ખૂબ અભ્યાસ કરીને એમણે બાદશાહને તે ભણાવ્યા હતા. બાદશાહે, એમનો આવો અપૂર્વ બુદ્ધિ પ્રભાવ જોઈને એમને “ખુલ્ફહમ'નો ઈલ્કાબ આપ્યો હતો. વળી એકવાર બાદશાહે બહુ સ્નેહથી, એમનો હાથ પકડીને, એમને કહ્યું કે હું તમને પાંચ હજાર ઘોડાના મનસબવાળી મોટી પદવી અને જાગીર આપું છું તેનો સ્વીકાર કરીને તમે રાજા બનો અને આ સાધુવેષનો ત્યાગ કરો. એ પોતે બહુ સુંદર રૂપવાન-સાક્ષાત્ કામદેવ જેવા હતા અને શાસ્ત્રોના પારગામી હતા. પોતાના ગુરુના અતિભક્ત હતા વગેરે વગેરે.
આ ઉલ્લેખો ઉપરથી એ અકબર અને જહાંગીર બાદશાહના સમયમાં વિદ્યમાન હતા એ સ્પષ્ટ થાય છે. કાદમ્બરી ઉપર ટીકા લખતી વખતે જ એમને ખ્યાલ આવ્યો હશે કે કાદમ્બરીની મૂળ કથાવસ્તુ સમજવા માટે લોકભાષામાં એક ટુંકી રચના કરી હોય તો તેથી સંસ્કૃત નહિ જાણનારાઓ પણ તેનું જ્ઞાન મેળવી શકે અને એ વિચારથી એમણે આ રચના કરી હશે, નિબંધની છેવટે એવા ભાવવાળો ટુંકો ઉલ્લેખ પણ એમણે કર્યો છે.
આ પ્રબંધની ભાષા સરલ અને શુદ્ધ છે. વાક્યરચના વ્યવસ્થિત અને પ્રવાહબદ્ધ છે. તેથી આને અકબરના સમયની ગુજરાતી ભાષાના એક સુંદર નમૂના તરીકે ગણી શકાય.
આ મળેલી પ્રતિ, એના ઉપર જેમ લખ્યું છે, સંવત્ ૧૭૪૭ની છે; તેથી અસલ કે અસલના નજીકની તો નથી. રચાયા પછી ઓછામાં ઓછી ૧૦૭૦ વર્ષ બાદ લખાયેલી છે અને તેથી મૂળ કર્તાની ભાષામાં, જોડણીની અનિયમિતતાને લીધે ફેરફાર થવાનો સંભવ છે. છતાં જૈન ગ્રંથોની નકલો કરનારા લહિયાઓમાં એ એક રૂઢગુણ હતો કે તેઓ “યાદૃશ પુસ્ત કૃદં તાદૃશ ત્રિવિત કથા' એ વચનને વળગી રહેવાની ખાસ કાળજી રાખતા, તેથી ભાષા સંબંધી વિકૃતિ, પ્રમાણમાં તેમના હાથે ઘણી જ ઓછી થવા પામતી હતી; અને તેથી જ ૧૫માં સૈકામાં લખાયેલા ગ્રંથોની, ૧૮માં સૈકામાં થયેલી નકલોમાં પણ આપણે મોટે ભાગે મૂળ રચના અને ભાષાના સ્વરૂપને યથાવતુ જોઈ શકીએ છીએ.
પણ, ગુજરાતી ભાષાના કમનસીબે, જોડણી સંબંધી જે અવ્યવસ્થા આજે પણ આપણે ટાળી શકતા નથી, તે અવ્યવસ્થાના ભોગ, જો એ જમાનાના વ્યાકરણજ્ઞાનહીન લહિઆઓ થાય, તો તેમાં, તેમનો દોષ કાઢી શકીએ તેમ નથી. છતાં એવા દોષોનું જ્ઞાન મેળવવું એ ભાષાશાસ્ત્રની દૃષ્ટિએ આવશ્યક હોવાથી તેનો વિચાર તો આપણને કર્તવ્ય છે જ. એ રીતે વિચારી જોતાં આ પ્રબંધની નકલ કરનારાએ આમાં જોડણીના વિષયમાં ઠીકઠીક મનમાની ચાલે ચાલવાનું સ્વીકાર્યું હોય એમ સ્પષ્ટ જણાઈ આવે છે. દાખલા તરીકે ક્યાંકે એણે “કહ્યું લખ્યું છે. એવી જ રીતે શબ્દની અંતે આવતા “ઈકાર-ઉકાર'ના હ્રસ્વ-દીર્ધપણામાં પણ અવ્યવસ્થા કરેલી છે. અનુસ્વારના પ્રયોગોમાં પણ યથેચ્છાએ કામ લીધું છે. “જઈ’ ‘થઈ'ના બદલે ક્યાંયે “જૈ જૈને ક્યાંયે ચાલુ રૂપ લખ્યાં છે. એવા કેટલાક પ્રયોગો સિવાય બાકી લખાણ શુદ્ધ અને સુવ્યવસ્થિત છે.
સરખામણીની દૃષ્ટિએ જોતાં ભાલણની કાદમ્બરીની ભાષા અને આ પ્રબંધની ભાષા લગભગ એક જેવી જ છે.
परिशिष्टम्
વરી
Page #239
--------------------------------------------------------------------------
________________
( संक्षिप्त गुजराती कादम्बरी ) ॥ महोपाध्याय श्री ५ भानुचंद्रगणिगुरुभ्यो नमः ॥ श्रीसर्वज्ञं नत्वा भक्त्या स्वीयं च सद्गुरुं स्मृत्वा ।
कादम्बयुद्धारो विधीयते सिद्धिचन्द्रेण ॥१॥ विदशा नगरी, वेत्रवती नदीनिं तटिं । त्यहां राजा शौद्रकं राज्य करि । एक समि दक्षिण देशथी एक चांडाली परम सुंदरी, शुक एक लेई राजद्वारि आवी । प्रतीहारिं राजानि आवी विनती करी कह्यु-एक चांडाली द्वारि अति सुरूपा अति चतुरा शुक हस्त धरी आवी छिं । राजाई मांहिं तेडी, शुक परम गुणी चतुर, तेणे शुकिं राजानि केटलाएक श्लोक भणी आशीर्वाद कीधो । राजा घणूं प्रसन थया । चांडालीइं कह्यु-एह शुकनूं नाम वैशंपायन छिं । अत्यंत गुणी सकल कला प्रवीण छिं । तम योग्य छिं, ते माटे ल्यावी छु । एह तमे राखो । ते राजाई प्रेमशू राख्यो । पछइ राजाई पोतानो प्रधान कुमारपाल नामि तेहनि कहुं-एक शुक उत्तम भणई छड् । प्रधांने कहुं एहनि शाप दीसि छड़, वर छि ते माटे उत्तम भणइ छिं । मोहलमा मोकलो । वृत्तांत सर्व कहेशिं । ते राजाइं शुक महोलमा मोकल्यो । पछि राजा भोजन करी मोहलमां पधारा । शुकनि प्रसन मनिं पूर्वापर शुक, वृत्तांत पूर्छ । शुक कहि छिविंध्याटवी स्थानक दंडकारण्य क्षेत्रमाहि छिं । त्यहां अगस्त्यनो आश्रम छि । त्यहां माहरी जन्मभूमि छिं । त्यहां पंपासर नामि सरोवर छि । तेहनें कांठिं एक शीबल वृक्ष छि । तेहना कोटरमा माहरी माता मुनिं जणतां मुई। पिता मुनें पालतो । ते एकवार आहेडीइं कोटि मरडी लीधो । पछि हूं पांख विना वृक्षतले पांदडांना पुंजमा पडयो । छानि रहों ते आहेडीइं न दीठो । त्यहां हूं तृषाक्रांत थयो । त्यहां थकी तपोवन ढूंकडं हतुं त्यहां हुं अतिदुखि टुकडो गयो । ते तपोवन जाबालि ऋषि रहि । तेहनो पुत्र हारित सरोवरिं स्नाननि आवतां हुं अति दुखी पडयो दीठो । पछि शिष्य हस्ते हुं लीधो । जल पायूं । पछि ऋषिपुत्र स्नान करी अशोकवृक्ष तलि जाबालि शिष्यसंयुक्त वृंदमां बिठा हता त्यहां मुनि लेई गयो । ऋषिइं पूर्छ पुत्रनि-येह, एह शुक क्यहां थकी लाव्यो । कहयुं वनमाहि दुखी तृषाक्रान्त पडयो तो दया जाणी लाव्यो । ऋषि त्रिकालदर्शी मुज साहामु जोई मुंने कहुं, अविनय कीधांना एह फल । पछि शिष्य पुत्रादिके ऋषिनि पूर्छ एहनो स्वामी शो अविनय छि । ते ऋषिइं कहयुं एकांत रात्रि विधिपूर्वक कहशुं । पछिं रात्रि मुंनि पासे बिसारी सर्व आगलि ऋषिइं कथा कही, ती कथा सांभलो । इम कही वैशंपायन शुक ते हवि राजा शौद्रक आगलिं जाबालि ऋषिनी कही कथा कहि छ।।
