________________
तं च कादम्बर्याः स्नेहोक्तिपुरःसरं च गम्भीरं च, सतापं च सपरिहासं च, साभ्यर्थनं च साभिमानं च, सावलेह च सप्रसादं च, सनिर्वेदं च सानुरागं च, सकोपं च सनिर्विशेषं च सावष्टम्भं च, सात्मार्पणं च सोत्यासं च, सोपालम्भं च सानुक्रोशं च, सस्पृहं च सावधारणं च, मधुरमपि दुःश्रवम्, सरसमपि शेषहेतुम्, कोमलमपि कठोरम्, नम्रमप्युनतम्, पेशलमप्यहंकृतम्, ललितमपि प्रौढमालापमार्कोत्प्रेक्ष्योत्प्रेक्ष्य च स्तिमितपक्ष्मतया दुर्विषहदुःखबाष्पोपप्लुतायताक्षं तन्मुखं स्वभावधीरप्रकृतिरपि नितरां पर्याकुलोऽभवत् ।
***********
प्रेक्ष्य दृष्ट्वा दृष्ट्वा । आदरार्थे वीप्सा । अथो आलापं विशेषयन्नाह - गम्भीरमित्यादि । अत्र सर्वत्र चकारो वाक्यालंकारार्थः । गम्भीर महार्थम् । सतापं तापेन सहवर्तमानम् । सपरिहासं परिहासेन सह वर्तमानम् । साभ्यर्थनमभ्यर्थना प्रार्थना तया सहवर्तमानम् । साभिमानं साहंकारम् । सावलेहमवलिह्यत आस्वाद्यत इत्येवलेहो रसस्तेन सहवर्तमानम् । अवज्ञया सहवर्तमानं वा । प्रसादोऽनुग्रहः, गुणो वा, तेन सहवर्तमानम् । निर्वेदः स्वावमाननं तेन सहवर्तमानम् । अनुरागो भक्तिस्तेन सहवर्तमानम् । कोपः क्रोधस्तेन सहवर्तमानम् । सनिविशेष नितरां विशेष उत्कृष्टविशेषस्तेन सहवर्तमानम् । सावष्टम्भमवष्टम्भः स्तब्धता तेन सहवर्तमानम्, सात्मार्पणं सहात्मार्पणेन वर्तते यः स तम् । सोव्यासं सहोत्यासेनोत्कण्ठया वर्तमानम् । सोपालम्भं सहोपालम्भेन वर्तमानम् । सानुक्रोशं सहानुक्रोशेनामर्षेण वर्तमानम् । सस्पृह सह स्पृहया वाञ्छया वर्तमानम् । सावधारणं विमर्शपूर्वकं च । विरोधाभासेन तमेव विशेषयन्नाह - मधुरमित्यादि । अत्र सर्वत्रापिशब्दो विरोधाभासालंकारद्योतनार्थः । मधुरमपि मिष्टमपि । दुःखेन श्रूयत इति दुःश्रवमिति विरोधः । आभासस्तु श्रृङ्गाराथुपयुक्तार्थप्रदत्वलक्षणमाधुर्यस्य विवक्षणात् । सह रसेन वर्तमानमपि शोषस्य हेतुर्निदानमिति विरोधः । आभासस्तु सरसमिति श्रृङ्गारादिरसोपयुक्तमित्यर्थात् । कोमलं मृदुमपि कठोरमिति विरोधः । आभासस्तु कोमलमनिष्ठुराक्षरत्वमित्यर्थात् । नम्र नमनशीलमप्युनतमुच्चैस्तरमिति विरोधः । आभासस्तु नम्र पतत्प्रकर्षमित्यर्थात् । पेशलं सुकुमारमप्यहंकृतमिति विरोधः । आभासस्तु हृद्यमित्यर्थात् । ललितं लघ्वपि प्रौढं महदिति विरोधः । आभासस्तु ललितं सुकोमलबन्धमित्यर्थात् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 स्नेहोक्तिपुरस्सरं च गंभीरं च, ससंतापं च सपरिहारं च, साभ्यर्थनं च साभिमानं च, इत्यादिरूपेण परस्परविसंवादिविशेषणद्वयस्य एकत्रसंनिवेशेन कादम्बर्या आलापस्य साधारणतोऽतिशयः सूच्यते । यथा हि-तत्र स्नेहोक्तिकातर्ये सत्यपि गाम्भीर्यमस्ति, विरहसंतापे सत्यपि कुमारसमागमप्रत्याशया तस्य विरहस्य परिहारोप्यस्ति । अभ्यर्थनालाघवं यद्यस्ति तर्हि आत्माभिमानोऽप्यस्ति इति ग्रन्थकारस्य गुम्फनचातुर्यम् । 'मधुरमपि दुःश्रवम्, सरसमपि शोषहेतुम्,' इत्यादिना अग्रे तु सोयमर्थः स्वयमेव स्पष्टीकृतः । 'सकोपं च सात्मार्पणं च, ससद्धावं च सोत्प्रासं च, टीकाकारेण तदेतन्निर्वासितम् । 2 'सावहेलं च सप्रसादं च,' इत्येव पाठः । अर्थात् तस्मिन्नालापे अवज्ञा यदि प्रकाशिता, तर्हि प्रसादोऽप्याविष्कृत इति तत्तात्पर्यम् ।
पाठा० - १ ससंतापम्. २ सावहेलम्. ३ च. ससद्भावं च. ४ आकर्ष्याकर्ण्य. ५ अभूत.
चन्द्रापीडस्यानुतापः
उत्तरभागः ।
495