________________
I
अथ कादम्बरीशरीरादिवालापपदैरेव सहागत्य युगपद्गृहीतो हृदये मन्युना, कण्ठे जीवितेन, अधरपल्लवे वेपथुना, मुखे श्वसितेन, नासाग्रे स्फुरितेन, चक्षुषि बाष्पेण तुल्यवृत्तिर्भूत्वा कादम्बर्याः क्षरद्वाष्पविक्षेपपर्याकुलाक्षरमुच्चैः प्रत्युवाच - ‘पत्रलेखे, किं करोमि । अनेन दुःशिक्षितेन ज्ञानाभिमानिना पण्डितंमन्येन दुर्विदग्धेन दुर्बुद्धिनालीकधीरेण स्वयंकृतं मिथ्याविकल्पशतसहसभरितेनाश्रद्दधानेन मूढहृदयेन यद्यदेवानेकप्रकारं शृङ्गारनृत्ताचार्येण भगवता मनोभवेनान्तर्गतविकारावेदनाय मामुद्दिश्य बाला बलात्कार्यते, तत्तदेवादृष्टपूर्वत्वाद्धि दिव्यकन्यकानां रूपानुरूपलीलासंभावनया च तावतो मनोरथानप्यात्मन उपर्यसंभावनया च सर्वं सहजमेवैतदस्या इति विकल्पसंशयदोलाधिरूढं मां ग्राहयतैवमीदृशस्य देव्या दुःखस्य तव
-
496
***
अथेति । पर्याकुलतानन्तरं चन्द्रापीडः क्षरन्यो बाष्पो नेत्राम्बु तस्य विक्षेप इतस्ततः पातनं पर्याकुलानि व्याप्तान्यक्षराणि यत्रेति क्रियाविशेषणम् । उच्चैर्बाढस्वरेण । पत्रलेखामिति शेषः । प्रत्युवाच प्रत्यब्रवीदिति क्रियासंटङ्कः । किं कृत्वा । कादम्बर्याः समं तुल्या सदृशी वृत्तिर्यस्य सैवंविधो भूत्वा । किंलक्षणः । उत्प्रेक्षते - कादम्बरीशरीरादिवालापपदैर्दुःखवचनपदैरेव सहागत्य । एभिरेतेष्वित्यध्याहारः । युगपदेकसमये गृहीतः । एभिः कैः, एतेषु केषु इत्यपेक्षायामाह - हृदय इत्यादि । हृदये चित्ते मन्युना क्रोधेन । गृहीत इति पूर्वोक्तं सर्वत्र संबध्यते । कण्ठे निगरणे जीवितेन प्राणितेन । वेपथुना कम्पेनाधर एव पल्लव इति रूपकं तस्मिन् । श्वसितेन निःश्वासेन मुख आनने । स्फुरितेन स्फुरणेन नासाग्रे नासिकान्ते । बाष्पेण रोदनेन चक्षुषि । जातावेकवचनम् । किमुवाचेत्याह - पत्रलेखे इति । हे पत्रलेखे, अहं किं करोमि । किंचित्कर्तुं न समर्थ इत्यर्थः । श्रृङ्गारश्च नृत्तं च तयोरुज्ज्वलदृक्वालनाद्य आचार्य उपदेष्टा तेन । श्रृङ्गारस्य नृत्याचार्येण रङ्गाचार्येणेति वा । भगो माहात्म्यमस्यास्तीति भगवांस्तेन । 'भगोऽर्कज्ञानमाहात्म्यवैराग्यादिषु' इति वैजयन्ती । मनोभवेन कामेन यद्यदनेकप्रकारं मन्युजीवितवेपथुश्चसितपरितापादिकं बाला योषितो (तु) मामुद्दिश्य मदुद्देशेन बलाद्धटात्कार्यते निष्पाद्यते । किमर्थमित्याह - अन्तरिति । अन्तर्गतो यो विकारस्तस्यावेदनं ज्ञापनं तस्मै । तादर्थ्ये चतुर्थी । तत्तदनेन प्रत्यक्षेण मूढमज्ञानावृतं यद्धृदयं चित्तं तेन स्वयं कृतमात्मना विहितम् । न तु मयेत्यर्थः । इतो मूढहृदयं विशेषयन्नाह - दुःशिक्षितेनेत्यादि । दुर्दुष्टं शिक्षितमभ्यसितं यस्य तत्तथा तेन । ज्ञाने ज्ञानविषयेऽभिमानोऽहंकारो विद्यते यस्य तत्तथा तेन । पण्डितमात्मानं मन्यते यत्तत्तथा तेन । दुर्दुष्टं विदग्धत्वं छेकत्वं यस्य तत्तथा तेन । दुर्दुष्टा बुद्धिः प्रतिभा यस्य तत्तथा तेन । अलीकेन मिथ्याभिमानेन । धीरं साहसगुणोपेतं तेन मिथ्याविकल्पानामलीकमनोरथानां शतसहस्राणि लक्षास्तैर्भरितमाकीर्णं तेन । न श्रद्दधातीति शास्त्रोक्तं नावधारयतीत्य श्रद्दधानं तेन । कया । अदृष्टपूर्वत्वादनवलोकितपूर्वत्वाद्दिव्या मनोहरा याः कन्यकास्तासां रूपं सौन्दर्यं तस्यानुरूपा योग्या या लीला विलासस्तस्याः संभावनोत्कटकोटिकः सदेहस्तया । पुनः कया । आत्मनः स्वस्योपर्येषा मामिच्छत्येतादृशस्य मनोरथानप्यसंभावनया च । किं कुर्व मूढहृदयेन । मामेवं ग्राहयता । ग्राहयतिर्द्विकर्मकः । एवं किम् । अस्याः कादम्बर्या एतत्परितापादिकं सर्वं सहजमेव स्वभाविकमेव । किंलक्षणं माम् । विकल्पसंशययोर्दोलामधिरूढमाश्रितं तथा । तेनैवेति शेषः । मूढहृदयेनैवेदृशस्य पूर्ववर्णितस्य देव्या कादम्बर्या दुःखस्य तवोपालम्भस्य च हेतुतां नीतः प्रापितोऽस्मि । सर्वं यदसम्यक्तन्मूढहृदयेनैव कृतम् । न मयेति
पाठा० - १ अनेन दुरात्मना. २ स्वयंकृत. ३ नृत्याचार्येण ४ पूर्वत्वाद्दिव्य. ५ मनोरथस्याप्यात्मना; मनोरथा, नामप्यात्मना.
***
कादम्बरी |
-
कथायाम्