उजेणी नगरी पुरी शिरोमणि । त्यहां सूर्यवंशी तारापीड राजा अति विख्यात । तेहनो मंत्री शुकनाश नामिं ब्राहाण धीर अति चतुर । ते मंत्रीनिं सर्व राजकार्य सूपी राजा क्रीडा करि । ते राजाने पुत्र नहीं । विलासवती नामि राणि अति प्रिया, ते पुत्र विना दुःखिणी रहिं । एकवार राजाइं अंतःपुरमांहिं पधारतां राणी रोदन करती दीठी । राजाई समाधान करीनिं राणीनिं रोदननु कारण पूर्छ । राणी सलज थे, न बोल्यां । त्याहरिं त्यहां दासीइं उत्तर दीधो, येह पुराणथी सांभल्युं छिं, ये अपुत्रनिं गति नथी । ते माटे अतिदुःख पुत्र विना करि छि । पछि राजा कहि छिं । हुं पणि घ"ए दुःख करूं छु । देव-द्विजनी सेवाथी पूर्विं दशरथादिकनिं पुत्रसुख थयु छइ । तमे पणि देव-द्विजनी विशेष सेवा करो । पूत्र सुख थाशिं । आस्वासना करी राजा सभामध्ये पधारा । ते दिवस थकी विलासवती देव-द्विजनी भक्ति करवी मांडी । भक्ति करता केटलेएक दिवसे राणीनि स्वप्न हौउं, येह चंद्रमा पीउ छु । ते राजा आगलि स्वप्न कहुं । राजाइं शुकनाश प्रधान स्वप्नाध्याय जोवराव्यो । प्रधानें कहुं पूत्र राणिनि हशिं । आज राति, प्रातःपर्यंत राणी जागै । ते राणी जागी । पछे थोडा दिवसमा राणीनिं गर्भ रह्यो । राजानिं स्वप्न हुउं, येह राणीइं गर्भ धरो छि । पछि कुलवर्धना नामि राणिनी दासीइं राजानि वधांमणी कही, ये राणीजीइं गर्भ धरो छि । राजाई दासीनि वधामणी घणी आपी । राजा प्रधान बेहिं अंतःपूरमा जैनिं राणीनां चिह्न जोई गर्भ सही कीधो । पूर्ण दिवसिं पूत्र हौओ । हर्ष वध्यो, दान घणां दीधां । प्रधान पणिं अपूत्रवंत
W
कादम्बरी ।
परिशिष्टम् )
Page #240
--------------------------------------------------------------------------
________________
हतो । सूतकांतिं प्रधाननि पणि पूत्र हौऔ सांभल्यो । हर्ष वध्यो । राजाना पुत्रनं नाम चंद्रापीड धरूं । प्रधानना पुत्रनूं नाम वैशंपायन धरूं । पछि योजन बे वेगला विद्याशालामा भणवा राख्या । सर्व विद्या प्रवीण थया । राजाने पारशीक नामि राजाई घोडो १ एक इंद्रायुध नामि भेटि करो तो, ते कुंअरनिं चढवा आप्यो । प्रधानना पुत्रने घोडो एक आपी बहु सैन्य वादिन उत्साहिं नगरमां ते बेह पूत्र तेड्य । परस्पर उत्साह माहोमाहि घणो वध्यो । मातापिताने चरणे लागा । स्व स्वस्थानकिं भोजन करी शयन कीधां । प्रातःकालिं शकार रमी आव्या, भोजन करी शयन स्थानकिं गया । त्यहां रांणीइं कुलवर्धना नामि दासी हस्ते सुखार्थ वस्त्राभरणादिक पुत्रनिं मोकल्यां । सेवानि अर्थिं कन्या एक मोकली । तेहगें नाम पत्रलेखा । राजा कुंतलनी पुत्री बंदमां आवी हती, ते, अतिचतुरा परम सुदरी कुंअरनिं घणी सेवा करी प्रसन करि । इम करतां घणा दिवस गया । शुक राजा शौद्रकनि कहि छिं, ये कथा सांभलतां जाबालि ऋषिई पुत्रनि कही हती ते मि तमने कही । वली कही छिं, ते कहुं सांभलो । पछी तारापीड राजाई चंद्रापीड कुंअरनि शुकनाम (स) प्रधानं पासिं राजनीति शीषवीनिं पिताई युवराज्य आप्यूं । केटलेएक दिवसे चंद्रापीड राजपुत्र वैशंपायननि तेडी सैन्य लेई दिग्विजयनिं चाल्यो । अनेक देश जीततां हेमकूटपर्व पासिं सुवर्णपुर नगर किंनरनूं हतुं त्यहां गयो । त्यहां आखेट करतां एक दिवसि किंनरा-मिथुन दीठं । तेनिं साहावा उपाय करो ते पूटिं घोडो घात्यो । लकसर सर्व रही गयुं । राजा एकलो वेगलो गयो । किंनर पर्व चढ़यां । भूलो भमतो थको विश्रामनो विचार करी छि । अमानुष देश छि । क्यहां रहीए तो भलं । एटलिं हस्तीनां यूथ चाल्यानो मार्ग दीठो । कमलतंतु मार्गमा पडया दीठा । जाण्यू पाणी निकट छि । ते मार्गि जातां अक्षोद सरोवर अति स्वच्छ दृष्टि पडयू । अति मनोहर देखी त्यहां स्नान करी सर उपकठिं घोडो बांधी सूतो । एटलिं गीतयंत्र सांभलू । त्यहाथी उठी घोडे चढी गीतयंत्र उपरि आव्यो । देखे तो चतुर्मुख महादेव मंदिर छ । वनमांहि त्यहां एक पद्मिनी स्त्री गान करि छि । वननूं नाम चंद्रसाल । त्यहां मंदिर पासिं जै, चंद्रापीड कुंअर, ते अश्वथी उतरी शिवदर्शन विधिपूर्वक करी सुंदरी पासिं गयो । मोहिनीरूप देखी अति आनंद उपनो । सुंदरी गांन सूपाडीने राजानें पूछि छि, ये अहां मनुष्यनो प्रवेश नहीं ते तमे केम आव्या ? । कहुं, पछी वृत्तांत पूछीशुं प्रथम माहरे आश्रमे अतिथ्यने आव्या (वो) । ते राजा स्त्री साथिं गयो । सती ऋषिनी परि रहती दीठी । राजकुंअरिं समाचार पूछो । राजपुत्रे किंनर पूठिं नीकल्यानो समाचार कहो । ते स्त्री फल ल्यावी आतिथ्य कीबूं । पछि राजाई विनय करी वैराग्य कारण सुंदरीनिं पूर्छ । पछे स्त्री घणू दुःख धरीनिं रोई । त्याहरइ राजाई चिंतव्यू, ये घणूं शोकनुं कारण दीसि छिं । राजा आवासना करवा लागो । देहने धिक्कार करी रोती रही नि राजा आगलि कथा कहि छि-गंधर्व कुल १४ ते मध्ये एक कुल गंधर्वमा माहरो पिता । तेहनं नाम हंसगंधर्व । हेमकूटपर्वत वास । चित्ररथ वनमां अच्छोदसरनिं काठिं । तेह सर्व गंधर्वकुल चंद्रथी उपनूं । विचित्ररथ गंधर्वकुल ते सूर्यथी ऊपनूं । तेहमां चित्ररथ राजा १ हंसगंधर्व राजा १ ते चित्ररथ राजानी कन्या गौरी नामि ते हंसगंधर्वनि परणी । तेहनि हुं कन्या थई । महाश्वेता माहरूं नाम । अतिप्रिया समस्त कुटुंबनि हती । यौवन वय पांमी । एक दिवस हुं माता साथिं अच्छोदसर आवी । माता स्नाननि लागी एटले हुं सखी जन साथिं वन जोवा चाली । वनमा एक अद्भुत सुगंध आव्यो । ते सुगंध उपरि हुं गई । त्यहां एक तापस अग्निपुंज शरखो ऋषिपुत्र जप करतो मिं दीठो । तेहनी कर्णमंजरीनो सुगंध छइं । ते साथिं एक तापस बीजो फूलो वीणतो दीठो । जप करता ऋषि परम सुंदर देखी हुं मोह पांमी विकल थई । ढूंकडी न जाऊं, शापथी बीहूं । ऋषि पणि मि चिह्नथी कामी थयो जाण्यो । पछे मि, ऋषि साथि तापस कपिजल नामि हतो तेहनि प्रणाम करी ऋषिनूं वृतांत पूछ, येह एह कुंण छि ? एहनिं कांनि शांनो सुगंध छि ? । तेह बोल्यो, येह एक श्वेतकेतु नामि ऋषि छे । तेहनि गंगास्नान करवा जातां वनदेवीइं कटाक्ष जोयुं । ऋषिनिं ते देखता वीर्यद्राव थयो । ते वन देवीइं वीर्य सर्व कमलपत्रमा धरी ऋषिनि आप्यूं । तेथी पुत्र थयो । ते कमलमा धरा माटे लक्ष्मीई का एहनी माता हुं । ते ए ऋषिपुत्र छि पुंडरीक एहनूं नाम छइ । अमरलोकथी आवतां नंदनवननी देवीइं एहनि कानि सुगंधमंजरी घाती, सुंदर देखीनिं । ते मंजरीनो एह सुगंध छिं । पछि हुँ विह्वल थकी हसित वदनि बोली-भिक्षा ल्यो तो हुं ल्यावू । एटलं कहतां ऋषि जप मूंकी हशो । पछि मज पासिं आवी मंजरी माहरे कांनि घाती । ऋषिने हाथि अडतां बेहनिं कामवृद्धि थयो । माला ऋषिना हाथथी पडी । ते मि माला हशीनिं ऋषिपुत्रनिं हाथी आपी । एटलि माताई मुनिं उतावली तेडी । ते मुनि दुःख घYए
(परिशिष्टम् ।
कादम्बरी ।
Page #241
--------------------------------------------------------------------------
________________
लागू । तरलिका नामि एक दासी ते मुंने परांणी तेडी गयी । पछी कपिंजल शिष्ये, ते पुंडरीक ऋषि भ्रष्ट्यो । शिक्षा देतां मि सांभल्यो । कयुं, येह ऋषिपुत्र ब्रह्मचारी वैरागी तापस, तिं ए शुं साधन निःफल खोहुँ । परस्त्रीशुं संसर्ग भाषण-ऋषिनूं ए कर्म नहीं । ऋषि लाजी नीचूं जोई रह्यो । पछि कपिंजल प्रति पुंडरिक ऋषि बोल्या, ये हुं शून्य छु । पछि मुनि तरलिका दासी मातानि सूंपी । त्यहां ऋषि, वृत्तांत जोवा रही । मुनि तो घणि दुःखिं घरि लेई गया । मुनि पुंडरीकनूं ध्यान । कामज्वरिं आकली थई पड़ी । कर्णमंजरीनिं आधारिं जीवती रहूं। एटलि तरलिका दासी साथि हुंती तेह पणि आवी । तेणीइं मुनि धैर्य कीg, येह कपिंजल ऋषि शिष्य तेणिं पूठिं आवी तमारी वात पूछी, ये एह कन्या कहिनी छइ ? एहनूं नाम शुं छि ? । पछि मिं सर्व वृत्तांत कही, कहूं छइंमहाश्वेता एक कुंअरीनूं नाम छि । ते माटइ सर्वथा कपिंजल चतुर दीसि छिं । आपण पासिं ऋषि माटि एकवार सर्वथा आपशि । ते कपिंजल नी वाट जोईए छई । एटलिं वनमां ऋषि मृतप्राय थयो । तेणिं कपिंजल शिष्य शीघ्र मोकल्यो । माहरि द्वारि आव्यो । ते दासीई कह्यु कपिंजल द्वारि रह्यो छि । ते मि आदरशें माहि तेडयो । पछि कपिंजले एकांत मुनि कह्यु, येह ऋषिनां प्राण राखवा माटि आव्यो छु । ऋषि मृतप्राय छि । वनमा खोली काढ्यो दोहल्यो छि । स्वास मात्र रह्यो छि । एवो एकान्त राखी आव्यो छु । महाश्वेता विना वियोगथी विह्वल छि । एहवी वात करतां दासी एके कह्यु तमारी माता तमनिं दुखी साभलीनिं जोवा आवइ छइ । एटलि कपिंजल उठी गयो । मा आवी गई। ते मि वृत्तात काई न जाणुं, येह कपिंजल क्यहां गयो । पछि तरलिकानि मिं पूर्छ । हविं शुं करवू ? । ऋषि माटे कपिंजल विनय घणो करी गयो छिं । पछि दासी समेत हुँ त्यहां रात्रि वनमाहि नीकली । वाटिं जाता अपशुकन थया । तथापि सोले श्रृंगार करी विह्वल थकी हुं नीसरी । ते वनमा गई । त्याहर पहलू चंद्रोदय थातिं ऋषिइ चंद्रमा वारो, ये उदय को घडी म थाएश । उदय थए कामवृद्धि थए हुं मरोस ते चंद्रमाइं न मान्यू । ऋषि अति दुःख पामी मुओ । ते कपिंजलि अमे दूरिथी रोतो सांभल्यो । त्यहां गयां ऋषि मृत्यु पाम्यो दीठो । हुं दुख पामी रोई । एटली वात, महाश्वेता, ते राजा आगलि कहिता, जाबालि हारीतनि की
कहि छडं- राजा आगलि महाश्वेता रडी पडी। राजा दुख पांम्यो । का एह वात एटलि राखो । पछी वली महाचेता निश्वास थई बोली, येह त्याहरिं देह न गयो तो हविं नही जाइं । पछिं मिं तरलिकानि कहयुं । काष्टचिता रचो । एह विचार करतां आकाशी एक पुरुष उतरो । मुनि कहयुं तुं मरेश मां । रंग राखे एहशुं एक समै संग थासे । एहवु कही मृतकनि ते पुरुष अंतरिक्ष लेई गयो । एटलिं कपिंजल शिष्य कोप करीनिं पंठि वलगवा गयो, ते २ तारामंडलमां पिसता मि दीठा । आश्चर्य हुं पामी रही । तरलिकाइ मुनि प्रतिबोध देई करी मरवा न दीधी । आशा मिलवानी धरी हुं न बली । वैराग्य धरी ते दिवसनी हुं सदाशिवनिं चरणे रहूं छु । मा बापि इष्टिं प्रतिबोधी समजावी जोई, पणि ते दिवसथी वन न महेल्यु । ते ऋषिनूं स्मरण करती रहुं छु । वलतूं राजा कहि छिं - तुं दुख म करेश, ते को लेई गयो तें जीवाडशे । कहुं छि ते सहि । पूर्वि विश्वावसु गन्धर्वनी कन्या मीनका स्थूलकेश ऋषि परण्या । ते सर्प डशी कन्या मुई । ऋषिइं पोतानु अर्द्ध आयुष्य आप्युं । आपीनिं जीवाडी । बभ्रुवाहनिं अर्जुन मारो, नागकन्या अलुपाई जीवाडयो । त्यम ताहरि तपिं एह जवीशिं सही । अभिमन्युनो परीक्षित उत्तराना विलापथी कृष्णे जीवाडयो । त्यम जीवशि । जीवाडवा लेई गयो को एक ते जीवाडशे । पछि राजाई पूर्छ, तरलिका क्यहां गई छि ? । महाश्वेता कह छइ - अमृतथी एक कुल उपयूँ तेहनि मंदिरा कन्या उपनी । चित्ररथा तेहनि परण्यो । बेहुनि महासंतोषमाहि एक पुत्री होई । महासुंदरी छि । कादंबरी तेहगें नाम छि । ते माहरे महा इष्ट छड़ । ते माहरइ शोकिं शोक करइ छड़; परणती नथी । मज पासिं क्षीरोद सेवक तेहने माबापें मोकल्यो तो, तेहनुं दुख देखी सही सकतां नथी । पछि मि कादंबरी पासिं तरलिका मोकली छिं, येह तुं सर्वथा परणे । ते त्यहांथी तरलिका आवी नथी । एहवू कही रात्रि परस्पर जूजुआं सूतां । प्रातःकालिं तरलिका एक सेवक साथि आवी । महाश्वेतापासिं चंद्रापीड देखी विचार उपनो, येह एक कुण राजा । पछि तरलिकानि सेवकनइ पूछु-कादंबरी रूडी छि ?। कादंबरी;
ओलंभो कहाव्यो, ये माहरे योग धरव पडशि, जा विवाहनूं कहिशो तो । पछि महाचेताइं सांभली सेवकनि कहूं हूं नगरमां आवी समाधान करोस तुं जा । कहि, पछि राजानि कादंबरीनी स्तुति करी राजानि मोह उपजाव्यो, येह हिंडो तो जोवा जैए । तेहने दुःख
(5
कादम्बरी।
। परिशिष्टम् ।
Page #242
--------------------------------------------------------------------------
________________
टालीइं । पाछि राजानि तेडी महाश्वेता नगरमा गई । नगर मोहलनी रचना जोई, महाचेता नि राजा, कादंबरी पासिं जण २ आव्यां । कादंबरी देखी राजा मोह्यो । कादंबरीइं राजानूं वृत्तांत महाश्वेतानें पूर्छ । कादंबरी विस्मय पामी । पछि राजा शीघ्र आज्ञा मागी, महाश्वेतानि आश्रम आवी अचछोदसरि स्नान राजा करि छि । एटलि पहलू सैन्य राजानूं हतूं ते पग जोतां आवी म्यल्युं । एटलिं गंधर्व पासिं हतां तेहांनि राजाइं शीख दीखी । ते गंधर्व घरि गयां । पछी राजा चंद्रापीड पत्रलेषा वैशंपायन आगलि पाछली बात कही विरहनी महाश्वेता कादंबरीनानी । पछि बीजि दिन कादंबरी पासिथी सेवक एक राजा पासिं आव्यो । राजाई पूर्छ कुशल छि ? कह्यु कादंबरी विरहिणी तमारू एक स्मरण करी छि । एक हार मोकल्यो छि । ते राजाई कंठ धरो । सर्व वृत्तांत त्याहार्नु सांभली, पत्र लेखानि राजानो भाणेज मेघनादनि लेईनिं साथिं राजा कादंबरीनि नगरी आवी कादंबरीनि घेरी गयो । महाश्वेता कादंबरीनि प्रणाम करो । पत्रलेखा रूप देखी बेही मोहि सुंदरी । राजाई महाघेता कादंबरीशुं गोष्टि करी, विवाह मेली शीख मागी कटकमाहि जावानी । एटलिं सविं कर्तुं पत्रलेखानि मेहली जाओ । परुंहणा छिं । पुंठीथी पत्रलेखा माोकलशुं। राजा मेहली कटक जातां पितानो काशद आव्यो, ते कागलमांहि लिखु हतुं, येह विहला आवयो । माबाप माया धरिइ छइं । ते वैशंपायनने पत्र देखाडी कह्यु, मेघनाद साथिं पत्रलेखानि तेडी तमे मोकलयो । तमे लस्कर लेई अहां रहयो । हं पिता पासि चालं छ। ते कहि चाल्यो । कादंबरी महाश्वेतानि नमस्कार कहियो । हुं उतावलो आव्योस । चालतां वाटिं चंडिका स्थानक आव्यो । ते प्रणाम करी उज्जयिनी नगरी आव्यो । पिताने म्यल्यो । शुकनाश प्रधाननि कयुं वैशंपायन तमारो पुत्र त्यहां मेलो छिं, एटलिं थोडि दिने मेघनाद पत्रलेषानि तेडी आव्यो छि । वैशंपायन कटक पासे त्यहां रह्यो छि । पत्रलेषानि कादंबरीनां समाचार पूछया कह्यु, तेह विरह वार्ता कही न जाए । तम विना घणूं दुखी छि घणूं शृं कहुं-देह मेहलशें सही । एटलिं पूर्व कादंबरी थई ।
हवे उत्तर कादंबरी बाणपुत्रि पुलिंदइ पूरी करी तेहनो आरंभपत्रलेखा राजाने कहि छि । हुं राजाने तेडी आव्योश, इम कादंबरी महाश्वेतानि हुं कही आवी छु । चंद्रापीड सकाम थको गया आव्यानो शोच करि छिं । एटलिं मातायिं राजा चंद्रापीड तेडयो । पत्रलेखानि तेडीनि पासि सपत्नीक गयो । पगे लागी वल्यो । एटलिं वली केयूरक कादंबरी पासिंथी आव्यो । कुशल पर्छ । कादंबरीना विरहनी वात सांभली चंद्रापीड मूर्छित थयो । शुद्धि थई । गयानो शोच करि छि । माबापनी आज्ञा विना किम जैएं । आज्ञा मांगतां शुं कहीए । एह शोच करि छिं । विचारी परलूं येह, मैघनाद पत्रलेखा तमे केयूर साथिं आगलि थां जाओ यम कादंबरीनूं समाधान करो। यम मरि नहीं । हुं वैशंपायननी वाट जोऊ छु । आवितो हं साथिं आवं छ । इम कही वोलाव्यां । पछि थोडे दिवसे तारापीडिं चंद्रपीडनिं परणाव्यानी वात मांडी । चंद्रापीडिं आनंद पाम्यं । हवि कादंबरी म्यल्यानो योग दीसि छि । पछि प्रधान द्वारा पितानि वीनती करी वैशंपायननि म्यल्यानी आज्ञा मागी । आज्ञा हुई। चंद्रापीड चाल्यो । कटक बाहरि मेहली छानो गयो । नगरमांहि वैशंपायननो समाचार पूछयो । इंद्रायुध घोडानि इंधाणिं राजा सर्वे ओलख्यो । वैशंपायन विपरीत राजानि शृं कहीशिं एहवो विचार करी लोके राजा उतारो । राजा शोच करि छिं ये कुशल होई तो वैशंपायन मुने मिलवा आविं । पणि वैशंपायन नथी । एह शोक करइ छई। घणं आनंद करि छिं । एटलिं सेवक कहि छि-वैशंपायन छिं । वैशंपायन जीवतो अमे मेहल्यो छि, पणि ते वात छि ते सांभलो । तमे गयां पछी वैशंपायन अच्छोदसर नाही महादेवना दर्शननि गयो । अमे साथिं हता । त्यहां एक आश्रम दीठो, त्यहां स्तंभनी परि रह्यो । ते ठाम मुंकिं नही । जन्मांतरनूं काई संभारिं शोच करतो रह्यो । उत्तर काई आपि नही । लतामंडप उपरिथी हुं नही आबू । ते नाव्यो । वैरागी थई रह्यो । पछि अमे आग्रह तेडयानो घणो कीधो । पछि कह्यु-हुँ नीकलूं तो मरूं सही । पछि मेहली अमे आव्या । पछि देहरामां खोलतो हिंडि । स्वास मेहली बोल्यो येह माहरी आस म करशो, तमे जाओ । पछिं सर्वत्रि रात्रिव पासिं रही अमे अहां आव्या छु । एह वात सांभली राजा दुखी थयो । त्यहां चाल्यो । विचारूं, ये अछोदसरिं वैशंपायन हशिं त्यहां मोटूं तीर्थ छि । पहलू हूं अजाणिं तीर्थ गयो हतो, हवि माता-पितानी आज्ञा मांगी तीर्थ जैए तो भलू छि । पछि कटक मेहली उजेणी गयो मित्रनो शोच करतो । एह वात वैशंपायननी त्यहां माता पिताइं सांभली विलाप कीधो; येह पुत्र वैरागी थयो । तेथी घणूं दुख पामतो हशि । पछि राजपुत्र चंद्रापीडई कयूं ते वैशंपायन मज विना
परिशिष्टम्
कादम्बरी।
Page #243
--------------------------------------------------------------------------
________________
नही आविं । माहरो देश दीठो छि । आज्ञा आपो तो त्यहां तीर्थ करूं; तेडी आवूं । पछि सुमुहूर्त्त पिताइं आज्ञा आपी । दिन रात्रि चालतां कटक निकट गयो । मेघनाद साहमो आव्यो। वैशंपायननी स्थिति पूछी। मेघनादे कह्युं तमे आवतां जाणी अमे अच्छोदसर गया नथी ये समाचार जाणीए । चंद्रापीडं अच्छोद आवी वन विंटावी वैशंपायननि शोधवूं मांड्यु | एहवा मांहि कादंबरीनो विरह नि मित्रनूं दुख एहवो राजा इंद्रायुध चढी महाश्वेतानि आश्रमी गयो । महाश्वेता ऊंधु जोई रही । ते देखी राजाई जाण्युं कादंबरी सकि (ख) तो मुई । राजाई तरलिकानिं समाचार पूछवो मांड्यो । एटलिं महाश्वेता वोली हूं पापिणी दुखणी ऊंचूं शु जोऊं । तमारो आववानो समाचार जांणी आ वनमां हूं तप करवा आवी हती। एटलिं एक पुंडरीक शरखो सुंदर वनमाहि आव्यो हतो; वन खोलतो हतो । मज सांगूं ई विह्वल थको पूर्व प्रीतिनी परिं आतुर थै बोल्यो-कहूं ये वियोग एहवि रूपिं कां धरो । प्रतिबोध दीधो । मुनिं पुंडरीक सांभरो । मुनिं आतुर थको काम रसनी चर्चा करतो रहि । हुं वारूं ए रहि नहीं । मई एहनि कांई वृत्तांत न पूछें । एकली हुजलि रात्रि शिला उपरि आवी बिठी । तरलिका निद्रावश थई । हुं पुंडरीकनी वात कपिंजलनी वात पाछली मनमां धरुं हुं । एटलिं रात्रिमांहि हलू हलूइं ते ब्राह्मण छांनो वेगलाथी मिं आवतो दीठो । मिं विचारुं, येह स्पर्श करशि तो हुं मरोस । ए पणि चेष्टाथी जाणिए छे, येह विना स्पर्श रहसि नहीं । माहरो देह तो पुंडरीकनिं राख्यो छि । एटलिं ब्राह्मण मज पासिं निकट आवी कामातुर बोल्यो । मुनिं रीस चढी । मिं कहयुं भस्म थातो कां नथी । माहरिं पुंडरीक विना सर्व भाई बाप । एह शाप देतिं शीघ्र भस्म थयो । न जांणीइं कांइं पूर्व जन्मनो भोग हतो । पुंडरीकनो मित्र होए त्यम पुंडरीकनी परिं मूओ । एर सांभली राजाई द्दष्टि फेरवी | कादंबरी आणि जन्म न मिली । जन्मांतर तमे कादंबरी मिल्यानो उपाय करयो । एह कही पडयो एटलिं राजा मूओ । तरलिका महाश्वेतानिं कहि छड़ पापिणी तूं छिं । ताहरी द्दष्टिं आवी छिं ते मरिं छिं सर्व । हवि इहांनां माबापनी शी गति । एटलिं महाश्वेतादिक आक्रंद विलाप करइ छइ । ए कथा एटले रही । पहिलं पत्रलेखाइं वाटथी राजा आवतांनी वात सांभली कादंबरीनिं वधामणी खाधी ही । घणो कादंबरी शृंगार करती हूई । महाश्वेतानिं आश्रम राजानिं हर्षयुक्त जोवा आवी । एटलिं राजा मूओ दीठो । विलाप करी मूर्च्छित थैई पडी । तरलिका आश्वासना करि छिं । तुं मरतिं कुटुंब सर्व मरशि सही । कादंबरी कही छिं मै सर्वथा साथिं जायूं । माहरई सर्वथा उपाय बीजो नथी । महाश्वेतानि वचननी आशा छिं । माहरि ते पणि नथी । इम करी राजा खोले दी ( ली ) धो । एटलिं चन्द्रमानूं तेज
1
लूं । आकाशवाणी हुई । तमनिं मिं कह्युं छिं ये मरशो मां । एह मारो अवतार छिं । एह मृतक बालशो मां, साचवयो । समागम लगण देह वणसशि नही । एटलें पत्रलेखा कहे छिं- घोडो लेई स्वामिने चढवा लेई जाउं छू । इम करी इंद्रायुध चढी अच्छोद सरमां पडी मूई । घोडो कपिंजल थई नीकल्यो । पूर्ववत् वपु धरी आव्यो । सर्व विस्मय थयुं । महाश्वेता पासिं आवी कपिंजल बोल्यो - हुं जन्मांतरि ताहरा स्वामि पुंडरीकनो सेवक हतो, ओलखि छिं ? । एटलिं महाश्वेता पगे लागी पूछें, येह तमनि शुं थयुं, तमारो स्वामि क्या छिं, तमे पुठिं क्यहां गया, ते क्यहां छिं, क्यहारि आवशि, माहरो शोक टलशें कि नहीं ? । एटलिं राजलोक देखतां कपिंजल कहि छिं हुं तां पुंडरीक पूंठ नीकल्यो । देवमार्गी ते शबनिं चंद्रमा चंद्रलोकमांहि लेई गयो । पुंडरिक मेहली मुनि कह्युं चंद्रमाई, ताहरे गुरुइं मुनिं प्राण छांडतां विण-अपराधिं शाप दीधो, येह तुं विरही स्त्रीवियोगि मरण पामे । पछिं हुं क्रोध पाम्यो, ते मिं पंणि शाप दीधो, ये आपण २ निं शरखूं मरण हयो । ते माटिं माहरा तेजथी महाश्वेता उपनी । मुनिं वाहली छि । तेहनो विरह आगेलि टाव मिं पुंडरीक राखव । ते बार बिं इम मरशि । माहरा शाप माटे । ते साथि हूं अवतरोस । शाप दोषमां शाप टलि । इम चंद्रमा कही शब लेई गयो । हवि इंनो स्वामी म्यले ते माटइ एह राजा चंद्रशरीर छि। एह पुंडरीकना शाप माटिं एणि समि मूओ । एक मृतक राखयो । वणसशि नही । पछि मिं जाण्यूं पूंडरीकना पिता श्वेतकेतुनिं ए कहुं । किशो उपाय करि मिं देवलोक मार्गि जाता कहनो अविनय करो । देवे शाप दीधो तेथी हूं अश्व थयो । पछिं कह्युं-अच्छोद सरोवरमां पडे मज्जन करतां तहनि शाप जाशि । मि कह्युं त्यहां शाप मोक्षथाउ । ते थयो । चंद्रमाई बली कह्युं तूं चंद्रापीड चंद्रमा थाशि । वैशांपायन पुंडरीक थाशिं । ते वैशंपायन प्रधान पुंडरीक ऋषि अवतार । राजा चंद्रापीड चंद्रनो अवतार । हुं कपिंजल इंद्रायुध अहूतो हवि हूं पूर्वप्रेमिं तुनि म्यलवा आव्यो छु । पछि महाश्वेता दुःख 'करति आकाशवाणी हुई । तमे तप करो छो तेणि बे तमे स्वामी सुख पामशो । तप करो । पछि महाश्वेता कपिंजलनिं कहि छिं । तमे घोडो हता, पत्रलेखा तमे सरोवर पड्यां । पत्रलेखा शुं थई । कपिंजल कहि छिं पत्रलेखा पूंठि पडी । पणि समाचार नथी पांम्यो । हविं श्वेतकेतु पूंडरीकनो पिता छिं, त्रिकालदर्शी छिं । तेहने तेनो समाचार पूंछु । इम करी कपिंजल
T
T
कादम्बरी ।
परिशिष्टम्
Page #244
--------------------------------------------------------------------------
________________
1
आकाशमार्ग ऊड्यो । सर्व लोक आश्चर्य पाम्यूं ये, कांई सत्य छे । आकाशवाणीनिं विश्वासिं मृतकनिं ते सेविं छिं । चरणतलां ओलांसतां ते मृतकनिं तेज वाधतुं जाई । मदनलेखाइ सर्व वृत्तांत कांदबरीनां माबापनि कहयुं । तेणे जाण्युं जीवशि तो आनंद थाशि । इम करतां शरद ऋतू आव्यो । राजानी शुद्धिं जोवा माबापि माणस मोकल्यां छिं । दिन घणा थयाशि, नाव्यो । ते वृत्तांत जो पाछावल्या | राजा देखाडो तो अमे समाचार त्यहां कहूं । मेघनाद कहि छिं-आश्चर्य वात छि । वलतुं मृतक देखाडयुं । राजा वणसतो नथी ए दीठु, शाप माटे, सत्य थाशि, जीवशि । मेघनादे जूटुं बोलाए नहीं, ते माटे, त्वरितनामिं एक दास छि विश्वासी, तेनं समाचार कहवा तारापीड पासिं मोकल्यो । बणावी कहिं एहनूं कहयूं मानशि । एह विचारी मोकल्यो । ते उजेणी गयो । माता देवीमंदिर हती त्यां समाचार घणूं आतुर थई पूछि छि- वैशंपायन चंद्रापीड म्यल्या ? कुशल छिं ? । सर्व कहो । एटलिं त्वरितं नीचूं जोई कह्युं मिं चंद्रापीड अच्छोदसर दीठो । मा कहि छि- तमे आकारि भुंडा दीसो छो । एहवुं कही मा रुदन करि छिं । मूर्च्छित थई । पछि बापे हाहाकार सांभली राजा देवीमंदिर गयो । विलासवतीनूं समाधान करि छिं । सावधान थाओ । ए ईश्वरनिं हाथि छिं । पणि पूरो समाचार त्वरितनिं पूछीइं । त्वरितनिं पूछें शो समाचार, धरथं तूं कहि तिं कारण सांभल्युं । कह्युं हवि आगलि म कहेश । वैशंपायन मूओ तो ते मूओ हशिं । एटलि वात राखी मित्रनी प्रीति मूओ । धन्य माहरा पुत्र, करी राजा रोओं छि। अमे मरातूं नथी । वलतो फेरी त्वरित बोल्यो- माहरी पूरी बात सांभलो । आकाशवाणी जीववानी होई छि । घोडो ते ऋषि थयो तेणे पणि कह्युं देह वणसतो नथी । ए सांभली विस्मय पाम्यो । एटलें प्रधान बोल्यों शुकनाश - ए द्दष्टान्त शापना घणा छि पुराणि । शापमुक्त थए जीविं सही । मनुष्यमां देव प्रकट थया छि । तमारइ चंद्रमा उपनो माहरे पुंडरीक उपनो, एह २ जीवशिं आपणे विहवा ए २ नोकरशुं । शोक म करो, पुण्य करो। ईश्वर सर्व रूडूं करशै। एटले राणी कहि छिं, शीघ्र चालो । ज्यहां पुत्र छि त्यहां जईए । एटले वैशंपायननी मा मनोरमा शोक करइ छड़, तेहनिं कारण कही चालवानी बात करो । ते चाल्या, अच्छोदसर पोहता । एटलिं कुअरना लोक साहमां, दुखी नीचूं जोतां, आवड़ छड़ं । ते देखी राजा कहइ छड़-कुंअर हजी वंठो नथी, तेटलूं रूडुं जाणयो, जे मेघनाद कहि छिंदिन दिन तेज वाधि छिं । आश्चर्य मोटू दीसि छड़ं । महाश्वेतानिं आश्रमिं पोहतां एटले महाश्वेता दुख करी गफामां पिठी लाज धरीनिं कादंबरी मूर्च्छित पडी छई । राजा त्यहां आव्यो प्रधान समेत त्यहां राणी प्रधाननी स्त्री साथि छि । राणी गुण सुमरी रुदन करइ छं । राजा वारिं छि। एह देवरूप छिं । एहनो शोक न धरो । आपणनिं एह देखी आशा छि । स्वरूप माटे एक बहूनि सावधान करो । एहनि धर्मिं आपणो पुत्र जीवशिं । बहु सासूए गले बलगाडी समाधान प्रतिबोध करइ छई- माहरो पुत्र तिं राख्यो छ । कादंबरीनिं संज्ञा थई, पगे लागी, एटलिं सौभाग्याशीस दीधी । राजा कादंबरीनिं कही छड़ं-तमे लाज म करशो, सेवा करो छो, तेथी विशेष करो, अमे दर्शन मात्र करता रहशुं । इम कही राजा अलगा वनमां उतरा । निश्चल रहवाानिं वनफल भक्ष करिं रहिं । प्रधान समेत पुत्र दर्शन करता रहि । एकधा राजा शौद्रकनिं शुक कहि छि- जे मज सांभलतां जाबालि पोताना पुत्र हारितनिं कही, कामातुर ये थयो प्रधानपुत्र ते आ शुक छ । कामचेष्टाथी स्वर्गथी पुंडरीक अवतरीनिं अच्छोदसर महाश्वेतानिं विरहि मूओ । पछि ते चंद्र शापथी अवतरी वैशंपायन शुकनाशनो कुंअर थयो । सुंदरी पासिं परांणी गयो, पूर्वशाप बल्यो, ते ए शुक थयो । ए कथा
बाल कहितां शुक कहे छिं हूं सावधान थयो । पुंडरीकनी पूर्व विद्या जिह्वाग्र मुनिं थई, सर्व ज्ञान स्मरण थयुं, चेष्टा सर्व थई । चंद्रापीड ऊपरे स्नेह अने महाश्वेता उपरि कामवासना थई । एह बात सांभली पछी मनमां आव्यूं, ये ते शुं करतां हशिं । एह शोचीने राजा शोद्रकनिं शुकिं कहूं, त्यहां पांख वोहणो शोच करूं छू । मन त्यहां जावा थयुं । पछि ऋषिनिं मैं पूछें- हुं वैशंपायन शुकनाश पुत्र थई मूओ, मज कारण एह मूओ राजपुत्र, तेहनूं मृतक पड्यूं छिं, जीव तेह चंद्रापीडनो क्यहां छिं, शो अवतार छिं, हूं तिर्यक थको ते अवतार होई त्यहां वसूं ? । एह सांभलि ऋषि दृश्या- पापी पांख वूंणो हवडां तूं छि पांख आविं पूछि । एटलिं बापनि हारित पूछि छिं-ब्राह्मणनिं एवडो कांम शो, देवलोकथी अवतरी अल्पायु कां थयो ? । जाबालि कहि छिं- केवल नारीना वीर्यथी उपनो तो, ते कामी विहलो मरि, ए वैद्य कहि छिं । एटलिं वली शुकिं पूछें-आगलि जन्म आयुवृद्धि थाए ते उपाय शो छिं । एटलिई ऋषि नित्यनिं (नियमिं) चाल्या मुनिं आश्रम मेहली गया । हुं एकलो चिंता करुं हुं । ब्राह्मण अवतारि कामिं पडीनिं नचि योनि पाम्यो, हविं हुं मरूं तो भलूं । एटलिं श्वेतकेतु माहरो पिता ते पासिं कपिंजल समाचार जोवा गयो तो ते जाबालिनिं आश्रम आव्यो । एटलिं हारीतिं मुनिं कह्युं तारो पूर्वमित्र कपिंजल आव्यो, श्वेतकेतुई मोकल्यो छिं । एटलिं कपिंजल मिं दीठो । माहरइ नेत्र जल आव्युं ।
(परिशिष्टम्
कादम्बरी |
8
Page #245
--------------------------------------------------------------------------
________________
हुं बोल्यो जन्म २ अंतरि तनि म्यल्यो छु, तिर्यक्रयोनि छु, सेवा क्यम करूं ? एटलिं कपिंजलि हुं हईयामां चाप्यो । मिं कह्यु, माहरा माबाप मज माटि काई दुःखी रहि छइ ? वलतुं कह्यु-ताहरिं बापि सर्व वृत्तांत जाण्यूं छि । श्वेतकेतुई कयुं छे, कर्म छूटे छूटशे । वली मिं कयुं तमारो पूत्र माहारो मित्र क्यहां छि ? ते श्वेतकेतुए ताहरो ठाम कहयो जाबालिनि आश्रमिं शुक छि । एतलि हुं तज पासि आव्यो छु । वलतो शुक बोल्यो मारिं पापि तु अश्व थयो, दुख भोगव्यां । पछि कपिंजलि कहूं-ताहरि बापिं श्वेतकेतुइं कहयु छि, येह कर्मबंध छूटिं त्याहरलगिं जाबालिनि आश्रमे रहेंसही । इम कही कपिंजल देवमार्गि गयो । पछि एक तापस मज पासिं रहिं । केटलइक दिने पांख आवी । महाश्वेता पासिं जावानइं हुं ऊड्यो । वाटिं शिथिल थयो । वाटिं एक सर दीठो त्यहां विश्राम करो, एटलि बीजी रात्रि श्यामरौद्ररूप एक पुरुष दीठो तेणिं हुं बांध्यो । मिं पूर्छ हूं सूतो न मारो, अनि शा मार्टि हुं बांध्यो छु । बंध छोडी मुनिं मुंकि । वलंतू तेणि कहूं-शीद टलवलि छि ? हुं चांडाल छु, मेहलू नही । माहरा स्वामिनि पूत्री १ लाडकी छिं तेह आगली वात चाली छिं, येह शक एक जाबालिनि आश्रमि गणी छिं। यहां त्यहां घणा अनचर मोकल्या छिं, तं माहरि हाथि आव्यो, माहरा स्वामी पासिं लेई जायोस । वलतूं मिं घणूं एक शोक कीधो, विनय करो, तोहि मुनि लेई नीकल्यो । पछि चांडालपूत्रीनिं देखाइयो । मुनि पुत्रीइं कहुं-तुं कामथी पडयो, त्याहरो उद्धार करोस । हुं मौन करी रहो । महाश्वेतानें स्मरण राखू । मारी बोलाविं तोहि हूं बोलू खाऊ नही । मुनि कहूं-विवेक पहिलू कां न जाण्यो । हविं तिर्यग्योनि शुं भक्षाभक्ष विचार करवो । हुं विस्मय पाम्यो । चांडाली नवयौवन थई, पंजर सुवर्णतुं थयु, स्थानक इंद्रपुर सरखं थयुं । ते चांडाली तमे देखी हूं तेहनिं वृत्तांत पूर्छ, येह तुं कुण छि । एटले तम पासिं मुनि लेई आवी । हविं चांडालीनू वृत्तांत हुं नथी जाणतो । चांडालीनिं तेडी राजा पूछि छि वृत्तांत । एटलिं चांडाली बोली । चंद्रापीडनु रूप राजानुं छि । ताहरूं मृतकरूप पडूं छिं, एह पंखी थयो कामी मांटिं; तोहे बापआज्ञा लोपी काम धरी महाश्वेता पासिं नीकल्यो । हूं एहनी जननी लक्ष्मी-स्वरूप छ् । एहनिं पिताइं बांधी राखवा मोकली छु । तुं चांडाली थैनि दुख दे, येह एह ज्ञानी छिं, दुख पामि ते हूं कहुं छु । तम बेहनि शाप मुक्त समय छई। ते माटिं एकठा करा । हवि सुख भोगवो, एह देह त्यजीनिं । एहवं कही चांडाली देवमार्गि उत्पती । पछि राजा शौद्रकनि जन्मांतरनुं ज्ञान थयु, कादंबरीनुं स्मरण थयुं, कामानलिं दग्ध मूओ । वैशंपायन शुक महाश्वेतानि ध्यानि मूओ, एटलि अच्छोदसरि वसंत थयो शो दीसे । एटलिं कादंबरी विह्वल थई चंद्रापीडनिं स्नान करावी पूजा करी कंठि लगाडो । एटलिं चंद्रापीडिं आखिं जोउं । कादंबरी हर्ष पामी । राजा कहि छइ-हं तिं जीवाडयो छु । एटलिं शुकनो जीव चंद्रमंडलमा पुंडरीकना शबमा संक्रम्यो । ते पुंडरीक स्वर्गथी उतरो । पछि कादंबरी वधामणीनिं महाश्वेता पासिं गई। मदनलेखा राजा पासिं जोर्ड माबाप तेहनानि वधामणी खावा गई। प्रधान सहित राजा जोवा आव्यो । पत्र आपापणा दीठा, आनंद पाम्या । माबापनि पगे लागो । शापथी देहांतर पाम्या हता, आशीर्वाद दीधा । वली स्वर्गथी कपिंजल आवी महाश्वेतकेतुई कहाव्युं छि, येह माहरो पुत्र पुंडरीक छि । हुं परलोक जाउं छु । पुत्र तने सूपू छु । पछइ चित्ररथ हंसगंधर्व मदिरा गौरी स्त्री २ साथि हर्षयुक्त त्यहां आया । पछि विचारु गाम मांहि जई विवाह करीए । कहुं, वनमाहि हर्ष माटिं वनमांहि कीजि । पछि विवाह २ सानंद पूर्वक थया । पछि हर्षमा पूर्छ कादंबरीइं, ये आपण मरी जीव्यां, पत्रलेखा क्यहां ? कह्यु रोहिणी अवतार ते छि, हुं चंद्ररूप छु । मिं चंद्रापीडनो अवतार धरो, त्याहरि रोहिणीइं पत्रलेखानो सेवानि जन्म धरो हतो । ते चंद्रलोकिं रही छि । पछि उजेणि राजाजीए आविं सुख भोगवि । रामराज्य थयु ।
पूर्विं वृद्ध भोजइं बाणपंडित पासिं कादंबरीनी कथा नव नव रस संयुक्त करावी । ते कथा घणुं कठिन छइ । ते माटइ मंदबुद्धिनइ प्रीच्छवानइ अर्थि संक्षेपई लोकभाषाई ये प्रबंध कीधो छि । . पातशाह श्रीअकबर-जल्लालदीन-श्रीसूर्यसहसनामाध्यापक - श्रीशजयतीर्थकरमोचनायनेकसुकृतविधापक महोपाध्याय श्री ५ भानुचंद्रगणिशिष्याष्टोत्तरशतावधानसाधनासाधनप्रमुदित-पातशा-श्रीअकब्बर-जल्लालुदीनप्रदत्त-खुष्फहमापराभिधान-महोपाध्याय-श्री सिद्धिचंद्रगणिविनिर्मितं संक्षिप्तकादंबरीकथानकम् समाप्तं ॥ छ ॥
॥ संवत १७४७ वर्षे पौष वदि १३ शनौ दिने लिखितं पत्ननगरे ।
('पुरातत्त्व' वि.सं. १८८3, आश्विन, नं-४, पृis : २४१ थी २५६)
कादम्बरी।
( परिशिष्टम् )
Page #246
--------------------------------------------------------------------------
________________ YAS - સર્વજ્ઞભગવંતો દ્વારા - પ્રમાણિત થયેલાં અને ગણધરભગવંતો દ્વારા શબ્દસ્થ બનેલાં શ્રીઆગમસત્રો એ આપણા સાધ્યગ્રંથો’ છે. સાધ્યગ્રંથોના વ્યાપક અધ્યયન દ્વારા જ જિનશાસનની શ્રમણસંસ્થા પોતાનું આત્મિક સ્વાથ્ય ટકાવી શકે અને જિનશાસનના બાહી અત્યંતર સ્વાથ્યનું રક્ષણ કરી શકે. સાધ્યગ્રંથોની મંઝિલ સુધી પહોંચવા માટે સાધનગ્રંથોનું પણ સૂક્ષ્મણિકાપૂર્વકનું - અધ્યયન કરવું પડે છે. (1) વ્યાકરણવિષયક ગ્રંથો.. (2) કાવ્યવિષયક ગ્રંથો (3) પ્રાચીન નવ્યન્યાયના ગ્રંથો.. (4) અને ઇતરદાર્શનિક ગ્રંથો... - આ બધાય ગ્રંથો - આપણા માટે સાધન ગ્રંથો છે. જ્ઞાનાવરણીય કર્મનો વિશિષ્ટ ક્ષયોપશમ ધરાવનારા પન્યાત્માઓ ઉપર્યુક્ત સાધનગ્રંથોના ઉંડા અભ્યાસ દ્વારા પોતાની મતિને ખૂબ તીક્ષ્ણ બનાવી દે છે અને એ પછી તીક્ષ્ણ બનેલી એમની વિશિષ્ટ કક્ષાની મતિ સાધ્યગ્રંથોના પેટાળ સુધી પહોંચી એના રહસ્યોને સુગમ રીતે - વિવેચી શકવામાં સફળ બને છે. પૂજ્યપાદ, મુનિરાજ શ્રી હિતવર્ધનવિજયજી મહારાજના સમ્યગ ઉપદેશને ઝીલી લઇ જ્ઞાનદ્રવ્યની રાશિનો સદ્વ્યય કરી - અત્રે અમે એક સાધનગ્રંથનું પ્રકાશન કર્યું છે. સંસ્કૃત સાહિત્યના પાંચ મહાકાવ્યોમાં જેની ગણના થાય છે. એવા ‘જાદશ્વરી મહાકાવ્ય ઉપર જૈન ઉપાધ્યાય ગુગલ દ્વારા વિનિર્મિત બનેલી | બૃહત્કાય ટીકાનું આ નવતર પ્રકાશન ચતુર્વિધ શ્રી સંધ સમક્ષ પ્રસ્તુત કરીને - હર્ષ-ઉન્મેષ અને રોમાંચની લાગણી અનુભવીએ છીએ. - કુસુમ અમૃત ટ્રસ્ટ - શાંતિનગર, અલકાપુરી, વાપી (વેસ્ટ) - 396191. Se) Tejas Printers (AMRELEASYA (GYA ) 2000its: 53